व्याधिप्रशमनपरिवर्तः
Technical Details
॥ व्याधिप्रशमनपरिवर्तः॥
भूतपूर्वं कुलदेवतेऽतीतेऽध्वन्यसंख्येयतरैर्विपुलैरचिन्त्यैरप्रमेयैर्यदासीत्तेन कालेन तेन समयेन रत्नशिखी नाम तथागतोऽर्हन्सम्यक्संबुद्धो लोक उत्पन्नो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। तेन खलु पुनः कुलदेवते कालेन तेन समयेन तस्य भगवतो रत्नशिखिनस्तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य सद्धर्मस्यान्तर्हितस्य सद्धर्मप्रतिरूपके परिवर्तमाने सुरेश्वरप्रभो नाम राजा बभूव। धार्मिको धर्मराजो धर्मेण राज्यं पालयमानो नाधर्मेण मातापितृकल्पः सर्वविषयवासिनां सत्त्वानाम्॥
तेन खलु पुनः कुलदेवते कालेन तेन समयेन तस्य राज्ञः सुरेश्वरप्रभस्य विषये जटिंधरो नाम श्रेष्ठी बभूव॥
वैद्यः चिकित्सकः परमधातुकुशलोऽष्टाङ्गेनायुर्वैद्यशास्रेण समन्वागतो बभूव। तेन खलु कुलदेवते कालेन तेन समयेन तस्य जटिंधरस्य श्रेष्ठिनो जलवाहनो नाम्ना श्रेष्ठिपुत्र उत्पन्नो बभूव। अभिरूपः प्रासादिको दर्शनीयः परमया शुभवर्णपुष्करतया समन्वागतो नानाशास्त्रकुशलः सर्वशास्त्रगतिंगतो लिपिसंख्यागणनाकुशलः सर्वशिल्पी बभूव। तेन खलु पुनः कुलदेवते कालेन तेन समयेन तस्य राज्ञः सुरेश्वरप्रभस्य विषयेऽनेकानि सत्त्वशतसहस्राणि नानारोगस्पृष्टान्यभूवन्। नानाव्याधिपरिपीडितानि दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयन्ति॥
तेन खलु पुनः कुलदेवते कालेन तेन समयेन तस्य जलवाहनस्य श्रेष्ठिपुत्रस्य तेषामनेकेषां सत्त्वशतसहस्राणां नानारोगस्पृष्टानां नानाव्याधिपरिपिडितानामर्थाय परमकारुण्यं चित्तमुत्पन्नो बभूव। एतान्यनेकानि सत्त्वशतसहस्राणि नानारोगस्पृष्टानि नानाव्याधिपरिपीडितान्येतर्हि दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयन्ति। अयं च मम पिता जटिंधरः श्रेष्ठी वैद्यविचिकित्सकः परमधातुकुशलोऽष्टाङ्गायुर्वैद्यशास्त्रेण समन्वागतो वृद्धो जीर्णो महल्लकोऽध्वगतो वयोऽनुप्राप्तो जीर्णमवस्थाप्य प्रवेपमाणः कायो यष्टिमालम्ब्य यत्र यत्र सर्वत्र ग्रामनगरनिगमराष्ट्रराजधानीषूपसंक्रामति। एतान्यनेकानि सत्त्वशतसहस्राणि नानारोगस्पृष्टानि नानाव्याधिपरिपीडितानि नानाव्याधोभ्यः परिमोचयितुं यं नूनमहमिममेव पितरं जटिंधरमुपसंक्रमित्वाधिकौशल्यं परिपृच्छेयम्। येन धातुकौशल्येन परिपृष्टेनाहं सर्वत्र ग्रामनगरनिगमजनपदराष्ट्रराजधानीषूपसंक्रमिष्यामि। उपसंक्रम्य तान्यनेकानि सत्त्वशतसहस्राणि नानारोगस्पृष्टानि नानाव्याधिपरिपीडितानि नानाव्याधिभ्यः परिमोचयिष्यामि।
तेन खलु पुनः कुलदेवते कालेन तेन समयेन जलवाहनः श्रेष्ठिपुत्रो येन स्वपिता जटिंधरः श्रेष्ठी तेनोपजगाम। उपेत्य स्वपितुर्जटिंधरस्य पादौ शिरसा वन्दित्वा कृताञ्जलिपुटो भूत्वैकान्तेऽस्थात्। एकान्ते स्थितो जलवाहनः श्रेष्ठिपुत्रः स्वपितरं जटिंधरं श्रेष्ठिनमिमाभिर्गाथाभिर्धातुकौशल्यं पृच्छति स्म॥
तानीन्द्रियाणि लक्षन्ते परिवर्तन्ति धातवः।
केन कालेन जायन्ते व्याधयश्च शरीरिणाम्॥ १॥
भोजनं च कथं भुक्त्वा काले काले सुखावहम्।
येनान्तरशरीरस्य कायोऽग्निनोपहन्यते॥ २॥
कथं चिकित्सा कर्तव्या वाते पित्ते श्लेष्मिके तथा।
संनिपाते समुत्पन्ने कथं व्याधिशान्तये॥ ३॥
किं काले कुप्यते वातः पित्तं कुप्यते कदा।
किं काले कुप्यते श्लेष्मा येन पीड्यन्ति मानवाः॥ ४॥
अथ खलु जटिंधरः श्रेष्ठी जलवाहनस्य श्रेष्ठिपुत्रस्याभिर्गाथाभिर्धातुकौशल्यं विदित्वा देशयते स्म॥
वर्षा चात्र त्रयो मासास्त्रयश्च शारदं स्मृतम्।
त्रयस्तथैव हेमान्तस्त्रयश्च ग्रीष्मिकस्तथा॥ ५॥
इत्येव मासक्रमः षडृतूनि
संवत्सरद्वादशमासिकं स्मृतम्।
अन्नं च पानं च तथा च जीर्यते
वैद्याश्च कौशल्यस्मृतिप्रदर्शिताः॥ ६॥
ते चापि संवत्सरपर्वमन्तरे
परिवर्तन्तीन्द्रियधातवोऽपि।
परिवर्तमानानि च इन्द्रियाणि
विचित्रव्याधिर्भवते शरीरिणाम्॥ ७॥
तत्रैव वैद्यस्य चतुः प्रकारं
त्रिमासपर्वान्तरे षडृतूनि।
षड्धातुकौशल्यप्रजानितव्यं
यथाक्रमं भोजनमौषधं च॥ ८॥
वाताधिकाराः प्रभवन्ति वर्षे
पत्तिप्रकोपः शरदि प्रसन्ने।
हेमन्तकाले तथ संनिपातं
कफाधिकाराश्च भवन्ति ग्रीष्मे॥ ९॥
स्निग्धोष्णलवणाम्लरसाश्च वर्षे
शरत्सु स्निग्धं मधुरं च शीतम्।
मधुराम्लस्निग्धं च हेमन्तकाले
रूक्षोष्णकटुकानि च ग्रीष्मकाले॥ १०॥
कफाधिकः कुप्यति भुक्तमात्रे
पित्ताधिकं कुप्यति जीर्यमाणे।
वाताधिकः कुप्यति जीर्णमात्रे
इत्येव धातुत्रितयप्रकोपः॥ ११॥
संबृहणं कुर्वतु निरात्मकस्य
विरेचनं पित्तविवर्धनं च।
त्रिगुणोपपन्नं तथ संनिपाते
प्रशमं च कुर्यात्कफपर्वमन्तरे॥ १२॥
वाताधिकं पैत्तिकसन्निपाते
कफाधिकं पर्वसु जानितव्यम्।
यत्काल यद्धातु यदाश्रयं च
तदन्नपानौषधि दर्शितव्यमिति॥ १३॥
अथ खलु जलवाहनः श्रेष्ठिपुत्रस्तेनैवंरूपेण नैमित्तिकेन धातुकौशल्येन परिपृष्टेन सर्वाष्टाङ्गायुर्वैद्यमधिगतोऽभूत्। तेन खलु पुनः कुलदेवते कालेन तेन समयेन जलवाहनः श्रेष्ठिपुत्रो राज्ञः सुरेश्वरप्रभस्य विषये सर्वग्रामनगरनिगमजनपदराष्ट्रराजधानीषूपसंक्रमित्वा सर्वेषामनेकेषां सत्त्वशतसहस्राणां नानारोगस्पृष्टानां नानाव्याधिपरिपीडितानामेवमाश्वासयामास। मा भैषुर्वैद्योऽस्मि वैद्योऽस्मीत्यात्मानं प्रतिज्ञातवानहं युष्माकं नानाव्याधिभ्यः परिमोचयिष्यामि। सहश्रवणेन कुलदेवते तस्य जलवाहनस्य श्रेष्ठिपुत्रस्येदमेवंरूपं वचनं व्याहरमाणस्य सर्वाणि तान्यनेकानि सत्त्वकोटीनियुतशतसहस्राणि महाप्रहर्षजातानि बभूवुः। आश्वासप्राप्तान्यचिन्त्यप्रीतिसौमनस्येन समन्वागतानि बभूवुः। तानि तेन कालेन तेन समयेन तया प्रहर्षयानेकानि सत्त्वकोटीनियुतशतसहस्राणि नानारोगस्पृष्टानि नानाव्याधिपरिपीडितानि नानारोगेभ्यः परिमोचयितान्यरोगाणि च बभूवुर्विगतव्याधीनि च। यथा पौराणेन स्थामबलवीर्येण समन्वागतानि बभूवुः। तेन खलु पुनः कुलदेवते कालेन तेन समयेन तेषामनेकेषां च सत्त्वकोटीनियुतशतसहस्राणां नानारोगस्पृष्टानां नानाव्याधिपरिपीडितानां ये केचिद्गाढतरेण स्पृष्टा च बभूवुः। ते सर्वे येन जलवाहनः श्रेष्ठिपुत्रस्तेनोपसंक्रान्त उपसंक्रम्यैव ये च किंचित्तेषां सत्त्वकोटीनियुतशतसहस्राणां नानारोगस्पृष्टानां नानाव्याधिपरिपीडितानामौषधिविधानान्यभिनिर्दिशन्ति स्म। तत्तासु राजधानीषु सर्वाणि तान्यनेकानि सत्त्वकोटीनियुतशतसहस्राणि नानारोगस्पृष्टानि नानाव्याधिपरिपीडितानि जलवाहनेन श्रेष्ठिपुत्रेण नानाव्याधिभ्यः परिमोचितानि बभूवुरिति॥
इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे व्याधिप्रशमन
परिवर्तो नाम सप्तदशः॥