७ नैर्माणिकपरिवर्तो नाम सप्तमः
Technical Details
७ नैर्माणिकपरिवर्तो नाम सप्तमः।
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत्-अर्हन्तः पुनर्भगवता व्याकृता अनुत्तरायां सम्यक्संबोधौ। अपरिनिर्वाणधर्मकाश्च सत्त्वास्तथागतत्वे। यस्यां च रात्रौ तथागतोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धो यस्यां च रात्रौ परिनिर्वृतः, एतस्मिन्नन्तरे भगवता एकमप्यक्षरं नोदाहृतं न प्रव्याहृतम्। सदा समाहिताश्च तथागता न वितर्कयन्ति न व्यवचारयन्ति। निर्माणानि च निर्माय तैस्तथागतकृत्यं कुर्वन्ति। किं कारणं च विज्ञानानां क्षणपरंपराभेदलक्षणं निर्दिश्यते ? वज्रपाणिश्च सततसमितं नित्यानुबद्धः। पूर्वा च कोटिर्न प्रज्ञायते। निर्वृतिश्च प्रज्ञाप्यते। माराश्च मारकर्माणि च कर्मप्लोतयश्च। चञ्चामाणविका सुन्दरिका प्रव्राजिका यथा धौतपात्रादीनि च भगवन् कर्मावरणानि दृश्यन्ते। तत्कथं भगवता सर्वाकारज्ञता प्राप्ता अप्रहीणैर्दोषैः ? भगवानाह-तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु। भाषिष्येऽहं ते। साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत्। भगवांस्तस्यैतदवोचत्-निरुपधिशेषं निर्वाणधातुं संधाय बोधिसत्त्वचर्यां च चरितवतां प्रोत्साहनार्थम्। सन्ति हि महामते बोधिसत्त्वचर्याचारिणः इह अन्येषु च बुद्धक्षेत्रेषु। येषां श्रावकयाननिर्वाणाभिलाषस्तेषां श्रावकयानरुचिव्यावर्तनार्थं महायानगतिप्रोत्साहनार्थं च तन्निर्मितश्रावकान्निर्माणकायैर्व्याकरोति, न च धर्मताबुद्धैः। एतत्संधाय महामते श्रावकव्याकरणं निर्दिष्टम्। न हि महामते श्रावकप्रत्येकबुद्धानां क्लेशावरणप्रहाणविशेषो विमुक्त्येकरसतया। नात्र ज्ञेयावरणप्रहाणम्। ज्ञेयावरणं पुनर्महामते धर्मनैरात्म्यदर्शनविशेषाद्विशुध्यते। क्लेशावरणं तु पुद्गलनैरात्म्यदर्शनाभ्यासपूर्वकं प्रहीयते, मनोविज्ञाननिवृत्तेः। धर्मावरणविनिर्मुक्तिः पुनरालयविज्ञानवासनाविनिवृत्तेर्विशुध्यति। पूर्वधर्मस्थितितां संधाय अपूर्वचरमस्य चाभावात्पूर्वप्रहिणैरेवाक्षरैस्तथागतो न वितर्क्य न विचार्य धर्मं देशयति। संप्रजानकारित्वादमुषितस्मृतित्वाच्च न वितर्कयति न विचारयति, चतुर्वासनाभूमिप्रहीणत्वाच्च्युतिद्वयविगमात्क्लेशज्ञेयावरणद्वयप्रहाणाच्च॥
सप्त महामते मनोमनोविज्ञानचक्षुर्विज्ञानादयः क्षणिकाः वासनाहेतुत्वात्कुशलानास्रवपक्षरहिताः न संसारिणः। तथागतगर्भः पुनर्महामते संसरति निर्वाणसुखदुःखहेतुकः । न च बालपृथग्जना अवबुध्यन्ते शून्यताविक्षिप्तमतयः। निर्मितनैर्माणिकानां महामते तथागतानां वज्रपाणिः पार्श्वानुगतो न मौलानां तथागतानामर्हतां सम्यक्संबुद्धानाम्। मौलो हि महामते तथागतः सर्वप्रमाणेन्द्रियविनिवृत्तः सर्वबालश्रावकप्रत्येकबुद्धतीर्थ्यानाम्। दृष्टधर्मसुखविहारिणस्तमागच्छन्त्यभिसमयधर्मज्ञानक्षान्त्या। अतो वज्रपाणिस्तान्नानुबध्नाति। सर्वे हि निर्मितबुद्धा न कर्मप्रभवाः। न तेषु तथागतो न चान्यत्र तेभ्यस्तथागतः। कुम्भकारालम्बनादिप्रयोगेणेव सत्त्वकृत्यानि करोति, लक्षणोपेतं च देशयति, न तु स्वनयप्रत्यवस्थानकथां स्वप्रत्यात्मार्यगतिगोचरम्। पुनरपरं महामते षण्णां विज्ञानकायानां निरोधादुच्छेददृष्टिमाश्रयन्ति बालपृथग्जनाः, आलयानवबोधाच्छाश्वतदृष्टयो भवन्ति। स्वमतिविकल्पस्य महामते पूर्वा कोटिर्न प्रज्ञायते। स्वमतिविकल्पस्यैव विनिवृत्तेर्मोक्षः प्रज्ञायते। चतुर्वासनाप्रहाणात्सर्वदोषप्रहाणम्॥
तत्रेदमुच्यते -
त्रीणि यानान्ययानं च बुद्धानां नास्ति निर्वृतिः।
बुद्धत्वे व्याकृताः सर्वे वीतदेषाश्च देशिताः॥ १॥
अभिसमयान्तिकं ज्ञानं निरुपादिगतिस्तथा।
प्रोत्साहना च लीनानामेतत्संघाय देशितम्॥ २॥
बुद्धैरुत्पादितं ज्ञानं मार्गस्तैरेव देशितः।
यान्ति तेनैव नान्येन अतस्तेषां न निर्वृतिः॥ ३॥
भवकामरूपदृष्टीनां वासना वै चतुर्विधा।
मनोविज्ञानसंभूता आलयं च मनःस्थिताः॥ ४॥
मनोविज्ञाननेत्राद्यैरुच्छेदश्चाप्यनित्यतः।
शाश्वतं च अनाद्येन निर्वाणमतिदृष्टिनाम्॥ ५॥
इति लङ्कावतारसूत्रे नैर्माणिकपरिवर्तः सप्तमः॥