Digital Sanskrit Buddhist Canon

२२ भैषज्यराजपूर्वयोगपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 22 bhaiṣajyarājapūrvayogaparivartaḥ
२२ भैषज्यराजपूर्वयोगपरिवर्तः।



अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-केन कारेणेन भगवन् भैषज्यराजो बोधिसत्त्वो महासत्त्वोऽस्यां सहायां लोकधातौ प्रविचरति, बहूनि चास्य भगवन् दुष्करकोटीनयुतशतसहस्राणि संदृश्यन्ते? तत्साधु भगवान् देशयतु तथागतोऽर्हन् सम्यक्संबुद्धो भैषज्यराजस्य बोधिसत्त्वस्य महासत्त्वस्य यत् किंचिच्चर्याप्रदेशमात्रम्, यच्छ्रुत्वा देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यास्तदन्यलोकधात्वागताश्च बोधिसत्त्वा महासत्त्वा इमे च महाश्रावकाः श्रुत्वा सर्वे प्रीतास्तुष्टा उदग्रा आत्तमनसो भवेयुरिति॥



अथ खलु भगवान् नक्षत्रराजसंकुसुमिताभिज्ञस्य बोधिसत्त्वस्य महासत्त्वस्य अध्येषणां विदित्वा तस्यां वेलायां नक्षत्रराजसंकुसुमिताभिज्ञं बोधिसत्त्वं महासत्त्वमेतदवोचत्-भूतपुर्वं कुलपुत्र अतीतेऽध्वनि गङ्गानदीवालिकासमैः कल्पैर्यदासीत्। तेन कालेन तेन समयेन चन्द्रसूर्यविमलप्रभासश्रीर्नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादिविद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। तस्य खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ भगवतश्चन्द्रसूर्यविमलप्रभासश्रियस्तथागतस्यार्हतः सम्यक्संबुद्धस्य अशीतिकोट्यो बोधिसत्त्वानां महासत्त्वानां महासंनिपातोऽभूत् द्वासप्ततिगङ्गानदीवालिकासमाश्चास्य श्रावकसंनिपातोऽभूत्। अपगमातृग्रामं च तत्प्रवचनमभूत्, अपगतनिरयतिर्यग्योनिप्रेतासुरकायं समं रमणीयं पाणितलजातं च तद्बुद्धक्षेत्रमभूत्, दिव्यवैडूर्यमयभूमिभागं रत्नचन्दनवृक्षसमलकृतं च रत्नजालसमीरितं च अवसक्तपट्टदामाभिप्रलम्बितं च रत्नगन्धघटिकानिर्धूपितं च।



सर्वेषु च रत्नवृक्षमूलेषु इषुक्षेपमानमात्रे रत्नव्योमकानि संस्थितान्यभूवन्। सर्वेषु च रत्नव्योमकमूर्ध्नेषु कोटीशतं देवपुत्राणां तूर्यतालावचरसंगीतिसंप्रभाणितेन अवस्थितमभूत् तस्य भगवतश्चन्द्रसूर्यविमलप्रभासश्रियस्तथागतस्यार्हतः सम्यक्संबुद्धस्य पूजाकर्मणे। स च भगवानिमं सद्धर्मपुण्डरीकं धर्मपर्यायं तेषां महाश्रावकाणां तेषां च बोधिसत्त्वानां महासत्त्वानां विस्तरेण संप्रकाशयति स्म, सर्वसत्त्वप्रियदर्शनं बोधिसत्त्वं महासत्त्वमधिष्ठानं कृत्वा। तस्य खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ भगवतश्चन्द्रसूर्यविमलप्रभासश्रियस्तथागतस्यार्हतः सम्यक्संबुद्धस्य द्वाचत्वारिंशत्कल्पसहस्राण्यायुष्प्रमाणमभूत्, तेषां च बोधिसत्त्वनां महासत्त्वानां तेषां च महाश्रावकाणां तावदेवायुष्प्रमाणमभूत्। स च सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तस्य भगवतः प्रवचने दुष्करचर्याभियुक्तोऽभूत्। स द्वादशवर्षसहस्राणि चंक्रमाभिरुढोऽभूत्, महावीर्यारम्भेण योगाभियुक्तोऽभूत्। स द्वादशानां वर्षसहस्राणामत्ययेन सर्वरूपसंदर्शनं नाम समाधिं प्रतिलभते स्म।



सहप्रतिलम्भाच्च तस्य समाधेः स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातस्तस्यां वेलायामेवं चिन्तयामास-इमं सद्धर्मपुण्डरीकं धर्मपर्यायमागम्य अयं मया सर्वरूपसंदर्शनः समाधिः प्रतिलब्धः। तस्यां वेलायां स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्व एवं चिन्तयति स्म-यन्न्वहं भगवतश्चन्द्रसूर्यविमलप्रभासश्रियस्तथागतस्य पूजां कुर्यामू, अस्य च सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य। स तस्यां वेलायां तथारूपं समाधिं समापन्नः यस्य समाधेः समनन्तरसमापन्नस्य सर्वसत्त्वप्रियदर्शनस्य बोधिसत्त्वस्य महासत्त्वस्य, अद्य तावदेवोपर्यन्दरीक्षान्मान्दारवमहामान्दारवाणां पुष्पाणां महन्तं पुष्पवर्षमभिप्रवृष्टम्। कालानुसारिचन्दनमेघः कृतः। उरगसारचन्दनवर्षनभिप्रवृष्टम्। तादृशी च नक्षत्रराजसंकुसुमिताभिज्ञ सा गन्धजातिः, यस्या एकः कर्ष इमां सहालोकधातुं मूल्येन क्षमति॥



अथ खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वः स्मृतिमान् संप्रजानंस्तस्मात् समाधेर्व्युदतिष्ठत्। व्युत्थाय चैवं चिन्तयामास-न तदर्द्धिप्रातिहार्यसंदर्शनेन भगवतः पूजा कृता भवति,यथा आत्मभावपरित्यागेनेति। अथ खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायामगरुतुरुष्ककुन्दुरुकरसं भक्षयति स्म, चम्पकतैलं च पिबति स्म। तेन खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ पर्यायेण तस्य सर्वसत्त्वप्रियदर्शनस्य बोधिसत्त्वस्य महासत्त्वस्य सततसमितं गन्धं भक्षयतश्चम्पकतैलं च पिबतो द्वादश वर्षाण्यतिक्रान्तान्यभूवन्। अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तेषां द्वादशानां वर्षाणामत्ययेन तं स्वमात्मभावं दिव्यैर्वस्त्रैः परिवेष्टय गन्धतैलप्लुतं कृत्वा स्वकमधिष्ठानमकरोत्।



स्वकमधिष्ठानं कृत्वा स्वं कायं प्रज्वालयामास तथागतस्य पूजाकर्मणे, अस्य च सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य पूजार्थम्। अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ तस्य सर्वसत्त्वप्रियदर्शनस्य बोधिसत्त्वस्य महासत्त्वस्य ताभिः कायप्रदीपप्रभाज्वालाभिरशीतिगङ्गानदीवालिकासमा लोकधातवः स्फुटा अभुवन्। तासु च लोकधातुषु अशीतिगङ्गानदीवालिकासमा एव बुद्धा भगवन्तस्ते सर्वे साधुकारं ददन्ति स्म- साधु साधु कुलपुत्र, साधु खलु पुनस्त्वं कुलपुत्र, अयं स भूतो बोधिसत्त्वानां महासत्त्वानां वीर्यारम्भः। इयं सा भूता तथागतपूजा धर्मपूजा। न तथा पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकापूजा, नाप्यामिषपूजा नाप्युरगसारचन्दनपूजा। इयं तत्कुलपुत्र अग्रप्रदानम्। न तथा राज्यपरित्यागदानं न प्रियपुत्रभार्यापरित्यागदानम्। इयं पुनः कुलपुत्र विशिष्टा अग्रा वरा प्रवरा प्रणीता धर्मपूजा, योऽयमात्मभावपरित्यागः। अथ खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ ते बुद्धा भगवन्त इमां वाचं भाषित्वा तूष्णीमभूवन्॥



तस्य खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ सर्वसत्त्वप्रियदर्शनात्मभावस्य दीप्यतो द्वादश वर्षशतान्यतिक्रान्तान्यभूवन्, न च प्रशमं गच्छति स्म। स पश्चाद्द्वादशानां वर्षशतानामत्ययात् प्रशान्तोऽभूत्। स खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्व एवंरूपां तथागतपूजां च धर्मपूजां च कृत्वा ततश्च्युतस्तस्यैव भगवतश्चन्द्रसूर्यविमलप्रभासश्रियस्तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रवचने राज्ञो विमलदत्तस्य गृहे उपपन्न औपपादिकः। उत्सङ्गे पर्यङ्केण प्रादुर्भूतोऽभूत्। समनन्तरोपपन्नश्च खलु पुनः स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायां स्वमातापितरौ गाथयाध्यभाषत—



अयं ममा चंक्रमु राजश्रेष्ठ

यस्मिन् मया स्थित्व समाधि लब्धः।

वीर्यं दृढं आरभितं महाव्रतं

परित्यजित्वा प्रियमात्मभावम्॥१॥



अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्व इमां गाथां भाषित्वा स्वमातापितरावेतदवोचत्-अद्याप्यम्ब तात स भगवांश्चन्द्रसूर्यविमलप्रभासश्रीस्तथागतोऽर्हन् सम्यक्संबुद्ध एतर्हि तिष्ठति ध्रियते यापयति धर्मं देशयति, यस्य मया भगवतश्चन्द्रसूर्यविमलप्रभासश्रियस्तथागतस्य पूजां कृत्वा सर्वरुतकौशल्यधारणी प्रतिलब्धा, अयं च सद्धर्मपुण्डरीको धर्मपर्यायोऽशीतिभिर्गाथाकोटीनयुतशतसहस्रैः कङ्करैश्च विवरैश्च अक्षोभ्यैश्च तस्य भगवतोऽन्तिकाच्छ्रुतोऽभूत्। साधु अम्ब तात गमिष्याम्यहं तस्य भगवतोऽन्तिकम्, तस्मिंश्च गत्वा भूयस्तस्य भगवतः पूजां करिष्यामीति। अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायां सप्ततालमात्रं वैहायसमभ्युद्गम्य सप्तरत्नमये कूटागारे पर्यङ्कमाभुज्य तस्य भगवतः सकाशमुपसंक्रान्तः। उपसंक्रम्य तस्य भगवतः पादौ शिरसाभिवन्द्य तं भगवन्तं सप्तकृत्वः प्रदक्षिणीकृत्य येन स भगवांस्तेनाञ्जलिं प्रणाम्य तं भगवन्तं नमस्कृत्वा अनया गाथायाभिष्टौति स्म—



सुविमलवदना नरेन्द्र धीरा

तव प्रभ राजतियं दशद्दिशासु।

तुभ्य सुगत कृत्व अग्रपूजां

अहमिह आगतु नाथ दर्शनाय॥२॥



अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायामिमां गाथां भाषित्वा तं भगवन्तं चन्द्रसूर्यविमलप्रभासश्रियं संकुसुमिताभिज्ञ स भगवांश्चन्द्रसूर्यविमलप्रभासश्रीस्तथागतोऽर्हन् सम्यक्संबुद्धस्तं सर्वसत्त्वप्रियदर्शनं बोधिसत्त्वं महासत्त्वमेतदवोचत्-परिनिर्वाणकालसमयो मे कुलपुत्र अनुप्राप्तः, क्षयान्तकालो मे कुलपुत्र अनुप्राप्तः। तद्गच्छ त्वं कुलपुत्र, मम मञ्चं प्रज्ञपयस्व, परिनिर्वायिष्यामीति॥



अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स भगवांश्चन्द्रसूर्यविमलप्रभासश्रीस्तथागतस्तं सर्वसत्त्वप्रियदर्शनं बोधिसत्त्वं महासत्त्वमेतदवोचत्-इदं च ते कुलपुत्र शासनमनुपरिन्दामि, इमांश्च बोधिसत्त्वान् महासत्त्वान्, इमांश्च महाश्रावकान्, इमां च बुद्धबोधिम्, इमां च लोकधातुम्, इमानि च रत्नव्योमकानि, इमानि च रत्नवृक्षाणि, इमांश्च देवपुत्रान्, ममोपस्थायकाननुपरिन्दामि। परिनिर्वृतस्य च मे कुलपुत्र ये धातवस्ताननुपरिन्दामि। आत्मना च त्वया कुलपुत्र मम धातूनां विपुला पूजा कर्तव्या। वैस्तारिकाश्च ते धातवः कर्तव्याः। स्तूपानां च बहूनि सहस्राणि कर्तव्यानि। अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स भगवांश्चन्द्रसूर्यविमलप्रभासश्रीस्तथागतोऽर्हन् सम्यक्संबुद्धस्तं सर्वसत्त्वप्रियदर्शनं बोधिसत्त्वं महासत्त्वमेवमनुशिष्य तस्यामेव रात्र्यां पश्चिमे यामे अनुपधिशेषे निर्वाणधातौ परिनिर्वृतोऽभूत्॥



अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तं भगवन्त चन्द्रसूर्यविमलप्रभासश्रियं तथागतं परिनिर्वृतं विदित्वा उरगसारचन्दनचित्तां कृत्वा तं तथागतात्मभावं संप्रज्वालयामास। दग्धं निशान्तं च तथागतात्मभावं विदित्वा ततो धातून् गृहीत्वा रोदति क्रन्दति परिदेवते स्म। अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वो रुदित्वा क्रन्दित्वा परिदेवित्वा सप्तरत्नमयानि चतुरशीतिकुम्भसहस्राणि कारयित्वा तेषु तांस्तथागतधातून् प्रक्षिप्य सप्तरत्नमयानि चतुरशीतिस्तूपसहस्राणि प्रतिष्ठापयामास, यावद् ब्रह्मलोकमुच्चैस्त्वेन, छत्रावलीसमलंकृतानि पट्टघण्टासमीरितानि च। स तान् स्तूपान् प्रतिष्ठाप्य एवं चिन्तयामास-कृता मया तस्य भगवतश्चन्द्रसूर्यविमलप्रभासश्रियस्तथागतस्य धातूनां पूजा। अतश्च भूय उत्तरि विशिष्टतरां तथागतधातूनां पूजां करिष्यामीति।



अथ खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तं सर्वावन्तं बोधिसत्त्वगणं तांश्च महाश्रावकांस्तांश्च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यगणानामन्त्रयामास-सर्वे यूयं कुलपुत्राः समन्वाहरध्वम्। तस्य भगवतो धातूनां पूजां करिष्याम इति। अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायां तेषां चतुरशीतीनां तथागतधातुस्तूपसहस्राणां पुरस्ताच्छतपुण्यविचित्रितं स्वं बाहुमादीपयामास। आदीप्य च द्वासप्ततिवर्षसहस्राणि तेषां तथागतधातुस्तूपानां पूजामकरोत्। पूजां च कुर्वता तस्याः पर्षदोऽसंख्येयानि श्रावककोटीनयुतशतसहस्राणि विनीतानि। सर्वैश्च तैर्बोधिसत्त्वैः सर्वरूपसंदर्शनसमाधिः प्रतिलब्धोऽभूत्॥



अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वावान् बोधिसत्त्वगणः, ते च सर्वे महाश्रावकाः, तं सर्वसत्त्वप्रियदर्शनं बोधिसत्त्वं महासत्त्वमङ्गहीनं दृष्ट्वा अश्रुमुखा रुदन्तः क्रन्दन्तः परिदेवमानाः परस्परमेतदूचुः-अयं सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वोऽस्माकमाचार्योऽनुशासकः। सोऽयं सांप्रतमङ्गहीनो बाहुहीनः संवृत्त इति। अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तान् बोधिसत्त्वांस्तांश्च महाश्रावकांस्तांश्च देवपुत्रानामन्त्रयामास-मा यूयं कुलपुत्रा मामङ्गहीनं दृष्ट्वा रुदत, मा क्रदन्त, मा परिदेवध्वम्। एषोऽहं कुलपुत्रा ये केचिद्दशसु दिक्षु अनन्तापर्यन्तासु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, तान् सर्वान् बुद्धान् भगवतः साक्षिणः कृत्वा तेषां पुरतः सत्त्वाधिष्ठानं करोमि, येन सत्येन सत्यवचनेन स्वं मम बाहुं तथागतपूजाकर्मणे परित्यज्य सुवर्णवर्णो मे कायो भविष्यति।



तेन सत्येन सत्यवचनेन अयं मम बाहुर्यथापौराणो भवतु, इयं च महापृथिवी षड्विकारं प्रकम्पतु, अन्तरीक्षगताश्च देवपुत्रा महापुष्पवर्षं प्रवर्षन्तु। अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ समनन्तरकृतेऽस्मिन् सत्याधिष्ठाने तेन सर्वसत्त्वप्रियदर्शनेन बोधिसत्त्वेन महासत्त्वेन, अथ खल्वियं त्रिसाहस्रमहासाहस्री लोकधातुः षड्विकारं प्रकम्पिता, उपर्यन्तरीक्षाच्च महापुष्पवर्षमभिप्रवर्षितम्। तस्य च सर्वसत्त्वप्रियदर्शनस्य बोधिसत्त्वस्य महासत्त्वस्य स बाहुर्यथापौराणः संस्थितोऽभूत्, यदुत तस्यैव बोधिसत्त्वस्य महासत्त्वस्य ज्ञानबलाधानेन पुण्यबलाधानेन च। स्यात् खलु पुनस्ते नक्षत्रराजसंकुसुमिताभिज्ञ काङ्क्षा वा विमतिर्वा विचिकित्सा वा-अन्यः स तेन कालेन तेन समयेन सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वोऽभूत्? न खलु पुनस्ते नक्षत्रराजसंकुसुमिताभिज्ञ एवं द्रष्टव्यम्। तत्कस्य हेतोः? अयं स नक्षत्रराजसंकुसुमिताभिज्ञ भैषज्यराजो बोधिसत्त्वो महासत्त्वस्तेन कालेन तेन समयेन सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वोऽभूत्।



इयन्ति नक्षत्रराजसंकुसुमिताभिज्ञ भैषज्यराजो बोधिसत्त्वो महासत्त्वो दुष्करकोटीनयुतशतसहस्राणि करोति, आत्मभावपरित्यागांश्च करोति। बहुतरं खल्वपि स नक्षत्रराजसंकुसुमिताभिज्ञ बोधिसत्त्वयानसंप्रस्थितः कुलपुत्रो वा कुलदुहिता वा इमामनुत्तरां सम्यक्संबोधिमाकाङ्क्षमाणो यः पादाङ्गुष्ठं तथागतचैत्येष्वादीपयेत्। एकां हस्ताङ्गुलिं पादाङ्गुलिं वा एकाङ्गं वा बाहुमादीपयेत्, बोधिसत्त्वयानसंप्रस्थितः स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्याभिसंस्कारं प्रसवति। न त्वेव राज्यपरित्यागान्न प्रियपुत्रदुहितृभार्यापरित्यागान्न त्रिसाहस्रमहासाहस्रीलोकधातोः सवनसमुद्रपर्वतोत्ससरस्तडागकूपारामायाः परित्यागात्। यश्च खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ बोधिसत्त्वयानसंप्रस्थितः कुलपुत्रो वा कुलदुहिता वा इमां त्रिसाहस्रमहासाहस्रीं लोकधातुं सप्तरत्नपरिपूर्णां कृत्वा सर्वबुद्धबोधिसत्त्वश्रावकप्रत्येकबुद्धेभ्यो दानं दद्यात्, स नक्षत्रराजसंकुसुमिताभिज्ञ कुलपुत्रो वा कुलदुहिता वा तावत् पुण्यं प्रसवति, यावत् स कुलपुत्रो वा कुलदुहिता वा यः इतः सद्धर्मपुण्डरीकाद्धर्मपर्यायादन्तशश्चतुष्पादिकामपि गाथां धारयेत्, इमं तस्य बहुतरं पुण्याभिसंस्कारं वदामि। न त्वेवं इमां त्रिसाहस्रमहासाहस्रीं लोकधातुं सप्तरत्नपरिपूर्णां कृत्वा दानं ददतस्तस्य सर्वबुद्धबोधिसत्त्वश्रावकप्रत्येकबुद्धेभ्यः॥



तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ सर्वेषामुत्ससरस्तडागानां महासमुद्रो मूर्धप्राप्तः, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ सर्वेषां तथागतभाषितानां सूत्रान्तानामयं सद्धर्मपुण्डरीको धर्मपर्यायो मूर्धप्राप्तः। तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ सर्वेषां कालपर्वतानां चक्रवालानां महाचक्रवालानां च सुमेरुः पर्वतराजो मूर्धप्राप्तः, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायः सर्वेषां तथागतभाषितानां सूत्रान्तानां राजा मूर्धप्राप्तः। तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ सर्वेषां नक्षत्राणां चन्द्रमाः प्रभाकरोऽग्रप्राप्तः, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ सर्वेषां तथागतभाषितानां सूत्रान्तानामयं सद्धर्मपुण्डरीको धर्मपर्यायश्चन्द्रकोटीनयुतशतसहस्रातिरेकप्रभाकरोऽग्रप्राप्तः। तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ सूर्यमण्डलं सर्वं तमोन्धकारं विधमति, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायः सर्वाकुशलतमोन्धकारं विधमति।



तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ त्रायस्त्रिंशानां देवानां शक्रो देवानामिन्द्रः, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायः सर्वेषां तथागतभाषितानां सूत्रान्तानामिन्द्रः। तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ ब्रह्मा सहांपतिः सर्वेषां ब्रह्मकायिकानां देवानां राजा ब्रह्मलोके पितृकार्यं करोति, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायः सर्वेषां सत्त्वानां शैक्षाशैक्षाणां च सर्वश्रावकाणां प्रत्येकबुद्धानां बोधिसत्त्वयानसंप्रस्थितानां च पितृकार्यं करोति। तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ सर्वबालपृथग्जनानतिक्रान्तः स्रोतआपन्नः सकृदागामी अनागामी अर्हन् प्रत्येकबुद्धश्च, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायः सर्वांस्तथागतभाषितान् सूत्रान्तानतिक्रम्य अभ्युद्गतो मूर्धप्राप्तो वेदितव्यः।



तेऽपि नक्षत्रराजसंकुसुमिताभिज्ञ सत्त्वा मूर्धप्राप्ता वेदितव्याः, ये खल्विमं सूत्रराजं धारयिष्यन्ति। तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वोऽग्र आख्यायते, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायः सर्वेषां तथागतभाषितानां सुत्रान्तानामग्र आख्यायते। तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ सर्वेषां श्रावकप्रत्येकबुद्धबोधिसत्त्वानां तथागतो धर्मराजः पट्टबद्धः, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायस्तथागतभूतो बोधिसत्त्वयानसंप्रस्थितानाम्। त्राता खल्वपि नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायः सर्वसत्त्वानां सर्वभयेभ्यः, विमोचकः सर्वदुःखेभ्यः। तडाग इव तृषितानामग्निरिव शीतार्तानां चैलमिव नग्नानां सार्थवाह इव वणिजानां मातेव पुत्राणां नौरिव पारगामिनां वैद्य इव आतुराणां दीप इव तमोन्धकारावृतानां रत्नमिव धनार्थिनां चक्रवर्तीव सर्वकोट्टराजानां समुद्र इव सरितामुल्केव सर्वतमोन्धकारविधमनाय। एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायः सर्वदुःखप्रमोचकः सर्वव्याधिच्छेदकः सर्वसंसारभयबन्धनसंकटप्रमोचकः।



येन चायं नक्षत्रराजसंकुसुमिताभिज्ञ सद्धर्मपुण्डरीको धर्मपर्यायः श्रुतो भविष्यति, यश्च लिखति, यश्च लेखयति, एषां नक्षत्रराजसंकुसुमिताभिज्ञ पुण्याभिसंस्काराणां बौद्धेन ज्ञानेन न शक्यं पर्यन्तोऽधिगन्तुम्, यावन्तं पुण्याभिसंस्कारं स कुलपुत्रो वा कुलदुहिता वा प्रसविष्यति। य इमं धर्मपर्यायं धारयित्वा वाचयित्वा वा देशयित्वा वा श्रुत्वा वा लिखित्वा वा पुस्तकगतं वा कृत्वा सत्कुर्यात् गुरुकुर्यान्मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकवैजयन्तीभिर्वाद्यवस्त्राञ्जलिकर्मभिर्वा घृतप्रदीपैर्वा गन्धतैलप्रदीपैर्वाचम्पकतैलप्रदीपैर्वा सुमनातैलप्रदीपैर्वा पाटलतैलप्रदिपैर्वा वार्षिकतैलप्रदीपैर्वा नवमालिकातैलप्रदीपैर्वा बहुविधाभिश्च पूजाभिः सत्कारं कुर्याद् गुरुकारं कुर्यात् माननां कुर्यात् पूजनां कुर्यात्, बहु स नक्षत्रराजसंकुसुमिताभिज्ञ बोधिसत्त्वयानसंप्रस्थितः कुलपुत्रो वा कुलदुहिता वा पुण्यं प्रसविष्यति य इमं भैषज्यराजपूवयोगपरिवर्तं धारयिष्यति वाचयिष्यति श्रोष्यति। सचेत् पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ मातृग्राम इमं धर्मपर्यायं श्रुत्वा उद्गहीष्यति धारयिष्यति तस्य स एव पश्चिमः स्त्रीभावो भविष्यति।



यः कश्चिन्नक्षत्रराजसंकुसुमिताभिज्ञ इमं भैषज्यराजपूर्वयोगपरिवर्तं पश्चिमायां पञ्चाशत्यां श्रुत्वा मातृग्रामः प्रतिपत्स्यते स खल्वतश्च्युतः सुखावत्यां लोकधातावुपपत्स्यते यस्यां स भगवानमितायुस्तथागतोऽर्हन् सम्यक्संबुद्धो बोधिसत्त्वगणपरिवृतस्तिष्ठति ध्रियते यापयति। स तस्यां पद्मगर्भे सिंहासने निषण्ण उपपत्स्यते। न च तस्य रागो व्याबाधिष्यते, न द्वेषो न मोहो न मानो न मात्सर्यं न क्रोधो न व्यापादः। सहोपपन्नाश्च पञ्चाभिज्ञाः प्रतिलप्स्यते। अनुत्पत्तिकधर्मक्षान्तिं च प्रतिलप्स्यते। अनुत्पत्तिकधर्मक्षान्तिप्रतिलब्धः स खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ बोधिसत्त्वो महासत्त्वो द्वासप्ततिगङ्गानदीवालिकासमांस्तथागतान् द्रक्ष्यति। तादृशं चास्य चक्षुरिन्द्रियं परिशुद्धं भविष्यति, येन चक्षुरिन्द्रियेण परिशुद्धेन तान् बुद्धान् भगवतो द्रक्ष्यति।



ते चास्य बुद्धा भगवन्तः साधुकारमनुप्रदास्यन्ति-साधु साधु कुलपुत्र, यत्त्वया सद्धर्मपुण्डरीकं धर्मपर्यायं श्रुत्वा तस्य भगवतः शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रवचने उद्दिष्टं स्वाध्यायितं भावितं चिन्तितं मनसि कृतं परसत्त्वानां च संप्रकाशितम्, अयं ते कुलपुत्र पुण्याभिसंस्कारो न शक्यमग्निना दग्धुं नोदकेन हर्तुम्। अयं ते कुलपुत्र पुण्याभिसंस्कारो न शक्यं बुद्धसहेस्रेणापि निर्देष्टुम्। विहतमारप्रत्यर्थिकस्त्वं कुलपुत्र उत्तीर्णभयसंग्रामो मर्दितशत्रुकण्टकः। बुद्धशतसहस्राधिष्ठितोऽसि। न तव कुलपुत्र सदेवके लोके समारके सब्रह्मके सश्रमणब्राह्मणिकायां प्रजायां सदृशो विद्यते तथागतमेकं विनिर्मुच्य। नान्यः कश्चिच्छ्रावको वा प्रत्येकबुद्धो वा बोधिसत्त्वो वा यस्त्वां शक्तः पुण्येन वा प्रज्ञया वा समाधिना वा अभिभवितुम्। एवं ज्ञानबलाधानप्राप्तः स नक्षत्रराजसंकुसुमिताभिज्ञ बोधिसत्त्वो भविष्यति॥



यः कश्चिन्नक्षत्रराजसंकुसुमिताभिज्ञ इमं भैषज्यराजपूर्वयोगपरिवर्तं भाष्यमाणं श्रुत्वा साधुकारमनुप्रदास्यति, तस्योत्पलगन्धो मुखाद्वास्यति, गात्रेभ्यश्चास्य चन्दनगन्धो भविष्यति। य इह धर्मपर्याये साधुकारं दास्यति, तस्येम एवंरूपा दृष्टधार्मिका गुणानुशंसा भविष्यन्ति, ये मयैतर्हि निर्दिष्टाः। तस्मात्तर्हि नक्षत्रराजसंकुसुमिताभिज्ञ अनुपरिन्दाम्यहमिमं सर्वसत्त्वप्रियदर्शनस्य बोधिसत्त्वस्य महासत्त्वस्य पूर्वयोगपरिवर्तम्, यथा पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्चाशत्यां वर्तमानायामस्मिन् जम्बुद्वीपे प्रचरेत्, नान्तर्धानं गच्छेत्, न च मारः पापीयानवतारं लभेत्, न मारकायिका देवताः, न नागा न यक्षा न गन्धर्वा न कुम्भाण्डा अवतारं लभेयुः। तस्मात्तर्हि नक्षत्रराजसंकुसुमिताभिज्ञ अधितिष्ठामीमं धर्मपर्यायमस्मिन् जम्बुद्वीपे। भैषज्यभूतो भविष्यति ग्लानानां सत्त्वानां व्याधिस्पृष्टानाम्।



इमं धर्मपर्यायं श्रुत्वा व्याधिः काये न क्रमिष्यति, न जरा नाकालमृत्युः। सचेत् पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ यः कश्चिद् बोधिसत्त्वयानसंप्रस्थितः पश्येदेवंरूपं सूत्रान्तधारकं भिक्षुम्, तं चन्दनचूर्णैर्नीलोत्पलैरभ्यकिरेत्, अभ्यवकीर्य चैवं चित्तमुत्पादयितव्यम्-गमिष्यत्ययं कुलपुत्रो बोधिमण्डम्। ग्रहीष्यत्ययं तृणानि। प्रज्ञपयिष्यत्ययं बोधिमण्डे तृणसंस्तरम्। करिष्यत्ययं मारयक्षपराजयम्। प्रपूरयिष्यत्ययं धर्मशङ्खम्। पराहनिष्यत्ययं धर्मभेरीम्। उत्तरिष्यत्ययं भवसागरम्। एवं नक्षत्रराजसंकुसुमिताभिज्ञ तेन बोधिसत्त्वयानसंप्रस्थितेन कुलपुत्रेण वा कुलदुहित्रा वा एवंरूपं सूत्रान्तधारकं भिक्षुं दृष्ट्वा एवं चित्तमुत्पादयितव्यम्-इत्येतादृशाश्चास्य गुणानुशंसा भविष्यन्ति यादृशास्तथागतेन निर्दिष्टाः॥



अस्मिन् खलु पुनर्भैषज्यपूर्वयोगपरिवर्ते निर्दिश्यमाने चतुरशीतीनां बोधिसत्त्वसहस्राणां सर्वरुतकौशल्यानुगताया धारण्याः प्रतिलम्भोऽभूत्। स च भगवान् प्रभूतरत्नस्तथागतोऽर्हन् सम्यक्संबुद्धः साधुकारमदात्-साधु साधु नक्षत्रराजसंकुसुमिताभिज्ञ, यत्र हि नाम त्वमेवमचिन्त्यगुणधर्मस्तथागतेन निर्दिष्टः, त्वं चाचिन्त्यगुणधर्मसमन्वागतं तथागतं परिपृच्छसीति॥



इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये भैषज्यराजपूर्वयोगपरिवर्तो नाम द्वाविंशतिमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project