२० तथागतद्धर्यभिसंस्कारपरिवर्तः
Technical Details
२० तथागतद्धर्यभिसंस्कारपरिवर्तः।
अथ खलु यानि तानि साहस्रलोकधातुपरमाणुरजःसमानि बोधिसत्त्वकोटीनयुतशतसहस्राणि पृथिवीविवरेभ्यो निष्क्रान्तानि, तानि सर्वाणि भगवतोऽभिमुखमञ्जलिं प्रगृह्य भगवन्तमेतदूचुः-वयं भगवन् इमं धर्मपर्यायं तथागतस्य परिनिर्वृतस्य सर्वबुद्धक्षेत्रेषु यानि यानि भगवतो बुद्धक्षेत्राणि, यत्र यत्र भगवान् परिनिर्वृतो भविष्यति, तत्र तत्र संप्रकाशयिष्यामः। अर्थिनो वयं भगवन् अनेनैकवमुदारेण धर्मपर्यायेण धारणाय वाचनाय देशनाय संप्रकाशनाय वा लिखनाय॥
अथ खलु मञ्जुश्रीप्रमुखानि बहूनि बोधिसत्त्वकोटीनयुतशतसहस्राणि यानि अस्यां सहायां लोकधातौ वास्तव्यानि, भिक्षुभिक्षुण्युपासकोपासिका देवनागयक्षागन्धर्वासुरगरूडकिन्नरमहोरगमनुष्यामनुष्याः, बहवश्च गङ्गानदीवालिकोपमा बोधिसत्त्वा महासत्त्वा भगवन्तमेतदूचुः-वयमपि भगवन् इमं धर्मपर्यायं संप्रकाशयिष्यामस्तथागतस्य परिनिर्वृतस्य अद्दष्टेनात्मभावेन, भगवन् अन्तरीक्षे स्थिता घोषं संश्रावयिष्यामः, अनवरोपितकुशलमूलानां च सत्त्वानां कुशलमूलान्यवरोपयिष्यामः॥
अथ खलु भगवांस्तस्यां वेलायां तेषां पौर्विकाणां बोधिसत्त्वानां महासत्त्वानां गणिनां महागणिनां गणाचार्याणामेकं प्रमुखं विशिष्टचारित्रं नाम बोधिसत्त्वं महासत्त्वं महागणिनं गणाचार्यमामन्त्रयामास-साधु साधु विशिष्टचारित्र। एवं युष्माभिः करणीयमस्य धर्मपर्यायस्यार्थे। यूयं तथागतेन परिपाचिताः॥
अथ खलु भगवान् शाक्यमुनिस्तथागतः स च भगवान् प्रभूतरत्नस्तथागतोऽर्हन् सम्यक्संबुद्धः परिनिर्वृतः स्तूपमध्ये। सिंहासनोपविष्टौ द्वावपि स्मितं प्रादुष्कृरुतः, मुखविवरान्तराभ्यां च जिह्वेन्द्रियं निर्णामयतः। ताभ्यां च जिह्वेन्द्रियाभ्यां यावद् ब्रह्मलोकमनुप्राप्नुतः। ताभ्यां च जिह्वेन्द्रियाभ्यां बहूनि रश्मिकोटीनयुतशतसहस्राणि निश्चरन्ति स्म। तासु च रश्मिष्वेकैकस्या रश्मेर्बहूनि बोधिसत्त्वकोटीनयुतशतसहस्राणि निश्चेरुः। सुवर्णवर्णाः कायैर्द्वात्रिंशद्भिर्महापुरुषलक्षणैः समन्वागताः पद्मगर्भे सिंहासने निषण्णाः। ते च बोधिसत्त्वा दिग्विदिक्षु लोकधातुशतसहस्रेषु विसृताः, सर्वासु दिग्विदिक्ष्वन्तरीक्षे स्थिता धर्मं देशयामासुः। यथैव भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धो जिह्वेन्द्रियेण ऋद्धिप्रातिहार्यं करोति प्रभूतरत्नश्च तथागतोऽर्हन् सम्यक्संबुद्धः तथैव ते सर्वे तथागता अर्हन्तः सम्यक्संबुद्धाः, ये तेऽन्यलोकधातुकोटीनयुतशतसहस्रेभ्योऽभ्यागता रत्नवृक्षमूलेषु पृथक् पृथक् सिंहासनोपविष्टा जिह्वेन्द्रियेण ऋद्धिप्रातिहार्यं कुर्वन्ति॥
अथ खलु भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धः ते च सर्वे तथागता अर्हन्तः सम्यक्संबुद्धाः तमृद्धयभिसंस्कारं परिपूर्णं वर्शशतसहस्रं कृतवन्तः। अथ खलु वर्षशतसहस्रस्यात्ययेन ते तथागता अर्हन्तः सम्यक्संबुद्धास्तानि जिह्वेन्द्रियाणि पुनरेवोपसंहृत्य एकस्मिन्नेव क्षणलवमुहूर्ते समकालं सर्वैर्महासिंहोत्कासनशब्दः कृतः, एकश्चाच्छटासंघातशब्दः कृतः। तेन च महोत्कासनशब्देन महाच्छटासंघातशब्देन यावन्ति दशसु दिक्षु बुद्धक्षेत्रकोटीनयुतशतसहस्राणि, तानि सर्वाण्याकम्पितान्यभूवन्, प्रकम्पितानि संप्रकम्पितानि चलितानि प्रचलितानि संप्रचलितानि वेधितानि प्रवेधितानि संप्रवेधितानि। तेषु च सर्वेषु बुद्धक्षेत्रेषु यावन्तः सर्वसत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्याः, तेऽपि सर्वे बुद्धानुभावेन तत्रस्था एवमिमां सहां लोकधातुं पश्यन्ति स्म। तानि च सर्वतथागतकोटीनयुतशतसहस्राणि रत्नवृक्षमूलेषु पृथक् पृथक् सिंहासनोपविष्टानि भगवन्तं च शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धं तं च भगवन्तं प्रभूतरत्नं तथागतमर्हन्तं सम्यक्संबुद्धं परिनिर्वृतं तस्य महारत्नस्तूपस्य मध्ये सिंहासनोपविष्टं भगवता शाक्यमुनिना तथागतेन सार्धं निषण्णां ताश्च तिस्रः पर्षदः पश्यन्ति स्म। दृष्ट्वा च आश्चर्यप्राप्ता अद्भुतप्राप्ता औद्बिल्यप्राप्ता अभूवन्। एवं च अन्तरीक्षाद् घोषमश्रौषुः-एष मार्षा अप्रमेयाण्यसंख्येयानि लोकधातुकोटीनयुतशतसहस्राण्यतिक्रम्य सहा नाम लोकधातुः। तस्यां शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्संबुद्धाः। स एतर्हि सद्धर्मपुण्डरीकं नाम धर्मपर्यायं सूत्रान्तं महावैपुल्यं बोधिसत्त्वाववादं सर्वबुद्धपरिग्रहं बोधिसत्त्वानां महासत्त्वानां संप्रकाशयति। तं यूयमध्याशयेन अनुमोदध्वम्, तं च भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धं तं च भगवन्तं प्रभूतरत्नं तथागतमर्हन्तं सम्यक्संबुद्धं नमस्कुरुध्वम्॥
अथ खलु ते सर्वसत्त्वा इममेवंरूपमन्तरीक्षान्निर्घोषं श्रुत्वा तत्रस्था एव नमो भगवते शाक्यमुनये तथागतायार्हते सम्यक्संबुद्धायेति वाचं भाषन्ते स्म अञ्जलिं प्रगृह्य। विविधाश्च पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्त्यो येनेयं सहा लोकधातुस्तेन क्षिपन्ति स्म, नानविधानि चाभरणानि पिन्धाणि हारार्धहारमणिरत्नान्यपि क्षिपन्ति स्म, भगवतः शाक्यमुनेः प्रभूतरत्नस्य च तथागतस्य पूजाकर्मणे, अस्य च सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य। ताश्च पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्त्यस्तानि च हारार्धहारमणिरत्नानि क्षिप्तानि इमां सहां लोकधातुमागच्छन्ति स्म। तैश्च पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीराशिभिर्हारार्धहारैर्मणिरत्नैश्च अस्यां सहायां लोकधातौ सार्धं तैरन्यर्लोकधातुकोटीनयुतशतसहस्रैरेकीभूतैर्ये तेषु तथागताः संनिषण्णाः, तेषु सर्वेषु वैहायसेऽन्तरीक्षे समन्तान्महापुष्पवितानं परिसंस्थितमभूत्॥
अथ खलु भगवांस्तान् विशिष्टचारित्रप्रमुखान् बोधिसत्त्वान् महासत्त्वानामन्त्रयामास-अचिन्त्यप्रभावाः कुलपुत्रास्तथागता अर्हन्तः सम्यक्संबुद्धाः। बहून्यप्यहं कुलपुत्राः कल्पकोटीनयुतशतसहस्राणि अस्य धर्मपर्यायस्य परीन्दनार्थं नानाधर्मप्रमुखैर्बहूनानुशंसान् भाषेयम्। न चाहं गुणानां पारं गच्छेयमस्य धर्मपर्यायस्य भाषमाणः। संक्षेपेण कुलपुत्राः सर्वबुद्धवृषभिता सर्वबुद्धरहस्यं सर्वबुद्धगम्भीरस्थानं मया अस्मिन् धर्मपर्याये देशितम्। तस्मात्तर्हि कुलपुत्रा युष्माभिस्तथागतस्य परिनिर्वृतस्य सत्कृत्य अयं धर्मपर्यायो धारयितव्यो देशयितव्यो लिखितव्यो वाचयितव्यः प्रकाशयितव्यो भावयितव्यः पूजयितव्यः। यस्मिंश्च कुलपुत्राः पृथिवीप्रदेशे अयं धर्मपर्यायो वाच्येत वा प्रकाश्येत वा देश्येत वा लिख्येत वा चिन्त्येत वा भाष्येत वा स्वाध्यायेत वा पुस्तकगतो वा तिष्ठत् आरामे वा विहारे वा गृहे वा वने वा नगरे वा वृक्षमूले वा प्रासादे वा लयने वा गुहायां वा, तस्मिन् पृथिवीप्रदेशे तथागतमुदिश्य चैत्यं कर्तव्यम्। तत्कस्य हेतोः? सर्वतथागतानां हि स पृथिवीप्रदेशो बोधिमण्डो वेदितव्यः। तस्मिंश्च पृथिवीप्रदेशे सर्वतथागता अर्हन्तः सम्यक्संबुद्धा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धा इति वेदितव्यम्। तस्मिंश्च पृथिवीप्रदेशे सर्वतथागतैर्धर्मचक्रं प्रवर्तितम्, तस्मिंश्चपृथिवीप्रदेशे सर्वतथागताः परिनिर्वृता इति वेदितव्यम्॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत—
अचिन्तिया लोकहितान धर्मता
अभिज्ञज्ञानस्मि प्रतिष्ठितानाम्।
ये ऋद्धि दर्शेन्ति अनन्तचक्षुषः
प्रामोद्यहेतोरिह सर्वदेहिनाम्॥१॥
जिह्वेन्द्रियं प्रापिय ब्रह्मलोकं
रश्मीसहस्राणि प्रमुञ्चमानाः।
आश्चर्यभूता इह ऋद्धिदर्शिताः
ते सर्वि ये प्रस्थित अग्रबोधौ॥२॥
उत्कासितं चापि करोन्ति बुद्धा
एकाच्छटा ये च करोन्ति शब्दम्।
ते विज्ञपेन्ती इमु सर्वलोकं
दशो दिशायां इम लोकधातुम्॥३॥
एतानि चान्यानि च प्रातिहार्या
गुणान्निदर्शेन्ति हितानुकम्पकाः।
कथं नु ते हर्षित तस्मि काले
धारेयु सूत्रं सुगतस्य निर्वृते॥४॥
बहू पि कल्पान सहस्रकोट्यो
वदेय वर्णं सुगतात्मजानाम्।
ये धारयिष्यन्तिम सूत्रमग्रं
परिनिर्वृते लोकविनायकस्मिन्॥५॥
न तेष पर्यन्त भवेद्गुणानां
आकाशधातौ हि यथा दिशासु।
अचिन्तिया तेषा गुणा भवन्ति
ये सूत्र धारेन्ति इदं शुभं सदा॥६॥
दृष्टो अहं सर्व इमे च नायका
अयं च यो निर्वृतु लोकनायकः।
इमे च सर्वे बहुबोधिसत्त्वाः
पर्षाश्च चत्वारि अनेन दृष्टाः॥७॥
अहं च आरागितु तेनिहाद्य
इमे च आरागित सर्वि नायकाः।
अयं च यो निर्वृतको जिनेन्द्रो
ये चापि अन्ये दशसू दिशासु॥८॥
अनागतातीत तथा च बुद्धाः
तिष्ठन्ति ये चापि दशसु द्दिशासु।
ते सर्वि दृष्टाश्च सुपूजिताश्च
भवेयु यो धारयि सूत्रमेतत्॥९॥
रहस्यज्ञानं पुरुषोत्तमानां
यं बोधिमण्डस्मि विचिन्तितासीत्।
अनुचिन्तयेत्सो पि तु क्षिप्रमेव
यो धारयेत् सूत्रिमु भूतधर्मम्॥१०॥
प्रतिभानु तस्यापि भवेदनन्तं
यथापि वायुर्न कहिंचि सज्जति।
धर्मेऽपि चार्थे च निरुक्ति जानति
यो धारयेत् सुत्रमिदं विशिष्टम्।११॥
अनुसंधिसूत्राण सदा प्रजानति
संधाय यं भाषितु नायकेहि।
परिनिर्वृतस्यापि विनायकस्य
सूत्राण सो जानति भुतमर्थम्॥१२॥
चन्द्रोपमः सूर्यसमः स भाति
आलोकप्रद्योतकरः स भोति।
विचरन्तु सो मेदिनि तेन तेन
समादपेती बहुबोधिसत्त्वान्॥१३॥
तस्माद्धि ये पण्डित बोधिसत्त्वाः
श्रुत्वानिमानीद्दश आनुशंसान्।
धारेयु सूत्रं मम निर्वृतस्य
न तेष बोधाय भवेत संशयः॥१४॥
इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये तथागतद्धर्यभिसंस्कारपरिवर्तो नाम विंशतितमः॥