१७ अनुमोदनापुण्यनिर्देशपरिवर्तः
Technical Details
१७ अनुमोदनापुण्यनिर्देशपरिवर्तः।
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-यो भगवन् इमं धर्मपर्यायं देश्यमानं श्रुत्वा अनुमोदेत् कुलपुत्रो वा कुलदुहिता वा, कियन्तं स भगवन् कुलपुत्रो वा कुलदुहिता वा पुण्यं प्रसवेदिति?
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायामिमां गाथामभाषत—
यो निर्वृते महावीरे शृणुयात्सूत्रमीदृशम्।
श्रुत्वा चाभ्यनुमोदेया कियन्तं कुशलं भवेत्॥१॥
अथ खलु भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वमेतदवोचत्-यः कश्चिदजित कुलपुत्रो वा कुलदुहिता वा तथागतस्य परिनिर्वृतस्य इमं धर्मपर्याय देश्यमानं संप्रकाश्यमानं शृणुयाद् भिक्षुर्वा भिक्षुणी वा उपासको वा उपासिका वा विज्ञपुरुषो वा कुमारको वा, कुमारिका वा, श्रुत्वा च अभ्यनुमोदेत, सचेत्ततो धर्मश्रवणादुत्थाय प्रक्रामेत्, स च विहारगतो वा गृहगतो वा अरण्यगतो वा वीथीगतो वा ग्रामगतो वा जनपदगतो वा तान् हेतूंस्तानि कारणानि तं धर्मं यथाश्रुतं यथोद्गृहीतं यथाबलमपरस्य सत्त्वस्याचक्षीत मातुर्वा पितुर्वा ज्ञातेर्वा, संमोदितस्य वा अन्यस्य वा संस्तुतस्य कस्यचित्, सोऽपि यदि श्रुत्वा अनुमोदेत, अनुमोद्य च पुनरन्यस्मै आचक्षीत। सोऽपि यदि श्रुत्वानुमोदेत, अनुमोद्य च सोऽप्यपरस्मै आचक्षीत, सोऽपि तं श्रुत्वानुमोदेत। इत्यनेन पर्यायेण यावत् पञ्चाशत् परंपरया। अथ खल्वजित योऽसौ पञ्चाशत्तमः पुरुषो भवेत् परंपराश्रवानुमोदकः, तस्यापि तावदहमजित कुलपुत्रस्य वा कुलदुहितुर्वा अनुमोदनासहगतं पुण्याभिसंस्कारमभिनिर्देक्ष्यामि। तं शृणु, साधु च सुष्ठु च मनसिकुरु। भाषिष्येऽहं ते॥
तद्यथापि नाम अजित चतुर्षु लोकधातुष्वसंख्येयशतसहस्रेषु ये सत्त्वाः सन्तः संविद्यमानाः षट्सु गतिषूपपन्नाः, अण्डजा वा जरायुजा वा संस्वेदजा वा औपपादुका वा रूपिणो वा अरूपिणो वा संज्ञिनो वा असंज्ञिनो वा नैवसंज्ञिनो वा नासंज्ञिनो वा अपदा वा द्विपदा वा चतुष्पदा वा बहुपदा वा यावदेव सत्त्वाः सत्त्वधातौ संग्रहसमवसरणं गच्छन्ति। अथ कश्चिदेव पुरुषः समुत्पद्येत पुण्यकामो हितकामस्तस्य सत्त्वकायस्य सर्वकामक्रीडारतिपरिभोगानिष्टान् कान्तान् प्रियान् मनापान् दद्यात्। एकैकस्य सत्त्वस्य जम्बुद्वीपं परिपूर्णं दद्यात् कामक्रीडारतिपरिभोगाय, हिरण्यसुवर्णरूप्यमणिमुक्तावैडूर्यशङ्खशिलाप्रवालानश्वरथगोरथहस्तिरथान् दद्यात् प्रासादान् कूटागारान्। अनेन पर्यायेण अजित स पुरुषो दानपतिर्महादानपतिः परिपूर्णान्यशीतिं वर्षाणि दानं दद्यात्। अथ खल्वजित स पुरुषो दानपतिर्महादानपतिरेवं चिन्तयेत्-इमे खलु सत्त्वाः सर्वे मया क्रीडापिता रमापिताः सुखं जिवापिताः। इमे च ते भवन्तः सत्त्वा बलिनः पलितशिरसो जीर्णवृद्धा महल्लका अशीतिवर्षिका जात्या। अभ्याशीभूताश्चैते कालक्रियायाः। यन्न्वहमेतांस्तथागतप्रवेदिते धर्मविनयेऽवतारयेयमनुशासयेयम्। अथ खल्वजित स पुरुषस्तान् सर्वसत्त्वान् समादापयेत्। समादापयित्वा च तथागतप्रवेदिते धर्मविनयेऽवतारयेद् ग्राहयेत्।
तस्य ते सत्त्वास्तं च धर्मं शृणुयुः। श्रुत्वा च एकक्षणेन एकमुहूर्तेन एकलवेन सर्वे स्रोतआपन्नाः स्युः, सकृदागामिनोऽनागामिनोऽनागामिफलं प्राप्नुयुर्यावदर्हन्तो भवेयुः, क्षीणास्रवा ध्यायिनो महाध्यायिनोऽष्टविमोक्षध्यायिनः। तत्किं मन्यसे अजित अपि नु स पुरुषो दानपतिर्महादानपतिस्ततोनिदानं बहु पुण्यं प्रसवेदप्रमेयमसंख्येयम्? एवमुक्ते मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-एवमेतत् भगवन्, एवमेतत् सुगत। अनेनैव तावद् भगवन् कारणेन स पुरुषो दानपतिर्महादानपतिर्बहु पुण्यं प्रसवेत्, यस्तावतां सत्त्वानां सर्वसुखोपधानं दद्यात्। कः पुनर्वादो यदुत्तरिअर्हत्त्वे प्रतिष्ठापयेत्॥
एवमुक्ते भगवानजितं बोधिसत्त्वं महासत्त्वमेतदवोचत्-आरोचयामि ते अजित, प्रतिवेदयामि। यश्च स दानपतिर्महादानपतिः पुरुषश्चतुर्षु लोकधातुष्वसंख्येयशतसहस्रेषु सर्वसत्त्वानां सर्वसुखोपधानैः परिपूर्य अर्हत्त्वे प्रतिष्ठाप्य पुण्यं प्रसवेत्, यश्च पञ्चाशत्तमः पुरुषः परंपराश्रवानुगतः श्रवणेन इतो धर्मपर्यायादेकामपि गाथामेकपदमपि श्रुत्वा अनुमोदेत। यच्चैतस्य पुरुषस्यानुमोदनासहगतं पुण्यक्रियावस्तु, यच्च तस्य पुरुषस्य दानपतेर्महादानपतेर्दानसहगतमर्हत्त्वं प्रतिष्ठापनासहगतपुण्यक्रियावस्तु, इदमेव ततो बहुतरम्। योऽयं पुरुषः पञ्चाशत्तमः, ततः पुरुषपरंपरात इतो धर्मपर्यायादेकामपि गाथामेकपदमपि श्रुत्वा अनुमोदेत्। अस्य अनुमोदनासहगतस्य अजित पुण्याभिसंस्कारस्य कुशलमूलाभिसंस्कारस्य अनुमोदनासहगतस्य अग्रतःअसौ पौर्विको दानसहगतश्च अर्हत्त्वप्रतिष्ठापनासहगतश्च पुण्याभिसंस्कारः शततमीमपि कलां नोपयाति, सहस्रतमीमपि शतसहस्रतमीमपि कोटीतमीमपि कोटीशततमीमपि कोटीसहस्रतमीमपि कोटीशतसहस्रतमीमपि कोटीनियुतशतसहस्रतमीमपि कलां नोपयाति। संख्यामपि कलामपि गणनामपि उपमामपि उपनिषदमपि न क्षमते। एवमप्रमेयमसंख्येयमजित सोऽपि तावत् पञ्चाशत्तमः परंपराश्रवणे पुरुष इतो धर्मपर्यायादन्तश एकगाथामपि एकपदमपि अनुमोद्य च पुण्यं प्रसवति। कः पुनर्वादोऽजित योऽयं मम संमुखमिमं धर्मपर्यायं शृणुयात्, श्रुत्वा चाभ्यनुमोदेत्, अप्रमेयतरमसंख्ययेतरं तस्याहमजित तं पुण्याभिसंस्कारं वदामि॥
यः खलु पुनरजित अस्य धर्मपर्यायस्य श्रवाणार्थं कुलपुत्रो वा कुलदुहिता वा स्वगृहान्निष्क्रम्य विहारं गच्छेत्। स च गत्त्वा तस्मिन्निमं धर्मपर्यायं मुहूर्तकमपि शृणुयात् स्थितो वा निषण्णो वा। स सत्त्वस्तन्मात्रेण पुण्याभिसंस्कारेण कृतेनोपचितेन जातिविनिवृत्तो द्वितीये समुच्छ्रये द्वितीये आत्मभावप्रतिलम्भे गोरथानां लाभी भविष्यति, अश्वरथानां हस्तिरथानां शिबिकानां गोयनानामृषभयानानां दिव्यानां च विमानानां लाभी भविष्यति। सचेत् पुनस्तत्र धर्मश्रवणे मुहूर्तमात्रमपि निषद्य इदं धर्मपर्यायं शृणुयात्, परं वा निषादयेत्, आसनसंविभागं वा कुर्यादपरस्य सत्त्वस्य, तेन स पुण्याभिसंस्कारेण लाभी भविष्यति शक्रासनानां ब्रह्मासनानां चक्रवर्तिसंहासनानाम्। सचेत् पुनरजित कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अपरं पुरुषमेवं वदेत्-आगच्छ त्वं भोः पुरुष।
सद्धर्मपुण्डरीकं नाम धर्मपर्यायं शृणुष्व। स च पुरुषस्तस्य तां प्रोत्साहनामागम्य यदि मुहूर्तमात्रमपि शृणुयात्, स सत्त्वस्तेन प्रोत्साहेन कुशलमूलेनाभिसंस्कृतेन धारणीप्रतिलब्धैर्बोधिसत्त्वैः सार्धं समवधानं प्रतिलभते। अजडश्च भवति, तीक्ष्णेन्द्रियः प्रज्ञावान्। न तस्य जातिशतसहस्रैरपि पूति मुखं भवति न दुर्गन्धि। नाप्यस्य जिह्वारोगो भवति, न मुखरोगो भवति। न च श्यामदन्तो भवति, न विषमदन्तो भवति, न पीतदन्तो भवति, न दुःसंस्थितदन्तो न खण्डदन्तो न पतितदन्तो न वक्रदन्तो न लम्बोष्ठो भवति, नाभ्यन्तरोष्ठो न प्रसारितोष्ठो न खण्डोष्ठो न वङ्कोष्ठो न कृष्णोष्ठो न बीभत्सोष्ठो भवति। न चिपीटनासो भवति, न वक्रनासो भवति। न दीर्घमुखो भवति, न वङ्कमुखो भवति, न कृष्णमुखो भवति, नाप्रियदर्शनमुखः। अपि तु खल्वजित सूक्ष्मसुजातजिह्वादन्तोष्ठो भवति आयतनासः। प्रणीतमुखमण्डलः सुभ्रूः सुपरिनिक्षिप्तललाटो भवति। सुपरिपूर्णपुरुषव्यञ्जनप्रतिलाभी च भवति। तथागतं च अववादानुशासकं प्रतिलभते। क्षिप्रं च बुद्धैर्भगवद्भिः सह समवधानं प्रतिलभते। पश्य अजित एकसत्त्वमपि नाम उत्साहयित्वा इयत् पुण्यं प्रसवति। कः पुनर्वादो यः सत्कृत्य शृणुयात्, सत्कृत्य वाचयेत्, सत्कृत्य देशयेत्, सत्कृत्य प्रकाशयेदिति॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत—
पञ्चाशिमो यश्च परंपरायां
सूत्रस्यिमस्यो शृणुतेकगाथाम्।
अनुमोदयित्वा च प्रसन्नचित्तः
शृणुष्व पुण्यं भवि यत्तकं तत्॥२॥
स चैव पुरुषो भवि दानदाता
सत्त्वान् कोटीनयुतेषु नित्यम्।
ये पूर्वमौपम्यकृता मया वै
तान् सर्वि तर्पेय अशीति वर्षान्॥३॥
सो दृष्ट्व तेषां च जरामुपस्थितां
वली च खण्डं च शिरश्च पाण्डरम्।
हाहाधिमुच्यन्ति हि सर्वसत्त्वा
यन्नून धर्मेण हु ओवदेयम्॥४॥
सो तेष धर्मं वदतीह पश्चा-
न्निर्वाणभूमिं च प्रकाशयेत।
सर्वे भवाः फेनमरीचिकल्पा
निर्विद्यथा सर्वभवेषु क्षिप्रम्॥५॥
ते सर्वसत्त्वाश्च श्रुणित्व धर्मं
तस्यैव दातुः पुरुषस्य अन्तिकात्।
अर्हन्तभूता भवि एककाले
क्षीणास्रवा अन्तिमदेहधारिणः॥६॥
पुण्यं ततो बहुतरु तस्य हि स्यत्
परंपरातः श्रुणि एकगाथाम्।
अनुमोदि वा यत्तकु तस्य पुण्यं
कल पुण्यस्कन्धः पुरिमो न भोति॥७॥
एवं बहु तस्य भवेत पुण्यं
अनन्तकं यस्य प्रमाणु नास्ति।
गाथां पि श्रुत्वैक परंपराय
किं वा पुनः संमुख यो श्रुणेया॥८॥
यश्चैकसत्त्वं पि वदेय तत्र
प्रोत्साहये गच्छ शृणुष्व धर्मम्।
सुदुर्लभं सुत्रमिदं हि भोति
कल्पान कोटीनयुतैरनेकैः॥९॥
स चापि प्रोत्साहितु तेन सत्त्वः
श्रुणेय सूत्रेम मुहूर्तकं पि।
तस्यापि धर्मस्य फलं शृणोहि
मुखरोग तस्य न कदाचि भोति॥१०॥
जिह्वापि तस्य न कदाचि दुःखति
न तस्य दन्ता पतिता भवन्ति।
श्यामाथ पीता विषमा च जातु
बीभत्सितोष्ठो न च जातु भोति॥११॥
कुटिलं च शुष्कं च न जातु दीर्घं
मुखं न चिपिटं स्य कदाचि भोति।
सुसंस्थिता नास तथा ललाटं
दन्ता च ओष्ठो मुखमण्डलं च॥१२॥
प्रियदर्शनो भोति सदा नराणां
पूर्तिं च वक्रं न कदाचि भोति।
यथोत्पलस्येह सदा सुगन्धिः
प्रवायते तस्य मुखस्य गन्धः॥१३॥
गृहाद्विहारं हि व्रजित्व धीरो
गच्छेत सूत्रं श्रवणाय एतत्।
गत्वा च सो तत्र शृणे मुहूर्तं
प्रसन्नचित्तस्य फलं शृणोथ॥१४॥
सुगौरु तस्यो भवतेत्मभावः
परियाति चो अश्वरथेहि धीरः।
हस्तीरथांश्चो अभिरुह्य उच्चान्
रतनेहि चित्राननुचंक्रमेया॥१५॥
विभूषितां सो शिबिकां लभेत
नरैरनेकैरिह वाह्यमानाम्।
गत्वापि धर्मं श्रवणाय तस्य
फलं शुभं भोति च एवरूपम्॥१६॥
निषद्य चासौ परिषाय तत्र
शुक्लेन कर्मेण कृतेन तेन।
शक्रासनानां भवते स लाभी
ब्रह्मासनानां च नृपासनानाम्॥१७॥
इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये अनुमोदनापुण्यनिर्देशपरिवर्तो नाम सप्तदशमः॥