९ आभरणपरिवर्तो नवमः
Technical Details
९ आभरणपरिवर्तो नवमः।
अथ खलु भिक्षव उदयनो नाम ब्राह्मणो राज्ञः पुरोहित उदायिनः पिता, स पञ्चमात्रैर्ब्राह्मणशतैः परिवृतो हस्तोत्तरे चित्रानक्षत्रे राजानं शुद्धोदनमुपसंक्रम्यैवमाह-यत्खलु देवो जानीयादाभरणानि कुमाराय क्रियन्तामिति। तं राजा आह-बाढम्। गाढं क्रियतामिति॥
तत्र राज्ञा शुद्धोदनेन पञ्चमात्रैश्च शक्यशतैः पञ्चमात्राण्याभरणशतानि कारितान्यभूवन्। तद्यथा-हस्ताभरणानि पादाभरणानि मूर्धाभरणानि कण्ठाभरणानि मुद्रिकाभरणानि कर्णिकायाकेयूराणि मेखलासुवर्णसूत्राणि किङ्किणीजालानि रत्नजालानि मणिप्रत्युप्तानि पादुका नानारत्नसमलंकृता हाराः कटका हर्षा मुकुटानि। कारयित्वा च पुष्यनक्षत्रयोगेनानुयुक्तेन ते शाक्या राजानं शुद्धोदनमुपसंक्रम्यैवमाहुः-हन्त देव मण्ड्यतां कुमार इति। राजा आह-अलमलंकृतश्च पूजितश्च भवद्भिः कुमारः। मयापि (कुमारस्य) सर्वाभरणानि कारितानि। तेऽवोचन्-सप्तसप्तरात्रिंदिवान्यप्यस्माकमाभरणानि कुमारः काय आबध्नातु। ततोऽस्माकममोघो व्यायामो भविष्यतीति॥
तत्र रात्रौ विनिर्गतायामादित्य उदिते विमलव्यूहनामोद्यानं तत्र बोधिसत्त्वो निर्गतोऽभूत्। तत्र महाप्रजापत्या गौतम्या बोधिसत्त्वोऽङ्के गृहीतोऽभुत्। अशीतिश्च स्त्रीसहस्राणि प्रत्युद्गम्य बोधिसत्त्वस्य वदनं प्रेक्षन्ते स्म। दश च कन्यासहस्राणि प्रत्युद्गम्य बोधिसत्त्वस्य वदनं प्रेक्षन्ते स्म। पञ्च च ब्राह्मणसहस्राणि प्रत्युद्गम्य बोधिसत्त्वस्य वदनं प्रेक्षन्ते स्म। तत्र यानि भद्रिकेण शाक्यराजेनाभरणानि कारितान्यभूवन्, तानि बोधिसत्त्वस्य काये आबध्यन्ते स्म। तानि समनन्तराबद्धानि बोधिसत्त्वस्य कायप्रभया जिह्मीकृतान्यभूवन्, न भासन्ते स्म, न तपन्ति स्म, न विरोचन्ति स्म। तद्यथापि नाम जाम्बूनदस्य सुवर्णस्य पुरतो मसिपिण्ड उपनिक्षिप्तो न भासति न तपति न विरोचते, एवमेव तान्याभरणानि बोधिसत्त्वस्य कायप्रभयास्पृष्टानि न भासन्ते न तपन्ति न विरोचन्ते स्म। एवं या या आभरणविकृतिर्बोधिसत्त्वस्य काय आबध्यते स्म, सा सा जिह्मीभवति स्म तद्यथापि नाम मसिपिण्डः॥
तत्र विमला नामोद्यानदेवता सा औदारिकमात्मभावमभिसंदर्श्य पुरतः स्थित्वा राजानं शुद्धोदनं तं च महान्तं शाक्यगणं गाथाभिरभिभाषते स्म—
सर्वेयं त्रिसहस्र मेदिनी सनगरनिगमा
पूर्णा काञ्चनसंचिता भवेत् सुरुचिर विमला।
एका काकिणि जाम्बुकाञ्चने भवति उपहता
ना भासी इतरः स काञ्चन प्रभसिरिरहितः॥१॥
जाम्बूकाञ्चनसंनिभा पुनर्भवेत् सकर इय मही
रोमे आभ प्रमुक्त नायके हिरिसिरिभरिते।
ना भासी न तपी न शोभते न च प्रभवति
आभाये सुगतस्य कायि नो भवति यथ मसिः॥२॥
स्वे तेजेन अयं स्वलंकृतो गुणशतभरितो
नो तस्याभरणा विरोचिषू सुविमलवपुषः।
चन्द्रसूर्यप्रभाश्च ज्योतिषा तथ मणिज्वलनाः
शक्रबह्मप्रभा न भासते पुरत शिरिघने॥३॥
यस्या लक्षणि कायु चित्रितः पुरिमशुभफलैः
किं तस्याभरणेभिरित्वरैः परकृतकरणैः।
अपनेथा भरणा म हेठता अबुध बुधकरं
नायं कृत्तिमभूषणार्थिक परममतिकरः॥४॥
चेटस्याभरणानि देथिमे सुरुचिर विमला
सहजातो य सुभूषि छन्दको नृपतिकुलशुभे।
तुष्टा शाकिय विस्मिताश्च अभवन्प्रमुदितमनसो
वृद्धिः शाक्यकुलनन्दस्य चोत्तमा भविष्यति विपुला॥५॥
इत्युक्त्वा सा देवता बोधिसत्त्वं दिव्यैः पुष्पैरभ्यवकीर्य तत्रैवान्तरधात्॥
॥ इति श्रीललितविस्तरे आभरणपरिवर्तो नाम नवमोऽध्यायः॥