८ देवकुलोपनयनपरिवर्तोऽष्टमः
Technical Details
८ देवकुलोपनयनपरिवर्तोऽष्टमः।
इति हि भिक्षवो यामेव रात्रिं बोधिसत्त्वो जातस्तस्यामेव रात्र्यां विंशति कन्यासहस्राणि क्षत्रियब्राह्मणनैगमगृहपतिमहाशालकुलेषु जाताः। ताश्च सर्वा मातापितृभिर्बोधिसत्त्वाय दत्ता उपस्थानपरिचर्यायै। विंशति च कन्यासहस्राणि राज्ञा शुद्धोदनेन दत्तानि बोधिसत्त्वस्योपस्थानपरिचर्यायै। विंशति च कन्यासहस्राणि मित्रामात्यात्मज्ञातिसालोहितैर्दत्तानि बोधिसत्त्वस्योपस्थानपरिचर्यायै। विंशति च कन्यासहस्राणि अमात्यपार्षद्यैर्दत्तानि बोधिसत्त्वस्योपस्थानपरिचर्यायै॥
तदा च भिक्षवो महल्लकमहल्लिकाः शाक्याः संनिपत्य राजानं शुद्धोदनमुपसंक्रम्यैवमाहुः-यत्खलु देव जानीयाः-देवकुलं कुमार उपनीयतामिति। राजा आह-साधु, उपनीयतां कुमारः। तेन हि मण्ड्यतां नगरम्। उपशोभ्यन्तां वीथिचत्वरशृङ्गाटकान्तरापणरथ्यामुखानि। अपनीयन्ताममङ्गल्याः काणकुब्जबधिरान्धमूकविसंस्थितविरूपरूपा अपरिपूर्णेन्द्रियाः। उपनाम्यन्तां मङ्गलानि। घुष्यन्तां पुण्यभेर्यः। ताड्यन्तां मङ्गल्यघण्टाः। समलंक्रियन्तां पुरवरद्वाराणि। वाद्यन्तां सुमनोज्ञतूर्यतालावचराणि। संनिपात्यन्तां सर्वकोट्टराजानः। एकीभवन्तु श्रेष्ठिगृहपत्यमात्यदौवारिकपारिषद्याः। युज्यन्तां कन्यारथाः। उपनाम्यन्तां पूर्णकुम्भाः। संनिपात्यन्तामधीयाना ब्राह्मणाः। अलंक्रियन्तां देवकुलानि। इति हि भिक्षवो यथोक्तपूर्वं सर्वं कृतमभूत्॥
ततो राजा शुद्धोदनः स्वगृहं प्रविश्य महाप्रजापतीं गौतमीमामन्त्र्यैवमाह-अलंक्रियन्तां कुमारः देवकुलमुपनेष्यत इति। साध्विति प्रतिश्रुत्य महाप्रजापती गौतमी कुमारं मण्डयति स्म॥
ततः कुमारो मण्ड्यमानः प्रहसितवदनो व्यपगतभृकुटिकः परममधुरया वाचा मातृस्वसारमेवमाह-अम्ब कुत्राहमुपनेष्यत इति। आह-देवकुलं पुत्रेति। ततः कुमारः स्मितमुपदर्शयन् प्रहसितवदनो मातृस्वसारं गाथाभिरध्यभाषत—
जातस्य मह्यमिह कम्पित त्रिसहस्रं
शक्रश्च ब्रह्म असुराश्च महोरगाश्च।
चन्द्रश्च सूर्य तथ वैश्रवणः कुमारो
मूर्ध्ना क्रमेषु निपतित्व नमस्ययन्ति॥१॥
कतमोऽन्यु देव मम उत्तरि यो विशिष्टो
यस्मिन् मम प्रणयसे त्वमिहाद्य अम्ब।
देवातिदेव अहु उत्तमु सर्वदेवैः
देवो न मेऽस्ति सदृशः कुत उत्तरं वा॥२॥
लोकानुवर्तन प्रती इति अम्ब यास्ये
दृष्त्वा विकुर्वित ममा जनता उदग्राः।
अधिमात्रु गौरव करिष्यति चित्रकारः
ज्ञास्यन्ति देवमनुजा स्वय देवदेवः॥३॥
इति हि भिक्षवः सर्वैर्वर्णैः स्तुतिमङ्गलैः प्रत्युपस्थितैरपरिमितालंकारालंकृतेषु वीथिचत्वरशृङ्गाटकान्तरापणमुखेष्वन्तःपुरे कुमारस्य रथमलंकृत्य राजा शुद्धोदनो ब्राह्मणनैगमश्रेष्ठिगृहपत्यमात्यकोट्टराजदौवारिकपारिषद्यमित्रज्ञातिपरिवृतः पुरस्कृतो धूपनधूपितेन मुक्तपुष्पाभिकीर्णेन हयगजरथपत्तिकलिलेनोच्छ्रितछत्रध्वजपताकेन नानातूर्यसंप्रवादितेन मार्गेण कुमारं गृहीत्वा गच्छति स्म। देवताशतसहस्राणि बोधिसत्त्वस्य रथं वहन्ति स्म। अनेकानि च देवपुत्राप्सरःकोटिनियुतशतसहस्राणि गगनतलगतानि पुष्पवर्षाण्यभिप्रवर्षन्ति स्म। तूर्याणि च प्रवादयन्ति स्म। इति हि राजा शुद्धोदनो महता राजव्यूहेन महता राजर्द्ध्या महता राजानुभावेन कुमारं गृहीत्वा देवकुलं प्रविशति स्म। समनन्तरप्रतिष्ठापितश्च बोधिसत्त्वेन दक्षिणश्चरणयोः क्रमतलस्तस्मिन् देवकुले अथ ता अचेतन्यो देवप्रतिमाः तद्यथा-शिवस्कन्दनारायणकुबेरचन्द्रसूर्यवैश्रवणशक्रब्रह्मलोकपालप्रभृतयः प्रतिमाः-सर्वाः स्वेभ्यः स्वेभ्यः स्थानेभ्यो व्युत्थाय बोधिसत्त्वस्य क्रमतलयोर्निपतन्ति स्म। तत्र देवमनुष्यशतसहस्राणि हीहीकारकिलकिलाप्रमुखैः प्रक्ष्वेडितशतसहस्राणि प्रामुञ्चन्। चैलविक्षेपाणि चाकार्षुः। सर्वं च कपिलवस्तुमहानगरं षङ्विकारं प्राकम्पितम्। दिव्यानि च कुसुमानि प्रावर्षन्। तूर्यशतसहस्राणि चाघट्टितानि प्रणेदुः। येषां च देवानां ताः प्रतिमाः, ते सर्वे स्वस्वरूपमुपदर्श्येमा गाथा अभाषत—
नो मेरू गिरिराज पर्वतवरो जातू नमे सर्षपे
नो वा सागर नागराजनिलयो जातू नमे गोष्पदे।
चन्द्रादित्य प्रभंकरा प्रभकरा खद्योतके नो नमे
प्रज्ञापुण्यकुलोदितो गुणधरः कस्मान्नमे देवते॥४॥
यद्वत् सर्षप गोष्पदे व सलिलं खद्योतका वा भवेत्
एवं च त्रिसहस्र देवमनुजा ये केचि मानाश्रिताः।
मेरूसागरचन्द्रसूर्यसदृशो लोके स्वयंभूत्तमो
यं लोको ह्यभिवन्द्य लाभ लभते स्वर्गं तथा निर्वृतिम्॥५॥
अस्मिन् खलु पुनर्भिक्षवो बोधिसत्त्वेन महासत्त्वेन देवकुले प्रवेशे संदर्श्यमाने द्वात्रिंशतां देवपुत्रशतसहस्राणामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पद्यन्ते। अयं भिक्षवो हेतुरयं प्रत्ययो येनोपेक्षको बोधिसत्त्वो भवति स्म देवकुलमुपनीयमान इति॥
इति श्रीललितविस्तरे देवकुलोपनयनपरिवर्तो नाम अष्टमोऽध्यायः॥