भवसङक्रान्तिसूत्रम्
Technical Details
भवसङक्रान्तिसूत्रम्
नमस्सर्वबुद्धबोधिसत्त्वेभ्यः।
१. एवं मया श्रुतम्। एकस्मिन् समये भगवान् राजगृहे विहरति स्म कलन्तकनिवासे वेणुवने महता भिक्षुसङघेन सार्धं द्विशतपचाशद्भिः भिक्षुभिः संबहुलैश्च बोधिसत्त्वमहासत्त्वैः। अथ भगवाननेकशतसहस्रपरिवारपरिवृतः पुरतोऽवलोक्य धर्मं देशयति स्म। आदौ कल्याणं मध्ये कल्याणमवसाने कल्याणं स्वर्थं सुव्यजनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं प्रकाशयति स्म॥
२. तदा मगधराजः श्रेण्यो विम्विसारः महाता राजविभवेन महता च राजबलेन राजगृहान्महानगरान्निष्क्रम्य येन वेणुवनं येन च भगवान् तेनोपसङक्रमीत्। उपसङक्रम्य भगवतः पादौ शिरसा अभिवन्द्य त्रिः प्रदक्षिणीकृत्य एकान्ते अतिष्ठत्। एकान्ते स्थित्वा मगधराजः श्रेण्यो बिम्बिसारः भगवन्तमेतदवोचत्। कथं भगवन् कृतं कर्म संचयं प्रतिरुध्य चिरनिरुद्धं मरणकाल उपस्थितं मनसोऽभिमुखीभवति। सून्येषु सर्वसंस्कारेषु कथं कर्मणामविप्रणाशोऽस्ति॥
३. एवमुक्ते भगवान् मगधराजं श्रेण्यं बिम्बिसारमेतदवोचत्। तद्यथा महाराज पुरुषः सुप्तः स्वप्ने जनपदकल्याण्या स्त्रिया सार्धं परिचरेत्। स शयितविबुद्धः जनपदकल्याणीं तां स्त्रियमनुस्मरेत्। तत्किं मन्यसे महाराज स्वप्ने सा जनपदकल्याणी स्त्री॥
४. आह! नोहीदं भगवन्॥
५. भगवानाह! तत् किं मन्यसे महाराज अपि नु स पुरुषः किं पण्डितजातीयो भवेत्। यः स्वप्ने जनपदकल्याणीं स्त्रियमभिनिविशेत्॥
६. आह! नोहीदं भगवन्! तत्कस्य हेतोः। अत्यन्ततया तु भगवन् स्वप्ने जनपदकल्याणी स्त्री न संविद्यते। नोपलभ्यते। कुतः पुनरनया [सार्धं] परिचरणा। एवं विघातस्य क्लमथस्य भागी स्यात्॥
७. भगवानाह! एवमेव महाराज बलोऽश्रुतवान् पृथग्जनश्चक्षुषा रूपाणि द्दष्ट्वा सौमनस्यस्थानीयानि रूपाण्यभिनिविशेत्। अभिनिविष्ट अनुरज्यते। अनुरक्तः संरज्यते। संरक्तो रागजं द्वेषजं मोहजं कर्म कायवाङ्मनोभिरभिसंस्करोति। तच्च कर्म अभिसंस्कृतं निरुध्यते। निरुद्धं न पूर्वां दिशं निश्रित्य तिष्ठति। न दक्षिणाम्। न पश्चिमाम्। नोत्तराम्। नोर्ध्वम्। नाधः। न विदिशं निश्रित्य तिष्ठति। तत् कर्म कदाचिन्मरण कालसमय उपस्थिते तत्सभागस्य कर्मणः क्षयात् चरमविज्ञाने निरुद्धे मनसोऽभिमुखीभवति। तद्यथापि नाम सुप्तशयितविबुद्धस्य जनपदकल्याणि स्त्री। एवम् हि महाराज चरमविज्ञानं निरुध्यते। औपपत्त्यंशिकं प्रथमविज्ञानं उत्पद्यते। यदि वा देवे। यदि वा मानुषे। यदि वासुरे। यदि वा नरकेषु। यदि वा तिर्यग्योनिषु। यदि वा प्रेतेषु।
तस्य च महाराज प्रथमविज्ञानस्य समनन्तरनिरद्धस्य तत्सभागा चित्तसंततिः प्रवर्तते। यत्र विपाकस्य प्रतिसंवेदना प्रज्ञायते। तत्र महाराज न कश्चिद्धर्मः अस्मात् लोकात्परलोकं सङ्क्रामति। च्युत्युपपत्ती च प्रज्ञायेते। तत्र महाराज यश्चरमविज्ञानस्य निरोधः। सा च्युतिरिति संज्ञा। यः प्रथमविज्ञानस्य प्रादुर्भावः। सोपपत्तिरिति। चरमविज्ञानं महाराज निरोधेऽपि न स्वचिद्गच्छति। औपपत्त्यंशिकं प्रथमविज्ञानमुत्पादेऽपि न कुतश्चिदागच्छति। तत् कस्य हेतोः। स्वभावरहितत्वात्। तत्र महाराज चरमविज्ञानं चरमविज्ञानेन शून्यम्। च्युतिश्चयुत्या शून्या। कर्म कर्मणा शून्यम्। प्रथमविज्ञानं प्रथमविज्ञानेन शून्यम्। उपपत्तिरुपपत्त्या शून्या। कर्मणामविप्रणाशश्चप्रज्ञायते। प्रथमविज्ञानस्य महाराज औपपत्त्यंशिकस्य समनन्तरनिरुद्धस्य निरन्तरा चित्तसन्ततिः प्रवर्तते। यत्र विपाकस्य प्रतिसंवेदनी प्रज्ञायते। एवं भगवानाह। सुगत एवमुक्त्वा अन्यदेवमवोचत् शास्ता॥
८. सर्वमेतन्नाममात्रं संज्ञामात्रे प्रतिष्ठितम्।
अभिधानात्पृथक्भूतमभिधेयं न विद्यते॥
९.येन येन हि नाम्ना वै यो यो धर्मोऽभिलप्यते।
नासौ संविद्यते तत्र धर्माणां सा हि धर्मता॥
१०. नाम्ना हि नामता शून्या नाम्ना नाम न विद्यते।
अनामकाः सर्वधर्मा नाम्न तु परिदीपिताः॥
११. इमे धर्मा असन्तश्च कल्पनायाः समुद्धिताः।
साप्यत्र कल्पना शून्या यया शून्या विकल्पिताः॥
१२. चक्षूरूपं पश्यतीति सम्यग्द्रष्ट्रा यदुच्यते।
मिथ्याश्रद्धस्थ लोकस्य तत्सत्यं संवृतीरितम्॥
१३. सामग्रया दर्शनं यत्र प्रकाशयति नायकः।
प्राहोपचारभूमिं तां परमार्थस्य बुद्धिमान्॥
१४. न चक्षूः प्रेक्षते रूपं मनो धर्मान्न वेत्ति च।
एतत्तु परमं सत्यं यत्र लोको न गाहते॥
१५. एवमवोचद्भगवान्। मगधदेशराजः श्रेण्यः बिम्बिसारः ते बोधिसत्त्वास्ते च भिक्षवः सदेवमानुषासुरगन्धर्वश्च लोको मुदित्वा भगवतो भाषितमभ्यनन्दन्॥
आर्यभवसङ्क्रान्तिर्नाम महायानसूत्रं संपूर्णम्।