४ अर्चिष्मती नाम चतुर्थी भूमिः
Technical Details
४ अर्चिष्मती नाम चतुर्थी भूमिः।
वज्रगर्भ आह - योऽयं भवन्तो जिनपुत्रा बोधिसत्त्वस्तृतीयायां बोधिसत्त्वभूमौ सुपरिशुद्धालोकश्चतुर्थी बोधिसत्त्वभूमिमाक्रमति, स दशभिर्धर्मालोकप्रवेशैराक्रमति। कतमैर्दशभिः? यदुत सत्त्वधातुविचारणालोकप्रवेशेन च लोकधातुविचरणालोकप्रवेशेन च धर्मधातुविचारणालोकप्रवेशेन आकाशधातुविचारणालोकप्रवेशेन च विज्ञानधातुविचारणा लोकप्रवेशेन च कामधातुविचरणालोकप्रवेशेन च रूपधातुविचरणालोकप्रवेशेन च आरूप्यधातुविचरणालोकप्रवेशेन उदाराशयाधिमुक्तिधातुविचरणालोकप्रवेशेन च माहात्म्याशयाधिमुक्तिधातुविचरणालोकप्रवेशेन। एभिर्दशभिर्धर्मालोकप्रवेशैराक्रमति॥
तत्र भवन्तो जिनपुत्रा अर्चिष्मत्या बोधिसत्त्वभूमेः सहप्रतिलम्भेन बोधिसत्त्वः संवृत्तो भवति तथागतकुले तदात्मकधर्मप्रतिलम्भाय दशभिर्ज्ञानपरिपाचकैर्धर्मैः। कतमैर्दशभिः? यदुत अप्रत्युदावर्त्याशयतया च त्रिरत्नाभेद्यप्रसादनिष्ठागमनतया च संस्कारोदयव्ययविभावनतया च स्वभावानुत्पत्त्याशयतया च लोकप्रवृत्तिनिवृत्त्याशयतया च कर्मभवोपपत्त्याशयतया च संसारनिर्वाणाशयतया च सत्त्वक्षेत्रकर्माशयतया च पूर्वान्तापरान्ताशयतया अभावक्षयाशयतया च। एभिर्भवन्तो जिनपुत्रा दशभिर्ज्ञानपरिपाचकैर्धर्मैः समन्वागतो बोधिसत्त्वः संवृत्तो भवति तथागतकुले तदात्मकधर्मप्रतिलम्भाय। स खलु पुनर्भवन्तो जिनपुत्रा बोधिसत्त्वोऽस्यामर्चिष्मत्यां बोधिसत्त्वभूमौ प्रतिष्ठितोऽध्यात्मं काये कायानुदर्शी विहरति आतापी संप्रजानन् स्मृतिमान् विनीय लोकेऽभिध्यादौर्मनस्ये बहिर्धा काये...अध्यात्मं बहिर्धा काये। एवमेवाध्यात्मं वेदनासु बहिर्धा वेदनासु अध्यात्मं बहिर्धा वेदनासु। एवमध्यात्मं चित्ते बहिर्धा चित्तेऽध्यात्मं चित्ते। अध्यात्मं धर्मेषु धर्मानुदर्शी...बहिर्धा धर्मेषु धर्मानुदर्शी...एवमध्यात्मं बहिर्धा धर्मेषु...। सोऽनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय च्छन्दं जनयति व्यायच्छते वीर्यमारभते चित्तं प्रगृह्णाति सम्यक्प्रणिदधाति। उत्पन्नानां पापकानामकुशलानां धर्माणां प्रहाणाय...। अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय...। उत्पन्नानां कुशलानां धर्माणां स्थितयेऽसंप्रमोषाय वैपुल्याय भूयोभावाय भावनाय परिपूरये...। छन्दसमाधिप्रहाणसंस्कारसमन्वागतं ऋद्धिपादं भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिणतं वीर्यपरिणतं चित्तपरिणतं मीमांसापरिणतम्। स श्रद्धेन्द्रियं भावयति विवेकनिश्रितं...वीर्येन्द्रियं...स्मृतीन्द्रियं...समाधीन्द्रियं...प्रज्ञेन्द्रियं...स। श्रद्धाबलं भावयति...वीर्यबलं...स्मृतिबलं...समाधिबलं...प्रज्ञाबलं...। स्मृतिसंबोध्यङ्गं भावयति धर्मप्रविचय...वीर्य...प्रीति...प्रस्रब्धि...समाधि...उपेक्षा...। सम्यक्दृष्टिं भावयति...सम्यक्संकल्पं...सम्यग्वाचं...सम्यक्कर्मान्तं...सम्यगाजीवं...सम्यग्व्यायामं...सम्यक्स्मृतिं...सम्यक्समाधिं...॥
तच्च सर्वसत्त्वसापेक्षतया च पूर्वप्रणिधानाभिनिर्हारोपस्तब्धतया च महाकरुणापूर्वंगमतया च महामैत्र्युपेततया च सर्वज्ञज्ञानाध्यालम्बनतया च बुद्धक्षेत्रविठपनालंकाराभिनिर्हारतया च तथागतबलवैशारद्यावेणिकबुद्धधर्मलक्षणानुव्यञ्जनस्वरघोषसंपदभिनिर्हारतया च उत्तरोत्तरवैशेषिकधर्मपरिमार्गणतया च गम्भीरबुद्धधर्मविमोक्षश्रवणानुगमनतया च महोपायकौशल्यबलविचारणतया च। तस्य खलु पुनर्भवन्तो जिनपुत्रा बोधिसत्त्वस्य अस्यामर्चिष्मत्यां बोधिसत्त्वभूमौ स्थितस्य यानीमानि सत्कायदृष्टिपूर्वंगमानि आत्मसत्त्वजीवपोषपुद्गलस्कन्धधात्वायतनाभिनिवेशसमुच्छ्रितानि उन्मिञ्जितानि निमिञ्जितानि विचिन्तितानि वितर्कितानि केलायितानि ममायितानि धनायितानि निकेतस्थानानि, तानि सर्वाणि विगतानि भवन्ति स्म। स यानीमानि कर्माण्यकरणीयानि सम्यक्संबुद्धविवर्णितानि संक्लेशोपसंहितानि, तानि सर्वेण सर्वं प्रजहाति। यानि चेमानि कर्माणि करणीयानि सम्यक्संबुद्धप्रशस्तानि बोधिमार्गसंभारानुकूलानि, तानि समादाय वर्तते। स भूयस्या मात्रया यथा यथोपायप्रज्ञाभिनिर्हृतानि मार्गसमुदागमाय मार्गाङ्गानि भावयति, तथा तथा स्निग्धचित्तश्च भवति, मदुचित्तश्च कर्मण्यचित्तश्च हितसुखावहचित्तश्च अपरिक्लिष्टचित्तश्च उत्तरोत्तरविशेषपरिमार्गणचित्तश्च ज्ञानविशेषणाभिलाषचित्तश्च सर्वजगत्परित्राणचित्तश्च गुरुगौरवानुकूलचित्तश्च यथाश्रुतधर्मप्रतिपत्तिचित्तश्च भवति। स कृतज्ञश्च भवति, कृतवेदी च सूरतश्च सुखसंवासश्च ऋजुश्च मृदुश्च अगहनचारी च निर्मायनिर्माणश्च सुवचाश्च प्रदक्षिणग्राही च भवति। स एवं क्षमोपेत एवं दमोपेत एवं शमोपेत एवं क्षमदमशमोपेत उत्तराणि भूमिपरिशोधकानि मार्गाङ्गानि मनसि कुर्वाणः समुदाचरन् अप्रस्रब्धवीर्यश्च भवति अपरिक्लिष्टः। अप्रत्युदावर्त्यवीर्यश्च विपुलवीर्यश्च अनन्तवीर्यश्च उत्तप्तवीर्यश्च असमवीर्यश्च असंहार्यवीर्यश्च सर्वसत्त्वपरिपाचनवीर्यश्च नयानयविभक्तवीर्यश्च भवति। तस्य भूयस्या मात्रया आशयधातुश्च विशुद्ध्यति, अध्याशयधातुश्च न विप्रवसति, अधिमुक्तिधातुश्चोत्तप्यते, कुशलमूलविवृद्धिश्चोपजायते, लोकमलकषायता चापगच्छति, सर्वसंशयविमतिसंदेहाश्चास्योच्छिद्यन्ते, निष्काङ्क्षाभिमुखता च परिपूर्यते, प्रीतिप्रसब्धी च समुदागच्छति, तथागताधिष्ठानं चाभिमुखीभवति, अप्रमाणचित्ताशयता च समुदागच्छाति॥
तस्य अस्यामर्चिष्मत्यां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य...पेयालं...। भूयस्त्वेन च तेषां तथागतानां शासने प्रव्रजति। तस्य भूयस्या मात्रया आशयाध्याशयाधिमुक्तिसमता विशुध्यति। तस्य अस्यामर्चिष्मत्यां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य...आशयाध्याशयाधिमुक्तिसमताविशुद्धिस्तिष्ठति, तानि चास्य कुशलमूलानि सूत्तप्तानि प्रभास्वरतराणि च भवन्ति। तद्यथापि नाम भवन्तो जिनपुत्रास्तदेव जातरूपं कुशलेन कर्मारेणाभरणीकृतमसंहार्यं भवति तदन्यैरकृताभरणैर्जातरूपैः, एवमेव भवन्तो जिनपुत्रा बोधिसत्त्वस्य अस्यामर्चिष्मत्यां बोधिसत्त्वभूमौ स्थितस्य तानि कुशलमूलान्यसंहार्याणि भवन्ति तदन्येषामधरभूमिस्थितानां बोधिसत्त्वानां कुशलमूलैः। तद्यथापि नाम भवन्तो जिनपुत्रा मणिरत्नं जातप्रभं परिशुद्धरश्मिमण्डलमालोकप्रमुक्तमसंहार्यं भवति तदन्यैरपि शुद्धप्रभै रत्नजातैः, अनाच्छेद्यप्रभं च भवति सर्वमारुतोदकप्रवर्षैः, एवमेव भवन्तो जिनपुत्रा बोधिसत्त्वोऽस्यामर्चिष्मत्यां बोधिसत्त्वभूमौ स्थितः सन्नसंहार्यो भवति तदन्यैरधरभूमिस्थितैर्बोधिसत्त्वैः, अनाच्छेद्यज्ञानश्च भवति सर्वमारक्लेशसमुदाचारैः। तस्य चतुर्भ्यः संग्रहवस्तुभ्यः समानार्थता अतिरिक्ततमा भवति। दशभ्यः पारमिताभ्यो वीर्यपारमिता अतिरिक्ततमा भवति, न च परिशेषासु न समुदागच्छति यथाबलं यथाभजमानम्। इयं भवन्तो जिनपुत्रा बोधिसत्त्वस्यार्चिष्मती नाम चतुर्थी भूमिः समासनिर्देशतः, यस्यां प्रतिष्ठितो बोधिसत्त्वो भूयस्त्वेन सुयामो भवति देवराजः कृती प्रभुः सत्त्वानां सत्कायदृष्टिसमुद्धाताय कुशलः सत्त्वान् सम्यग्दर्शने प्रतिष्ठापयितुम्। यच्च किंचित्........॥
अर्चिष्मती नाम चतुर्थी भूमिः॥