२ विमला नाम द्वितीया भूमिः
Technical Details
२ विमला नाम द्वितीया भूमिः।
वज्रगर्भो बोधिसत्त्व आह–योऽयं भवन्तो जिनपुत्रा बोधिसत्त्वः प्रथमायां बोधिसत्त्वभूमौ सुपरिकर्मकृतो द्वितीयां बोधिसत्त्वभूमिमभिलषति, तस्य दश चित्ताशयाः प्रवर्तन्ते। कतमे दश? यदुत ऋज्वाशयता च मृद्वाशयता च कर्मण्याशयता च दमाशयता च शमाशयता च कल्याणाशयता च असंसृष्टाशयता च अनपेक्षाशयता च उदाराशयता च माहात्म्याशयता च। इमे दश चित्ताशयाः प्रवर्तन्ते। ततो द्वितीयायां बोधिसत्त्वभूमौ विमलायां प्रतिष्ठितो भवति॥
तत्र भवन्तो जिनपुत्रा विमलायां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्वः प्रकृत्यैव दशभिः कुशलैः कर्मपथैः समन्वागतो भवति। कतमैर्दशभिः? यदुत प्राणातिपातात्प्रतिविरतो भवति। निहतदण्डो निहतशस्त्रो निहतवैरो लज्जावान् दयापन्नः सर्वप्राणिभूतेषु हितसुखानुकम्पी मैत्रचित्तः। स संकल्पैरपि प्राणिविहिंसां न करोति, कः पुनर्वादः परसत्त्वेषु सत्त्वसंज्ञिनः संचिन्त्यौदारिककायविहेठनया॥
अदत्तादानात्प्रतिविरतः खलु पुनर्भवति स्वभोगसंतुष्टः परभोगानभिलाषी अनुकम्पकः। स परपरिगृहीतेभ्यो वस्तुभ्यः परपरिगृहीतसंज्ञी स्तेयचित्तमुपस्थाप्य अन्तशस्तृणपर्णमपि नादत्तमादाता भवति, कः पुनर्वादोऽन्येभ्यो जीवितोपकरणेभ्यः॥
काममिथ्याचारात्प्रतिविरतः खलु पुनर्भवति स्वदारसंतुष्टः परदारानभिलाषी। स परपरिगृहीतासु स्त्रीषु परभार्यासु गोत्रध्वजधर्मरक्षितासु अभिध्यामपि नोत्पादयति, कः पुनर्वादो द्वीन्द्रियसमापत्या वा अनङ्गविज्ञप्त्या वा॥
अनृतवचनात्प्रतिविरतः खलु पुनर्भवति सत्यवादी भूतवादी कालवादी, यथावादी तथाकारी। सोऽन्तशः स्वप्नान्तरगतोऽपि विनिधाय दृष्टिं क्षान्तिं रुचिं मतिं प्रेक्षां विसंवादनाभिप्रायो नानृतां वाचं निश्चारयति, कः पुनर्वादः समन्वाहृत्य। पिशुनवचनात्प्रतिविरतः खलु पुनर्भवति अभेदाविहेठाप्रतिपन्नः सत्त्वानाम्। स नेतः श्रुत्वा अमुत्राख्याता भवत्यमीषां भेदाय। न अमुतः श्रुत्वा इहाख्याता भवत्येषां भेदाय। न संहितान् भिनत्ति, न भिन्नानामनुप्रदानं करोति। न व्यग्रारामो भवति न व्यग्ररतो न व्यग्रकरणीं वाचं भाषते सद्भूतामसद्भूतां वा॥
परुषवचनात्प्रतिविरतः खलु पुनर्भवति। स येयं वागदेशा कर्कशा परकटुका पराभिसंजननी अन्वक्षान्वक्षप्राग्भारा ग्राम्या पार्थग्जनकी अनेला अकर्णसुखा क्रोधरोषनिश्चारिता हृदयपरिदहनी मनःसंतापकरी अप्रिया अमनआपा अमनोज्ञा स्वसंतानपरसंतानविनाशिनी। तथारूपां वाचं प्रहाय येयं वाक् स्निग्धा मृद्वी मनोज्ञा मधुरा प्रियकरणी मनआपकरणी हितकरणी नेला कर्णसुखा हृदयंगमा प्रेमणीया पौरी वर्णविस्पष्टा विज्ञेया श्रवणीया निश्रिता बहुजनेष्टा बहुजनकान्ता बहुजनप्रिया बहुजनमनआपा विज्ञापन्ना सर्वसत्त्वहितसुखावहा समाहिता मनउत्प्लावनकरी मनःप्रह्लादनकरी स्वसंतानपरसंतानप्रसादनकरी तथारूपां वाचं निश्चारयति॥
संभिन्नप्रलापात्प्रतिविरतः खलु पुनर्भवति सुपरिहार्यवचनः कालवादी भूतवादी अर्थवादी धर्मवादी न्यायवादी विनयवादी। स निदानवतीं वाचं भाषते कालेन सावदानम्। स चान्तश इतिहासपूर्वकमपि वचनं परिहार्य परिहरति, कः पुनर्वादो वाग्विक्षेपेण॥
अनभिध्यालुः खलु पुनर्भवति परस्वेषु परकामेषु परभोगेषु परवित्तोपकरणेषु। परपरिगृहीतेषु स्पृहामपि नोत्पादयति, किमिति यत्परेषां तन्नाम स्यादिति नाभिध्यामुत्पादयति, न प्रार्थयते न प्रणिदधाति, न लोभचित्तमुत्पादयति॥
अव्यापन्नचित्तः खलु पुनर्भवति। सर्वसत्त्वेषु मैत्रचित्तो हितचित्तो दयाचित्तः सुखचित्तः स्निग्धचित्तः सर्वजगदनुग्रहचित्तः सर्वभूतहितानुकम्पाचित्तः। स यानीमानि क्रोधोपनाहखिलमलव्यापादपरिदाहसंधुक्षितप्रतिघाद्यानि तानि प्रहाय यानीमानि हितोपसंहितानि मैत्र्युपसंहितानि सर्वसत्त्वहितसुखाय वितर्कितविचारितानि, तान्यनुवितर्कयिता भवति॥
सम्यग्दृष्टिः खलु पुनर्भवति सम्यक्पथगतः कौतुकमङ्गलनानाप्रकारकुशीलदृष्टिविगतऋजुदृष्टिरशठोऽमायावी बुद्धधर्मसंघनियताशयः। स इमान् दश कुशलान् कर्मपथान् सततसमितमनुरक्षन् एवं चित्ताशयमभिनिर्हरति - या काचित्सत्त्वानामपायदुर्गतिविनिपातप्रज्ञप्तिः सर्वा सा एषां दशानामकुशलानां कर्मपथानां समादानहेतोः। हन्त अहमात्मनैव सम्यक्प्रतिपत्तिस्थितः परान् सम्यक्प्रतिपत्तौ स्थापयिष्यामि। तत्कस्य हेतोः? अस्थानमेतदनवकाशो यदात्मा विप्रतिपत्तिस्थितः परान् सम्यक्प्रतिपत्तौ स्थापयेत्, नैतस्थानं विद्यत इति। स एवं प्रविचिनोति - एषां दशानां अकुशलानां कर्मपथानां समादानहेतोर्निरयतिर्यग्योनियमलोकगतयः प्रज्ञायन्ते। पुनः कुशलानां कर्मपथानां समादानहेतोर्मनुष्योपपत्तिमादिं कृत्वा यावद्भवाग्रमित्युपपत्तयः प्रज्ञायन्ते। तत उत्तंर त एव दश कुशलाः कर्मपथां प्रज्ञाकारेण परिभाव्यमानाः प्रादेशिकचित्ततया त्रैधातुकोत्त्रस्तमानसतया महाकरुणाविकलतया परतः श्रवणानुगमेन घोषानुगमेन च श्रावकयानं संवर्तयन्ति। तत उत्तरतरं परिशोधिता अपरप्रणेयतया स्वयंभूत्वानुकूलतया स्वयमभिसंबोधनतया परतोऽपरिमार्गणतया महाकरुणोपायविकलतया गम्भीरेदंप्रत्ययानुबोधनेन प्रत्येकबुद्धयानं संवर्तयति। तत उत्तरतरं परिशोधिताविपुलाप्रमाणतया महाकरुणोपेततया उपायकौशलसंगृहीततया संबद्धमहाप्रणिधानतया सर्वसत्त्वापरित्यागतया बुद्धज्ञानविपुलध्यालम्बनतया बोधिसत्त्वभूमिपरिशुद्ध्यै पारमितापरिशुद्ध्यै चर्याविपुलत्वाय संवर्तन्ते। तत उत्तरतरं परिशोधिताः सर्वाकारपरिशोधितत्वाद्यावद्दशबलबलत्वाय सर्वबुद्धधर्माः समुदागमाय संवर्तन्ते। तस्मात् तर्ह्यस्माभिः समाभिनिर्हारे सर्वाकारपरिशोधनाभिनिर्हार एव योगः करणीयः॥
स भूयस्या मात्रया एवं प्रतिसंशिक्षते - इमे खलु पुनर्दशाकुशलाः कर्मपथा अधिमात्रत्वादासेविता भाविता बहुलीकृता निरयहेतुर्मध्यत्वात् तिर्यग्योनिहेतुर्मृदुत्वाद्यमलोकहेतुः। तत्र प्राणातिपातो निरयमुपनयति तिर्यग्योनिमुपनयति, यमलोकमुपनयति। अथ चेत्पुनर्मनुष्येषु उपपद्यते, द्वौ विपाकावभिनिर्वर्तयति अल्पायुष्कतां च बहुग्लान्यतां च। अदत्तादनं...पेयालं...परीत्तभोगतां च साधारणभोगतां च। काममिथ्याचारो...अनाजानेयपरिवारतां च ससपत्नदारतां च। मृषावादो...अभ्याख्यानबहुलतां च परैर्विसंवादनतां च। पैशुन्यं...भिन्नपरिवारतां च हीनपरिवारतां च। पारुष्यं...अमनापश्रवणतां च कलहवचनतां च। संभिन्नप्रलापो...अनादेयवचनतां च अनिश्चितप्रतिभानतां च। अभिध्या...असंतुष्टितां च महेच्छतां च। व्यापादो...अहितैषितां च परोत्पीडनतां च। मित्यादृष्टिः...कुदृष्टिपतितश्च भवति शठश्च मायावी। एवं खलु महतोऽपरिमाणस्य दुःखस्कन्धस्य इमे दशाकुशलाः कर्मपथाः समुदागमाय संवर्तन्ते। हन्त वयं इमान् दशाकुशलान् कर्मपथान् विवर्ज्य धर्मारामरतिरता विहराम। स इमान् दशाकुशलान् कर्मपथान् प्रहाय दशकुशलकर्मपथप्रतिष्ठितः परांस्तेष्वेव प्रतिष्ठापयति। स भूयस्या मात्रया सर्वसत्त्वानामन्तिके हितचित्ततामुत्पादयति। सुखचित्ततां मैत्रचित्ततां कृपाचित्ततां दयाचित्ततामनुग्रहचित्ततामारक्षाचित्ततां समचित्ततामचार्यचित्ततां शास्तृचित्ततामुत्पादयति। तस्यैवं भवति - कुदृष्टिपतिता बतेमे सत्त्वा विषममतयो विषमाशया उत्पथगहनचारिणः। तेऽस्माभिर्भूतपथसम्यग्दृष्टिमार्गयाथातथ्ये प्रतिष्ठापयितव्याः। भिन्नविगृहीतचित्तविवादोपपन्ना बतेमे सत्त्वाः सततसमितं क्रोधोपनाहसंधुक्षिताः। तेऽस्माभिरनुत्तरे महामैत्र्युपसंहारे प्रतिष्ठापयितव्याः। अतृप्ता बतेमे सत्त्वाः परवित्ताभिलाषिणो विषमाजीवानुचरिताः। तेऽस्माभिः परिशुद्धकायवाङ्मनस्कर्मान्ताजीविकायां प्रतिष्ठापयितव्याः। रागद्वेषमोहत्रिनिदानानुगता बतेमे सत्त्वा विविधक्लेशाग्निज्वालाभिःसततसमितं प्रदीप्ताः। न च ततोऽत्यन्तनिःसरणोपायं परिमार्गयन्ति। तेऽस्माभिः सर्वक्लेशप्रशमे निरुपद्रवे निर्वाणे प्रतिष्ठापयितव्याः। महामोहतमस्तिमिरपटलाविद्यान्धकारावृता बतेमे सत्त्वा महान्धकारगहनानुप्रविष्टाः प्रज्ञालोकसुदूरीभूता महान्धकारप्रस्कन्नाः कुदृष्टिकान्तारसमवसृताः। तेषामस्माभिरनावरणं प्रज्ञाचक्षुर्विशोधयितव्यं यथा सर्वधर्मयाथातथ्यापरप्रणयतां प्रतिलप्स्यन्ते। महासंसाराटवीकान्तारमार्गप्रपन्ना बतेमे सत्त्वा अयोगक्षेमिणोऽनाश्वासप्राप्ता महाप्रपातपतिता निरयतिर्यग्योनियमलोकगतिप्रपाताभिमुखाः कुदृष्टिविषमजालानुपर्यवनद्धा मोहगहनसंछन्ना मिथ्यामार्गविपथप्रयाता जात्यन्धीभूताः परिणायकविकला अनिःसरणे निःसरणसंज्ञिनो नमुचिपाशबद्धा विषयतस्करोपगृहीताः कुशलपरिणायकविरहिता माराशयगहनानुप्रविष्टा बुद्धाशयदूरीभूताः। तेऽस्माभिरेवंविधात् संसाराटवीकान्तारदुर्गादुत्तारयितव्या अभयपुरे च सर्वज्ञतानगरे निरुपद्रवे निरुपतापे प्रतिष्ठापयितव्याः। महौघोर्म्यामथैर्निमग्ना बतेमे सत्त्वाः कामभवाविद्यादृष्ट्योघसमवसृष्टाः संसारस्रोतोनुवाहिनस्तृष्णानदीप्रपन्ना महावेगग्रस्ता अविलोकनसमर्थाः कामव्यापादविहिंसावितर्कप्रतानानुचरिताः सत्कायदृष्ट्युदकराक्षसगृहीताः कामगहनावर्तानुप्रविष्टा नन्दीरागमध्यसंछन्ना अस्मिमानस्थलोत्सन्ना दौःशील्यविषमाचारान्तःपुटीभूताः षडायतनग्रामभयतीरमनुच्चलिताः कुशलसंतारकविरहिता अनाथा अपरायणा अशरणाः।
तेऽस्माभिर्महाकरुणाकुशलमूलबलेनोद्धृत्य निरुपद्रवेऽरजसि क्षेमे शिवेऽभये सर्वभयत्रासापगते सर्वज्ञतारत्नद्वीपे प्रतिष्ठापयितव्याः। रुद्धा बतेमे सत्त्वा बहुदुःखदौर्मनस्योपायासबहुलेऽनुनयप्रतिघप्रियाप्रियविनिबन्धने सशोकपरिदेवानुचरिते तृष्णानिगडबन्धने मायाशाठ्याविद्यागहनसंछन्ने त्रैधातुकचारके। तेऽस्माभिः सर्वत्रैधातुकविवेके सर्वदुःखोपशमेऽनावरणनिर्वाणे प्रतिष्ठापयितव्याः। आत्मात्मीयाभिनिविष्टा बतेमे सत्त्वाः स्कन्धालयानुच्चलिताश्चतुर्विपर्यासानुप्रयाताः षडायतनशून्यग्रामसंनिश्रिताश्चतुर्महाभूतोरगाभिद्रुताः स्कन्धवधकतस्कराभिघातिता अपरिमाणदुःखप्रतिसंवेदिनः। तेऽस्माभिः परमसुखे सर्वनिकेतविगमे प्रतिष्ठापयितव्या यदुत सर्वावरणप्रहाणनिर्वाणे। हीनलीनदीनाधिमुक्ता बतेमे सत्त्वा अग्र्यसर्वज्ञज्ञानचित्तविकलाः सति निःसरणे महायाने श्रावकप्रत्येकबुद्धयानावतीर्णमतयः। तेऽस्माभिरुदारबुद्धधर्ममतिविपुलाध्यालम्बेन सर्वज्ञज्ञानलोचनतया अनुत्तरे महायाने प्रतिष्ठापयितव्याः॥
इति हि भवन्तो जिनपुत्रा एवं शीलबलाधानानुगतस्य बोधिसत्त्वस्य कृपाकरुणामैत्र्यभिनिर्हारकुशलस्य सर्वसत्त्वानवधीष्टकल्याणमित्रस्यापरित्यक्तसर्वसत्त्वस्य क्रियाक्रियाभिनिर्हारकुशलस्य विमलायां बोधिसत्त्वभूमौ प्रतिष्ठितस्य बहवो बुद्धा आभासभागच्छान्ति...औदारिक...पेयालं...परिणामयति। तांश्च तथागतानर्हतः सम्यक्संबुद्धान् पर्युपासते, तेषां च सकाशेभ्यो गौरवेणेमानेव दश कुशलान् कर्मपथान् प्रतिगृह्णाति, यथाप्रतिगृहीतांश्च नान्तरा प्रणाशयति। सोऽनेकान् कल्पाननेकानि कल्पशतानि अनेकानि कल्पसहस्राणि अनेकानि कल्पशतसहस्राणि अनेकानि कल्पनियुतशतसहस्रानि अनेककल्पकोटीरनेकानिकल्पकोटिशतानि अनेकानि कल्पकोटिशतसहस्रानि अनेकानि कल्पकोटिनियुतशतसहस्राणि मात्सर्यदौःशील्यमलापनीततया त्यागशीलविशुद्धौ समुदागच्छति। तद्यथापि नाम भवन्तो जिनपुत्रास्तदेव जातरूपं कासीसप्रक्षिप्तं भूयस्या मात्रया सर्वमलापगतं भवति, एवमेव भवन्तो जिनपुत्रास्तदेव जातरूपं कासीसप्रक्षिप्तं भूयस्या मात्रया सर्वमलापगतं भवति, एवमेव भवन्तो जिनपुत्रा बोधिसत्त्वोऽस्यां विमलायां बोधिसत्त्वभूमौ स्थितोऽनेकान् कल्पान् यावदनेकानि कल्पकोटिनियुतशतसहस्राणि मात्सर्यदौःशील्यमलापनीततया त्यागशीलविशुद्वौ समुदागच्छति। तस्य चतुर्भ्यः संग्रहवस्तुभ्यः प्रियवद्यता अतिरिक्ततमा भवति। दशभ्यः पारमिताभ्यः शीलपारमिता अतिरिक्ततमा भवति। न च परिशेषासु न समुदागच्छति यथाबलं यथाभजमानम्॥
इयं भवन्तो जिनपुत्रा बोधिसत्त्वस्य विमला नाम द्वितीया बोधिसत्त्वभूमिः समासनिर्देशतः, यस्यां प्रतिष्ठितो बोधिसत्त्वो भूयस्त्वेन राजा भवति चक्रवर्ती चतुर्द्वीपाधिपतिधर्माधिपत्यप्रतिलब्धः सप्तरत्नसमन्वागतः कृती प्रभुः सत्त्वानां दौःशील्यमलविनिवर्तनाय कुशलः सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयितुम्। यच्च किंचित् कर्मारभते...पेयालम्॥
विमला नाम द्वितीया भूमिः॥