२०. फलश्रुतिः
Technical Details
२०. फलश्रुतिः
अथ भूयः स राजेन्द्रो भूपोऽशोकः कृतांजलिः।
उपगुप्तं तमर्हन्तं नत्वालोक्येदमब्रवीत्॥
भदन्त लोकनाथोऽसौ यदावलोकितेश्वरः।
इति नाम्ना प्रसिद्धोऽभूत्तत्केन समुपादिश॥
२८२
इति संप्रार्थिते राज्ञा यतिः सोऽर्हन्महामतिः।
अशोकं तं महाराजं समालोक्यैवमादिशत्॥
शृणु राजन् महाभाग यथा मे गुरुणोदितम्।
तथाहं ते प्रवक्ष्यामि श्रुत्वानुबोधितो भव॥
षड्गतिसम्भवा लोकास्त्रैधातुभुवनाश्रिताः।
तेषां ये दुःखिता दुष्टाः क्लेशाग्निपरितापिताः॥
तान् सर्वान् स जगन्नाथः कृपादृष्ट्यावलोकयत्।
तेनावलोकितेशाख्यः प्रसिद्धस्त्रिजगत्स्वपि॥
ये ये सत्त्वा जगद्भर्त्रा कृपादृष्ट्यावलोकिताः।
ते ते सर्वे विकल्माषा भवेयुर्विमलाशयाः॥
येऽप्यस्य त्रिजगच्छास्तुः शृणुयुर्नाम् सादरम्।
विमुक्तपातकास्ते स्युर्निःक्लेशा विमलेन्द्रियाः॥
दुःखाग्नौ पतितो योऽपि स्मृत्वा लोकेश्वरं भजेत्।
तदा तं स महासत्त्वः कृपादृष्ट्यावलोकयन्॥
तदा स सहसा तस्माद्दुःखाग्नेः परिमुक्तितः।
शुद्धेन्द्रियो विशुद्धात्मा भवेत् संबोधिमानसः॥
यो नद्या प्रोह्यमाणोऽपि क्रन्देल्लोकेश्वरं स्मरन्।
तदा स बोधिसत्त्वस्तं कृपादृष्ट्यावलोकयेत्॥
तदा दद्यान्नदी तस्य गाधं सन्तरणार्थिनः।
ततः स सहसोत्तीर्य स्मृत्वा धर्मरतो भवेत्॥
यदा च वणिजः सार्था नौकारुढा महाम्बुधौ।
रत्नार्थिनो महोत्साहैः संक्रमेयुर्यथाक्रमम्॥
तत्र नौः कालिकावातैः प्रेर्यमाणाम् विलोलिता।
तरसा राक्षसीद्वीपसमीपं समुपाचरेत्॥
तदा तेषां महाधीरः स्मृत्वा लोकेश्वरं नमेत्।
लोकेशस्तान्स्तदा सर्वान् कृपादृष्ट्यावलोकयन्॥
ततस्ताः कालिका वाता न चरेयुः प्रसादिताः।
ततो नौ सवणिक्सार्था स्वस्ति रत्नाकरं व्रजेत्॥
२८३
तत्र ते वणिजः सर्वे लब्धरत्नाः प्रमोदिताः।
स्वस्ति प्रत्यागताः स्वस्ति समियुः स्वपुरं लघु॥
यदि दैवाद्विपत्तिः स्यात् सर्वतीर्थजलाश्रये।
मृतास्ते शोषितात्मानः संप्रयायुः सुखावतीम्॥
यश्च दुष्टो वधात् सृष्टो गृहीतो वध्यघातकैः।
भीतो लोकेश्वरं स्मृत्वा ध्यात्वा नामाप्युदाहरेत्॥
तदा लोशेश्वरस्तं स कृपादृष्ट्यावलोकयेत्।
ततस्ते घातकाः सर्वे तं हन्तुं नाभिशक्नुयुः॥
यदि विघातितो दैवात् त्यक्त्वा पापाश्रयां मृतः।
शुद्धाशयो विशुद्धात्मा संप्रयायात् सुखावतीम्॥
सर्वे यक्षाश्च गन्धर्वाः कुम्भाण्डा राक्षसा अपि।
किन्नरा गरुडा नागा भूताः प्रेताः पिशाचिकाः॥
लोकेश्वरस्य भक्तारं ध्यातारं स्मृतिभाविनम्।
नामोच्चारणकर्तारं द्रष्टुमपि न शक्नुयुः॥
यश्चापि निगडैर्बद्धा स्थापितो बन्धनालये।
स्मृत्वा लोकेश्वरं द्यात्वा तिष्ठेन्नामाप्युदाहरेत्॥
तत्क्षणे लोकनाथस्तं कृपादृष्ट्यावलोकयेत्।
तदा स बन्धनान्मुक्तो धर्माभिरततो भवेत्॥
यश्चारण्ये गृहे वापि चौरैर्धूतैरुपद्रुते।
स्मृत्वा लोकेश्वरं ध्यात्वा नमेन्नामाप्युदाहरेत्॥
तत्क्षणे लोकनाथस्तं कृपादृट्यावलोकयेत्।
तदा ते धूर्तकाश्चौराः सर्वे यायुः पराङ्मुखाः॥
यश्च रोगी सदा दुष्टः कुष्ठव्याध्याचिताश्रयः।
स्मृत्वा लोकेश्वरं ध्यात्वा नमेन्नामाप्युदाहरेत्॥
तत्क्षेणे लोकनाथस्तं कृपादृष्ट्यावलोकयेत्।
तदा स व्याधितो मुक्तो नीरोगी पुष्टितेन्द्रियः॥
शुद्धाशयो विशुद्धात्मा भवेत् संबोधिमानसः।
यदि दैवाद्विपत्तिः स्याद्धित्वा दुःखाश्रयं तनुम्।
शुद्धाशयो विशुद्धात्मा संप्रयायात् सुखावतीम्॥
२८४
यश्च दरिद्रितो दुःखी दीनोऽनाथो दुराश्रयः।
स्मृत्वा लोकेश्वरं ध्यात्वा नमेन्नामाप्युदाहरेत्॥
तत्क्षणे लोकनाथस्तं कृपादृष्ट्यावलोकयेत्।
तदा स श्रीगुणोत्पन्नो भवेत् साधुः शुभेन्द्रियः॥
यश्च संग्राममध्येऽपि शत्रुभिः परिवेष्टित।
स्मृत्वा लोकाधिपं ध्यात्वा नमेन्नामाप्युदाहरेत्॥
तत्क्षणे लोकनाथस्तं कृपादृष्ट्यावलोकयेत्।
तदा सोऽरीन्विनिर्जित्य लब्ध्वा रमेज्जयश्रियम्॥
यश्चापि दह्यमानेषु गृहोद्यानाश्रमेष्वपि।
स्मृत्वा लोकाधिपं ध्यात्वा नाम प्रोच्चारयन्नमेत्॥
तत्काले लोकनाथस्तं कृपादृष्ट्यावलोकयेत्।
तदा स सहसा वह्निस्कन्धः शाम्येन्निराकुलः॥
विवादे कलये वापि परिभूतेऽपि दुर्जनैः।
स्मृत्वा लोकेश्वरं ध्यात्वा नाम प्रोच्चारयन्नमेत्॥
तत्क्षणे लोकशास्ता तं कृपादृष्ट्यावलोकयेत्।
तदा स विजयन् सर्वान् संस्थापयेन्निजे वशे॥
यश्च क्लेशाग्निसंतप्तो व्याकुलेन्द्रियमानसः।
स्मृत्वा लोकप्रभुं ध्यात्वा नमेन्नामाप्युदाहरन्॥
तत्क्षणे तं महासत्त्वो दयादृष्त्यावलोकयेत्।
तदा निःक्लेशभद्रात्मा भवेद्भद्रेन्द्रियः सुधीः॥
योऽपुत्रः पुत्ररत्नार्थी तं लोकेशं शरणं गतः।
स्मृत्वा ध्यात्वा यथाशक्ति भजेन्नामान्युदाहरन्॥
तदा स त्रिजगद्भर्ता कृपादृष्ट्यावलोकयेत्।
दद्यात्तस्मै पुत्ररत्नं महासत्त्वं जगत्प्रियम्॥
सुतार्थिनेऽपि सत्पुत्रीं रमाकारां शुभेन्द्रियाम्।
सर्वसत्त्वप्रियां कान्तां साध्वीं दद्याज्जगत्प्रभुः॥
विद्यार्थी लभते विद्यां धनार्थि लभते धनम्।
राज्यार्थी लभते राज्यं लोकेशभक्तिमानपि॥
२८५
द्रव्यार्थी लभते द्रव्यं गुणार्थी लभते गुणम्।
भोग्यार्थी लभते भोज्यं गृहार्थी लभते गृहम्॥
एवमन्यानि वस्तूनि सर्वोपकरणान्यपि।
यथाभिवांछितं सर्वं लभेल्लोकेशभक्तिमान्॥
तेनासौ त्रिजगन्नाथ आर्यावलोकितेश्वरः।
इति प्रख्यापितः सर्वैर्धर्मराजैमुनीश्वरैः॥
एवं महत्तरं पुण्यं लोकेशभक्तिभाविनाम्।
अप्रमेयमसंख्येयं संबुद्धपदसाधनम्॥
इत्येवं सुगतैः सर्वैः समादिष्टं समन्ततः।
बोधिसत्त्वैर्महाभिज्ञैः सर्वैश्चापि प्रशंस्यते॥
इति मत्वा महाराज लोकनाथस्य सर्वदा।
शरणे समुपाश्रित्य भजस्व श्रद्धया मुदा।
यस्य लोकेश्वरे भक्तिस्तस्य पापं न किंचन।
दुष्टक्लेशभयं नापि निर्विघ्नं सत्सुखं सदा॥
सर्वे दुष्टगणा माराः क्षीयन्ते सर्वतः सदा।
यमदूतादयश्चापि पलायेयुः पराङ्मुखाः॥
लोकेशभ्क्तिभाजांश्च पुण्यधारा निरन्तरा।
अप्रेया असंख्येयाः प्रवर्धन्ते दिवानिशम्॥
एतत्पुण्यानुभावैस्तु सद्धर्मस्तेन लभ्यते।
तत्सद्धर्मानुभावेन संबुद्धो दृश्यतेऽग्रतः॥
ततो बुद्धानुभावेन बोधिचित्तं सुलभ्यते।
बोधिप्रणिधिचित्तेन चर्यन्ते बोधिचारिकाः॥
क्रमात् संबोधिसंभारं पूरयित्वा यथाक्रमम्।
सर्वान् क्लेशान् विनिर्जित्याचतुर्मारगणानपि॥
सर्वत्र वशिता प्राप्ता धारणीगुणसंयुता।
दशभूमीश्वरो भूत्वा संबोधिं समवाप्नुयात्॥
इति मत्वा महाभिज्ञो लोकेश्वरो जिनात्मजः।
भजनीयः सदा सद्भिः संबुद्धपदवांछिभिः॥
२८६
ये भजन्ति सदा नित्यं लोकेश्वरं जगत्प्रभुम्।
तेषां नैव भयं किंचित्सर्वत्र सर्वदापि हि॥
रक्षेयुस्तं समालोक्य ब्रह्यादयो महर्षयः।
शक्रादयः सुरेन्द्राश्च सर्वलोकाधिपा अपि॥
रक्षेयुरग्नयोऽप्येनं लोकेशभक्तिभाविनम्।
धर्मराजादयः प्रेताः सर्वे निशाचरा अपि॥
वरुणाश्च हि राजाश्च सर्वे वायुगणा अपि।
सर्वे श्रीदादयो यक्षाः सर्वे भूताधिपा अपि॥
सूर्यादयो ग्रहाः सर्वे चन्द्रादयश्च तारकाः।
सर्वे सिद्धाश्च साध्याश्च रुद्रा विद्याधरा अपि॥
धृतराष्ट्रादयः सर्वे गन्धर्वा अपि सर्वदा।
विरुढकादिकुम्भाण्डा रक्षेयुस्तं सदानुगाः॥
विरुपाक्षादयः सर्वे नागेन्द्रा गरुडा अपि।
कुवेरप्रमुखाः सर्वे यक्षा अपि समादरात्॥
द्रुमादिकिन्नराः सर्वे वेमचित्रादयोऽसुराः।
सर्वे पैशाचिकाश्चापि रक्षेयुस्तं समाहितः॥
सर्वे मातृगणाश्चापि सकुमारगणाधिपाः।
सर्वेऽपि भैरवाः सर्वे महाकालगणा अपि॥
सडाकडाकिनीसंघाः सर्वे कापालिका अपि।
सर्वे वैताडिकाश्चापि दृष्ट्वा चेयुस्तमादरात्॥
तथा च योगिनः सिद्धा अविकल्पा जितेन्द्रियाः।
दूराद्दृष्ट्वाभिरक्षेयुस्तं लोकेशशरणाश्रितम्॥
वज्रपाण्यादयो वीराः सर्वमन्त्रार्थसाधकाः॥
रक्षेयुस्तं समालोक्य लोकेशभक्तिचारिणम्॥
यतयस्तीर्थिकाश्चापि तापसा ब्रह्मचारिणः।
वैष्णवा अपि शैवाश्च लिंगिनो व्रतिनोऽपि च॥
दूरादपि तमालोक्य भक्तिमन्तं जगत्प्रभोः।
प्रणत्वा प्रांजलिं धृत्वा प्रशंसेयुः समादरात्॥
२८७
अर्हन्तो भिक्षवश्चापि दृष्ट्गा तं दूरतो मुदा।
धन्योऽसीति समाराध्य प्रकुर्युरभिनन्दितम्॥
श्रावकाश्चैलकाश्चापि व्रतिनश्चाप्युपासकाः।
दूरतस्तं महाभागं दृष्ट्व नमेयुरानताः॥
सर्वे चापि महासत्त्वा बोधिसत्वा जिनात्मजाः।
वरदानैस्तमाराध्य चारयेयुर्जगद्धिते॥
प्रत्येकसुगतश्चापि दृष्ट्वा तं बोधिभागिनम्।
समालोक्य समाश्वास्य प्रेरयेयुः सुसंवरे॥
संबुद्धा अपि सर्वे तं संबुद्धपदलाभिनम्।
दृष्ट्वाभिनन्द्य सद्धर्मे नियुज्यावेयुराभवम्॥
एवमस्य जगद्भर्तुर्लोकेशस्य महात्मनः।
सद्धर्मगुणमाहात्म्यं सर्वबुद्धैः प्रशंस्यते॥
एवं महत्तरं पुण्यं लोकेशभजनोद्भवम्।
मत्वा सदानुमोदित्वा श्रोतव्यम् बोधिवांछिभि॥
इदं सर्वं महायानसूत्ररत्नं सुभाषितम्।
शृण्वन्ति श्रद्धया येऽपि कलौ पंचकषायिते॥
दुर्गतिं ते न गच्छिन्त कदाचन कथंचन।
सदा सद्गतिसंजाता भवन्ति भद्रचारिणः॥
लोकेशस्य जगच्छास्तुः सर्वदा शरणे स्थिताः।
ध्यात्वा नाम समुच्चार्य स्मृत्वा भजेयुराभवम्॥
एतत्पुण्यानुलिप्तास्ते भद्रश्रीसद्गुणालयाः।
सद्धर्मसुखसंपत्तिं भुक्त्वा यायुः सुखावतीम्॥
एनं यः सकलांल्लोकांच्छ्रावयति प्रबोधयन्।
सोऽपि न दुर्गतिं याति याति सद्गतिमेव हि॥
एतत्पुण्यविशुद्धात्मा भद्रश्रीसद्गुणाश्रयः।
सद्धर्मसुखसंपत्तिं भुक्त्वा यायात् सुखावतीम्॥
यश्चापीदं कलौ काले निरपेक्षाः स्वजीविते।
सभामध्ये समासीनो भाषेत् सूत्रसुभाषितम्॥
२८८
सोऽप्येतत्पुण्यशुद्धात्मा यायान्न दुर्गतिं क्वचित्।
सदा सद्गतिसंजातो भद्रश्रीसद्गुणाश्रयः॥
सर्वसत्त्वहिताधानं सद्धर्ममेव साधयन्।
शुभित्साहसहत्सौख्यं भुक्त्वा यायात् सुखावतीम्॥
तत्रामितरुचेः शास्तुः सर्वे शरणे स्थिताः।
सदा धर्मामृतं पीत्वा चरेयुर्बोधिसंवरम्॥
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम्।
भवेयुः सर्वे लोकेशा दशभूमीश्वरा अपि॥
ततस्ते निर्मलत्मानो बोधिसत्त्वा जिनात्मजाः।
भवेयुयुस्त्रिगुणाभिज्ञा महासत्त्वाः शुभेन्द्रियाः॥
क्लेशान् मारगणान् सर्वान् जित्वार्हन्तो निरंजनाः।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः॥
येऽपि वेदमहायानसूत्रराजं लिखेन्मुदा।
तेनापि लिखितं सर्वमहायानसुभाषितम्॥
लेखापितं च येनेदं सूत्रराजसुभाषितम्।
तेन लेखापितं ज्ञानं सर्वं महायानसुभाषितम्॥
लिखितं वापि येनेदं प्रातिष्ठाप्य यथाविधि।
शुद्धस्थाने गृहे स्थाप्य पूजांगैः सर्वदार्चितम्॥
तेनार्हन्तो जिनाः सर्वे प्रत्येकसुगता अपि।
ससंघा बोधिसत्त्वाश्च भवन्ति पूजिताः खलु॥
यश्चापीदं स्वयं धृत्वा परेभ्योऽपि समादिशेत्।
भावयेत् सततं स्मृत्वा ध्यात्वापि प्रणयेन् मुदा॥
तस्य सर्वे मुनीन्द्राश्च प्रत्येकसुगता जिनाः।
अर्हन्तो बोधिसत्त्वाश्च तुष्टा दद्युः समीहितम्॥
यश्चैतदुपदेष्टारं सर्वांश्च श्रावकानपि।
यथाविधि समभ्यर्च्य भोजनैः परितोषयेत्॥
तेन सर्वेऽपि संबुद्धाः प्रत्येकसुगता अपि।
अर्हन्तो भिक्षवः सर्वे योगिनो ब्रह्मचारिणः॥
२८९
बोधिसत्त्वाश्च सर्वेऽपि व्रतिनो यतयोऽपि च।
अभ्यर्च्य भोजनैर्नित्यं भवेयुः परितोषिताः॥
किमेवं बहुनोक्तेन सर्वे बुद्धाः मुनीश्वराः।
सर्वाः पारमिता देव्यः सर्वे संघा जिनात्मजाः॥
नित्यं तेषां समालोक्य कृपादृष्ट्यानुमोदिताः।
रक्षां विधाय सर्वत्र वरं दद्युर्जगद्धिते॥
लोकपालाश्च सर्वेऽपि सर्वे देवाश्च दानवाः।
रक्षां कृत्वा वरं दद्युस्तेषां सद्धर्मसाधिनाम्॥
राजानोऽपि सदा तेषां रक्षां कृत्वानुमोदिताः।
यथाभिवांछितं कृत्वा पालयेयुः समादरात्॥
मन्त्रिणोऽपि सदा तेषां सामात्यसचिवानुगाः।
सभृत्यसैन्यभट्टाश्च भवेयुर्हितकारिणः॥
सर्वे वैश्याश्च सर्वार्थभर्तारः स्युः सुहृत्प्रियाः।
श्रेष्ठिमहाजनाः सर्वे भवेयुर्हितकारिणः॥
द्विषोऽपि दासतां यायुर्दुष्टाश्च स्युर्हिताशयाः।
एवमन्येऽपि लोकाश्च सर्वे स्युर्मैत्रमानसाः॥
पशवः पक्षिणश्चापि सर्वे कीटाश्च जन्तवः।
नैव तेषां विरुद्धाः स्युर्भवेयुर्हितशंसिनः॥
एवं सर्वत्र लोकेषु तेषां सद्धर्मसाधिनाम्।
निरुत्पातं शुभोत्साहं सौमांगल्यं सदा भवेत्॥
एवं भद्रतरं पुण्यं लोकेशभजोनोद्भवम्।
मत्वा तं त्रिजगन्नाथं भजस्व सर्वदा स्मरन्॥
ये तस्य शरणे स्थित्वा ध्यात्वा समाहिताः।
नामापि च समुच्चार्य भजन्ति श्रद्धया सदा॥
तेषां स्युः सुप्रसन्नानि त्रिरत्नान्यपि सर्वदा।
कृपादृष्ट्या समालोक्य कृत्वा चेयुः शुभं सदा॥
एतच्छास्त्रा समादिष्टमुपागुप्तेन भिक्षुणा।
श्रुत्वाशोकः स भूमीन्द्रः प्राभ्यननदन् प्रबोधितः॥
२९०
सभा सर्वावती सापि श्रुत्वैतत् संप्रसादिता।
तथेति प्रतिवन्दित्वा प्राभ्यनन्दत् प्रबोधिता॥
ततस्ते सकला लोकाः समुत्थाय प्रमोदिताः।
उपगुप्तं तमर्हन्तं नत्वा स्वस्वालयं ययुः॥
ततः प्रभृति राजा स लोकेशं सर्वदा स्मरन्।
ध्यात्वा नाम समुच्चार्य प्राभजत् पालयन् प्रजाः॥
तदा तस्य नरेन्द्रस्य विषये तत्र सर्वदा।
निरुत्पातं शुभोत्साहं प्रावर्तत समन्ततः॥
इति जयश्रियादिष्टं निशम्य स ससांघिकः।
जिनश्रीराज आत्मज्ञः प्राभ्यनन्दत् प्रबोधितः॥
ततश्चासौ महाभिज्ञो जयश्रीः सुगरातात्मजः।
सर्वान् संघान् समालोक्य पुनरेवं समादिशत्॥
यत्रेदं सूत्रराजेन्द्रं प्रावर्तयेत् कलावपि।
भाषेद्यः शृणुयाद्यश्च श्रावयेद्यश्च प्रचारयेत्॥
एतेषां तत्र सर्वेषां संबुद्धाः सकलाः सदा।
कृपादृष्ट्या समालोक्य कुर्वन्तु भद्रमाभवम्॥
सर्वाः पारमितादेव्यस्तेषां तत्र सदा शिवम्।
कुर्वन्त्या बोधिसंभारं पूरयन्तु जगद्धिते॥
सर्वेऽपि बोधिसत्त्वाश्च प्रत्येकसुगता अपि।
अर्हन्तो योगिनस्तेषां भद्रं कुर्वन्तु सर्वदा॥
ब्रह्मदिलोकपालश्च सर्वे चापि महर्षयः।
तत्र तेषां च सर्वेषां कुर्वन्तु मंगलं सदा॥
काले वर्षन्तु मेघाश्च भूयाच्छस्यवती मही।
निरुत्पातं महोत्साहं सुभिक्षं भवतु ध्रुवम्॥
बहुक्षीरप्रदा गावो वृक्षाः पुष्पफ़लान्विताः।
औषध्यो रसवीर्याद्या भूयात्सुस्तत्र सर्वदा॥
भवन्तु प्राणिनः सर्वे आरोग्यचिरजीविनः।
सर्वद्रव्यसमापन्नाः श्रीमन्तो भद्रचारिणः॥
२९१
राजा भवतु धर्मिष्ठो मन्त्रिणो नीतिचारिणः।
सर्वे लोकाः सुवृत्तिस्था भवन्तु धर्मसाधिनः॥
मा भुत्कश्चिद्दुराचारश्चौरो दुष्टश्च वंचकः।
दरिद्रो दुर्भगो दीनो मदमानाभिगर्वितः॥
सर्वे सत्त्वाः समाचाराः परिशुद्धत्रिमण्डलाः।
स्वस्वकुलव्रतारक्षाः प्रचरन्तु जगद्धिते॥
सर्वे भद्राशयाः सन्तः संबोधिव्रतचारिणः।
त्रिरत्नभजनं कृत्वा संचरन्तां सदा शुभे॥
इति जयश्रियाख्यातं श्रुत्वा सर्वेऽपि सांघिकाः।
एवमस्त्विति विज्ञप्य प्राभ्यनन्दन् प्रमोदिताः॥
॥इति जिनश्रीराजपरिपृष्टजयश्रीसंप्रभाषित-
श्रीमदार्यावलोकितेश्वरगुणकारण्डव्यूहसूत्रराजं समाप्तम्॥
ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत्।
तेषां च यो निरोधं एवंवादी महश्रमणः॥
॥शुभमस्तु॥