८. रूपमयी भूमि चतुष्पाद पुरुषोद्धारण प्रकरणम्
Technical Details
८. रूपमयी भूमि चतुष्पाद पुरुषोद्धारण प्रकरणम्
अथासौ भगवांश्छास्ता शाक्यमुनिरीश्वरः।
विष्कम्भिनं तमालोक्य पुनरेवं तमादिशत्॥
शृणु च कुलपुत्रास्य लोकेश्चरस्य सद्गुरोः।
सद्धर्मगुणमाहात्म्यं श्रुतं मया तद्च्यते॥
तदा गगनगंजोऽसौ भगवन्तं मुनीश्वरम्।
विश्वभुवं तमानम्य पुनरेवमपृच्छत॥
भगवन् स महाभिज्ञो लोकेश्वरो जिनात्मजः।
पुनः सत्त्वान् समुद्धर्तुं कुत्रान्यत्राभिगत्छति॥
७९
पुनस्तच्छ्रोमिच्छामि यदन्यत्र स संसरन्॥
सत्त्वान् पश्यन् समुद्धृत्य धर्मे युनक्ति तदादिश॥
इति तेनोदितं श्रुत्वा भगवन् स मुनीश्वरः।
गगनगंजमालोक्य तं पुनरेवमादिशत्॥
शृणुष्व कुलपुत्रास्य लोकेशस्य जगत्प्रभोः।
वक्ष्ये सद्गुणमाहात्म्यं श्रोतुं त्वं च यदीच्छसि॥
तद्यथासौ महासत्त्वो लोकेश्वरो जिनात्मजः।
ततो रुपमयीं भूमीं गच्छति संप्रभासयन्॥
तत्र सत्त्वान् मनुष्यान् गांश्चतुष्पादान् विलोक्य सः।
लोकेश्वरो दिव्यरुपः समुपासृत्य तिष्ठति॥
तं दिव्यरुपमालोक्य सर्वे ते विस्मयान्विताः।
पुरतः समुपाश्रित्य नत्वैवं प्रार्थयन् मुदा॥।
अहोभाग्यं तदस्माकं यद्भवानिह दृश्यते।
तदस्माम् कृपयालोक्य समुद्धर्त्तुमिहार्हति॥
इति तैः प्रार्थ्यमानोऽसौ लोकेश्वरः कृपात्मकः।
तान् सर्वान् समुपामन्त्र्य समालोक्यैवमादिशत्॥
भगवन्तोऽत्र समाधाय शृणुध्वं यूयमादरात्।
वक्ष्यामि यन्महत्सिद्धं धर्मनिर्वृतिसाधनम्॥
तद्यथा यज्जगच्छ्रेष्ठं त्रिरत्नं भद्रकारकम्।
तत्स्मृत्वा शरणं गत्वा भजध्वं सर्वदादरात्॥
ये तेषां शरणं गत्वा न ते गछन्ति दुर्गतिम्।
सदा सद्गतिसंजाताश्चरन्ति बोधिसंवरे॥
एतत्पुण्यानुभावेन सर्वे ते पुरुषोत्तमाः।
बोधिसत्त्वा महासत्त्वाः संचरेवं जगद्धिते॥
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम्।
सर्वसत्त्वहितं कृत्वा संयास्यन्ति सुखावतीम्॥
तत्र गत्वामिताभस्य जितेन्द्रस्य सभाश्रिताः।
सद्धर्मामृतमाभुज्य संरमेयुर्यहोत्सवैः॥
८०
एवं ते सुचिरं तत्र भुक्त्वा सौख्यं शुभोत्सवम्।
ततोऽन्ते त्रिविधां बोधिं प्राप्य यास्यन्ति निर्वृतिम्॥
एवं मत्वा त्रिरत्नानां श्रद्धया शरणे स्थिताः।
स्मृत्वा ध्यात्वा समुच्चार्य्य नामापि भजतादरात्॥
तदैतत्पुण्यलिप्तांगाः शुद्धाशया जितेन्द्रियाः।
निःक्लेशा विमलात्मानो बोधिसत्त्वा भविष्यथ॥
ततः सत्त्वहितार्थेन बोधिचर्याव्रतोद्यताः।
सर्वत्र भद्रतां कृत्वा गमिष्यथ सुखावतीम्॥
तत्रामिताभनाथस्य पीत्वा धर्मामॄतं सदा।
सद्धर्ममंगलोत्साहै रमिष्यथ सुसंवरे॥
एवं तत्र चिरं भुक्त्वा सौख्यं भद्रमहोत्सवम्।
प्रान्ते संबोधिमासाद्य समाप्स्यथ सुनिर्वृतिम्॥
एवं मत्वा सदा बुद्धरत्नस्य शरणं गताः।
स्मृत्वा ध्यात्वा समुच्चार्य नामापि भगतदरात्॥
धर्मरत्नस्य माहात्म्यं श्रुत्वापि शरणे स्थिताः।
स्मृत्वा ध्यात्वा समुच्चार्य नामापि भजतादरात्॥
एवं च संघरत्नानां सत्कारैः समुपस्थिताः।
स्मृत्वा ध्यात्वा समुच्चार्य नामापि भवताभवम्॥
एतत्पुण्यं महत्ख्यातमसंख्येयं बहूत्तमम्।
अप्रमेयं समाख्यातं सर्वैरपि मुनीश्वरैः॥
एवं मत्वा त्रिरत्नानां शरणे समुपस्थिताः।
स्मृत्वा ध्यात्वा समुच्चार्य नामापि सेव्यताभवम्॥
एतत्पुण्यानुभावेन यूयं सर्वे विकल्मषाः।
निःक्लेशा निर्मलात्मानः संयास्यथ सुखावतीम्॥
तत्र गत्वामिताभस्य मुनीन्द्रस्योपसंश्रिता।
सदा धर्मामृतं पीत्वा रमिष्यथ शुभोत्सवैः॥
एवं तत्र चिरं भुक्त्वा महानन्दमयं सुखम्।
प्रान्ते सम्बोधिमासाद्य संयास्यथ सुनिर्वृतिम्॥
८१
इति तेनोदितं श्रुत्वा सर्वे ते पुरुषा मुदा।
तथेति प्रतिसंश्रुत्व वदन्त्येवं च मोदिताः॥
मार्ष भवति नोऽन्धानां सन्मार्गमुपदर्शकः।
अत्राणानामपि त्राणं शरण्यं शरणार्थिनाम्॥
अनाथानां पिता माता नाथश्चेष्टः सुहृत्पतिः।
अगतीनां गतिश्चापि मित्रश्च व्यसनापहृत्॥
तमःप्रणष्टमार्गाणां महादीपो भवानपि।
मूर्खानां च प्रमत्तानां शास्ता सद्धर्मदेश्कः॥
तद्वयं सर्वदा सर्वे भवतां शरणे स्थिताः।
आज्ञां धृत्वा शुभे धर्मे संचरिष्यामहे ध्रुवम्॥
सुखितास्ते माहाभागा ये भवच्छरणे स्थिताः।
त्रिरत्नभजनं कृत्वा संचरन्ते शुभे सदा॥
न तेषामिदृशं दुःखं भविष्यति कदाचन।
यादृगिदं महट्कष्टमनुभावमहे भवे॥
तद्भवान् कृपयास्माकं निर्वृतिसुखसाधनम्।
सद्धर्मं समुपादिश्य सदेह स्थातुमर्हति॥
इति तैः प्रार्थितं श्रुत्वा बोधिसत्त्वः स सर्ववित्।
तान् प्रबोधितान् सर्वान् वदत्येवं विलोकयन्॥
नाहं सदात्र तिष्ठेयं कार्याणि हि बहूनि मे।
तन्मयात्र यथाख्यातं धृत्वा चरत सर्वदा॥
इत्युक्त्वा स महाभिज्ञस्तेषां संबोधिसधनम्।
समादिशति कारण्डव्यूहसूत्रं सुभाषितम्॥
तत्सर्वेषां महायानसूत्राणां प्रवरोत्तमम्।
श्रुत्वा ते पुरेषाः सर्वे प्राभिनन्दन्ति बोधिताः॥
ततस्ते पुरुषाः सर्वे धृत्वा तत्सूत्रमादरात्।
त्रिरत्नभजनं कृत्वा संचरन्ते शुभे मुदा॥
एतत्पुण्यानुभावेन सर्वे ते विमलाशयाः।
बोधिसत्त्वा महासत्त्वा भवन्ति ब्रह्मचारिणः॥।
८२
बोधिचर्याव्रतं धृत्वा प्रचरन्तो जगद्धिते।
सद्धर्मचरणे युक्ता भवन्त्यप्यनिवर्तिनः॥
एवं ते पुरुषाः सर्वे परिशुद्धत्रिमण्डलाः।
स्वपरात्महितोत्साहैः संचरन्ते महासुखम्॥
एवं स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः।
सर्वांस्तान् पुरुषान् धर्मे नियोजयति बोधयन्॥
ततोऽन्यत्र स लोकेशः सत्त्वानुद्धर्त्तुमुत्सुकः।
अन्तर्हितो ज्वलदग्निरिवाकाशेन गच्छति॥
एवं कृत्वा महत्पुण्यस्कन्धं तस्य जगत्प्रभोः।
अप्रमेयमसंख्येयं समाख्यातं मुनीश्वरैः॥
इति मत्वा सदा तस्य शरणे समुपस्थिताः।
स्मृता नामापि चोच्चार्य ध्यात्वापि भजताभवम्॥
ये तस्य शरणे स्थित्वा श्रद्धया समुपस्थिताः।
स्मृत्वा ध्यात्वापि नामापि समुच्चार्य भजन्ति वै॥
दुर्गतिं ते न गच्छन्ति कदाचन क्वचिद्भवे।
सदा सद्गतिसंजाता भवन्ति धर्मचारिणः॥
धर्मश्रीगुणसत्सौख्यं भुक्त्वा यान्ति सुखावतीम्।
तत्र गत्वामिताभस्य शरणे समुपाश्रिताः॥
सदा धर्मामृतं पीत्वा स्वपरात्महितोद्यताः।
महानन्दसुखोत्साहैस्संरमन्ते यथासुखम्॥
तत्रैव सुचिरं भुक्त्वा प्रचरन्तो जगद्धिते।
प्रान्ते बोधिं समासाद्य निर्वृतिपदमाप्नुयुः॥
इति सत्यं परिज्ञाय यूयं बोधिं यदीच्छथ।
तल्लोकेशं महाभिज्ञं भजध्वं सर्वदा भवे॥
इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य सः।
गगनगंज औत्सुक्यं प्राभ्यनन्दत् समार्षदः॥
इत्येवं समुपादिष्टं विश्वभुवा श्रुतं मया।
यूयमपि तथा तस्य सर्वदा भजतादरात्॥
यूयमपि तथा सौख्यं भुक्त्वा सदा शुभारताः।
बोधिश्रीगुणसंपन्नाः गमिष्यथ जिनालयम्॥
इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्य ते।
सर्वसांघिका लोकाः प्राभ्यनन्दन् प्रबोधिताः॥
॥इति रुपमयीभूमिचतुष्पादरुषोद्धारणप्रकरणम्॥