४. श्रीमहेश्वरादि देव समुत्पादन प्रकरणम्
Technical Details
४. श्रीमहेश्वरादि देव समुत्पादन प्रकरणम्
श्रीभगवानुवाच।
एवमसौ महासत्त्वो लोकेश्वरो जिनात्मजः।
भवाब्धेः स्वयमुद्धृत्य पालयति सदा जगत्।
प्रदुष्टानपि पापिष्टान् बोधयित्वा प्रयत्नतः।
बोधिमार्गे प्रतिष्ठाप्य संप्रेषयेज्जिनालये॥
नास्तीदृग्गुणसंपन्नः सत्त्वयैधातुकेष्वपि।
कस्यापि विद्यते नैव प्रतिभानं हि तादृशम्॥
मुनीन्द्राणां च सर्वेषां नास्तीदृग्द्रुतिभानता।
तेन लोकेश्वरो नाम बोधिसत्त्वस्स उच्यते॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः।
विष्कम्भी भगवन्तं च समालोक्यैवमब्रवीत्॥
भगवन् हेतुना केन सर्वलोकाधिपेश्वरः।
लोकेश्वरः स आख्यात एतत् सम्यक् समादिश॥
तस्येव प्रतिभासत्वं कस्यचिन्नैव विद्यते।
मुनीन्द्राणामपि सर्वेषां नास्तीति तत्कथं खलु॥
एतत् सम्यक् समाख्याहि श्रोतुमिच्छामि सर्ववित्।
इमे सर्वे सभासीनास्तद्गुणश्रोतुमानसाः॥
इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः।
विष्कम्भिनं महाविज्ञं तमालोक्यैवमादिशत्॥
शृणु त्वं कुलपुत्रास्य लोकेशस्य प्रभावताम्।
संप्रवक्ष्यामि ते प्रीत्या सर्वसत्त्वानुबोधने॥
३६
तध्ययाभूत् पुरा शास्ता तथागतो मुनीश्वरः।
विपश्यी नाम संबुद्धः सर्वविद्याधिपो जिनः।
सर्वज्ञोऽर्हन्महाभिज्ञो धर्मराजो विनायकः।
भगवांयिजगन्नाथः सर्वसत्त्वहितार्थभृत्॥
तदाहं कुलपुत्रासम् सुगन्धसुखसंज्ञकः।
वणिक्सुतो वृषोत्साही संबुद्धगुणलालसः॥
तस्य विपश्यिनः शास्तुः संबुद्धस्य जगद्गुरोः।
शरणे समुपाश्रित्य प्राचरन् बोधिसंवरम्॥
तदा तेन मुनीन्द्रेण सर्वज्ञेन विपश्यिना।
लोकेशगुणमाहात्यं समाख्यातं श्रुतं मया॥
तद्यथासौ जगच्छास्ता विपश्यी भगवान् जिनः।
सद्धर्मं समुपादेष्टुं सभामध्ये समाश्रितः॥
तदासौ त्रिजगन्नाथो लोकेश्वरो जिनात्मजः।
सर्वान् सत्त्वान् समुद्धर्तुं संपश्यन् करुणान्वितः॥
पुण्यरश्मिं समुत्सृज्य प्रभासयन् समन्ततः।
दुःखिनो नरकासीनान् सर्वान् सत्त्वान् विलोकयन्॥
समुद्धृत्य प्रयत्नेन बोधयित्वानुमोदयन्।
त्रिरत्नशरणे स्थाप्य चारयित्वा शुभे वृषे॥
बोधिमार्गे प्रतिष्ठाप्य श्रावयित्वा सुभाषितान्।
संबोधिसाधने धर्मे संनियोज्य विनोदयन्॥
सर्वत्र मंगलं कृत्वा निरुपातं महोत्सवम्।
त्रिरत्नगुणमाहात्म्यं प्रकाशयन् समाचरत्॥
तदा तद्रश्मिसंस्पृष्टा सर्वा भुमिः प्रशोभिता।
विशुद्धमंगलोत्साहसुखसमाकुलाभवत्॥
तदद्भुतं महानन्दं महोत्साहं समन्ततः।
समालोक्य महासत्त्वो महामतिर्जिनात्मजः॥
विस्मयसमुपाघ्रात त्वन्त एवं व्यचिन्तयन्॥
अहो कस्य प्रभाकान्तिरियमिह समागता।
अवभास्य जगत्सर्वं संशोधयति शोभितम्॥
३७
इति चिन्ताकुलात्मा स बोधिसत्त्वो महामतिः।
समुत्थायोत्तरासंगमुद्वहन् पुरतो गतः॥
जानुभ्यां भूतके धृत्वा कृतांजलिपुतो मुदा।
विपश्यिनं मुनीन्द्रं तं नत्वैवं पर्यपृच्छत॥
भगवन् कस्य प्रभावोऽयं यदियं भासमागता।
अवभास्य जगत्सर्वं शोधयन्ति प्रशोभितम्॥
यदिदं महदाश्चर्यं दृष्ट्वा सर्वेऽतिविस्मिताः।
श्रोतुमिच्छन्ति सर्वज्ञ तत्समादेष्टुमर्हति॥
इति तेनोदितं श्रुत्वा विपश्यी स मुनीश्वरः।
महामतिं महासत्त्वं तमालोक्यैवमादिशत्॥
महामते शृणुष्वेदमद्भुतं यत्समुद्भवम्।
तत्पुण्यप्रभावत्वं कथयिष्यामि सांप्रतम्॥
ययैलोकाधिपो नाथो बोधिसत्त्वो जिनात्मजः।
सर्वधर्माधिपः श्रीमानार्यावलोकितेश्वरः॥
स सत्त्वान् पापिनो दुष्टान् दुःखिनो नरकाश्रितान्।
समालोक्य कृपादृस्ट्या महाकारुण्यचोदितः॥
तान् सर्वान् हि समुद्दृत्य बोधियित्वानुमोदयन्।
बोधिमार्गे प्रतिष्ठाप्य प्रेषयितुं जिनालये॥
संप्रस्थितः सुखावत्याः पुण्यरश्मीन् समुत्सृजन्।
अवभास्य जगल्लोकमिहागन्तुं समागतः॥
तस्य पुण्यप्रभाकान्तिरियं पापविशोधनी।
अवभास्य जगत्सर्वं शोधयन्ती प्रसारिता।
एवं स सर्वलोकानामधिपतिर्हितार्थभृत्।
स्वयमालोक्य सर्वत्र याति सर्वान् समुद्धरन्॥
पापिनोऽपि समालोक्य सर्वत्र नरकेष्वपि।
निमग्नानतिदुःखांस्तान् पुण्यरश्मीन् समुत्सृजन्॥
अवभास्य सुखापन्नान् समुद्धृत्य प्रबोधयन्।
बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुखावतिम्॥
३८
एवं स श्रीगुणाधारः सद्धर्मसुखदारयकः।
दिने दिनेऽप्यप्रेमेयान् सत्त्वानुद्धृत्य बोधयन्॥
बोधिमार्गे प्रतिष्ठाप्य श्रावयित्या सुभाषितम्।
कृत्वा शुद्धाशयान् सर्वान् प्रेषयति सुखावतीम्॥
एवं तस्य महत्पुण्यं सर्वलोकाधिकं बहु।
अप्रमेयमसंख्येयं संबोधिपदसाधनम्॥
सर्वैरपि मुनीन्द्रैस्तत्पुण्यं महद्बहूत्तमम्।
प्रमातुं परिसंख्यातुं शक्यते न कदाचन॥
सर्वेषामपि बुद्धानामीदृक्पुण्यं महोत्तमम्।
अप्रमेयसंख्येयं विद्यते न कदाचन॥
कस्यापि दृश्यते नैवमीदृक्पुण्यं महत्तरम्।
तेनासौ त्रिगजगन्नाथो विराजते समन्ततः॥
एवं तस्य महत्पुण्यप्रमेयं बहुत्तमम्।
सर्वैरपि मुनीन्द्रैस्तत्प्रमातुं शक्यते न हि॥
तस्मादसौ जगन्नाथो जगच्छास्ता जगत्पतिः।
सर्वलोकाधिपः श्रीमानार्यावलोकितेश्वरः॥
आदिबुद्धात्मसंभूतो जगदीशो महेश्वरः।
विश्वसृक्त्रिजगद्भर्त्ता संबोधिज्ञानभास्करः॥
सर्वैः लोकाधिपैर्देवैः सासुरयक्षकिन्नरैः।
राक्षसैर्गरुडैर्नागैः पूजितो वन्दितः सदा॥
ग्रहैस्तारागणैः सर्वैर्विद्याधरैर्महर्द्धिकैः।
सिद्धैः साध्यैश्च रुद्रैश्च कुम्भाण्डैश्च महोरगैः॥
सर्वैर्भूताधिपैश्चापि सवह्निर्यममारुतैः।
सर्वैश्चाप्यप्सरःसर्वैर्दैवादिकन्यकागणैः॥
एवं दानवनागेन्द्रयक्षादिकन्यकागणैः।
सदा ध्यात्वाप्यनुस्मृत्वा स्तुत्वा नत्वाभिपूजितः॥
भैरवैश्च तथा सर्वैर्महाकालगणैरपि।
मातृकाश्भिश्च सर्वाभिः संस्तुतो वन्दितोऽर्चितः॥
३९
सर्वैश्च डाकिनीसंघैः सर्वैर्भूतैः पिशाचकैः
सर्वैर्विघ्नाधिपैचापि सप्रेतकठपूतकैः॥
सर्वैर्मारगणैश्चापि त्रैधातुकनिवासिभिः।
सदा नित्यमनुस्मृत्वा प्रणमितः प्रशंसितः॥
एवं महर्षिभिः सर्वैर्योगिभिश्च तपस्विभिः।
यतिभिस्तीर्थिकैश्चापि नित्यं स्मृत्वाभिवन्दितः॥
श्रावकैर्भिक्षुभिः सर्वैरर्हद्भिर्ब्रह्मचारिभिः।
सदानुस्मरणं कृत्वा ध्यात्वा वन्दितार्चितः॥
तथा सर्वैर्महासत्त्वैर्बोधिसत्त्वैश्व सर्वदा।
तद्गुणानुस्मृतिं धृत्वा स प्रशंस्योऽभिवन्ध्यते॥
तथा प्रत्येकबुद्धैश्च श्रुत्वा दृष्ट्वा च तद्गुणान्।
सदानुमोदनां कृत्वा प्रणत्वा संप्रशंस्यते॥
एवं सर्वैर्मुनीन्द्रैश्च संबुद्धैरपि सर्वदा।
तत्पुण्यगुणमाहात्म्यं संप्रशंस्यानुमोद्यते॥
एवं स सर्वलोकेशः सर्वधर्माधिपेश्वरः।
विश्वरस्त्रष्टा जगद्भर्ता त्रैधातुकाधिपेश्वरः॥
महाबुद्धात्मसंभूतः सद्धर्मगुणभास्करः।
सर्वसंघाधिराजेन्द्रो बोधिसत्त्वो जगत्प्रभुः॥
इति सर्वैर्महाभिज्ञैः संबुद्धैः सर्वदर्शिभिः।
मुनीश्वरैः समाख्यातं पुरा मया श्रुतं किल॥
तद्यथादौ महाशून्यं पंचभूतेऽप्यनुद्भवे।
ज्योतिरुसमुद्भूत आदिबुद्धो निरंजनः।
त्रिगुणांशमहामूर्त्तिर्विश्वरुपः समुत्थितः।
स स्वयंभुर्महाबुद्ध आदिनाथो महेश्वरः।
लोकसंसर्जनं नाम समाधिं विदधे स्वयम्॥
ततस्तस्यात्मसंभूतो दिव्यारुपः शुभांशभृत्।
भद्रमूत्तिर्विशुद्धांगः सुलक्षणाभिमण्डितः॥
पुण्यकान्तिविरोचिष्कः सर्वलोकाधिपेश्वरः।
सोऽपि लोकोद्भवं नाम समाधिं विदधे स्वयम्॥
४०
तदा तस्यादिनाथस्य चक्षुभ्यां चन्द्रभास्करौ।
समुत्पन्नौ ललाटाच्च समुत्पन्नो महेश्वरः॥
स्कन्धाभ्यां संप्रजातोऽभूदब्रह्मा सौम्यश्चतुर्मुखः।
हदयाच्च समुद्भूतो नारायणोऽतिसुन्दरः॥
उभाभ्यां दन्तपंक्तिभ्यां समुत्पुन्ना सरस्वती।
वायुवो मुखतो जाताः पृथ्वी जाता च पादतः॥
वरुणश्चोदराज्जातः वह्निश्च नाभिमण्डलात्।
वामजानूद्भवा लक्ष्मीः श्रीदो दक्षिणजानुतः॥
एवमन्येऽपि देवाश्च सर्वलोकाधिपा अपि।
तस्य महात्मनो देहात् समुद्भूता जगद्धिते॥
यदैते लोकनाथस्य जाता लोकाधिपास्तनोः।
तस्य सर्वे प्रसन्नास्याः पश्यन्तः समुपस्थिताः॥
तदा महेश्वरो देवः स्त्रष्टारं तं जगद्गुरुम्।
प्रणत्वा सांजलिः पश्यन् प्रार्थयदेवमादरात्॥
भगवन् यदिमे सर्वे भवता निर्मिता वयम्।
तदर्थेऽस्मानिमान् सर्वान् व्याकरोतु यथाविधि॥
इति संप्रार्थिते तेन महेश्वरेण सर्ववित्।
लोकेश्वरः समालोक्य सर्वांन्स्तानेवमादिशत्॥
आरुप्यलोक्धात्वीशो भविष्यसि महेश्वर।
त्राता योगाधिपः शास्ता संसारमुक्तिसौख्यदिक्॥
कलियुगे समुत्पुन्ने सत्त्वधातौ कषायिने।
तदा स्रष्टा विभर्त्ता च संहर्त्ता च भविष्यसि॥
सर्वसत्त्वा दुराचारा मारचर्यासमारताः।
मिथ्याधर्मगता दुष्टा सद्धर्मगुणनिन्दकाः॥
विहीनबोधिचर्यांगास्तामसधर्मसाधिनः।
तीर्थिकधर्मसंरक्ता भविष्यन्ति कलौ यदा॥
तदा पृथग्जनाः सर्वे मोहेर्ष्यामदमानिकाः।
सर्वे ते शरणं गत्वा भजिष्यन्ति सदादरात्॥
४१
आकाशं लिंगमित्याहुः पृथिवी तस्य पीठिका।
आलयः सर्वभूतानां लीयनाल्लिंगमुच्यते॥
इति सर्वे तदा लोकाः प्रभाषन्तः प्रमादतः।
सर्वान् देवान् प्रतिक्षिप्य चरिष्यन्ति विमोहिताः॥
तान् सर्वान् समालोक्य बोधयित्वा प्रयत्नतः।
मुक्तिमार्गे प्रतिष्ठाप्य व्रतं शैवं प्रचारय॥
एवं कृत्वा महैशानं पदं प्राप्य महेश्वरः।
त्रैलोक्याधिपतिर्नाथो भविष्यसि कलौ युगे॥
इत्येवं तत्समादिष्टं निशम्य स महेश्वरः।
तथेति प्रतिनन्दित्वा तत्रैव समुपाश्रयत्॥
अथासौ सर्वविच्छास्ता लोकेश्वरो जिनात्मजः।
ब्रह्मानं समुपामन्त्र्य संपश्यन्नैमब्रवीत्॥
ब्रह्मन्स्त्वं रुपधात्निशश्वतुर्वेदांगशायभृत्।
सृष्टिकर्ता जगच्छास्ता चतुर्ब्रम्हविहारिकः॥
शान्तचर्यासमाचारः सात्त्विकधर्मनायकः।
परमार्थयोगविद्विद्वान् शुभार्थभृद् भविष्यति॥
युगे कलौ समुत्पन्ने तव चर्या विनक्ष्यति।
म्लेछधर्मसमाक्रान्ते सद्वृत्तिः परिहास्यते।
तदापि त्वं प्रयत्नेन नानारुपेण बोधयन्।
धर्ममार्गे प्रतिष्ठाप्य प्रापयस्व सुनिर्वृतिम्॥
एवं ब्रह्मन्स्त्वमालोक्य सर्वान् सत्त्वान् प्रबोधयन्।
बोधिमार्गे प्रतिष्ठाप्य पालयस्व जगद्धिते॥
एवं कृत्वा महत्क्लेशभवोदधिं समुत्तरेत्।
अर्हन्संबोधिमासाद्य संबुद्धोऽपि भविष्यसि॥
इत्येवं तत्समादिष्टं समाकर्ण्य प्रबोधितः।
ब्रह्मा तथेति संश्रुत्य प्राभ्यनन्दत् प्रसादितः॥
ततोऽसौ च महासत्त्वो लोकेश्वरो जिनात्मभूः।
नारायणं समालोक्य समामन्त्र्यैवमादिशत्॥
४२
विष्णो त्वं कामधात्वीशः सर्वलोकाधिपः प्रभुः।
रजोधर्माधिपः शास्ता सर्वसत्त्वहितार्थभृत्॥
महाभिज्ञो महावीरः सर्वदुष्टप्रमर्दकः।
संसारसुखसंभर्ता मायाधर्मविचक्षणः॥
कलौ क्लेशाकुलान् सत्त्वान् नानारुपेण बोधयन्।
त्रासयित्वापि यन्नेन सर्वान् धर्मे नियोजय॥
एवं कृत्वा महासत्त्वो महत्पुण्यगुणान्वितः।
राजा विश्वम्भरो नाथो लक्ष्मीपतिर्महर्द्धितः॥
सर्वान् सत्त्वान् सुखीकृत्य सर्वान् दुष्टान् विनिर्जयन्।
संवृतिविरतात्मान्ते निर्वृतिपदमाप्स्यसि॥
इत्येवं तत्समादिष्टं निशम्य स प्रबोधितः।
विष्णुस्तथेति विज्ञप्य प्राभ्यनन्दत् प्रसादितः॥
ततश्चासौ महासत्त्वो लोकेश्वरो जिनांशजः।
सरस्वतीं समालोक्य समामंत्र्यैवमादिशत्॥
सरस्वती महादेवी सर्वविद्यागुणाकरी।
महामायाधरी सर्वशायविज्ञा सुभाषिणी॥
सद्धर्मगुणसंभर्त्री संबोधिप्रतिपालिनी।
ऋद्धिसिद्धिप्रदात्री त्वं वागिश्वरी भविष्यसि॥
सर्वान् मूर्खान् दुराचारानपि सत्त्वान् प्रयत्नतः।
बोधयित्वा शुभे धर्मे योजयन्त्यभिपालय॥
येऽपि ते शरणं गत्वा भजेयुर्भक्तिमानसाः।
पण्डितास्ते महाभिज्ञा भवेयु श्रीगुणाश्रयाः॥
एवं सत्त्वहितं कृत्वा मह्त्पुण्यगुणान्विता।
प्रान्ते बोधिं समासाद्य संप्राप्स्यसि जिनास्पदम्॥
इत्येवं तत्समादिष्टं निशम्य सा सरस्वती।
तथेति प्रतिनन्दित्वा तत्रैकान्ते समाश्रयत्॥
ततश्चासौ महासत्त्वो लोकेश्वरो जिनात्मजः।
विरोचनं समालोक्य समामंत्र्यैवमादिशत्॥
४३
सूर्य त्वं सुमहद्दीप्तिप्रभाकरो ग्रहाधिपः।
दिवाकरो जगल्लोकतमोऽन्तको भविष्यसि॥
अवभास्य जगल्लोकं प्रकाशयन् विशोधयन्।
चारयित्वा शुभे धर्मे पालयस्व सदा भ्रमन्॥
ततोऽसौ च महासत्त्वो लोकनाथो जगत्प्रभुः।
चन्द्रमसं समालोक्य समामंत्र्यैवमादिशत्॥
चंद्रमस्वं महाकान्तिः शीतरश्मिः सुधाकरः।
ताराधिपो जगत्क्लेशसन्तापहृद्भविष्यति॥
अवभास्य जगल्लोकं प्रवर्षयन् सदामृतम्।
औषधीव्रीहिशस्यानां रसवीर्यं प्रवर्धयन्॥
प्रह्लाद्सुखसंपन्नान् कृत्वा रात्रौ प्रबोधयन्।
सर्वान् सत्त्वान् शुभे धर्मे चारयित्वाभिपालय॥
ततो वायुं समालोक्य लोकेश्वरः स सर्ववित्।
सर्वांस्तान् समुपामंत्र्य पुर एवमुपादिशत्॥
यूयं समीरणाः सर्वे जगत्प्राणाः सुखावहाः।
सर्वधर्मसुखोत्साहप्रकर्तारो भविष्यथ॥
प्रचरन्तः सदा यूयं पुयगण्धसुखवहाः।
प्रेरयित्वा जगद्धर्मे संपालयध्वमाभवम्॥
ततः पृथ्वीं महादेवीं समालोक्य सर्वदृक्।
जिनात्मजो लोकनाथो समामंत्र्यैवमादिशत्॥
पृथिवि त्वं जगद्भर्त्री सर्वलोकसमाश्रया।
वसुंधरा जगद्भर्ती विश्वमाता भविष्यसि॥
सर्वधातून् सुरत्नानि व्रीहिशस्यमहौषधीः।
दत्वा संस्थाप्य सद्धर्मे पालयस्व जगत्सदा॥
ततो वरुमालोक्य स लोकेशो जिनात्मभूः।
पुरतः समुपामंत्र्य व्याकरोदेवमादिशत्॥
वरुण त्वमपां नाथः सर्वसत्त्वामृतपदः।
सर्वरत्नाकराधीशो नागराजो भविष्यसि॥
४४
सदामृतप्रदानेन पोषयित्वा प्रबोधयन्।
दत्वा रत्नानि सद्धर्मे चारयस्व जगत्सदा॥
ततो वह्निं समालोक्य चित्रभानुं प्रभास्वरम्।
सर्वलोकाधिपः शास्ता समामंत्र्यैवमादिशत्॥
वह्ने त्वं सर्वदेवानां मुखीभूतो हुतांशभुक्।
पाचकः सर्ववस्तूनां दहनः पावकोऽप्यसि॥
तस्मात् सर्वप्रयत्नेन सर्वालोकान् प्रहर्षयन्।
सदा लोके सुखं दत्त्वा संपालय जगद्धिते॥
ततो लक्ष्मीं महादेविं लोकेश्वरः स सन्मतिः।
पुरतः समुपामंत्र्य समालोक्यैवमादिशत्॥
लक्ष्मि त्वं श्री महादेवी माहेश्वरी वसुन्धरा।
सर्वसंपत्सुखोत्साहप्रदायिनी भविष्यसि॥
सधातुद्रव्यरन्तादिमहान्सम्पत्सुखान्यपि।
दत्वा धर्मे प्रतिष्ठाप्य पालयस्व जगत्सदा॥
ततः श्रीदं समालोक्य स लोकेशो जगत्प्रभुः।
पुरतः समुपामंत्र्य व्याकरोदेवमादिशत्॥
कुबेर त्वं महाभागः सर्वद्रव्याधिपः प्रभुः।
श्रीसंपत्सद्गुणाधारो राजराजो भविष्यसि॥
दत्वा श्रीगुणसंपत्तीः प्रदत्वा संप्रबोधयन्।
बोधिमार्गे प्रतिष्ठाप्य पालयस्व सदा जगत्॥
एवं स त्रिजगत्न्नाथो लोकेश्वरो जिनात्मजः।
सर्वांस्तान् स्वात्मजान् देवान् समामंत्र्यैवमादिशत्॥
यूयं सर्वे महासत्त्वाः संबोधिव्रतचारिणः।
सर्वसत्त्वहितं कृत्वा प्रचरध्वं सदा शुभे॥
एवं कृत्वा महत्पुण्यं श्रीसमृद्धिसमन्विताः।
अन्ते संबोधिमासाद्य संबुद्धपदमाप्स्यथ॥
इत्येवं तत्समादिष्टं श्रुत्वा सर्वे प्रबोधिताः।
ते देवाः प्रतिनन्दन्तस्तथेति प्रतिशुश्रुवुः॥
४५
एवं ते सकला देवाः धृत्वा तस्यानुशासनम्।
बोधिचर्यां समाधाय संप्रचेरुजगद्धिते॥
तदनुशासनादेव सर्वलोकाधिपा अपि।
बोधिचर्याव्रतं धृत्वा संचरिरे जगद्धिते॥
एवं स त्रिजगच्छास्ता लोकेश्वरो जिनात्मजः।
बोधिसत्त्वमहाभिज्ञः सर्वलोकाधिपेश्वरः॥
ये तस्य त्रिजगच्छास्तुः श्रद्धया शरणं गताः।
सर्वे ते विमलात्मनो नैव गच्छन्ति दुर्गतिम्॥
सदा सद्गतिसंजाताः सद्धर्मश्रीसुखान्विताः।
निःक्लेशा बोधिमासाध्य संबुद्धपदमाप्नुयुः॥
सर्वेऽपि सुगतास्तस्य श्रद्धया शरणं गताः।
ध्यात्वानुस्मृतिमाध्याय प्रचरन्तो जगद्धिते॥
एतत्पुण्यानुभावेन निःक्लेशा विमलाशयाः।
जित्वा मारगणान् बोधिं प्राप्य गताः सुनिर्वृतिम्॥
अतीता अपि संबुद्धा वर्तमाना अनागताः।
सर्वेऽपि ते जगच्छास्तुः श्रद्धया शरणं गताः॥
ध्यात्वानुस्मृतिमाधाय प्रचरन्तो जगद्धिते।
बोधिचर्याव्रतं धृत्वा कृत्वा सर्वजगद्धितम्॥
क्रमेण बोधिसंभारं पूरयित्वा यथाविधि।
जित्वा मारगणान् सर्वान् बोधिं प्राप्याभवन् जिनाः॥
भवन्ति च भविष्यन्ति धर्मराजा मुनीश्वराः।
अर्हन्तः सुगता नाथाः सर्वज्ञास्त्रिविनायकाः॥
एवं स त्रिजगन्नाथो लोकेश्वरो महर्द्धिमान्।
बोधिसत्त्वो महासत्त्वः सर्वलोकाधिपेश्वरः॥
सर्वसत्त्वहितार्थेन बोधिचर्याव्रतं चरन्।
सर्वान् सत्त्वान् स्वयं पश्यन्नवभास्य समुद्धरन्॥
बोधिमार्गे प्रतिष्ठाप्य चारयित्वा शुभे वृषे।
बोधयन् सुप्रसन्नांस्तान् प्रेषयति सुखावतीम्॥
४६
एवम् स जगदादीशो लोकेश्वरो जिनात्मजः।
बोधिसत्त्वो महासत्त्वः सर्वधर्महितार्थभृत्॥
नास्ति तस्य समं कश्चित् सद्धर्मगुणपुण्यवान्।
कुतोऽधिको भवेत्तेन लोकेश्वरो जगत्प्रभुः॥
इत्येवं सुगतैः सर्वैः संबुद्धैः सर्वदर्शिभिः।
लोकेशगुणमाहात्म्यं समादिष्टं श्रुतं मया॥
ईदृक्पुण्यगुणोद्भावं लोकेशस्य विपश्विनः।
मिनीन्द्रेण समादिष्टं पुरा मयाभिसंश्रुतम्॥
तस्माल्लोकेशवरः सर्वसंघाधिपो जगद्गुरुः।
सेवनीयः प्रयत्नेन सद्धर्मगुणवांछिभिः॥
ये ह्यस्य शरणं गत्वा भजन्ति श्रद्धया मुदा।
दुर्गतिं ते न गच्छन्ति सर्वत्रापि कदाचन॥
सदा सद्गतिसंजाता धर्मश्रीसुखभागिनः।
शुभोत्साहं प्रभुंजन्ते प्रान्ते यान्ति सुखावतीम्॥
इत्येवं हि समादिष्टं शाक्यसिंहेन तायिना।
श्रुत्वा सर्वे सभालोकाः प्राभ्यनन्दन् प्रबोधिताः॥
॥इति श्रीमहेश्वरादिदेवसमुत्पादनप्रकरणम्॥