५२ शिवराग्रः
Technical Details
५२ शिवराग्रः।
अथ खलु सुधनः श्रेष्ठिदारकोऽनुपूर्वेण धर्मग्रामं गत्वा येन शिवराग्रो ब्राह्मणः, तेनोपसंक्रम्य शिवराग्रस्य ब्राह्मणस्य पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददादीति। तद्वदतु मे आर्यः-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥
सोऽवोचत्-अहं कुलपुत्र सत्याधिष्ठानेन चरामि। येन सत्येन सत्यवचनेन त्र्यध्वसु न कश्चिद्बोधिसत्त्वोऽनुत्तरायाः सम्यक्संबोधेर्विवृत्तः, न विवर्तते, न विवर्तिष्यति, तेन सत्यवचनाधिष्ठानेन इदं च मे कार्यं स्मृध्यत्विति। तन्मे यथाभिप्रायं सर्वं समृध्यति। एतेनाहं कुलपुत्र सत्यवचनाधिष्ठानेन सर्वकार्याणि साधयामि। एतमहं कुलपुत्र सत्याधिष्ठानं जानामि। किं मया शक्यं सत्यानुपरिवर्तनी वाक्प्रतिलब्धानां बोधिसत्त्वानां चर्यां ज्ञातुं गुणान् वा वक्तुम्॥
गच्छ कुलपुत्र, इयमिहैव दक्षिणापथे सुमनामुखं नाम नगरम्। तत्र श्रीसंभवो नाम दारकः प्रतिवसति, श्रीमतिश्च नाम दारिका। तावुपसंक्रम्य परिपृच्छ कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥
अथ खलु सुधनः श्रेष्ठिदारको महाधर्मगौरवमुत्पाद्य शिवराग्रस्य ब्राह्मणस्य पादौ शिरसाभिवन्द्य शिवराग्रं ब्राह्मणमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनःपुनरवलोक्य शिवराग्रस्य ब्राह्मणस्यान्तिकात्प्रक्रान्तः॥५०॥