४५ सुरेन्द्राभा
Technical Details
४५ सुरेन्द्राभा।
अथ खलु सुधनः श्रेष्ठिदारको येन त्रिदशेन्द्रभवनं येन च सुरेन्द्राभा देवकन्या स्मृतिमतो देवपुत्रस्य दुहिता, तेनोपजगाम। उपेत्य सुरेन्द्राभाया देवकन्यायाः पादौ शिरसाभिवन्द्य सुरेन्द्राभां देवकन्यामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य सुरेन्द्राभाया देवकन्यायाः पुरतः प्राञ्जलिः स्थित्व एवमाह-मया आर्ये अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। श्रुतं च मे आर्या बोधिसत्त्वानामववादानुशासनीं ददातीति। तद्वदस्व मे देवते कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥
एवमुक्ते सुरेन्द्राभा नाम देवकन्या सुधनं श्रेष्ठिदारकमेतदवोचत्-अहं कुलपुत्र असङ्गस्मृतिविशुद्धव्यूहस्य बोधिसत्त्वविमोक्षस्य लाभिनी। सा अहं कुलपुत्र अभिजानामि-उत्पलको नाम कल्पोऽभूत्। तत्र मे गङ्गानदीवालुकासमास्तथागता आरागिताः। अभिनिष्क्रामतां चैषामारक्षा कृता, पूजा कृता, आरामाश्च कृताः परिभोगाय। यश्च तैर्बुद्धैर्भगवद्भिर्बोधिसत्त्वभूतैर्मातुः कुक्षिगतैर्जायमानैः सप्त पदानि प्रक्रामद्भिर्महासिंहनादं नदद्भिः कुमारभूमिस्थितैरन्तःपुरमध्यगतैर्वा अभिनिष्क्रामद्भिर्वा बोधिमभिसंबुध्यमानैर्वा धर्मचक्रं प्रवर्तयमानैः सर्वबुद्धविकुर्वितं वा संदर्शयद्भिः सत्त्वपरिपाकविनयः कृतः, तत्सर्वं प्रथमचित्तोत्पादाय यावत्सद्धर्मपर्यन्तनिष्ठं प्रजानामि स्मरामि अनुस्मरामि धारयामि संधारयामि उपधारयामि अनुसरामि। सुभूतिर्नाम कल्पोऽभूत्। तत्र मे दश गङ्गानदीवालुकासमास्तथागता आरागिताः। सुभगो नाम कल्पोऽभूत्तत्र मे बुद्धक्षेत्रपरमाणुरजःसमास्तथागता आरागिताः। अनिलम्भो नाम कल्पोऽभूत्, तत्र मे चतुरशीतिर्बुद्धकोटीनियुतशतसहस्राण्यारागितानि। सुप्रभो नाम कल्पोऽभूत् तत्र मे जम्बुद्वीपपरमाणुरजःसमास्तथागता आरागिताः। अतुलप्रभो नाम कल्पोऽभूत्, तत्र मे विंशतिगङ्गानदीवालुकासमास्तथागता आरागिताः। उत्तप्तश्रीर्नाम कल्पोभूत्, तत्र मे गङ्गानदीवालुकासमास्तथागता आरागिताः। सूर्योदयो नाम कल्पोऽभूत्, तत्र मेऽशीतिगङ्गानदीवालुकासमास्तथागता आरागिताः। जयंगमो नाम कल्पोऽभूत्, तत्र मे षष्टिगङ्गानदीवालुकासमास्तथागता आरागिताः। सुचन्द्रो नाम कल्पोऽभूत्, तत्र मे सप्ततिर्गङ्गानदीवालुकासमास्तथागता आरागिताः। इति हि कुलपुत्र अनेनोपायेन गङ्गानदीवालुकासमान् कल्पाननुस्मरामि, यदहं सततसमितमविरहिताभूवं तथागतैरर्हद्भिः सम्यक्संबुद्धैः। सर्वेषां च मे तेषां तथागतानामन्तिकादयमसङ्गस्मृतिविशुद्धव्यूहो बोधिसत्त्वविमोक्षः श्रुतः। श्रुत्वा च आरागितः यथोक्तं च प्रतिपन्नः। एवं चाहं विमोक्षं सततसमितमनुप्रविष्टा यच्च तेषां सर्वतथागतानां बोधिसत्त्वभूमिमुपादाय यावत्सद्धर्मस्थितिपर्यन्तनिष्ठं बुद्धविकुर्वितं तत्सर्वमनेन असङ्गस्मृतिविशुद्धव्यूहेन बोधिसत्त्वविमोक्षेणानुस्मरामि धारयामि संधारयामि उपधारयामि अनुस्मरामि। एतमहं कुलपुत्र बोधिसत्त्वविमोक्षं जानामि। किं मया शक्यं बोधिसत्त्वानां विगततमोन्धकाराणां संसाररात्रिप्रभावितानां विगतनिवरणानामनिद्रागमानां विगतस्त्यानमिद्धानां प्रस्रब्धकायसंस्काराणां सर्वधर्मस्वभावानुबोधसुविशुद्धानां दशबलविशुद्धिबोधयितॄणां चर्यां ज्ञातुं गुणान् वा वक्तुम्॥
गच्छ कुलपुत्र, कपिलवस्तुनि महानगरे विश्वामित्रो नाम दारकाचार्यः प्रतिवसति। तमुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥
अथ खलु सुधनः श्रेष्ठिदारकः तुष्ट उदग्र आत्तमनाः प्रीतिसौमनस्यजातोऽचिन्त्यकुशलमूलवेगसंवर्धितः सुरेन्द्राभाया देवकन्यायाः पादौ शिरसाभिवन्द्य सुरेन्द्राभां देवकन्यामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य सुरेन्द्राभाया देवकन्याया अन्तिकात्प्रक्रान्तः॥४३॥