३५ समन्तगम्भीरश्रीविमलप्रभा
Technical Details
३५ समन्तगम्भीरश्रीविमलप्रभा।
अथ खलु सुधनः श्रेष्ठिदारको वासन्त्या रात्रिदेवतायाः प्रथमस्थानबोधिसत्त्वचित्तमण्डलपरिशुद्धिमनुगच्छन्, बोधिगर्भसंभवमनुविचारयन्, बोधिसत्त्वप्रणिधानसागरमवतरन्, बोधिसत्त्वपारमितामार्गं परिशोधयन्, बोधिसत्त्वभूमिमण्डलमवक्रामयन्, बोधिसत्त्वचर्यामण्डलं प्रविस्तरन्, बोधिसत्त्वनिर्याणसागरमनुस्मरन्, सर्वज्ञतावभासमहासागरमनुविलोकयन्, सर्वजगत्परित्राणप्रवणबोधिसत्त्वमहाकरुणामेघं विपुलीकुर्वन्, वासन्त्या रात्रिदेवतायाः समन्तभद्रबोधिसत्त्वचर्याप्रणिधानमण्डलं सर्वक्षेत्रेष्वपरान्ताधिष्ठानमभिनिर्हरन्, येन समन्तगम्भीरश्रीविमलप्रभा नाम रात्रिदेवता, तेनोपसंक्रम्य समन्तगम्भीरश्रीविमलप्रभाया रात्रिदेवतायाः पादौ शिरसाभिवन्द्य समन्तगम्भीरश्रीविमलप्रभां रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य समन्तगम्भीरश्रीविमलप्रभाया रात्रिदेवतायाः पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्य देवते, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि कथं बोधिसत्त्वो बोधिसत्त्वचर्याभूमौ चरति, कथं निर्याति, कथं परिनिष्पद्यते? आह-साधु साधु कुलपुत्र, यस्त्वमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य बोधिसत्त्वभूमिनिर्याणपरिनिष्पत्तिं पृच्छसि। दशभिः कुलपुत्र धर्मैः समन्वागता बोधिसत्त्वाः परिनिष्पन्ना भवन्ति बोधिसत्त्वचर्यायाम्। कतमैर्दशभिः? यदुत सर्वतथागतसंमुखीभावदर्शनसमाधिप्रतिलम्भविशुद्ध्या, सर्वबुद्धलक्षणविचित्रतानन्तकायव्यवलोकनचक्षुर्विशुद्धया, अनन्तमध्यतथागतवर्णसमुद्रविज्ञप्त्यवतारेण, अप्रमाणबुद्धधर्मावभासमण्डलसमुद्रसर्वधर्मधातुप्रमाणावतरणतया, सर्वतथागतरोमविवरसर्वसत्त्वोपमरश्मिसमुद्रनानासत्त्वार्थनिश्चरितावतरणतया, एकैकरोमविवरसर्वरत्नवर्णार्चिःसमुद्रदर्शनतया, प्रतिचित्तक्षणं बुद्धनिर्मितसमुद्रसर्वधर्मधातुप्रसरस्फरणसत्वविनयाधिष्ठानावतरणतया, सर्वसत्त्वस्वराङ्गसमुद्रसंप्रयुक्ततथागतनिर्घोषसर्वत्र्यध्वगतधर्मचक्रनिर्नादनिर्घोषसर्वसूत्रान्तमेघनिगर्जितनिर्घोषमण्डलावतरणतया, अनन्तमध्यबुद्धनामसमुद्रावतरणतया, अचिन्त्यबुद्धविकुर्वितसंदर्शनसत्त्वविनयावरणतया। एभिः कुलपुत्र दशभिर्धर्मैः समन्वागता बोधिसत्त्वाः परिनिष्पन्ना भवन्ति बोधिसत्त्वचर्यायाम्॥
अहं खलु कुलपुत्र शान्तध्यानसुखसमन्तविक्रमस्य बोधिसत्त्वविमोक्षस्य लाभिनी। तस्या मम कुलपुत्र त्र्यध्वप्राप्ताः सर्वतथागताश्चक्षुष आभासमागच्छन्ति। तेषां च तथागतानां बुद्धक्षेत्रपरिशुद्धिमवतरामि। पर्षन्मण्डलसमुद्रानपि, अनन्तमध्यसमाधिविकुर्वितसमुद्रानपि, पूर्वयोगसमुद्रानपि, नामसमुद्रानप्यवतरामि। तेषां च तथागतानां धर्मचक्रप्रवर्तनविमात्रतामवतरामि। तथागतायुष्प्रमाणनानात्वमपि, स्वराङ्गविमात्रतामपि। तेषां च तथागतानामनन्तधर्मधातुशरीरतामवतरामि। न च तांस्तथागतान् भावतोऽभिनिविशामि। तत्कस्य हेतोः? अगतिका हि ते तथागताः, सर्वलोकगतिनिरुद्धत्वात्। अनागतिका हि ते तथागताः, स्वभावासंभूतत्वात्। अनुत्पन्ना हि ते तथागताः, अनुत्पादधर्मतासमशरीरत्वात्। अनिरुद्धा हि ते तथागताः, अनुत्पादलक्षणत्वात्। असत्या हि ते तथागताः, मायागतधर्मदर्शनविज्ञप्त्या। अमृषा हि ते तथागताः, सर्वजगदर्थसमुत्पन्नत्वात्। असंक्रान्ता हि ते तथागताः, च्युत्युपपत्तिव्यतिवृत्तत्वात्। अविनष्टा हि ते तथागताः, धर्मप्रकृत्यविनाशधर्मतया। एकलक्षणा हि ते तथागताः, सर्ववाक्पथसमतिक्रान्तत्वात्। अलक्षणा हि ते तथागताः, धर्मलक्षणस्वभावपर्यवसानत्वात्॥
सा खलु पुनरहं कुलपुत्र एवं सर्वतथागतानवतरमाणा एतं शान्तध्यानसुखसमन्तविक्रमं बोधिसत्त्वविमोक्षं तथागतध्यानमण्डलावभासेन विपुलीकरोमि, प्रविस्तरामि अवतरामि अनुगच्छामि समीकरोमि अभिनिर्हरामि समतलीकरोमि प्रवेशयामि विवर्धयामि निध्यायामि उपनिध्यायामि आकारयामि गोचरीकरोमि दृढीकरोमि अवभासयामि प्रभासयामि व्यूहयामि विभजामि संभारयामि संभावयामि। तत्र च सर्वसंकल्पासमुदाचारायां महाकरुणायां स्थित्वा सर्वसत्त्वपरित्राणसमुदाचारचित्तैकाग्रतायै प्रथमं ध्यानं भावयामि सर्वमनस्कर्मव्युपशमाय ज्ञानबलपराक्रमसर्वसत्त्वसंग्रहप्रीतिसुखचित्तैकाग्रतायै। द्वितीयध्यानं भावयामि संसारविपन्नोपेक्षासर्वसत्त्वस्वभावविशुद्ध्यायतनतायै। तृतीयं ध्यानं भावयामि सर्वसत्त्वक्लेशदुःखसंतापप्रशमनतायै। चतुर्थं ध्यानं भावयामि सर्वज्ञताप्रणिधिमण्डलविपुलीकरणतायै सर्वसमाधिसागराभिनिर्हारकौशल्यतायै सर्वबोधिसत्त्वविमोक्षसागरनयावतरणतायै सर्वबोधिसत्त्वविक्रीडितज्ञानाभिज्ञतायै सर्वबोधिसत्त्वचर्याविकुर्विताभिनिर्हरणतायै समन्तमुखधर्मधातुप्रवेशज्ञाननयं परिशोधयमाना। एवं शान्तध्यानमुखसमन्तविक्रमं बोधिसत्त्वविमोक्षं भावयामि॥
सा खलु पुनरहं कुलपुत्र एतं विमोक्षं भावयमाना नानोपायैः सत्त्वान् परिपाचयामि यदुत रात्र्यां प्रशान्तायां रतिप्रमत्तानां सत्त्वानामशुभसंज्ञां संजनयामि। अरतिसंज्ञां परिखेदसंज्ञामुपरोधसंज्ञां बन्धनसंज्ञां राक्षसीसंज्ञामनित्यसंज्ञां दुःखसंज्ञामनात्मसंज्ञामस्वामिकसंज्ञामपराधीनसंज्ञां जरामरणसंज्ञाम्। सर्वकामविषयपरिभोगेष्वनभिरतिसंज्ञां संजनयामि। ते च सत्त्वास्तच्चित्तं परिभावयन्तः सर्वकामरतिष्वनभिरता धर्मारामरतिं प्रवारयमाणा अगारादनागारिकं निष्क्रामन्ति। तेषामहमरण्यगतानां धर्मेष्वानुलोमिकीं श्रद्धां जनयामि। आर्तभीषणोदारस्वररवशब्दानन्तर्धापयामि। रात्र्यां प्रशान्तायां बुद्धधर्मगम्भीरतां संदर्शयामि। प्रहाणानुकूलं च प्रत्ययमुपसंहरामि। निष्क्रमतां च अगारद्वारं विवृणोमि। मार्गं संदर्शयामि। आलोकं करोमि। तमोन्धकारं विधमामि। भयमन्तर्धापयामि। नैष्क्रम्यं संवर्णयामि। बुद्धवर्णं भाषयामि। धर्मवर्णं संघवर्णं कल्याणमित्रवर्णं भाषामि। कल्याणमित्रोपसंक्रमणं संवर्णयामि॥
एतमहं कुलपुत्र विमोक्षं भावयमाना सत्त्वानामधर्मरागरक्तानामधर्मरागसंकल्पानन्तर्धापयामि। विषमलोभाभिभूतानां मिथ्यासंकल्पगोचराणां तान् संकल्पांस्तान् मनसिकारानन्तर्धापयामि। अनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय उत्पन्नानां च पापकानां संकल्पानामन्तर्धानाय प्रत्ययमुपसंहरामि। अनुत्पन्नानां कुशलमूलानां संकल्पानां पारमितासंप्रयुक्तानां चर्यासंप्रयुक्तानां सर्वज्ञताज्ञाननिर्याणप्रणिधानाभिनिर्हारसंप्रयुक्तानां मैत्रीनयसंप्रयुक्तानां सर्वसत्त्वमहाकरूणास्फरणसंप्रयुक्तानां विविधदिव्यमानुष्यसुखोपधानजननसंप्रयुक्तानां संकल्पानामुत्पादाय उत्पन्नानां च विविधनयप्रत्ययमुपसंहरामि। यावत्सर्वज्ञतानुलोमिकानां सर्वसंकल्पानां प्रत्ययमुपसंहरामि॥
एतमहं कुलपुत्र शान्तध्यानसुखसमन्तविक्रमं बोधिसत्त्वविमोक्षं जानामि। किं मया शक्यं समन्तभद्रबोधिसत्त्वचर्याप्रणिधाननिर्यातानां बोधिसत्त्वानामनन्ताकारधर्मधातुज्ञानप्रतिलब्धानां सर्वकुशलमूलसंवर्धितचित्तानां सर्वतथागतज्ञानबलचित्तावभासप्रतिलब्धानां सर्वतथागतविषयसंवसितचित्तानां सर्वसंवासानावरणचित्तानां परिपूर्णसर्वज्ञताप्रणिधिचित्तानां सर्वक्षेत्रसागरावतीर्णचित्तानां सर्वबुद्धसागरदर्शनप्रसृतचित्तानां सर्वतथागतधर्ममेघसंप्रतीच्छनचित्तानां सर्वाविद्यान्धकारविधमनकराणां संसाररतितृष्णाक्षयान्तकरणमार्गसर्वज्ञताभाससंजननचित्तानां चर्यां ज्ञातुम्, गुणान् वा वक्तुम्॥
गच्छ कुलपुत्र, इयमिहैव ममानन्तरं वैरोचनबोधिमण्डे प्रदक्षिणेन प्रमुदितनयनजगद्विरोचना नाम रात्रिदेवता प्रतिवसति। तामुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वकर्मसु प्रयोक्तव्यम्॥
अथ खलु समन्तगम्भीरश्रीविमलप्रभा रात्रिदेवता तस्यां वेलायामेतमेव शान्तध्यानसुखसमन्तविक्रमं बोधिसत्त्वविमोक्षं भूयस्या मात्रया संदर्शयमाना सुधनं श्रेष्ठिदारकं गाथाभिरध्यभाषत—
सर्वअध्वपरमास्तथागता
आमुखाय अधिमुक्तिचेतसः।
तेषु चक्षु विपुलं विशुध्यते
येन ओतरिषु बुद्धसागरान्॥१॥
पश्यही जिनशरीरु निर्मलं
लक्षणेहि समलंकृतं शुभम्।
तच्च पश्यहि जिने विकुर्वितं
धर्मधातुफरणं प्रतिक्षणम्॥२॥
एष बोधिद्रुमबुद्धआसने
संप्रबुद्ध सुगतो विरोचनो।
धर्मधातु विपुलं स्फरित्वना
चक्रु वर्तयि जगे यथाशयम्॥३॥
बुद्धिया जिनु स्वभावधर्मतां
निःशरीर सुप्रशान्त अद्वयाम्।
रूपकायु शुभलक्षणैश्चितं
दर्शयी जगु फरित्व शेषतः॥४॥
बुद्धकायु विपुलो अचिन्तियो
धर्मधातु फरि येनशेषतो।
सो च दृश्यति समन्ततः समं
सर्व दर्शयि समन्ततो जिनान्॥५॥
सर्वक्षेत्रपरमाणुसादृशा
बुद्धकायप्रभमण्डलाश्रिताः।
अन्यमन्य शुभवर्णदर्शना
धर्मधातुफरणाः प्रतिक्षणम्॥६॥
रश्मिमेघ विपुला अचिन्तिया
निश्चरन्ति जिनरोमतोऽक्षयाः।
ते स्फरित्व जग सर्वशेषतो
क्लेशताप शमयन्ति प्राणिनाम्॥ ७॥
बुद्धनिर्मितसमुद्र अक्षया
निश्चरित्व जिनरोममण्डलात्।
धर्मधातु विपुलं स्फरित्वना
दुर्गतीदुख शमेन्ति प्राणिनाम्॥८॥
बुद्धघोषु मधुरो निगर्जते
सुस्वराङ्गरुतसागरप्रभः।
धर्मवर्ष विपुल प्रवर्षणो
बोधिआशयु जनेति प्राणिनाम्॥९॥
संगृहीत अनेन पूर्वतो
कल्पसागर चरित्व चारिकाम्।
ते विपश्यिषु विरोचनं जिनं
सर्वक्षेत्रप्रतिभासलक्षणम्॥१०॥
सर्वलोक उदितस्तथागतः
सत्त्व सर्वि सममामुखीस्थितः।
अन्यमन्य अधिमुक्तिगोचर-
स्ते न शक्यमपि सर्वि जानितुम्॥११॥
बोधिसत्त्ववर शेषशेषतो
एकरोमि सुगतस्य ओसरी।
तद्विमोक्षनय ये अचिन्तिया-
स्ते न शक्यमपि सर्वि जानितुम्॥१२॥
एष देवत ममा अनन्तरं
लोकनाथभिमुखा प्रमोदते।
ज्योतिरर्चिनयनेति नामतो
एत पृच्छ कथ बोधिचारिकाम्॥१३॥
अथ खलु सुधनः श्रेष्ठिदारकः समन्तगम्भीरश्रीविमलप्रभाया रात्रिदेवतायाः पादौ शिरसाभिवन्द्य समन्तगम्भीरश्रीविमलप्रभां रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य समन्तगम्भीरश्रीविमलप्रभाया रात्रिदेवताया अन्तिकात् प्रक्रान्तः॥३३॥