२९ वेष्ठिलः
Technical Details
२९ वेष्ठिलः।
अथ खलु सुधनः श्रेष्ठिदारको येन शुभपारंगमे नगरे वेष्ठिलस्य गृहपतेर्निवेशनं तेनोपजगाम। उपेत्य वेष्ठिलस्य गृहपतेः पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति। तद्वदतु मे आर्यः-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। सोऽवोचत्-आहं कुलपुत्र अपर्यादत्तकोटीगतस्य बोधिसत्त्वविमोक्षस्य लाभी। न मम कुलपुत्र संतानात्तथागतः परिनिर्वृतो न परिनिर्वाति न परिनिर्वास्यति सर्वलोकधातुषु अत्यन्तपरिनिर्वाणेन अन्यत्र वैनयिकसत्त्ववशमुपादाय। सोऽहं कुलपुत्र चन्दनपीठस्य तथागतचैत्यस्य द्वारमुद्धाटयामि। तच्च मे चैत्यद्वारमुद्धाटयतोऽक्षयबुद्धवंशव्यूहो नाम बोधिसत्त्वसमाधिः प्रतिलब्धः। एतं चाहं कुलपुत्र समाधिं चित्तक्षणे चित्तक्षणे समापद्ये। सर्वत्र चित्तक्षणे अनेकाकारविशेषतामधिगच्छामि॥
आह-क एतस्य आर्य समाधेर्विषयः? आह-एतं मम कुलपुत्र समाधिं समापन्नस्य अस्मिन् लोकधातुवंशे बुद्धपरंपरया काश्यपप्रमुखाः सर्वतथागताः कनकमुनिक्रकुच्छन्दविश्वभुकशिखिविपश्यितिष्यपुष्ययशोत्तरपद्मोत्तरप्रमुखाः सर्वतथागता अभिमुखा भवन्ति। बुद्धदर्शनानुसंधौ बुद्धपरंपरानुपच्छेदेन चित्तक्षणे चित्तक्षणे बुद्धशतं पश्यामि। तदनन्तरेण चित्तेन बुद्धसहस्रमवतरामि। तदनन्तरेण चित्तेन बुद्धशतसहस्रमवतरामि। एवं बुद्धकोटीं बुद्धकोटीशतं बुद्धकोटीसहस्रं बुद्धकोटीशतसहस्रं बुद्धकोट्ययुतं बुद्धकोटीनियुतं बुद्धकोटीकङ्करं बुद्धकोटीबिम्बरम्। तदनन्तरेण चित्तेन यावदनभिलाप्यानभिलाप्यबुद्धोत्पादपरंपरामवतरामि। तदनन्तरेण चित्तेन जम्बुद्वीपपरमाणुरजःसमांस्तथागतानवतरामि। तदनन्तरेण चित्तेन यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमांस्तथागतानवतरामि। तेषां च तथागतानां प्रथमचित्तोत्पादसंभारपरंपरामवतरामि। प्रथमचित्तोत्पादप्रतिलम्भविकुर्वितमवतरामि। प्रणिधानविमात्रताभिनिर्हारविशुद्धिमवतरामि। चर्याविशुद्धिमवतरामि पारमितापरिपूरिमवतरामि। सर्वबोधिसत्त्वभूमिसमुदागममवतरामि। क्षान्तिप्रतिलम्भविशुद्धिमवतरामि। मारकलिविकिरणविनर्दितमवतरामि। अभिसंबोधिविकुर्वितव्यूहमवतरामि। बुद्धक्षेत्रविशुद्धिविमात्रतामवतरामि। सत्त्वपरिपाकविमात्रतामवतरामि। पर्षत्संनिपातविमात्रतामवतरामि। प्रभामण्डलविमात्रतामवतरामि। धर्मचक्रप्रवर्तनवृषभितामवतरामि। बुद्धविकुर्वितप्रातिहार्यमवतरामि। सुविभक्तां संभिन्नां चैषां धर्मदेशनां स्मरामि, संधारयामि, स्मृत्या चोद्गृह्णामि। गत्या प्रविचिनोमि। भक्त्या प्रविभजामि। बुद्ध्यानुगच्छामि। प्रज्ञया प्रकाशयामि। अनागतबुद्धपरंपरां च मैत्रेयप्रमुखानवतरामि। एकचित्तक्षणे बुद्धशतमवतरामि। तदनन्तरेण चित्तेन बुद्धसहस्रमवतरामि। तदनन्तरेण चित्तेन यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजः समांस्तथागतानवतरामि। तेषां च तथागतानां प्रथमचित्तोत्पादसंभारपरंपरामवतरामि। यावत्सुविभक्तां संभिन्नां चैषां धर्मदेशनां स्मरामि, संधारयामि, स्मृत्या चोद्गृह्णामि। गत्या प्रविचिनोमि। मत्या प्रविभजामि। बुद्ध्या अनुगच्छामि। प्रज्ञया प्रकाशयामि। यथा चेह लोकधातुवंशे पूर्वान्तापरान्तपर्यापन्नानां बुद्धपरंपरां पश्यामि, अवतरामि, तथा दशसु दिक्षु अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमेषु अतीतानागतेषु लोकधातुवंशेषु सर्वतथागतपरंपरामवतरामि। तेषां च तथागतानां प्रथमचित्तोत्पादसंभारपरंपरामवतरामि। तां च बुद्धपरंपरावतारमव्यवच्छिन्नां निष्ठामवतरामि। अतुलं श्रद्धागमनीयं बोधिसत्त्ववीर्यव्यवसायगम्यं बोधिसत्त्ववीर्यवेगविवर्धनमसंहार्यं सर्वलोकेन सर्वश्रावकप्रत्येकबुद्धैस्तद्विषयानवक्रान्तैश्च बोधिसत्त्वैः प्रत्युत्पन्नानां च दशसु दिक्षु सर्वलोकधातुषु वैरोचनप्रमुखानां तथागतानां परंपरामवतरामि। एकचित्तक्षणे बुद्धशतं पश्यामि अवतरामि। तदनन्तरेण चित्तेन बुद्धसहस्रमवतरामि। तदनन्तरेण चित्तेन यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमांस्तथागतानवतरामि। यं च यदा तथागतं द्रष्टुमाकाङ्क्षामि, तं तदा पश्यामि। यच्च तैबुद्धैर्भगवद्भिर्भाषितं भाषन्ते भाषिष्यन्ते, तत्सर्व शृणोमि। श्रुत्वा चोद्गृह्णामि। स्मृत्या संधारयामि। गत्या प्रविचिनोमि। मत्या प्रविभजामि। बुद्ध्या अनुगच्छामि। प्रज्ञया प्रकाशयामि। एतमहं कुलपुत्र अपरिनिर्वाणकोटीगतं बोधिसत्त्वविमोक्षं जानामि। किं मया शक्यं त्र्यध्वैकक्षणज्ञानप्रतिलब्धानां बोधिसत्त्वानां क्षणकोटीसमाधिव्यूहविहारिणां तथागतदिवसावक्रान्तानां सर्वकल्पविकल्पसमतानुगतानां सर्वबुद्धसमतासमाध्यनुबद्धानामात्मसत्त्वबुद्धाद्वयविहारिणां प्रकृतिप्रभास्वरधर्मव्यूहमण्डलानां ज्ञानयन्त्रलोकजालस्फरणानां सर्वतथागतधर्ममुद्राविकोपितविहारिणां सर्वधर्मधातुविज्ञपनज्ञानविषयाणां सर्वतथागतधर्मदेशनाविज्ञप्तिज्ञानविषयाणां चर्यां ज्ञातुम्, गुणान् वा वक्तुम्॥
गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे पोतलको नाम पर्वतः। तत्र अवलोकितेश्वरो नाम बोधिसत्त्वः प्रतिवसति। तमुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। तस्यां वेलायामिमे गाथे अभाषत—
गच्छो हि सूधन शिरीजलराजमध्ये
गिरिराजपोतलकि शोभनि शूरभागे।
रत्नामयं तरुवरं कुसुमाभिकीर्ण-
मुद्यानपुष्किरिणिप्रस्रवणोपपेतम्॥१॥
तस्मिंश्च पर्वतवरे विहराति धीरो
अवलोकितेश्वरु विदू जगतो हिताय।
तं गच्छ पृच्छ सुधना गुण नायकानां
देशिष्यते विपुलशोभि नयप्रवेशम्॥२॥
अथ खलु सुधनः श्रेष्ठिदारको वेष्ठिलस्य गृहपतेः पादौ शिरसाभिवन्द्य वेष्ठिलं गृहपतिमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य वेष्ठिलस्य गृहपतेरन्तिकात् प्रक्रान्तः॥२७॥