२५ वैरः
Technical Details
२५ वैरः।
अथ खलु सुधनः श्रेष्ठिदारकः कूटागारनगराभिमुखं मार्गं प्रतिपद्यमानोऽनुविचरन्, मार्गनिम्नतां मार्गोन्नततां मार्गसमतां मार्गविषमतां मार्गसरजस्कतां मार्गविरजस्कतां मार्गक्षेमतां मार्गगहनतां मार्गानावरणतां मार्गकुटिलतां मार्गर्जुकतामनुविलोक्य एवं चित्तमुत्पादयामास-इदं खलु मे तस्य कल्याणमित्रस्योपसंक्रमणं बोधिसत्त्वमार्गप्रतिपत्तिहेतुभूतं सत्त्वानुग्रहज़्ञानमार्गप्रतिपत्तिहेतुभूतं भविष्यति। पारमितामार्गप्रतिपत्तिहेतुभूतं सर्वसत्त्वानुग्रहज्ञानमार्गप्रतिपत्तिहेतुभूतं भविष्यति। सर्वसत्त्वानुनयप्रतिघोन्नामावनामप्रपातविनिवृत्तये सर्वसत्त्वविषममतिप्रतिनिवारणतायै सर्वसत्त्वक्लेशरजःप्रशमनाय, सर्वसत्त्वविविधाकुशलदृष्टिस्थाणुकण्टकशर्करकठल्लापनयनाय, अनावरणधर्मधातुपरमतायैः, अक्षुण्णसर्वज्ञतापुरोपनयनाय हेतुभूतं भविष्यति। तत्कस्य हेतोः? कल्याणमित्राकराः सर्वकुशलधर्माः। कल्याणमित्राधीना सर्वज्ञता। स एवं चिन्तामनसिकारप्रयुक्तो दुरासदसमुदाचारोऽनुपूर्वेण येन कूटागारं नगरं तेनोपसंक्रम्य वैरं दाशं परिमार्गन् परिगवेषमाणोऽद्राक्षीन्महानगरमुखे सागरावतारतीरे वैरं दाशं वणिकूशतसहस्रैरनेकैश्च प्राणिशतसहस्रैर्विचित्रां कथां श्रोतुकामैः परिवृतं समुद्रकथासंप्रकाशनतया बुद्धगुणसमुद्रान् सत्त्वानामारोचयमानम्। दृष्ट्वा च येन वैरो दाशः, तेनोपजगाम। उपेत्य वैरस्य दाशस्य पादौ शिरसाभिवन्द्य वैरं दाशमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य वैरस्य दाशस्य पुरतः प्राञ्जलिः स्थित्वा एवमाहमया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति। तद्वदतु मे आर्यः-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। आह-साधु साधु कुलपुत्र, यस्त्वमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य महाज्ञानप्रतिलम्भसंभवहेतुं परिपृच्छसि। विविधसंसारदुःखसमुदाचारसंभवहेतुं सर्वज्ञताद्वीपाधिष्ठानगमनसंभवहेतुम् अभेद्यमहायानसंभवहेतुं श्रावकप्रत्येकबुद्धभूमिपातभयविगममार्गप्रतिपत्तिसंभवहेतुं विविधशान्तसमाधिमुखावर्तनयाधिगमज्ञानमार्गसंभवहेतुं सर्वत्रगामिनीबोधिसत्त्वचर्याविचारप्रणिधिरथचक्रापराहतमार्गसंभवहेतुं सर्वतेजऊर्मिव्यूहबोधिसत्त्वचर्यास्वभावनयमार्गसंभवविशुद्धिहेतुं सर्वधर्मदिङ्भुखापरान्तमार्गसंभवविशुद्धिहेतुं सर्वज्ञतासागरावतारमार्गसंभवविशुद्धिहेतुं परिपृच्छसि। अहं कुलपुत्र इह महासागरतीरकूटागारे महानगरे प्रतिवसामि महाकरुणाध्वजां बोधिसत्त्वचर्यां परिशोधयन्। सोऽहं कुलपुत्र जम्बुद्वीपे दरिद्रान् सत्त्वानवलोक्य एषामर्थाय तथा तपस्तप्यामि, यदुत अभिप्रायमेषां परिपूरयिष्यामि। लोकामिषसंग्रहं करिष्यामि। धर्मसंभोगेन चैनान् संतोषयिष्यामि पुण्यसंभारमार्गमेषामुपदेक्ष्यामि। ज्ञानसंभारं संजनयिष्यामि। कुशलमूलबलं संवर्धयिष्यामि। बोधिचित्तमुत्पादयिष्यामि। बोध्याशयं विशोद्ययिष्यामि। महाकरुणाबलमुपस्तम्भयिष्यामि। संसारदुःखं व्युपशमयिष्यामि। संसारचर्यापरिखेदबलमुपस्तम्भयिष्यामि। सत्त्वसागरसंग्रहणे चैनान्नियोजयिष्यामि। गुणसागरप्रतिपत्तिमुखे च प्रतिष्ठापयिष्यामि। धर्मसागरज्ञानालोकं चैषामुपसंहरिष्यामि। सर्वबुद्धसागरं चैषामभिमुखमावर्तययिष्यामि। सर्वज्ञतासागरे चैनानवतारयिष्यामि॥
एवं चिन्तामनसिकारप्रयुक्तोऽहं कुलपुत्र इह सागरतीरकूटागारनगरे प्रविचरामि। एवं जगद्धितसुखप्रयुक्तोऽहं कुलपुत्र सर्वमहासागररत्नद्वीपान् प्रजानामि। सर्वरत्नाकरान् सर्वरत्नगोत्राणि सर्वरत्नमूलं प्रजानामि। सर्वनागभवनानि सर्वनागसंक्षोभान् सर्वयक्षभवनानि सर्वयक्षसंक्षोभान् सर्वराक्षसभवनानि सर्वराक्षसभयप्रशमनानि सर्वभूतभवनानि सर्वभूतान्तरायव्युपशमनानि प्रजानामि। सर्वावन्तं संभवावर्तपरिवर्जनं महोर्मिवेशपरिहारमुदकवर्णविमात्रतां प्रजानामि। चन्द्रादित्यज्योतिर्ग्रहगणपरिवर्तनं रात्रिंदिवक्षणलवमूहूर्तं प्रजानामि। गमनागमनविशेषतां क्षेमाक्षेमतां यानपात्रयन्त्रक्रियादृढतां यानपरिहारं यानवाहनं मारुतसंग्रहणं मारुतोत्पादनं यानावर्तनं यानपरिवर्तनं यानसंस्थापनं यानसंप्रेषणं प्रजानामि। सोऽहं कुलपुत्र एवंज्ञानसमन्वागतः सततं सत्त्वार्थकार्यप्रयुक्तो वणिग्गणं दृढेन यानेन क्षेमेण शिवेनाभयेन यथाप्रहर्षं प्रमोदयन् धार्म्या कथया यथाभिप्रायेण रत्नद्वीपमुपनयामि। सर्वरत्नसमृद्धिं चैषां कृत्वा पुनर्जम्बूद्वीपमुपनयामि। न च मम कुलपुत्र कदाचित् किंचिद् यानपात्रं विपन्नपूर्वम्। येषां च सत्त्वानामहं कुलपुत्र चक्षुषामाभासमागच्छामि, ये च सत्त्वा मम धर्मदेशनां शृण्वन्ति, तेषां सर्वसंसारसागरसंसीदनभयानि विगच्छन्ति, सर्वज्ञतासागरावतारज्ञानं चामुखीभवति। तृष्णासागरोच्छोषणतायै च प्रतिपद्यन्ते, त्र्यध्वसागरज्ञानालोकं च प्रतिलभन्ते। सर्वसत्त्वदुःखसागरक्षयाय चाभ्युत्सहन्ते। सर्वसत्त्वचित्तसागरकालुष्यप्रसादनतायै च प्रयुज्यन्ते। सर्वक्षेत्रसागरविशुद्धये वीर्यमारभन्ते। सर्वदिक्सागरस्फरणतायै च न विनिवर्तन्ते। सर्वजगदिन्द्रियसागरसंभेदं च प्रतिविध्यन्ति। सर्वसत्त्वचर्यासागरं चानुवर्तन्ते। यथाशयजगत्सागरप्रतिभासप्राप्ताश्च भवन्ति॥
एतस्य अहं कुलपुत्र महाकरूणाध्वजस्य अमोघदर्शनश्रवणं संवासानुस्मृतिर्नाम नदीनिर्घोषस्य बोधिसत्त्वविमोक्षस्य लाभी। किं मया शक्यं बोधिसत्त्वानां सर्वसंसारसागरविचारिणां सर्वक्लेशासागरानुपलिप्तानां सर्वदृष्टिगतसागरसंग्रहग्राहभयविगतानां सर्वधर्मसागरस्वभावजलविचारिणां सर्वजगत्सागरस्वभावतलविचारिणां सर्वजगत्सागरसंग्रहवस्तुसंग्रहणजालानां सर्वज्ञतासागरसंवासिनां सर्वसत्त्वाभिनिवेशसागरनिर्मथनानां सर्वकालसागरसंभिन्नविहारिणां सर्वजगत्सागरपरिपाकतत्त्वाभिज्ञानां सर्वजगत्सागरविनयकालानतिक्रान्तानां चर्यां ज्ञातुं गुणान् वा वक्तुम्॥
गच्छ कुलपुत्र, इहैव दक्षिणापथे नन्दिहारं नाम नगरम्। तत्र जयोत्तमो नाम श्रेष्ठी प्रतिवसति। तमुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥
अथ खलु सुधनः श्रेष्ठिदारको वैरस्य दाशस्य पादौ शिरसाभिवन्द्य वैरं दाशमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य अश्रुमुखो रुदन् कल्याणमित्रदर्शनाभिलाषावितृप्तो वैरस्य दाशस्यान्तिकात्प्रक्रान्तः॥२३॥