२४ उत्पलभूतिः
Technical Details
२४ उत्पलभूतिः।
अथ खलु सुधनः श्रेष्ठिदारकोऽनपेक्षः काये जीविते च, अनपेक्षः सर्वभवभोगपरिग्रहोपादानाभिनिवेशनापत्तिषु, अनपेक्षः सर्वसत्त्वदेशरतिषु, अनपेक्षः सर्वरूपशब्दगन्धरसस्प्रष्टव्येषु, अनपेक्षः सर्वपरिवारोपभोगपरिभोगेषु, अनपेक्षः सर्वराज्यैश्वर्याधिपत्यसुखेषु, सापेक्षः सर्वसत्त्वपरिपाचनविनयपरिशुद्धिषु अनुत्तरबुद्धक्षेत्रपरिशुद्ध्यभिनिर्हरणतया, सापेक्षः सर्वतथागतपूजोपस्थानपरिचर्यावितृप्ततया, सापेक्षः सर्वधर्मेषु स्वभावपरिज्ञानानुगमाय, सापेक्ष सर्वबोधिसत्त्वगुणेषु सर्वगुणसागरेषु प्रतिपत्त्यच्यवनतायै, सापेक्षः सर्वबोधिसत्त्वमहाप्रणिधानेषु सर्वकल्पानवशेषबोधिसत्त्वचर्यासंवासनतायै, सापेक्षः सर्वतथागतपर्षन्मण्डलसमुद्रावतारेषु, सापेक्षः सर्वबोधिसत्त्वसमाधिमुखेषु एकैकसमाधिमुखसर्वबोधिसत्त्वसमाध्यसंख्येयावतरणविकुर्वणतायै, सापेक्षः सर्वधर्मज्ञानालोकचक्रेषु सर्वतथागतधर्मचक्रसंप्रतीच्छनातृप्ततायै सर्वकल्याणमित्राकरान् सर्वकल्याणमित्रसंभवने, तांश्च अन्यांश्च सर्वबोधिसत्त्वगुणान् संपश्यन् अनुपूर्वेण येन पृथुराष्ट्रं जनपदस्तेनोपसंक्रम्य उत्पलभूतिं गान्धिकश्रेष्ठिनं परिमार्गन् परिगवेषमाणोऽद्राक्षीत्। दृष्ट्वा च पुनर्येनोत्पलभूतिर्गान्धिकश्रेष्ठी तेनोपजगाम। उपेत्य उत्पलभूतेर्गान्धिकश्रेष्ठिनः पादौ सिरसाभिवन्द्य उत्पलभूतिं गान्धिकश्रेष्ठिनमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य उत्पलभूतेर्गान्धिकश्रेष्ठिनः पुरतः प्राञ्जलिः स्थित्वा एवमाह-अहमार्य अनुत्तरायां सम्यक्संबोधौ संप्रस्थितः सर्वबुद्धसमज्ञानमाकाङ्क्षमाणः सर्वबुद्धपूर्णप्रणिधानमण्डलं परिपूरयितुकामः सर्वबुद्धरूपकायं द्रष्टुकामः सर्वबुद्धधर्मकायं परिनिष्पादयितुकामः सर्वबुद्धधर्मज्ञानकायं परिज्ञातुकामः सर्वबोधिसत्त्वचर्यामण्डलं परिशोधयितुकामः सर्वबोधिसत्त्वसमाधिमण्डलमवभासयितुकामः सर्वबोधिसत्त्वधारणीमण्डलं संस्थापयितुकामः सर्वावरणमण्डलं विकरितुकामः सर्वक्षेत्रमण्डलमनुविचरितुकामः। न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। कथं प्रतिपद्यमानो बोधिसत्त्वो निर्याति सर्वज्ञतायाम्? आह-साधु साधु कुलपुत्र, येन तेऽनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। अहं कुलपुत्र सर्वगन्धान् प्रजानामि। सर्वगन्धयोगान् सर्वधूपान् सर्वधूपयोगान् प्रजानामि। सर्वानुलेपनानि सर्वानुलेपनयोगान् सर्वचूर्णान् सर्वचूर्णयोगान् सर्वगन्धानुलेपनचूर्णाकरान् प्रजानामि। देवगन्धानपि प्रजानामि। नागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यगन्धानपि प्रजानामि। विविधानपि गन्धान् प्रजानामि। व्याधिप्रशमनगन्धानपि, दौर्मनस्यापहारगन्धानपि, लौकिकप्रीतिसंजननगन्धानपि, क्लेशोज्ज्वालनगन्धानपि, क्लेशप्रशमनगन्धानपि, विविधसंस्कृतरतिसुखसंजननगन्धानपि, सर्वसंस्कृतोद्वेगसंजननगन्धानपि, मदप्रमादापहारगन्धानपि, बुद्धमनसिकारसमुदाचारसंभवगन्धानपि, धर्मनयानुगमगन्धानपि, आर्योपभोग्यगन्धानपि, सर्वबोधिसत्त्वगन्धविमात्रतामपि, सर्वबोधिसत्त्वभूमिव्यवस्थानगन्धानपि प्रजानामि। सर्वांश्च तानहं गन्धानाकारतोऽपि प्रजानामि। संभवतोऽपि उत्पादतोऽपि प्रादुर्भावतोऽपि परिनिष्पत्तितोऽपि परिशुद्धितोऽपि परिहारतोऽपि प्रयोगतोऽपि परिभोगतोऽपि विषयतोऽपि प्रभावतोऽपि धर्मतोऽपि मूलतोऽपि प्रजानामि॥
अस्ति कुलपुत्र मनुष्यलोके नागसंक्षोभसंभवहस्तिगर्भो नाम गन्धः, यस्य तिलमात्रा गुलिका सकलं पृथुराष्ट्रं जनपदं महागन्धघनाभ्रजालसंछन्नं कृत्वा सप्ताहं सूक्ष्मगन्धोदकधारावर्षमभिप्रवर्षति। तत्र येषां सत्त्वानां शरीरे वा चीवरे वा गन्धोदकधारा निपतन्ति, ते सर्वे सुवर्णवर्णकुसुमविचित्रिता भवन्ति। येषु च भवनविमानकूटागारेषु निपतन्ति, ते सर्वे सुवर्णवर्णकुसुमविचित्रिता भवन्ति। येऽपि सत्त्वास्तेषां गन्धमेघजालानां मारुतसमीरितानामन्तर्भवनगता गन्धं जिघ्रन्ति, ते सर्वे सप्ताहमुदारप्रीतिप्रामोद्यपरिस्फुटा भवन्ति, अनेकविधानि च कायिकचैतसिकानि सुखसौमनस्यानि प्रत्यनुभवन्ति। न चैषां शरीरे व्याधिरुत्पद्यते धातुसंक्षोभजो वा अपरपरिक्रमिको वा। नापि चैतसिकं दुःखदौर्मनस्यमुत्पद्यते, न समुदाचरति भयं वा त्रासं वा च्छम्भितत्त्वं वा मनःसंक्षोभो वा व्यापादो वा। सर्वे च ते सत्त्वा अन्योन्यं मैत्रचित्ता भवन्ति हर्षप्रीतिसंजाताः। तेषामहं कुलपुत्र हर्षप्रीतिसंजातानामाशयविशुद्धिमारभ्य तथा धर्मं देशयामि, यथा नियता भवन्ति अनुत्तरायां सम्यक्संबोधौ॥
अस्ति कुलपुत्र मलयपर्वतसंभवं गोशीर्षं नाम चन्दनम्, येनानुलिप्तगात्रो अग्निखदायामपि प्रपतितो न दह्यते। अस्ति कुलपुत्र सागरकच्छसंभवो अपराजितो नाम गन्धः, येनानुलिप्ताया भेर्याः शङ्खस्य वा निर्घोषेण सर्वपरचक्रं पराजयं गच्छति। अस्ति कुलपुत्र अनवतप्तहृदतीरसंभवं पद्मगर्भं नाम कालागरु, यस्य तिलमात्रा गुलिका सकलं जम्बुद्वीपं गन्धेन स्फरति। ये च सत्त्वास्तं गन्धं जिघ्रन्ति, ते सर्वे पापविजुगुप्सनसंवरचित्तं प्रतिलभन्ते। अस्ति कुलपुत्र हिमवत्पर्वतराजसंभवा अरुणवती नाम गन्धजातिः, यस्या गन्धमाघ्राय सत्त्वा विरक्तचित्ता भवन्ति। तेषामहं तथा धर्मं देशयामि, यद्विरजोमण्डलं नाम समाधिं प्रतिलभन्ते। अस्ति कुलपुत्र राक्षसलोकसंभवा सागरगर्भा नाम गन्धजातिः, या राज्ञश्चक्रवर्तिनः परिभोगायोत्पद्यते, यया धूपितमात्रया चतुरङ्गो बलकायो राज्ञश्चक्रवर्तिनो गगनतले प्रतिष्ठते। अस्ति कुलपुत्र, सुधर्मदेवसभासंभवा शोभनव्यूहा नाम गन्धजातिः, यया धूपितमात्रया देवा बुद्धगन्धस्मृतिं प्रतिलभन्ते। अस्ति कुलपुत्र सुयामदेवराजभवने शुद्धकोशानां गन्धजातिः, यया धूपितया सर्वे सुयामदेवपुत्राः सुयामदेवराजसकाशमुपसंक्रामन्ति। तेषामुपसंक्रान्तानां सुयामो देवराजो धार्मीं कथां कथयति। अस्ति कुलपुत्र तुषितभवने सिन्धुवारिता नाम गन्धजातिः, या धर्मासननिषण्णस्य एकजातिप्रतिबद्धस्य बोधिसत्त्वस्य पुरतो धूपिता महागन्धमेघेन सकलं धर्मधातुं स्फरित्वा सर्वतथागतपर्षन्मण्डलेष्वनेकाकारव्यूहं महाधर्ममेघवर्षं प्रवर्षति। अस्ति कुलपुत्र सुनिर्मितदेवराजभवने मनोहरा नाम गन्धजातिः, या सुनिर्मितदेवराजभवने प्रधूपिता सप्ताहमचिन्त्यधर्ममेघवर्षं प्रवर्षति। एतामहं कुलपुत्र गन्धयुक्तिं प्रजानामि। किं मया शक्यं निरामगन्धानां बोधिसत्त्वानां सर्वकामोच्चलितानां क्लेशमारपाशविप्रमुक्तानां सर्वभवगतिव्यतिवृत्तानां ज्ञानमायागतरूपविचारिणां सर्वलोकानुपलिप्तानामसङ्गशीलानामनावरणज्ञानमण्डलविशुद्धानामप्रतिहतज्ञानगोचरविषयाणां सर्वालयनिकेतानिश्रितानां सर्वभवालयनिकेतचारिणां चर्यां ज्ञातुं गुणान् वा वक्तुम्, शीलचर्याविशुद्धिमुखं वा परिदीपयितुम्, अनवद्यचरणं वा प्रभावयितुम्, अव्यापादकायवाङ्भनःसमुदाचारो वा देशयितुम्॥
गच्छ कुलपुत्र, इहैव दक्षिणापथे कूटागारं नाम नगरम्। तत्र वैरो नाम दाशः प्रतिवसति। तमुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥
अथ खलु सुधनः श्रेष्ठिदारक उत्पलभूतेर्गान्धिकश्रेष्ठिनः पादौ शिरसाभिवन्द्य उत्पलभूतिं गान्धिकश्रेष्ठिनमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य उत्पलभूतेर्गान्धिकश्रेष्ठिनोऽन्तिकात् प्रक्रान्तः॥२२॥