२३ सर्वगामी
Technical Details
२३ सर्वगामी।
अथ खलु सुधनः श्रेष्ठिदारकोऽचलामुपासिकामामुखीकृत्य अचलाया उपासिकाया अनुशासनीमनुस्मरन्, यदचलयोपासिकया दर्शितं श्रावितं देशितं संवर्णितं योजितं विभक्तं प्रभावितं विसृतं तत्संभावयन्, अनुसरन्, अनुविचिन्तयन् अवतरन् भावयन् निगमयन् निध्यायन् अवभासयन् समीकुर्वन् अनुपूर्वेण देशेन देशं जनपदेन जनपदमनुचंक्रमन् अनुविचरन् येनामिततोसलो जनपदस्तेनोपजगाम। उपेत्य तोसलं नगरं परिमार्गन् परिगवेषमाणोऽनुपूर्वेण तोसलं नगरमनुप्राप्तः। सूर्यास्तंगमनकाले स तोसलं नगरमनुप्रविश्य मध्ये नगरशृङ्गाटकस्य स्थित्वा वीथीमुखेन वीथीमुखं चत्वरेण चत्वरं रथ्यया रथ्यां सर्वगामिनं परिव्राजकं परिगवेषमाणो व्यवचारयन् अद्राक्षीद्रात्र्यां प्रशान्तायां तोसलस्य नगरस्योत्तरे दिग्भागे सुलभं नाम पर्वतम्। तस्य शिखरे विविधतृणगुल्मौषधिवनारामरचिते महावभासप्राप्तं भास्करमिवोदितम्। तस्य तमवभासं दृष्ट्वा उदारप्रीतिवेगसंजातस्य एतदभवत्-असंशयमहमत्र पर्वतशिखरे कल्याणमित्रं द्रक्ष्यामीति। स तस्मान्नगरादभिनिष्क्रम्य येन सुलभः पर्वतः, तेनोपेत्य सुलभं पर्वतमभिरुह्य येन तन्महावभासं पर्वतशिखरं तेनोपसंक्रामन्नद्राक्षीद्दूरत एव सर्वगामिनं परिव्राजकं महाब्रह्मातिरेकवर्णं श्रिया देदीप्यमानं दशभिर्ब्रह्मसहस्रैः परिवृतं चंक्रमे चंक्रम्यमाणम्। स तस्य पादौ शिरसाभिवन्द्य तमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति। तद्वदतु मे आर्यः-कथं बोधिसत्त्वेन बोधिसत्त्वर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। आह-साधु साधु कुलपुत्र, यस्त्वमनुत्तरां सम्यक्संबोधिमभिसंप्रस्थितः। अहं कुलपुत्र सर्वगामी सर्वत्रानुगतायां बोधिसत्त्वचर्यायां स्थितः समन्तमुखव्यवचारणालोकेन समाधिमुखेन अभावप्रतिष्ठितया आर्यानभिसंस्कारिकया समन्तधर्मधातुतलभेदेन च प्रज्ञापारमिताज्ञानालोकमुखेन समन्वागतः। सोऽहं कुलपुत्र सर्वसत्त्वभाजनलोकव्यवचारेषु सर्वसत्त्वगतिव्यवचारेषु सर्वसत्त्वच्युतिमुखेषु सर्वसत्त्वोपपत्तिमुखेषु सर्वभवगतिसंभेदेषु विविधोपपत्त्यायतनविचित्रे लोकसंनिवेशे विचित्रवर्णसंस्थानारोहपरिणाहानां सत्त्वानां नानाविधोपपत्तिसंयोजनानां नानाप्रयोगाणां विचित्राधिमुक्तानां यदुत देवगतिपर्यापन्नानां नागगतिपर्यापन्नानां यक्षगतिपर्यापन्नानां गन्धर्वगतिपर्यापन्नानामसुरगतिपर्यापन्नानां गरुडगतिपर्यापन्नानां किन्नरगतिपर्यापन्नानां महोरगगतिपर्यापन्नानां नरकगतिपर्यापन्नानां तिर्यग्योनिगतिपर्यापन्नानां यमलोकगतिपर्यापन्नानां मनुष्यगतिपर्यापन्नानामनुष्यगतिपर्यापन्नानां विविधदृष्टिगतिनिश्रितानां श्रावकयानाधिमुक्तानां प्रत्येकबुद्धयानाधिमुक्तानां महायानाधिमुक्तानां सत्त्वानामर्थं करोमि विविधैरुपायैर्विविधैर्ज्ञाननयप्रयोगैः। यदुत केषांचित्सत्त्वानां विविधलौकिकशिल्पशिक्षणतया अर्थं करोमि सर्वशिल्पज्ञानभेदवतीधारण्यालोकेन। केषांचित् सत्त्वानां चतुःसंग्रहवस्तुप्रयोगेण अर्थं करोमि यदुत सर्वज्ञज्ञानोपनयनाय। केषांचित् सत्त्वानां पारमितासंवर्णनतया अर्थं करोमि यदुत सर्वज्ञतापरिणामज्ञाननयालोकसंजननतया। केषांचित् सत्त्वानां बोधिचित्तसंवर्णनतया अर्थं करोमि यदुत बोधिबीजाविप्रणाशोपस्तम्भसंजननतया। केषांचित् सत्त्वानां सर्वाकारबोधिसत्त्वचर्यासंवर्णनतया अर्थं करोमि यदुत सर्वबुद्धक्षेत्रपरिशोधनसर्वसत्त्वपरिपाकप्रणिधिसंजननतायै। केषांचित् सत्त्वानामुद्वेगसंजननतया अर्थं करोमि यदुत दुश्चरितविपाकनिष्यन्दनरकगतिदुःखवेदनानुभवसंदर्शनतया। केषांचित् सत्त्वानां महाप्रीतिसंजननतया अर्थं करोमि यदुत सर्वतथागतावरोपितदक्षिणानियतसर्वज्ञताफलपर्यवसानेऽभ्युदीरणतया। केषांचित् सत्त्वानां सर्वतथागतगुणवर्णसंप्रकाशनतया अर्थं करोमि यदुत बुद्धगुणशरीराभिलाषसर्वज्ञताप्रणिधिसंजननतायै। केषांचित् सत्त्वानां बुद्धमाहात्म्यसूचनया अर्थं करोमि यदुत अविवर्त्यानाभोगाप्रतिप्रस्रब्धबुद्धकार्यानुष्ठानसक्तबुद्धकायप्रतिलम्भाभिलाषसंजननतायै। केषांचित् सत्त्वानां बुद्धाधिपतेयतासंदर्शनतया अर्थं करोमि यदुत अनभिभूतबुद्धात्मभावसंपत्प्रतिलाभाभिलाषसंजननतायै।
अपि तु खलु पुनरहं कुलपुत्र, इह नगरे तोसले सर्वरथ्यासु सर्वचत्वरेषु सर्वशृङ्गाटकेषु सर्ववीथीमुखेषु सर्वगृहेषु सर्वश्रेणिषु सर्वकुलेषु सर्वकुलपरिवर्तेषु यथासंनिपतितानां स्त्रीपुरुषदारकदारिकाणां यथाशयानां यथाप्रयोगाणां यथाधिपतेयानां यथाव्यवचाराणां तत्सभागानि आत्मभावारोहपरिणाहसंस्थानानि अभिनिर्हृत्य धर्मं देशयामि। न च ते सत्त्वा अवबुध्यन्ते केनेदं देशितम्, कुतो वायमिति। अन्यत्र श्रुत्वा तथत्वाय प्रतिपद्यन्ते। येऽपीमे कुलपुत्र जम्बुद्वीपे षण्णवतियो पाषण्डा विविधदृष्टिगताभिनिविष्टाः, तत्राप्यहं सर्वत्रानुगच्छामि विविधदृष्टिगतसक्तानां सत्त्वानां परिपाचनतायै। यथा च कुलपुत्र अहमिह तोसले नगरे सत्त्वानामर्थं करोमि, एवं जम्बुद्वीपे सर्वग्रामनगरनिगमजनपदराष्ट्रराजधानीषु सत्त्वानामर्थं करोमि। यथा जम्बुद्वीपे, तथा सर्वत्र चातुर्द्वीपके लोकधातौ, एवं साहस्रे द्विसाहस्रे त्रिसाहस्रे महासाहस्रे लोकधातौ, एवं दशसु दिक्षु, अपरिमाणेषु लोकधातुषु, सर्वसत्त्वपथेषु सर्वसत्त्वप्रतिष्ठानेषु सर्वसत्त्वनिकेतेषु सर्वसत्त्वनिलयसंज्ञागतेषु सर्वसत्त्वपरिवर्तेषु सर्वसत्त्वसमवसरणेषु सर्वसत्त्वसमुद्रेषु सर्वसत्त्ववंशेषु सर्वसत्त्वदिक्षु सर्वसत्त्वविदिक्षु सर्वसत्त्वविधिषु यथाशयाधिमुक्तानां सत्त्वानामर्थं करोमि। विविधैरुपायै र्विविधैर्नयैर्विविधैर्द्वारैर्विविधाभिर्युक्तिभिर्विविधैः संप्रयोगैः विविधैरुपायनयैर्विविधाभिः क्रियाभिर्विविधरूपवर्णसंदर्शनसंप्रसादनतया विविधवाक्पथोदीरणतया सत्त्वानामर्थं करोमि। एतामहं कुलपुत्र सर्वगामिनीं सर्वत्रानुगतां बोधिसत्त्वचर्यां प्रजानामि। किं मया शक्यं बोधिसत्त्वानां सर्वजगन्मयशरीराणां स्वकायसर्वकायासंभेदसमाधिप्रतिलब्धानां सर्वभवगत्यनुसृतविपुलनिर्माणचक्राणां सर्वलोकोपपत्तिस्वशरीरानुविचारिणां सर्वजगन्नयनरोचनरुचिरनिर्माणचक्रपरमाणां सर्वजगज्जातिकुलजन्मोपपत्तिप्रदर्शकानां सर्वकल्पसंवासाप्रतिहतप्रणिधिचक्राणामिन्द्रजालतलोपमचर्याव्यूहावभासप्रतिलब्धानां सर्वजगदर्थक्रियानुपलेसंवासपरमाणां त्र्यध्वजगत्तलसमतानुगतानां नैरात्म्यवतीज्ञानधातुप्रतिभासितापर्यन्तमहाकरुणागर्भाणां सर्वजगत्कुशलाधानाभिमुखानां चर्यां ज्ञातुं गुणान् वा वक्तुम्॥
गच्छ कुलपुत्र, इहैव दक्षिणापथे पृथुराष्ट्रं नाम जनपदः। तत्रोत्पलभूतिर्नाम गान्धिकश्रेष्ठी प्रतिवसति। तमुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वानां बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥
अथ खलु सुधनः श्रेष्ठिदारकः सर्वगामिनः परिव्राजकस्य पादौ शिरसाभिवन्द्य सर्वगामिनं परिव्राजकमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य सर्वगामिनः परिव्राजकस्यान्तिकात् प्रक्रान्तः॥२१॥