१९ समन्तनेत्रः
Technical Details
१९ समन्तनेत्रः।
अथ खलु सुधनः श्रेष्ठिदारकोऽनन्तबुद्धदर्शनावतीर्णोऽनन्तबोधिसत्त्वसमवधानप्राप्तोऽनन्तबोधिसत्त्वमार्गनयावभासितोऽनन्तबोधिसत्त्व-धर्मनयाभिष्यन्दितनिश्चितचित्तोऽनन्तबोधिसत्त्वाधिमुक्तिपथविशुद्धिरनन्तबोधिसत्त्वेन्द्रियावभासप्रतिलब्धोऽनन्तबोधिसत्त्वाशय-बलप्रतिष्ठितोऽनन्तबोधिसत्त्वचर्यानुगतचेताः अनन्तबोधिसत्त्वप्रणिधानबलसंजातोऽनन्तबोधिसत्त्वापराजितध्वजोऽनन्तबोधिसत्त्वज्ञानालोकपरिवर्ती अनन्तबोधिसत्त्वाधर्मावभासप्रतिलब्धः अनुपूर्वेण येन वेत्रमूलको नाम जनपदस्तेनोपसंक्रम्य समन्तमुखं नगरं परिमार्गन् समन्तदिग्विदिक्षु देशप्रदेशोपचारेषु निम्नोन्नतसमविषमेषु अपरिखिन्नाशयोऽविश्रमन् समानचित्तोऽविवर्त्यवीर्योऽपर्यादत्तचेतनोऽविस्मृतकल्याणमित्रानुशासनःसदाकल्याणमित्रसमुदाचारहृदयवासनः समन्तमुखविज्ञप्तीन्द्रियः सर्वप्रमादविगतो विस्फारितकर्णचक्षुः सर्वतः परिगवेषमाणोऽद्राक्षीत्समन्तमुखं नगरम्, मध्ये वेत्रमूलस्य जनपदस्य दशानां पट्टनसहस्राणां निगमं सुपरिनिष्ठितं दृढप्राकारमुद्विद्धमष्टचत्वरोपशोभितम्। तस्य मध्ये समन्तनेत्रं गान्धिकमद्राक्षीत् गान्धिकवीथ्यामुपविष्टम्। दृष्ट्वा च येन समन्तनेत्रो गान्धिकस्तेनोपसंक्रम्य समन्तनेत्रस्य गान्धिकस्य पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्य, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। आह-साधु साधु कुलपुत्र, येन ते अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। अहं कुलपुत्र सर्वसत्त्वानां व्याधीन् प्रजानामि वातसमुत्थानपि, पित्तसमुत्थानपि, श्लेष्मसमुत्थानपि, सभागक्षुभितानपि, परोपक्रमितानपि, अमनुष्यवैकारिकानपि, विषमपरोपक्रमिकानपि, विविधमन्त्रशस्त्रवेतालप्रयोगाग्निसमुत्थानपि, उदकसंक्षोभसमुत्थानपि, विविधभयंसंत्राससंभवानपि। तेषां च सर्वव्याधीनां प्रशमं प्रजानामियदुत स्नेहनं प्रजानामि, वमनं विरेचनमास्थापनं रक्तावसेचनं नासाकर्म कर्षुपरिणाहं परिष्वेदनमनुलेपनं विषप्रतिघातं भूतग्रहप्रतिषेधं बृंहणं स्नपनं संवासनं संवर्धनं वर्णपरिशोधनं बलसंजननं प्रजानामि। ये कुलपुत्र सत्त्वा ममान्तिकमुपसंक्रामन्ति दशभ्यो दिग्भ्यः, तेषामहं सर्वेषां व्याधीन् प्रशमयामि। व्याधिप्रशान्तांश्च सुस्नातानुलिप्तगात्रान् कृत्वा यथार्हाभरणविभूषिताङ्गान् यथार्हवस्त्रसंछादितशरीरान् विविधभोजनरसाग्रैः संतर्प्य अपरिमितधनसमृद्धान् करोमि। उत्तरे चैषां रागप्रहाणाय धर्मं देशयामि अशुभोपसंहारेण। दोषप्रहाणाय धर्मं देशयामि महामैत्रीसंवर्णनतया। मोहप्रहाणाय धर्मं देशयामि धर्मप्रविचयप्रभेदप्रदर्शनतया। समभागचर्याक्लेशप्रहाणाय धर्मं देशयामि। विशेषपरिज्ञानयमुखसंप्रकाशनतया बोधिचित्तसंभवहेतुं परिदीपयामि। सर्वबुद्धगुणधर्मसंप्रयुक्तकथासंप्रकाशनतया महाकरुणासंभवहेतुं परिदीपयामि। अपरिमाणसंसारदुःखसंप्रकाशनतया अपरिमितगुणप्रतिलाभसंभवहेतुं परिदीपयामि। विपुलपुण्यज्ञानसंभारोपचयसंवर्णनतया महायानप्रणिधानसंभवहेतुं परिदीपयामि। सर्वसत्त्वपरिपाकविनयसंदर्शनतया समन्तभद्रबोधिसत्त्वचर्याप्रतिलाभसंभवहेतुं परिदीपयामि। सर्वक्षेत्र सर्वकल्पसंवासचर्याजालप्रविस्तरणतया लक्षणानुव्यञ्जनोपचितबुद्धशरीरप्रतिलाभसंभवहेतुं परिदीपयामि। दानपारमितासंवर्णनतया सर्वत्रगामिनीतथागतपरिशुद्धिप्रतिलाभसंभवहेतुं परिदीपयामि। शीलपारमितासंप्रकाशनतया अचिन्त्यतथागतरूपवर्णविशुद्धिसंभवहेतुं परिदीपयामि। क्षान्तिपारमितासंप्रकाशनतया दुर्योधनतथागतशरीरसंभवहेतुं परिदीपयामि। वीर्यपारमितासंप्रकाशनतया अभिभूतानभिभूततथागतात्मभावविशुद्धिं परिदीपयामि। ध्यानपारमितासंप्रकाशनतया धर्मशरीरविशुद्धिं परिदीपयामि। प्रज्ञापारमितासंप्रकाशनतया सर्वजगदभिमुखबुद्धात्मभावविशुद्धिं परिदीपयामि। उपायकौशल्यपारमितासंप्रकाशनतया सर्वकल्पकालजगच्चित्तसंवेशनशरीरविशुद्धिं परिदीपयामि। प्रणिधानपारमितासंप्रकाशनतया सर्वबुद्धक्षेत्राभ्युद्गतात्मभावविशुद्धिं परिदीपयामि। बलपारमितासंप्रकाशनतया सर्वजगद्यथाशयसंतोषणकायपरिशुद्धिं परिदीपयामि। ज्ञानपारमितासंप्रकाशनतया परमशुभदर्शनकायपरिशुद्धिं परिदीपयामि, यदुत सर्वाकुशलधर्मविनिवर्तनसंप्रकाशनतया। एवं चैतान् धर्मदानेन संगृह्य अनन्तधनरत्नोपचयोपस्तब्धान् कृत्वा विसर्जयामि। अपि तु खलु पुनरहं कुलपुत्र सर्वगन्धधूपवासनानुलेपनयुक्तीः प्रजानामि यदुत अतुलगन्धराजप्रमुखाः। सिन्धुवारितगन्धराजप्रमुखा अजितावतिगन्धराजप्रमुखा विबोधनगन्धराजप्रमुखा अरुणवतिगन्धराजप्रमुखाः कालानुसारिगन्धराजप्रमुखा उरगसारचन्दनगन्धराजप्रमुखा मेघागरुगन्धराजप्रमुखा अक्षोभ्येन्द्रियगन्धराजप्रमुखाः सर्वगन्धयुक्तीः प्रजानामि। अपि तु खलु पुनरहं कुलपुत्र सर्वसत्त्वसंतोषणसमन्तमुखबुद्धदर्शनपूजोपस्थानगन्धबिम्बं प्रजानामि॥
इतश्च मे कुलपुत्र, सर्वसत्त्वसंतोषणात्समन्तमुखबुद्धदर्शनपूजोपस्थानगन्धबिम्बात्सर्वाभिप्रायाः परिपूर्यन्ते, येन सर्वसत्त्वपरित्राणालंकारमेघानधितिष्ठामि। यदुत गन्धविमानालं कारमेघान् यावत्सर्वाकारतथागतपूजोपस्थानालंकारमेघानधितिष्ठामि। यदाहं कुलपुत्र तथागतान् पूजयितुकामो भवामि, तदाहमितः सर्वसत्त्वसंतोषणात् समन्तमुखबुद्धदर्शनपूजोपस्थानगन्धबिम्बादपरिमाणान् गन्धकोशकूटागारमेघान्निश्चार्य दशदिक्सर्वधर्मधातुगतेषु सर्वतथागतपर्षन्मण्डलेषु सर्वगन्धकोशकूटागारमेघालंकारं सर्वधर्मधातुमधितिष्ठामि। सर्वबुद्धक्षेत्रपरिशोधनमेघालंकारं गन्धभवनमेघालंकारं गन्धप्राकारमेघालंकारं गन्धनिर्यूहव्यूहमेघालंकारं गन्धतोरणमेघालंकारं गन्धगवाक्षमेघालंकारं गन्धहर्मिकमेघालंकारं गन्धार्धचन्द्रमेघालंकारं गन्धच्छत्रमेघालंकारं समुच्छ्रितगन्धध्वजमेघालंकारं गन्धपताकामेघालंकारं गन्धवितानमेघालंकारं गन्धविग्रहजालमेघालंकारं गन्धप्रभामेघालंकारं गन्धावभासविमलव्यूहमेघालंकारं सर्वगन्धमेघप्रवर्षणालंकारं सर्वधर्मधातुमधितिष्ठामि। एतमहं कुलपुत्र सर्वसत्त्वसंतोषणं समन्तमुखबुद्धदर्शनपूजोपस्थानगन्धबिम्बं धर्ममुखं जानामि। किं मया शक्यं भैषज्यराजकल्पानां बोधिसत्त्वानाममोघदर्शनानाममोघश्रवणानाममोघसंवासानाममोघानुस्मृतीनाममोघानुव्रतानाममोघनुव्रतानाममोघनामधेयग्रहणानां चर्यां ज्ञातुं गुणान् वा वक्तुम्, येषां सहदर्शनेन च सर्वसत्त्वानां सर्वक्लेशाः प्रशमन्ति, येषां सहदर्शनेन सत्त्वा विनिवर्तन्ते सर्वापायगतिभ्यः, येषां सहदर्शनेन सत्त्वा अवकाशं लभन्ते बुद्धधर्मेषु, येषां सहदर्शनेन सत्त्वानामुपशमन्ति सर्वदुःखस्कन्धाः, येषां सहदर्शनेन सत्त्वा विगतभया भवन्ति सर्वसंसारगतिभ्यः, येषां सहदर्शनेन सत्त्वा अभयप्राप्ता भवन्ति सर्वज्ञतादिगुपनयतया, येषां सहदर्शनेन सत्त्वा न प्रतिपतन्ति जरामरणश्वभ्रप्रपातेषु, येषां सहदर्शनेन सत्त्वा निर्वृतिसुखं प्रतिलभन्ते धर्मधातुसमतास्थानेन॥
गच्छ कुलपुत्र, इदमिहैव दक्षिणापथे तालध्वजं नाम नगरम्। तत्र अनलो नाम राजा प्रतिवसति। तमुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥
अथ खलु सुधनः श्रेष्ठिदारकः समन्तनेत्रस्य गान्धिकश्रेष्ठिनः पादौ शिरसाभिवन्द्य समन्तनेत्रं गान्धिकं श्रेष्ठिनमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य समन्तनेत्रस्य गान्धिकश्रेष्ठिनोऽन्तिकात् प्रक्रान्तः॥१७॥