१८ रत्नचूडः
Technical Details
१८ रत्नचूडः।
अथ खलु सुधनः श्रेष्ठिदारकः तत्पुण्यतोयं संभावयन्, तत्पुण्यक्षेत्रं संपश्यन्, तत्पुण्यसुमेरुं परिशोधयन्, तत्पुण्यतीर्थमवगाहयमानः, तत्पुण्यकोशं विवृण्वन्, तत्पुण्यनिधिमवलोकयन्, तत्पुण्यमण्डलं परिशोधयन्, तत्पुण्यस्कधं समाददत्, तत्पुण्यबलं संजनयन्, तत्पुण्यवेगं विवर्धयन्, अनुपूर्वेण येन सिंहपोतं नगरं तेनोपसंक्रम्य रत्नचूडं धर्मश्रेष्ठिनं परिमार्गमाणोऽद्राक्षीदन्तरापणमध्यगतम्। तस्य पादौ शिरसाभिवन्द्य प्रदक्षिणीकृत्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। तत्साधु मे आर्यो बोधिसत्त्वमार्गमुपदिशतु, येनाहं मार्गेण सर्वज्ञतायां निर्यायाम्॥
अथ खलु रत्नचूडो धर्मश्रेष्ठी सुधनं श्रेष्ठिदारकं पाणौ गृहीत्वा येन स्वं निवेशनं तेनोपसंक्रम्य तद्गृहमुपदर्श्य एवमाह-प्रेक्षस्व कुलपुत्र मम निवेशनम्। सोऽनुविलोकयन् अद्राक्षीत्तद्गृहं शुद्धं प्रभास्वरं जाम्बूनदसुवर्णमयं विपुलमुद्विद्धं रूप्यप्राकारपरिक्षिप्तं स्फटिकप्रासादसुकृतोपशोभितं वैडूर्यकूटशतसहस्रप्रतिमण्डितं मुसारगल्वसमुच्छ्रितस्तम्भं सुप्रज्ञप्तं लोहितमुक्तामयसिंहासनं ज्योतीरसमणिरत्नसिंहध्वजसमुछ्रितं वैरोचनमणिरत्नवितानविततं चिन्तामणिविचित्रहेमजालसंछन्नमसंख्येयमणिरत्नप्रतिमण्डितव्यूहं शीतजलाश्मगर्भमयपुष्करिणीसमुपेतं सर्वरत्नद्रुमपरिवृतं विपुलं विस्तीर्णं दशपुरमुद्विद्धमष्टद्वारम्। स तद्गृहं प्रविश्य समन्तादनुविलोकयति स्म। स प्रथमे पुरेऽन्नपानविधिपरित्यागमद्राक्षीत्। द्वितीये पुरे सर्ववस्त्रविधिपरित्यागम्। तृतीये पुरे सर्वरत्नाभरणालंकारपरित्यागम्। चतुर्थे पुरेऽन्तःपुरेपरिभोगरतिमहापृथिवीकल्याणकन्यारत्नपरित्यागमद्राक्षीत्। पञ्चमे पुरे पञ्चमीभूमिप्रतिष्ठितानां बोधिसत्त्वानां धर्मसंगीतिरतिप्रयुक्तानां लोकहितसुखचित्तचेष्टानां सर्वशास्त्राण्यभिनिर्हारयतां धारणीनयं च समाधिसमुद्रं च समाधिव्युत्थानं च समाधिव्यवचारं च ज्ञानालोकं च अभिनिर्हारयतां संनिपातमद्राक्षीत्। षष्ठे पुरे प्रज्ञापारमिताविहारप्रतिलब्धानां गम्भीरप्रज्ञानां सर्वधर्मप्रशान्ताभिज्ञानां भूमिसमाधिधारणीमुखगर्भसमन्तमुखनिर्यातानाम् अनावरणगोचराणाम् अद्वयसमुदाचाराणां धर्मसंगीतिं कुर्वतां प्रज्ञापारमितापरिवर्तनमनुसरतां विभजतामुत्तानी कुर्वतां बोधिसत्त्वानां संनिपातमद्राक्षीत् इमानि प्रज्ञापारमितामुखानि संगायताम्-यदुत शान्तिगर्भं नाम प्रज्ञापारमितामुखम्, सर्वजगज्ज्ञानसुविभक्तं च नाम प्रज्ञापारमितामुखम्, अचलावर्तं च नाम प्रज्ञापारमितामुखम्, विरजःप्रभासं च नाम प्रज्ञापारमितामुखम्, दुर्योधनगर्भं च नाम प्रज्ञापारमितामुखम्, जगद्रोचनामण्डलं च नाम प्रज्ञापारमितामुखम्, अनुगमनयमण्डलं च नाम प्रज्ञापारमितामुखम्, सागरगर्भं च नाम प्रज्ञापारमितामुखम्, समन्तचक्षुरुपेक्षाप्रतिलब्धं च नाम प्रज्ञापारमितामुखम्, अक्षयकोशानुगमं च नाम प्रज्ञापारमितामुखम्, सर्वधर्मनयसागरं च नाम प्रज्ञापारमितामुखम्, सर्वजगत्सागरानुगमं च नाम प्रज्ञापारमितामुखम्, असङ्गप्रतिभानं च नाम प्रज्ञापारमितामुखम्, धर्ममेघावलम्बानुपूर्वाभिलम्भनिलयं च नाम प्रज्ञापारमितामुखम्। इतीमानि प्रज्ञापारमितामुखानि प्रमुखं कृत्वा परिपूर्णानि दश प्रज्ञापारमितासंख्येयशतसहस्राणि, यानि तान् बोधिसत्त्वाननभिलाप्यव्यूहसुविभक्तपर्षन्मण्डलस्थितान् संगायतोऽद्राक्षीत्। सप्तमे पुरे प्रतिश्रुत्कोपमक्षान्तिप्रतिलब्धानामुपायज्ञानविनिश्चयनिर्यातानां सर्वतथागतधर्ममेघसंप्रत्येषकाणां बोधिसत्त्वानां संनिपातमद्राक्षीत्। अष्टमे पुरेऽच्युतगामिन्यभिज्ञाप्रतिलब्धानां सर्वलोकधात्वनुविचरणानां सर्वपर्षन्मण्डलप्रतिभासप्राप्तानां सर्वधर्मधातुसुविभक्तशरीराणां सर्वतथागतपादमूलासंभिन्नविषयाणां सर्वबुद्धकायसमवसरणानां सर्वतथागतपर्षन्मण्डलपूर्वगमकथापुरुषाणां बोधिसत्त्वानां संनिपातमद्राक्षीत्। नवमे पुरे एकजातिप्रतिबद्धानां बोधिसत्त्वानां संनिपातमद्राक्षीत्। दशमे पुरे सर्वतथागतानां सप्रथमोपचित्तोत्पादचर्यानिर्याणप्रणिधानसागरान् सर्वबुद्धधर्मविकुर्वितविषयान् सर्वबुद्धक्षेत्रपर्षन्मण्डलान् सर्वबुद्धधर्मचक्रनिर्घोषान् सर्वसत्त्वविनयाधिष्ठानव्यूहानद्राक्षीत्॥
दृष्ट्वा च रत्नचूडं धर्मश्रेष्ठिनमेतदवोचत्-आर्य, कुतस्ते इयमेवंरूपा संपद्विशोधिता? कुत्र ते कुशलमूलान्यवरोपितानि यस्य तव इयमीदृशी विपाकसंपत्? स आह-स्मरामि कुलपुत्र अतीतेऽध्वनि बुद्धक्षेत्रपरमाणुरजःसमानां कल्पानां परेण परतरेण चक्रविचित्रे लोकधातावनन्तरश्मिधर्मधातुसमलंकृतधर्मराजो नाम तथागतो लोके उदपादि, विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। स खलु पुनस्तथागतो ज्ञानवैरोचनप्रमुखेन श्रावककोटीशतेन ज्ञानसूर्यतेजःप्रमुखेन च बोधिसत्त्वकोटीशतसहस्रेण सार्धं मणिध्वजव्यूहराजमहोद्यानधरणिप्रविष्टो राज्ञा धर्मेश्वरराजेन अभिनिमन्त्रितः। तस्य मे तथागतस्य नगरप्रविष्टस्यान्तरापणमध्यगतस्य तूर्यनादनिर्नादितं कारितम्। एका च गन्धगुलिका निधूपिता तस्य भगवतः सबोधिसत्त्वश्रावकसंघस्य पूजाकर्मणे। तया च गन्धगुलिकया निधूपितया सप्ताहं सर्वजम्बुद्वीपोऽनन्तवर्णैः सर्वसत्त्वकायसदृशैर्धूपपटलमेघैः संछन्नोऽभूत्। तेभ्यश्च धूपपटलमेघेभ्य एवंरूपः शब्दो निश्चरति स्म-अचिन्त्यस्तथागतत्र्यध्वविपुलेन स्कन्धेन समन्वागतः, सर्वज्ञः सर्वावरणविगतः सर्वक्लेशवासनाप्रहीणः, सर्वतथागतावरोपिता दक्षिणा, अप्रमाणसर्वज्ञाताफलदायिका सर्वज्ञतासमवसरणा इति-यदुत अस्मत्कुशलमूलपरिपाकार्थमचिन्त्यसत्त्वकुशलमूलवेगसंजननार्थं च। तेभ्यो धूपपटलमेघेभ्यो बुद्धाधिष्ठानेन अयमेवंरूपः शब्दो निश्चचार। तच्च मे कुलपुत्र तथागताधिष्ठानं संदर्शनप्रातिहार्यकुशलमूलं त्रिषु स्थानेषु परिणामितम्। कतमेषु त्रिषु? यदुत अत्यन्तसर्वदारिद्रयसमुच्छेदाय सद्धर्मश्रवणाविरहिततायै सर्वबुद्धबोधिसत्त्वकल्याणमित्रदर्शनपरिपूरये च। एतमहं कुलपुत्र, अप्रतिहतप्रणिधिमण्डलव्यूहबोधिसत्त्वविमोक्षं जानामि। किं मया शक्यमचिन्त्याप्रमाणगुणरत्नाकराणां बोधिसत्त्वानां चर्यां ज्ञातुं गुणान् वा वक्तुम्, ये ते असंभिन्नबुद्धशरीरसागरावतीर्णाः, ये ते असंभिन्नधर्ममेघसंप्रतीच्छकाः, ये ते असंभिन्नगुणसागरप्रतिपन्नाः, ये ते समन्तभद्रचर्याजालविसृताः, ये ते असंभिन्नसमाधिविषयावतीर्णाः ये ते असंभिन्नसर्वबोधिसत्त्वैकघनकुशलमूलाः ये ते असंभिन्नतथागताविकल्पविहारिणः, ये ते असंभिन्नत्र्यध्वसमतावतीर्णाः,ये ते असंभिन्नसर्वकल्पसंवासापरिखिन्नाः, ये ते असंभिन्नसमन्तचक्षुर्विषयभूमिप्रतिष्ठिताः॥
गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे वेत्रमूलको नाम जनपदः। तत्र समन्तमुखे नगरे समन्तनेत्रो नाम गान्धिकः श्रेष्ठी प्रतिवसति। तमुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥
अथ खलु सुधनः श्रेष्ठिदारको रत्नचूडस्य धर्मश्रेष्ठिनः पादौ शिरसाभिवन्द्य रत्नचूडं धर्मश्रेष्ठिनमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य रत्नचूडस्य धर्मश्रेष्ठिनोऽन्तिकात्प्रक्रान्तः॥१६॥