१७ विद्वान्
Technical Details
१७ विद्वान्।
अथ खलु सुधनः श्रेष्ठिदारकोऽक्षयव्यूहपुण्यकोशविमोक्षावभासप्रतिलब्धः तं पुण्यसागरमनुविचिन्तयन्, तत्पुण्यगगनमवलोकयन्, तं पुण्यराशिमाददन्, तं पुण्यपर्वतमभिरोहन्, तं पुण्यनिचयं संगृह्णन्, तं पुण्यौधमवगाहयमानः, तत्पुण्यतीर्थमवतरन्, तं पुण्यमण्डलं परिशोधयन्, तं पुण्यनिधिं संपश्यन्, तं पुण्यनयमनुस्मरन्, तां पुण्यनेत्रीं समन्वाहरन्, तं पुण्यवंशं परिशोधयन्, अनुपूर्वेण येन महासंभवं नगरं तेनोपसंक्रम्य विद्वांसं गृहपतिं परिमार्गति, परिगवेषति, व्यवलोकयति कल्याणमित्राण्यभिलषन्। कल्याणमित्रदर्शनवासितया सतंत्या, कल्याणमित्राधिष्ठानेन आशयेन, कल्याणमित्रानुगतेन प्रयोगेन, कल्याणमित्रोपचारापरिखिन्नेन वीर्येण, कल्याणमित्राधीनैः सर्वकुशलमूलैः, कल्याणमित्रनियतैः सर्वपुण्यसंभारैः, कल्याणमित्रविवर्धितैरुपायकौशल्यचरितैः, अपरप्रत्ययेन कल्याणमित्रोपचारकौशल्येन, विवर्धमानैः सर्वकुशलमूलैः, विशुद्धयता बोधिसत्त्वाध्याशयेन, संवर्धमानैर्बोधिसत्त्वेन्द्रियैः, परिपाच्यमानैः सर्वकुशलमूलैः, संवर्धमानैर्महाप्रणिधानाभिनिर्हारैः, विपुलीभवन्त्या महाकरुणया, सर्वज्ञताया आसन्नीभूतमात्मानं संपश्यन् समन्तभद्रबोधिसत्त्वचर्यायाः, सर्वबुद्धेभ्यो धर्मावभासं संप्रतीच्छन्, विवर्धमानेन दशतथागतबलावभासेन विद्वांसं गृहपतिं परिगवेषमाणो अद्राक्षीन्मध्ये नगरस्य शृङ्गाटके सप्तरत्नव्योमकोपर्यसंख्येयरत्नमये विविधवज्रेन्द्रनीलरचितमणिरत्नपादे काञ्चनसूत्रज्वालश्वेते विमलगर्भमणिरत्नगर्भे पञ्चरत्नशतसमलंकृतबिम्बे विचित्रदिव्यदूष्यप्रज्ञप्ते उच्छ्रितदिव्यपट्टध्वजपताके अनेकरत्नजालसंछन्ने महारत्नवितानवितते महासुवर्णरत्नपुष्पदामाभिप्रलम्बिते भद्रासने निषण्णम्, विमलवैडूर्यदण्डेन जाम्बूनदकनकच्छत्रेण ध्रियता हंसराजनिर्मलचामरसंवीज्यमानम्, विविधगन्धोपचारप्रधूपितं वामदक्षिणेन पञ्चभिस्तूर्यशतैः प्रवाद्यद्भिः दिव्यातिरेकमधुरनिर्घोषैर्महासंभवं नगरं पर्यापन्नैः सत्त्वप्रीतिसंजनार्थं दिव्यकुसुममेघैः प्रवर्षद्भिर्दिव्यमानुष्यरूपसमतिक्रान्तैः परिनिष्पन्नबोधिसत्त्वाशयैः दिव्यातिरेकविभूषणसमलंकृतैः किंकरोपचरणप्रतिकारिभिः पूर्वकुशलमूलसभागचरितैर्दशभिः प्राणीसहस्रैः परिवृतम्। दृष्ट्वा च सुधनः श्रेष्ठिदारको येन विद्वान् गृहपतिस्तेनोपजगाम। उपेत्य विदुषो गृहपतेः पादौ शिरसाभिवन्द्य विद्वांसं गृहपतिमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-अहं आर्य सर्वसत्त्वानामर्थाय अनुत्तरां सम्यक्संबोधिं संप्रस्थितो यदुत सर्वसत्त्वदुःखव्युपशमाय सर्वसत्त्वात्यन्तसुखप्रतिष्ठापनाय सर्वसत्त्वसंसारसागराभ्युद्धारणतायै सर्वसत्त्वधर्मरत्नद्वीपसंप्रापणतायै सर्वसत्त्वतृष्णास्नेहोच्छोषणतायै सर्वसत्त्वानां महाकरुणास्नेहसंजननतायै सर्वसत्त्वानां कामरतितृष्णाविनिवर्तनतायै सर्वसत्त्वानां बुद्धज्ञानतृष्णोत्पादनतायै सर्वसत्त्वानां संसाराटवीकान्तारसमतिक्रमणतायै सर्वसत्त्वानां बुद्धगुणधर्मारामरतिसंजननतायै सर्वसत्त्वानां त्रैधातुकपुरान्निष्क्रमणतायै सर्वसत्त्वानां सर्वज्ञतापुरोपनयतायै। न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति। तद्वदतु मे आर्यः-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं शिक्षमाणा बोधिसत्त्वाः प्रतिशरणभूता भवन्ति सर्वसत्त्वानाम्॥
एवमुक्ते विद्वान् गृहपतिः सुधनं श्रेष्ठिदारकमेवमाह-साधु साधु कुलपुत्र, येन ते अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। दुर्लभाः कुलपुत्र ते सत्त्वाः, येऽनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य बोधिसत्त्वचर्यायां परिमार्गयमाणा न तृप्यन्ते कल्याणमित्रदर्शनेन। न खिद्यन्ते कल्याणमित्रोपसंक्रमणेषु। न परितप्यन्ते कल्याणमित्रोपचारेषु। न दौर्मनस्यमुत्पादयन्ति कल्याणमित्रदुरासदतया। न निवर्तन्ते कल्याणमित्रगवेषणतया। न व्यावर्तन्ते कल्याणमित्रतृष्णालालसहृदयत्वात्। न प्रत्युदावर्तन्ते कल्याणमित्रमुखावलोकेन। न संसीदन्ति कल्याणमित्रानुशासनीपथेषु। न खिद्यन्ते कल्याणमित्रोपस्थानपरिचर्यासु। पश्यसि त्वं कुलपुत्र, इमं मम परिवारम्? आह-पश्यामि आर्य। आह-सर्व एते कुलपुत्र मया अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादिताः। मयैते जनितास्तथागतकुले। मयैते पोषिताः पारमितोपसंहारैः। मयैते संचरिताः सर्वशुक्लधर्मैः। मयैते विवर्धिता दशसु तथागतबलेषु। मयैते उच्चालिता लोकवंशात्। मयैते प्रतिष्ठापितास्तथागतवंशे। मयैते विवर्तिता लोके गतिचक्रात्। मयैते आवर्तिता धर्मचक्रप्रवर्तनतायाम्। मयैते सत्त्वाः तारितास्त्र्यध्वापायगतिप्रपातात्। मयैते प्रतिष्ठापिता धर्मसमतानुगमेन। एवं हि कुलपुत्र बोधिसत्त्वास्त्रातारो भवन्ति सर्वसत्त्वानाम्। अहं कुलपुत्र मनःकोशसंभवानां पुण्यानां लाभी। सोऽहमन्नार्थिभ्योऽन्नं ददामि, पानार्थिभ्यः पानम्, रसाग्रार्थिभ्यो रसाग्रम्, खाद्यार्थिभ्यः खाद्यम्, भोज्यार्थिभ्यो भोज्यम्, लेह्यार्थिभ्यो लेह्यम्, चोष्यार्थिभ्यश्चोष्यम्, वस्त्रार्थिभ्यो वस्त्रम्, पुष्पार्थिभ्यः पुष्पम्, माल्यार्थिभ्यो माल्यम्, गन्धार्थिभ्यो गन्धम्, धूपार्थिकेभ्यो धूपम्, विलेपनार्थिभ्यो विलेपनम्, चूर्णार्थिभ्यश्चूर्णम्, आभरणविभूषणार्थिभ्य आभरणविभूषणानि, रत्नार्थिभ्यो रत्नानि, सुवर्णार्थिभ्यः सुवर्णम्, रूप्यार्थिभ्यो रूप्यम्, मुक्तार्थिभ्यो मुक्ताम्, प्रतिश्रयार्थिभ्यः प्रतिश्रयम्, आसनार्थिभ्य आसनम्, शयनार्थिभ्यः शयनम्, ग्लानप्रत्ययभैषज्यपरिष्कारार्थिभ्यो ग्लानप्रत्ययभैषज्यपरिष्कारान्, यानार्थिभ्यो यानम्, वाहनार्थिभ्यो वाहनम्, हस्त्यश्वरथगोगर्दभमहिषैडकार्थिभ्यो हस्त्यश्वरथगोगर्दभमहिषैडकान्, छत्रध्वजपताकार्थिभ्यश्छत्रध्वजपताकाः, दासीदासार्थिभ्यो दासीदासान्, माणवपरिवारार्थिभ्यो माणवपरिवारम्, स्त्र्यर्थिभ्यः स्त्रियः, कुमार्यर्थिभ्यः, कुमारीम्, मकुटचूडामण्यर्थिभ्यो मकुटचूडामणीन्, सचर्मचूडामण्यर्थिभ्यो सचर्मचूडामणीन्, नीलविमलकेशमण्डलार्थिभ्यो नीलविमलकेशमण्डलम्, यावद्विविधसर्वोपकरणर्थिभ्यो विविधसर्वोपकरणानि प्रयच्छामि। आगमय कुलपुत्र मूहूर्तं यावत्प्रत्यक्षो भविष्यसि। समनन्तरभाषितायां चास्यां वाचि विदुषा गृहपतिना, अथ तावदेव अपरिमाणाः सत्त्वा विदुषा गृहपतिना पूर्वप्रणिधानाभिनिमन्त्रिताः संनिपतिताः। नानादिग्भ्यो नानाजनपदप्रदेशेभ्यो नानानगरेभ्यो नानानिगमेभ्यो नानापट्टनेभ्यो नानाकर्वटेभ्यो नानासत्त्वजातिभ्यो नानासत्त्वकुलेभ्यो नानासत्त्वकुलविमात्रताभ्यो नानागतिपरिवर्तेभ्यो नानाप्रतिष्ठानसंज्ञानगतिभ्यो नानायतनविशुद्धा नानाहारार्थिनो नानाहाराभिलाषिणो नानाशया शुच्यन्नपानकामा मांसार्थिनो विविधभोजनविमात्रताभिकाङ्क्षिणो विविधगतिविशेषोपपत्यायतनस्थिताः यदुत मनुष्येष्वोदनकुल्माषसूपमत्स्यमांसादिविविधकवलीकाहारार्थिनः। यथा मनुष्येषु, एवं सर्वगतिविचारेषु नानाभोजनपानार्थिन उपसंक्रान्ताः यदुत बोधिसत्त्वानुभावेन असङ्गत्यागदुन्दुभिनिर्घोषेण बोधिसत्त्वप्रणिधिनिमन्त्रिताः। तमुपसंक्रम्य विद्वांसं गृहपतिं याचन्तेऽवलोकयन्ति निरीक्षन्ते विज्ञापयन्ति॥
अथ खलु विद्वान् गृहपतिस्तान् याचनकान् संनिपतितान् विदित्वा मुहूर्तमनुविचिन्त्य गगनतलमवलोकयति स्म। तस्य ततो गगनतलाद्विविधा भोजनपानविधयो नानारसा नानावर्णा नानागन्धा अवलम्ब्य हस्ततले प्रत्यतिष्ठन्। स तान्यादाय तान् यथासंनिपतितान् याचनकान् नानाधिमुक्तान् यथाभिप्रेतैर्भोजनपानविधिभिः सर्वोपकरणविशैषैः संतर्पयति संप्रवारयति संतोषयति संप्रहर्षयति संप्रमोदयति परिप्रीणयति, आत्तमनस्कान् करोति। उत्तरे वै नानामिषेण संतर्प्य तेभ्यो धर्मं देशयेत्। यदुत विपुलज्ञानसंभारोपचयहेतुं परिदीपयन्, सर्वदारिद्र्यासंभवहेतुं परिदीपयन्, महाभोगतासमुदागमसंभवहेतुं परिदीपयन्, धर्मज्ञाननयप्रतिलाभसंभवहेतुं परिदीपयन्, विपुलपुण्यसंभारोपचयहेतुं परिदीपयन्, प्रीतिभक्षभोजनप्रतिलाभसंभवहेतुं परिदीपयन्, लक्षणानुव्यञ्जनोपचितशरीरप्रतिलाभसंभवहेतुं परिदीपयन्, अनवमृद्यबलपरिशुद्धिप्रतिलाभसंभवहेतुं परिदीपयन्, अनन्तराहारप्रज्ञाप्रतिलाभसंभवहेतुं परिदीपयन्, सर्वमारबलप्रमर्दनापर्यादत्तपुण्यबलप्रतिलाभसंभवहेतुं परिदीपयन् धर्मं देशयेत्। सोऽन्नार्थिन उपसंक्रान्तान् गगनतलान्नानान्नविधीन् गृहीत्वा संतर्प्य तेभ्य आयुर्वर्णबलमुखप्रतिभानं संपश्यन् प्रतिलाभाय धर्मं देशयेत्। स पानार्थिन उपसंक्रान्तान्नानाविधैः पानैरुदारैः कल्याणैरनवद्यैर्मनःसंप्रहर्षकैः संतर्प्य तेभ्यः संसारतृष्णारतिविनिवर्तनतायै बुद्धधर्मरतितृष्णासंजननतायै धर्मं देशयेत्। रसरसाग्रार्थिन उपसंक्रान्तान्नानाविधरसरसाग्रैर्मधुराम्ललवणकटुतिक्तकषायैः संतर्पयामास। उत्तरे चैषां रसरसाग्रतामहापुरुषलक्षणप्रतिलाभाय धर्मं देशयेत्। स यानार्थिनो नानादिक्स्रोतोभ्यागतान्नानाविधयानदानैः संगृह्य तेभ्यो महायानाधिरोहणतायै धर्मं देशयेत्। स नानादिगागतान् वस्त्रार्थिन उपसंक्रान्तान् विदित्वा मुहूर्तं विचिन्त्य गगनतलमुल्लोकयति स्म। तस्य ततो गगनतलान्नानारङ्गान्यनेकवर्णानि विशुद्धानि नीलपीतलोहितावदातमाञ्जिष्ठस्फटिकवर्णानि विविधानि वस्त्राण्यवलम्ब्य हस्ततले प्रत्यतिष्ठन्। स तैस्तान् याचनकान् प्रतिपाद्य तेभ्योऽनुत्तरतथागतह्रयपत्राप्यसुवर्णवर्णच्छविताप्रतिलाभविशुद्धये धर्मं देशयेत्। प्रत्येकमेव सर्वोपकरणविधिभिर्यथागतान् याचनकान् प्रतिपाद्य तेभ्यो यथार्हं धर्मं देशयेत्॥
अथ खलु विद्वान् गृहपतिः सुधनस्य श्रेष्ठिदारकस्य तमचिन्त्यं बोधिसत्त्वविमोक्षविषयमुपदर्श्य एवमाह-एतमहं कुलपुत्र मनःकोशसंभवविमोक्षं जानामि। किं मया शक्यं परिष्कारवशिताप्राप्तानां बोधिसत्त्वानां रत्नपाणिना प्रतिलब्धानां चर्यां ज्ञातुं गुणान् वा वक्तुम्, विकुर्वितं वा निदर्शयितुम्, ये ते सर्वलोकधातूननवशेषं पाणिना संछाद्य बुद्धपूजाविधानतायै सर्वतथागतपर्षन्मण्डलेषु नानावर्णरत्नमेघान् प्रवर्षन्ति। एवं नानावर्णा भरणमेघान् नानावर्णकूटागारमेघान् नानावर्णविचित्रवस्त्रमेघान् नानादिव्यतूर्यतालोपचारसंगीतिमनोज्ञामधुरनिर्घोषान् नानावर्णगन्धमेघान् नानावर्णधूपमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकासर्वोपकरणमेघान् सर्वाकारसर्वबुद्धपूजामेघान् प्रवर्षन्ति। सर्वतथागतपर्षन्मण्डलेषु सर्वसत्त्वभवनेषु यदुत सर्वबुद्धपूजोपस्थानतायै सर्वसत्त्वधातुपरिपाकविनयाय च॥
गच्छ कुलपुत्र, इहैव दक्षिणापथे सिंहपोतं नाम नगरम्। तत्र रत्नचूडो नाम धर्मश्रेष्ठी प्रतिवसति। तमुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥
अथ खलु सुधनः श्रेष्ठिदारकस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो विदुषि गृहपतौ धर्मगौरवाच्छिष्यभावमुपदर्श्य तदधिष्ठानात्सर्वबुद्धधर्मान् संपश्यन्, तदधीनां सर्वज्ञतां संपश्यन्, कल्याणमित्रानाच्छेद्यप्रेमतामुपदर्शयन्, कल्याणमित्रेष्वत्यन्ताज्ञाचिन्त्यतां संदर्शयन्, कल्याणमित्रवशवर्तितामनुवर्तयन्, कल्याणमित्रानुशासनीवचनं शुश्रूषमाणः, कल्याणमित्रप्रभवं श्रद्धेन्द्रियं निध्यायन्, कल्याणमित्रानुशासन्यनुप्रेषितः, कल्याणमित्राभिराधनानुवर्तनचित्तो विदुषो गृहपतेः पादौ शिरसाभिवन्द्य विद्वांसं गृहपतिमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य विदुषो गृहपतेरन्तिकात्प्रक्रान्तः॥१५॥