१५ इन्द्रियेश्वरः
Technical Details
१५ इन्द्रियेश्वरः।
अथ खलु सुधनः श्रेष्ठिदारकस्तां सुदर्शनस्य भिक्षोरनुशासनीमनुमन्त्रयन्, प्रवर्तयन्, अनुप्रयच्छन् प्रविचिन्वन्, प्रभाषमाणः प्रतिभावयन् उदीरयन् दर्शयन् अनुविचिन्तयन् अभ्यवचरन्, नयं विगमयन्, तद्धर्मनयमनुविचारयन् अवभारयन् समवसरन् आवर्तयन् संभिन्दन् प्रदर्शयन् अवभासयन् अनुविलोकयन् देवनागयक्षगन्धर्वपरिवारोऽनुपूर्वेण येन श्रमणमण्डले जनपदे सुमुखं नगरं तेनोपसंक्रान्तः इन्द्रियेश्वरं दारकं परिमार्गमाणः। तस्योपर्यन्तरिक्षे गता देवनागयक्षगन्धर्वा आरोचयन्ति-एष कुलपुत्र इन्द्रियेश्वरो दारको नदीसंभेदाभ्याशे दशदारकसहस्रपरिवृतः पांशुक्रीडया क्रीडतीति॥
अथ खलु सुधनः श्रेष्ठिदारको येन सुमुखं नगरं नदीसंभेदाभ्याशस्तेनोपसंक्रान्तः। सोऽद्राक्षीत् इन्द्रियेश्वरं दारकं दशदारकसहस्रपरिवृतं पांशुक्रीडया क्रीडन्तम्। दृष्ट्वा च पुनर्येनेन्द्रियेश्वरो दारकस्तेनोपसंक्रम्य इन्द्रियेश्वरस्य दारकस्य पादौ शिरसाभिवन्द्य इन्द्रियेश्वरं दारकमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य इन्द्रियेश्वरस्य दारकस्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्य, अनुत्तरयां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायम् शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति। तद्वदतु मे आर्यः-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। आह-अहं कुलपुत्र मञ्जुश्रिया कुमारभूतेन लिपिसंख्यामुद्रागणनानयं शिक्षयता सर्वशिल्पाभिज्ञावभासज्ञानमुखमवतारितः। सोऽहं कुलपुत्र, यानि इमानि लोके लिपिसंज्ञागतानि संख्यागणनामुद्रानिक्षेपज्ञानविविधशिल्पज्ञानानिधातुतन्त्राणि विषयप्रयोगप्रतिभानकानि शोषापस्मारभूतप्रेतग्रहप्रतिषेधकानि ग्रामनगरनिगमपट्टनोद्यानतपोवनावसथनिवेशनज्ञानानि अभिप्रायप्रकारप्रासादगवाक्षकूटागारपरिणाहज्ञानानि विविधयन्त्ररथक्रियोपचारज्ञानानि क्षेमाक्षेमभयाभयनिमित्तज्ञानानि कृषिवाणिज्यव्यवहारक्रियाप्रयोगज्ञानानि सर्वाङ्गप्रत्यङ्गलक्षणचारोपचारविचारज्ञानानि सुगतिदुर्गतिकर्मपथविशुद्धयनुगमज्ञानानि कुशलाकुशलधर्मगणपूजाज्ञानानि सुगतिदुर्गतिसंभारज्ञानानि श्रावकप्रत्येकबुद्धयानसंभारज्ञानानि तथागतभूमिसंभारज्ञानानि हेतुक्रियाप्रयोगोपचारज्ञानानि, तानि सर्वाणि प्रजानामि। तेषु च सत्त्वानवतारयामि, निवेशयामि प्रतिष्ठापयामि शिक्षयामि शीलयामि दृढीकरोमि सारिकरोमि संतरामि संभावयामि संवर्तयामि उन्नामयामि विवर्धयामि निमित्तीकरोमि कोटीकरोमि विशोधयामि विमलीकरोमि उत्तापयामि प्रभास्वरीकरोमि विपुलीकरोमि। सोऽहं कुलपुत्र बोधिसत्त्वानां गणनानयं जानामि। स पुनः कतमः? शतं शतसहस्राणां कोटिः, कोटिः कोटीनामयुतम्, अयुतमयुतानां नियुतम्, नियुतं नियुतानां बिम्बरम्, बिम्बरं बिम्बराणां किंकरम्, किंकरं किंकराणामगरम्, अगरमगराणां प्रवरम्, प्रवरं प्रवराणां मपरम्, मपरं मपराणां तपरम्, तपरं तपराणां सीमम्, सीमं सीमानां यामम्, यामं यामानां नेमम्, नेमं नेमानामवगम्, अवगमवगानां मृगवम्, मृग वंमृगवानां विरागम्, विरागं विरागानां विगवम्, विगवं विगवानां संक्रमम्, संक्रमं संक्रमाणां विसरम्, विसरं विसराणां विभजम्, विभजं विभजानां विजङ्घम्, विजङ्घं विजङ्घानां विशोधम्, विशोधं विशोधानां विवाहम्, विवाहं विवाहानां विभक्तम्, विभक्तं विभक्तानां विखतम्, विखतं विखतानां डलनम्, डलनं डलनानां अवनम्, अवनं अवनानां थवनम्, थवनं थवनानां विपर्यम्, विपर्यं विपर्याणां समयम्, समयं समयानां वितूर्णम्, वितूर्णं वितूर्णानां हेतुरम्, हेतुरं हेतुराणां विचारम्, विचारं विचाराणां व्यत्यस्तम्, व्यत्यस्तं व्यत्यस्तानामभ्युद्गतम्, अभ्युद्गतमभ्युद्गतानां विशिष्टम्, विशिष्टं विशिष्टानां निलम्बम्, निलम्बं निलम्बानां हरितम्, हरितं हरितानां विक्षोभम्, विक्षोभं विक्षोभाणां हलितम्, हलितं हलितानां हरिः, हरिः हरीणामालोकः, आलोकः आलोकानां दृष्ट्वान्तः, दृष्ट्वान्तः दृष्ट्वान्तानां हेतुनम्, हेतुनं हेतुनानां एलम्, एलमेलानां दुमेलम्, दुमेलं दुमेलानां क्षेमुः, क्षेमुः क्षेमूनां एलुदम्, एलुदमेलुदनां भालुदम्, भालुदं भालुदानां समता, समता समतानां विसदम्, विसदं विसदानां प्रमात्रम्, प्रमात्रं प्रमात्राणां अमन्त्रम्, अमन्त्रममन्त्राणां भ्रमन्त्रम्, भ्रमन्त्रं भ्रममन्त्राणां गमन्त्रम्, गमन्त्रं गमन्त्राणां नमन्त्रम्, नमन्त्रं नमन्त्राणां नहिमन्त्रम्, नहिमन्त्रं नहिमन्त्राणां विमन्त्रम्, विमन्त्रं विमन्त्राणां परमन्त्रम्, परमन्त्रं परमन्त्राणां शिवमन्त्रम्, शिवमन्त्रं शिवमन्त्राणां देलु, देलु देलूनां वेलु, वेलु वेलूनां गेलुः, गेलुः गेलूनां खेलुः, खेलुः खेलूनां नेलुः, नेलुः, नेलूनां भेलुः, भेलुः भेलूनां केलुः, केलुः केलूनां सेलुः, सेलुः सेलूनां पेलुः, पेलुः, पेलूनां मेलुः, मेलुः मेलूनां सरडः, सरडः सरडानां भेरुदुः, भेरुदुः भेरुदूनां खेलुदुः, खेलुदुः खेलुदूनां मालुदुः, मालुदुः मालूदूनां समुलः, समुलः समुलानामथवम्, अथवमथवानां कमलम्, कमलं कमलानामगवम्, अगवमगवानामतरुम्, अतरुमतरूणां हेलुवः, हेलुवः हेतुवानां मिरहुः, मिरहुः मिरहूणां चरणम्, चरणं चरणानां धमनम्, धमनं धमनानां प्रमदम्, प्रमदं प्रमदानां निगमम्, निगमं निगमानामुपवर्तम्, उपर्वतम्, पवर्तानां निर्देशम्, निर्देशं निर्देशानामक्षयम्, अक्षयमक्षयाणां संभूतम्, संभूतं संभूतानां मममम्, मममं मममानांमवदम्, अवदमवदानामुत्पलम्, उत्पलमुत्पलानां पद्म, पद्मं पद्मानां संख्या, संख्या संख्यानां गति, गतिः गतीनामुपगम्, उपगमुपगानामौपम्यम्, औपम्यमौपम्यानामसंख्येयम्, असंख्येयमसंख्येयानामसंख्येयपरिवर्तम्, असंख्येयपरिवर्तमसंख्येयपरिवर्तानामप्रमाणम्, अप्रमाणमप्रमाणानामपरिमाणम्, अपरिमाणमपरिमाणानामपरिमाणपरिवर्तम्, अपरिमाणपरिवर्तमपरिमाणपरिवर्तानामपर्यन्तम्, अपर्यन्तमपर्यन्तानामपर्यन्तपरिवर्तम्, अपर्यन्तपरिवर्तमपर्यन्तपरिवर्तानामसमन्तम्, असमन्तमसमन्तानामसमन्तपरिवर्तम्, असमन्तपरिवर्तमसमन्तपरिवर्तानामगणनीयम्, अगणनीयमगणनीयानामगणनीयपरिवर्तम्, अगणनीयपरिवर्तमगणनीयपरिवर्तानामतुल्यम्, अतुल्यमतुल्यानामतुल्यपरिवर्तम्, अतुल्यपरिवर्तमतुल्यपरिवर्तानामचिन्त्यम्, अचिन्त्यमचिन्त्यानामचिन्त्यपरिवर्तम्, अचिन्त्यपरिवर्तमचिन्त्यपरिवर्तानाममाप्यम्, अमाप्यममाप्यानाममाप्यपरिवर्तम्, अमाप्यपरिवर्तममाप्यपरिवर्तानामनभिलाप्यम्, अनभिलाप्यमनभिलाप्यानामनभिलाप्यपरिवर्तम्, अनभिलाप्यपरिवर्तमनभिलाप्यपरिवर्तानामनभिलाप्यानभिलाप्यम्, अनभिलाप्यानभिलाप्यमनभिलाप्यानभिलाप्यानामनभिलाप्यानभिलाप्यपरिवर्तम्, तस्य पुरतो महान् वालिकाराशिरभूदनेकयोजनप्रमाणः। स तं बालिकाराशिं गणयंस्तुलयन् प्रसिञ्चन् संख्यामकार्षीत्-इयन्तीमानि वालिकाफलकानि, यावदियन्त्येतानि वालिकाफलकान्यनभिलाप्यपरिवर्तानीति। स तं वालिकाराशिं गणनासंकेतनिर्देशेन निर्दिश्य एवमाह-एष कुलपुत्र गणनायोगो लोकधातुपरंपरया सुप्रवर्तते बोधिसत्त्वानाम्। अनेन गणनानयेन बोधिसत्त्वाः पूर्वस्यां दिशि लोकधातुप्रसरान् गणयन्ति। एवं दक्षिणायां पश्चिमायामुत्तरयामुत्तरपूर्वायां पूर्वदक्षिणायां दक्षिणपश्चिमायां पश्चिमोत्तरायामध ऊर्ध्वायां दिशि। अनेन गणनानयेन बोधिसत्त्वा लोकधातुप्रसरान् गणयन्ति। एष कुलपुत्र गणनानयो दशसु दिक्षु लोकधातुनामपरंपरानिर्देशेषु प्रवर्तते बोधिसत्त्वानाम्। अनेन गणनानयेन बोधिसत्त्वा दशसु दिक्षु लोकधातुनामपरंपरां गणयन्ति। यथा लोकधातुनामपरंपरानिर्देशेषु, एवं दशसु दिक्षु कल्पनामपरंपरानिर्देशेषु बुद्धनामपरंपरानिर्देशेषु धर्मनामपरंपरानिर्देशेषु सत्त्वनामपरंपरानिर्देशेषु कर्मनामपरंपरानिर्देशेषु। एष एव गणनानयो यावद्दशसु दिक्षु सर्वनामपरंपरानिर्देशेषु प्रवर्तते बोधिसत्त्वानाम्। अनेन गणनानयेन बोधिसत्त्वा दशसु दिक्षु सर्वनामपरंपरानिर्देशेषु प्रवर्तते बोधिसत्त्वानाम्। अनेन गणनानयेन बोधिसत्त्वा दशसु दिक्षु सर्वनामपरंपरां गणयन्ति। एतमहं कुलपुत्र, सर्वधर्मज्ञानशिल्पाभिज्ञावन्तं बोधिसत्त्वज्ञानालोकं जानामि। किं मया शक्यं सर्वजगत्संख्यानुप्रविष्टानां बोधिसत्त्वानां सर्वधर्मविधिसंख्यानुप्रविष्टानां त्र्यध्वसंख्यानुप्रविष्टानां सर्वसत्त्वसंख्यानुप्रविष्टानां सर्वधर्मस्कन्धसंख्यानुप्रविष्टानां सर्वबुद्धबोधिसंख्यानुप्रविष्टानां सर्वधर्मनामचक्रवशवर्तिनां बोधिसत्त्वानां चर्यां ज्ञातुं गुणान् वा वक्तुम्, गोचरो वा सूचयितुम्, विषयो वा प्रभावयितुम्, बलं वा संवर्णयितुम्, आशयो वा निदर्शयितुम्, संभारो वा परिदीपयितुम्, प्रणिधानं वा निर्देष्टुम्, चर्यां वा संदर्शयितुम्, पारमितापरिशुद्धिर्वा अभिद्योतयितुम्, समुदागमपरिशुद्धिर्वा संप्रकाशयितुम्, समाधिविषयो वा वक्तुम्, ज्ञानालोको वा अनुगन्तुम्॥
गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे समुद्रप्रतिष्ठानं नाम नगरम्। तत्र प्रभूता नामोपासिका प्रतिवसति। तामुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥
अथ खलु सुधनः श्रेष्ठिदारकः कल्याणमित्रवचनं श्रुत्वा संहर्षिततनुरुहो महाप्रीतिवेगसंजातः प्रमुदितमानसः सुदुर्लभाश्चर्याशयरत्नप्रतिलब्धो विपुलजगद्धितचित्तचेष्टानिर्यातो बुद्धोत्पादपरंपरावतारवशवर्ती धर्ममण्डलविशुद्धिमतिपरमः सर्वत्रानुगतविभक्तिनिर्याणनिदर्शनपरमः त्र्यध्वतलासंभिन्नबुद्धविषयः अक्षयपुण्यसागरसंभूतचेताः महाज्ञानावभासवशवर्ती त्रिभुवनपुरबन्धनकपाटनिर्भेदः इन्द्रियेश्वरस्य दारकस्य पादौ शिरसाभिवन्द्य इन्द्रियेश्वरं दारकमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य इन्द्रियेश्वरस्य दारकस्यान्तिकात्प्रक्रान्तः॥१३॥