१४ सुदर्शनः
Technical Details
१४ सुदर्शनः।
अथ खलु सुधनः श्रेष्ठिदारको गम्भीरं बोधिसत्त्वज्ञानविचारमनुविचिन्तयन्, गम्भीरं धर्मधातुतलानुगमनमनुविचिन्तयन्, गम्भीरं सर्वसूक्ष्मज्ञानमनुविचिन्तयन्, लोकसंज्ञागतगम्भीरतामनुविचिन्तयन्, अनभिसंस्कारतलगम्भीरतामनुविचिन्तयन्, चित्तस्रोतस्तलगम्भीरतामनुविचिन्तयन्, प्रतीत्यसमुत्पादतलगम्भीरतामनुविचिन्तयन्, स्वभावसत्यतलगम्भीरतामनुविचिन्तयन्, सर्वजगद्वयवहारसत्यतलगम्भीरतामनुविचिन्तयन्, धर्मधातुप्रतिमण्डितव्यूहतलगम्भीरतामनुविचिन्तयन्, काययन्त्रापेक्षतलगम्भीरतामनुविचिन्तयन्, कर्मचित्तलोकतलगम्भीरतामनुविचिन्तयन्, अनुपूर्वेण येन त्रिनयनो जनपदस्तेनोपसंक्रम्य सुदर्शनं भिक्षुं मार्गयमाणो जनपदव्यवचारेषु नगरव्यवचारेषु पट्टनव्यवचारेषु निगमव्यवचारेषु ग्रामव्यवचारेषु घोषव्यवचारेषु ऋष्याश्रमव्यवचारेषु देशप्रदेशव्यवचारेषु जलपथव्यवचारेषु गिरिदरिव्यवचारेषु महावनषण्डव्यवचारेषु सोऽद्राक्षीत् सुदर्शनं भिक्षुमन्यतमस्मिन् वनषण्डे चंक्रम्यमाणं दहरं तरुणमभिरूपं प्रासादिकं दर्शनीयमभिनीलप्रदक्षिणावर्तकेशं छत्राकारमूर्धानमुष्णीषशिरसं पृथुललाटमभिनीलविशालगोपक्ष्मनयनं मधुरोन्नतचारुतुङ्गनासिकावंशं हिङ्गुलुकसुवर्णसुश्लिष्टोष्ठं समसहितसुशुक्लपूर्णचत्वारिंशद्दन्तं सिंहहनुं परिपूर्णोपचितकपोलं सुरुचिरचापायतभ्रुवं शशाङ्कवर्णोर्णया कृततिलकमायतमुक्तप्रलम्बकर्णं पूर्वचन्द्रसौम्यवदनं कम्बुरुचिरवृत्तग्रीवं श्रीवत्सालंकृतहृदयं सिंहपूर्वार्धकायं चितान्तरांसं सुसंवृतस्कन्धं प्रलम्बबाहुं जालावनद्धाङ्गुलिं चक्राङ्कितहस्तपादं मृदुतरुणोपचितपाणिपादं सप्तोत्सदं वज्रसदृशमध्यं बृहदृजुगात्रं सुवर्तितोरुं कोशगतबस्तिगुह्यं ऐणेयजङ्घं दीर्घाङ्गुलिमायतपादपार्ष्णिं व्यामप्रभं सुवर्णवर्णच्छविमेकैकप्रदक्षिणावर्तरोमं न्यग्रोधराजपरिमण्डलं लक्षणानुव्यञ्जनोपचितशरीरं अनिमिषाविभ्रान्तदृष्टिमुपस्थितस्मृतिं हिमवत्पर्वराजमिव नानातृणवनौषधिलतोपशोभितं विपुलबुद्धिमसंहार्यज्ञानगोचरविषयं जलधराकारस्वरमण्डलव्यूहं सर्वेञ्जनमन्यनस्पन्दनप्रपञ्चनापगतचित्तम् असंभिन्नज्ञानगोचरं विपुलबुद्धज्ञानविषयावभासप्रतिलब्धं सर्वसत्त्वपरिपाकविनयाव्युच्छिन्नाशयं संजातविपुलमहाकरुणामण्डलं सर्वतथागतधर्मनेत्रीसंधारणार्थं सर्वसत्त्वज्ञानालोकसंजननार्थं तथागतगतिमनुस्मरन्तं सर्वजगदर्थचंक्रमाभिरूढमद्रुतमविलम्बितं निभृतं सुव्यवस्थितं चंक्रम्यमाणं शुद्धावासदेवकल्पवसनं देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगशक्रब्रह्मलोकपालमनुष्यामनुष्यैः परिवृतम्॥
तस्य खलु पुनः सुदर्शनस्य भिक्षोश्चंक्रम्यमाणस्याभिमुखदिगावृता दिग्देवता दिङ्भण्डलमावर्तयन्ति। पदगामिन्यो देवता रत्नपद्मैः क्रमविक्षेपं संप्रतीच्छन्ति। अपर्यादत्तालोकमण्डलोपज्वलनदेवतास्तमोन्धकारं विधमन्ति। जम्बुध्वजवनदेवताः कुसुमौघवर्षमभिप्रवर्षन्ति। अचलगर्भभूमिदेवता रत्नाकराण्युपदर्शयन्ति। समन्तावभासश्रीगगनदेवता गगनतलमलंकुर्वन्ति। श्रीसंभवाः सागरदेवता महामणिरत्नैरभ्यवकिरन्ति। विमलगर्भाः सुमेरुदेवताः कृताञ्जलिपुटा नमस्यन्ति। असङ्गबला वायुदेवता गन्धधूपपुष्पाकुलं मारुतं प्रमुञ्चन्ति। वासन्तीरात्रिदेवताः स्वलंकृतशरीराः प्रणताङ्गा नमस्यन्ति। सदाविबोधनमण्डला दिवसदेवता दिग्रोचनमणिरत्नध्वजगृहीता गगनतले तिष्ठन्ति आलोकसंजननार्थाय॥
अथ खलु सुधनः श्रेष्ठिदारको येन सुदर्शनो भिक्षुस्तेनोपसंक्रम्य सुदर्शनस्य भिक्षोः क्रमतलाभ्यां निपत्य सुदर्शनस्य भिक्षोः क्रमतलं परिचुम्ब्य परिलिख्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-अहमार्य अनुत्तरायां सम्यक्संबोधौ संप्रस्थितो बोधिसत्त्वचर्यां परिमार्गामि। श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददाति, अनुशासनीमनुप्रयच्छति। तद्वदतु मे आर्यः-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। स आह-अहं कुलपुत्र दहरो जात्या, नवकस्तु प्रवज्यया। तेन मे कुलपुत्र एकजन्मना अष्टत्रिंशद्गङ्गानदीवालुकासमानां तथागतानामन्तिके ब्रह्मचर्यं चीर्णम्। क्वचिन्मे तथा रात्रिंदिवं ब्रह्मचर्यं चीर्णम्, क्वचित्सप्त रात्रिंदिवानि, क्वचिदर्धमासम्, क्वचिन्मासम्, क्वचिद्वर्षम्, क्वचिद्वर्षशतम्, क्वचिद्वर्षसहस्रम्, क्वचिद्वर्षशतसहस्रम्, क्वचिद्वर्षकोटीम्, क्वचिद्वर्षकोटीनियुतम्, क्वचिद् यावदनभिलाप्यानभिलाप्यानि वर्षाणि, क्वचिदन्तरकल्पम्, क्वचिदर्धकल्पम्, क्वचित्कल्पम्, क्वचिन्मे तथागते यावदनभिलाप्यानभिलाप्यान् कल्पान् ब्रह्मचर्यं चीर्णमनयैव कल्पसंख्यया। सर्वेषामेव तथागतानामन्तिकाद्धर्मदेशना श्रुता। अववादानुशासनी संप्रतीच्छिता। प्रणिधानव्यूहाः परिशोधिताः। समुदागमविषयावतीर्णचर्यामण्डलं परिशोधितम्। पारमितासागराः परिपूरिताः। अभिसंबोधिविकुर्वितानि आज्ञातानि। धर्मचक्रप्रवर्तनानि चैषामन्योन्यासंभिन्नानि संधारितानि। बलसमता चैषामवतीर्णा। शासनं चैषां संधारितं यावत्सद्धर्मनिष्ठापर्यन्तम्। सर्वेषां च मे तेषां तथागतानां पूर्वप्रणिधानानि स्वबुद्धक्षेत्रपरिशुद्धयेऽभिनिर्हृतानि प्रणिधिमण्डलसमाध्यभिनिर्हारबलेन। सर्वेषां च मे तेषां पूर्वबोधिसत्त्वचर्या स्वचर्यापरिशुद्धयेऽभिनिर्हृता सर्वचर्यावतारसमाधिप्रतिलम्भबलेन। सर्वेषां च मे तेषां तथागतानां पारमिताविशुद्धिरभिनिर्हृता समन्तभद्रचर्यानिर्याणबलेन। अपि तु खलु पुनर्मे कुलपुत्र एवं चंक्रम्यमाणस्य सर्वदिक्स्रोतोमुखान्यावर्तन्ते सुविलोकितज्ञानमुखतया। सर्वलोकधातुस्रोतोमुखानि व्यावर्तन्ते एकचित्तोत्पादेन अनभिलाप्यानभिलाप्यलोकधात्वतिक्रमणपरिशोधनतायै यदुत महाप्रणिधानाभिनिर्हारबलेन। एकचित्तक्षणेन अनभिलाप्यानभिलाप्यसत्त्वचर्यानयमुखान्यभिमुखमावर्तन्ते दशबलज्ञानपरिपूरये। समन्तभद्रबोधिसत्त्वचर्याप्रणिध्यभिनिर्हारबलेन एकचित्तोत्पादेन अनभिलाप्यानभिलाप्यबुद्धक्षेत्रदर्शनविशुद्धयोऽभिमुखीभवन्ति अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमतथागतपूजोपस्थानपरिचारणतायै। पूर्वोत्तरतथागतपूजाप्रणिध्यभिनिर्हारबलेन एकचित्तोत्पादेन अनभिलाप्यानभिलाप्यतथागतधर्ममेघा आशयेऽभिपतन्ति। असंख्येयधर्मगतिविध्यनुगमधर्मचक्रसंधारणधारणीप्रणिध्यभिनिर्हारबलेन एकचित्तोत्पादेन अनभिलाप्यानभिलाप्यबोधिसत्त्वचर्यासमुद्रा अभिमुखा आवर्तन्ते सर्वचर्यामण्डलपरिशोधनतायै। इन्द्रबलोपमबोधिसत्त्वचर्यापरिपूरिप्रणिध्यभिनिर्हारबलेन एकचित्तोत्पादेन अनभिलाप्यानभिलाप्यसमाधिसागरा अभिमुखा आवर्तन्ते सर्वसमाधिमण्डलपरिशोधनतायै। एकसमाधिमुखैः सर्वसमाधिमुखसमवसरणप्रणिध्यभिनिर्हारबलेन एकचित्तोत्पादेन अनभिलाप्यानभिलाप्येन्द्रियसमुद्रा अभिमुखमावर्तन्ते सर्वेन्द्रियचक्रकालचक्रानुवर्तनतायै। स्मृतिकोटीन्द्रियप्रतिलाभप्रणिध्यभिनिर्हारबलेन एकचित्तोत्पादेन अनभिलाप्यानभिलाप्यकालचक्राण्यभिमुखमावर्तन्ते सर्वकालधर्मचक्रप्रवर्तनतायै। अनिष्ठसत्त्वनिष्ठाप्रणिध्यभिनिर्हारबलेन एकचित्तोत्पादेन अनभिलाप्यानभिलाप्यसर्वत्र्यध्वसागरा अभिमुखमावर्तन्ते सर्वलोकधातुषु त्र्यध्वव्यवस्थानतया अनुगमज्ञानालोकप्रणिध्यभिनिर्हारबलेन। एतमहं कुलपुत्र अनिशान्तज्ञानप्रदीपं बोधिसत्त्वविमोक्षं जानामि। किं मया शक्यं वज्रकल्पाशयानां बोधिसत्त्वानां सर्वतथागतकुलकुलीनताभिजातानामनुपरुद्धजीवितेन्द्रियाणामनिशान्तज्ञानप्रदीपानामनाच्छेद्याभेद्यकायानां मायागतरूपानिर्वृत्तानां प्रत्ययधर्मसमाङ्गप्रत्यङ्गशरीराणां यथाशयजगद्विज्ञप्तिकायानां सर्वजगदुपमरूपकायवर्णसंस्थानारोहपरिणाहसंदर्शकायानामग्निज्वालाविषशस्त्रानुपघातशरीराणां वज्रदृढचक्रवालानवमृद्यात्मभावानां सर्वमारपरप्रवादिबलाबलकरणानां जाम्बूनदकनकपर्वतसंनिभानां सर्वजगदभ्युद्गतशरीराणां सर्वजगद्विज्ञप्त्याश्रयाणां समन्तमुखविज्ञप्तिश्रवणानां सर्वजगदुल्लोकितमुखानां सर्वधर्मजलधराकारभूतानां समन्तदिग्विरोचनानां सर्वावरणपर्वतविकिरणत्वादप्रतिकूलदर्शनानां सर्वाकुशलमूलात्यन्तसमुद्धाटितत्वात्परमशूरदर्शनानां विपुलकुशलमूलनिष्यन्दसंभूतत्वादभिलषितदर्शनानां परमदुर्लभप्रादुर्भावत्वादुदुम्बरपुष्पसदृशानां चर्यां ज्ञातुं गुणान् वा वक्तुम्॥
गच्छ कुलपुत्र, इदमिहैव दक्षिणापथे श्रमणमण्डले जनपदे सुमुखं नाम नगरम्। तत्र इन्द्रियेश्वरो नाम दारकः प्रतिवसति। तमुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥
अथ खलु सुधनः श्रेष्ठिदारको बोधिसत्त्वविक्रमप्रतिपद्विशुद्धिपरमः बोधिसत्त्वबलालोकावभासितचित्तोऽपराजितबोधिसत्त्ववैर्यपर्यादत्तहृदयः बोधिसत्त्वदृढप्रणिधिसंनाहासंकुचितचित्तो बोधिसत्त्वाशयदृढसंस्थानपरिणाहपरमो बोधिसत्त्वचर्यामेघसंधारणसंप्रस्थानाशयो बोधिसत्त्वधर्ममेघापरितृप्तसंतानः सर्वबोधिसत्त्वगुणावताराभिमुखप्रणिधानः सर्वजगत्सारथिसंग्राहकभूतमात्मानमुपनामयितुकामः सर्वजगन्महासंसाराटवीकान्तारादतिक्रामयितुकामः कल्याणमित्रदर्शनश्रवणपर्युपासनापरितृप्त एव अप्रमाणधर्मगौरवसंजातः सुदर्शनस्य भिक्षोः पादौ शिरसाभिवन्द्य सुदर्शनं भिक्षुमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य सुदर्शनस्य भिक्षोरन्तिकात्प्रक्रान्तः॥ १२॥