११ भीष्मोत्तरनिर्घोषः
Technical Details
११ भीष्मोत्तरनिर्घोषः।
अथ खलु सुधनः श्रेष्ठिदारको बोधिसत्त्वानुशासन्यनुगतचित्तो बोधिसत्त्वचर्यापरिशोधनानुगतचित्तो बोधिसत्त्वपुण्यबलविवर्धनचित्तो बुद्धदर्शनवेगावभासितचित्तो धर्मनिधानप्रतिलाभसंजातचित्तवेगो महाप्रणिधानाभिनिर्हारप्रवर्धितचित्तवेगः सर्वधर्मदिगभिमुखचित्तो धर्मस्वभावावभासितचित्तः सर्वावरणविकिरणचित्तो निरन्धकारधर्मधातुव्यवलोकनचित्तो नारायणवज्ररत्नाभेद्यविमलाशयचित्तः सर्वमारबलदुर्योधनदुर्धर्षणचित्तोऽनुपूर्वेण येन नालयुर्जनपदः तेनोपसंक्रम्य भीष्मोत्तरनिर्घोषमृषिमन्वेषते स्म। तेन च समयेन भीष्मोत्तरनिर्घोषर्षिरन्यतमस्मिन्नाश्रमपदे विहरति स्म असंख्येयविचित्रद्रुमलतावनरमणीये विविधवृक्षपत्रसंछन्ने सदाप्रफुल्लितविचित्रपुष्पवृक्षे सदाफलोपचितफलवृक्षे नानारत्नवृक्षोदारमणिफलकसंस्कृततले सुविभक्तमहाचन्दनद्रुमे मनोज्ञागरुवृक्षसदाप्रमुक्तगन्धोपशोभिते चतुर्दिक्षुविभक्तगन्धोपशोभिते चतुर्दिक्षु विभक्तपाटलीवृक्षसमलंकृते न्यग्रोधवृक्षपादपरुचिरसंस्थाने सदापक्वफलजम्बूवृक्षप्रवर्षणे नवनलिनीपद्मोत्पलकुमुदोपशोभिते। अद्राक्षीत्सुधनः श्रेष्ठिदारको भीष्मोत्तरनिर्घोषमृषिं दशऋषिसहस्रपरिवृतं चन्दनतलावबद्धायां कुट्यां जटामकुटधारिणमजिनदर्भचीवरवल्कलवसनं तृणसंस्तरोपविष्टम्। दृष्ट्वा च पुनर्येन भीष्मोत्तरनिर्घोष ऋषिस्तेनोपजगाम। उपेत्य भूतकल्याणमित्रप्रतिलम्बनाशयकल्याणमित्रायद्वारां सर्वज्ञतां संपश्यन्, भूतमार्गोपनयाय कल्याणमित्रानुशासन्यधीनां सर्वज्ञतां संपश्यन्, सर्वज्ञताभूम्युपनयेन कल्याणमित्रदासाधीनां सर्वज्ञतां संपश्यन्, दशबलज्ञानरत्नद्वीपोपनयेन कल्याणमित्रोल्कावभासितां सर्वज्ञतां संपश्यन्, दशबलज्ञानालोकसंजननतया कल्याणमित्रमार्गां सर्वज्ञतां संपश्यन्, अक्षुण्णसर्वज्ञतापुरप्रापणतया कल्याणमित्रप्रदीपां सर्वज्ञतां संपश्यन्, समविषमसंदर्शनतया कल्याणमित्रं सेतुं सर्वज्ञतायाः संपश्यन्, सर्वप्रपातभयविगमनतया कल्याणमित्रच्छत्रां सर्वज्ञतां संपश्यन्, महामैत्रीबलाह्लादसंजननतया कल्याणमित्रवेगां सर्वज्ञतां संपश्यन्, महाकरुणासंजननतया कल्याणमित्राधीनां सर्वज्ञतादर्शनपरिपुष्टिं संपश्यन्, धर्मस्वभावनयावभासनतया सर्वशरीरेण प्रणिपत्य उत्थाय भीष्मोत्तरनिर्घोषमृषिं अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य प्राञ्जलिभूतः पुरतः स्थित्वा मनोज्ञोपचारेण मनोज्ञां वाचमुदीरयन् एवमाह-मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति। तद्वदतु मे आर्यः-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥
अथ खलु भीष्मोत्तरनिर्घोषऋषिस्तानि दश माणवकसहस्राण्यनुविलोक्य एवमाहअनेन माणवकाः कुलपुत्रेण अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। सर्वसत्त्वाश्चाभयेनोपनिमन्त्रिताः। अयं स कुलपुत्राः सर्वसत्त्वहितसुखाय प्रत्युपस्थितो ज्ञानसागराभिमुखः सर्वतथागतानां धर्ममेघान् धातुकामः सर्वधर्मनयसागरानवगाहयितुकामः महाज्ञानालोकेऽवस्थातुकामो महाकरुणामेघमुपस्थापयितुकामो महाधर्मवर्षमभिप्रवर्षयितुकामो महाज्ञानालोके चन्द्रे उदागत्य सर्वक्लेशप्रतापं प्रशमयितुकामो सर्वसत्त्वकुशलमूलानि वर्धयितुकामः॥
अथ खलु तानि दश माणवकसहस्राणि नानावर्णैः सुरुचिरैः सुगन्धैः पुष्पैः सुधनं श्रेष्ठिदारकमवकीर्य अभ्यवकीर्य अभिवन्द्य नमस्कृत्वा प्रणिपत्य प्रदक्षिणीकृत्य एवं वाचमुदीरयामासुः-एष त्राता भविष्यति, सर्वसत्त्वानां सर्वनिरयदुःखानि प्रशमयिष्यति। सर्वतिर्यग्योनिगतिं व्यवच्छेत्स्यति। सर्वयमलोकगतिं विनिवर्तयिष्यति। सर्वाक्षणद्वारकपाटानि पिथपयिष्यति। तृष्णासमुद्रमुच्छोषयिष्यति। तृष्णाबन्धनं छेत्स्यति। दुःखस्कन्धं विनिवर्तयिष्यति। अविद्यान्धकारं विधमयिष्यति। पुण्यचक्रवालं लोके परिसंस्थापयिष्यति। ज्ञानरत्नाकरमुपदर्शयिष्यति। ज्ञानसूर्यमुदागमिष्यति। धर्मचक्षुर्विशोधयिष्यति। समविषमं लोके संप्रकाशयिष्यति। अथ खलु भीष्मोत्तरनिर्घोष ऋषिः तान् माणवकानेवमाह-येन माणवका अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितं भवति, स बोधिसत्त्वचर्यां चरन् सर्वसत्त्वानां सुखमुत्पादयति, अनुपूर्वेण च सर्वज्ञतां प्रतिलभते। अनेन माणवकाः कुलपुत्रेण अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। स एष सर्वबुद्धगुणभूमिं परिपूरयिष्यति। अथ खलु भीष्मोत्तरनिर्घोष ऋषिः सुधनं श्रेष्ठिदारकमेतदवोचत्-अहं कुलपुत्र अपराजितध्वजस्य बोधिसत्त्वस्य विमोक्षस्य लाभी। सुधन आह-क एतस्य आर्य अपराजितध्वजस्य बोधिसत्त्वविमोक्षस्य विषयः? ततो भीष्मात्तरनिर्घोषऋषिः दक्षिणं पाणिं प्रसार्य सुधनं श्रेष्ठिदारकं शिरसि परिमार्ज्य दक्षिणेन पाणिना पर्यगृह्णात्। समनन्तरपरिगृहीतश्च सुधनः श्रेष्ठिदारको भीष्मोत्तरनिर्घोषेण ऋषिणा दक्षिणेन पाणिना, अथ तावदेव सुधनः श्रेष्ठिदारकोऽपश्यद्दशसु दिक्षु दशबुद्धक्षेत्रशतसहस्रपरमाणुरजःसमानि बुद्धक्षेत्राणि। तेषु च दशबुद्धक्षेत्रशतसहस्रपरमाणुरजःसमानां तथागतानां पादमूलगतमात्मानं संजानाति स्म। तानि च बुद्धक्षेत्राण्यपश्यदसंख्येयाकारविशुद्धव्यूहानि। तेषु च तथागतपर्षन्मण्डलसमुद्रान्नानावर्णविचित्रव्यूहानपश्यत्। तेषु च पर्षन्मण्डलसमुद्रेषु तथागतशरीराणि लक्षणानुव्यञ्जनोज्ज्वलितोपचितान्यपश्यत्। तेभ्यश्च धर्मदेशनां शृणोत्येकपदव्यञ्जनापराङ्भुखाम्। तानि च तथागतधर्मचक्राण्यन्योन्यासंभिन्नानि संधारयति। तांश्च धर्ममेघान्नानासत्त्वाशयेषु प्रवर्षणां संप्रतीच्छति। तेषां च तथागतानां नानाधिमुक्तिबलविशोधितं पूर्वप्रणिधानसमुद्रानवतरति। तांश्च नानाप्रणिधानसागरविशुद्धान् बुद्धसमुदागमसमुद्रानवतरति। तांश्च यथाशयसर्वसत्त्वसहस्रसंतोषणविज्ञापनान् बुद्धवर्णानद्राक्षीत्। तानि च बुद्धरश्मिजालानि नानाविरागविशुद्धव्यूहमण्डलान्यपश्यत्। तानि च बुद्धबलान्यनावरणज्ञानालोकानुगमेनावतरति। स क्वचित्तथागतपादमूले रात्रिंदिवं संजानाति। क्वचित्सप्त रात्रिंदिवानि, क्वचिदर्धमासम्, क्वचिन्मासम्,क्वचित्संवत्सरं क्वचिद्वर्षशतं क्वचिद्वर्षसहस्रं क्वचिद्वर्षशतसहस्रं क्वचिद्वर्षकोटिं क्वचिद्वर्षकोटीशतं क्वचिद्वर्षकोटिसहस्रं क्वचिद्वर्षकोटीशतसहस्रं क्वचिद्वर्षकोट्ययुतं क्वचिद्वर्षकोटीनियुतं क्वचिदर्धकल्पं संजानाति। क्वचित्कल्पं क्वचित्कल्पशतं क्वचित्कल्पसहस्रं क्वचित्कल्पशतसहस्रं क्वचित्कल्पकोटीं क्वचित्कल्पकोटीशतं क्वचित्कल्पकोटीसहस्रं क्वचित्कल्पकोटीशतसहस्रं क्वचित्कल्पकोटीनियुतशतसहस्रं क्वचित्तथागतपादमूले यावदनभिलाप्यानभिलाप्यान् कल्पान् संजानाति। क्वचित्तथागतपादमूले जम्बूद्वीपपरमाणुरजःसमान् कल्पान् संजानाति। क्वचिद्यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् संजानाति अपराजितध्वजबोधिसत्त्वविमोक्षज्ञानावभासितो वैरोचनगर्भसमाध्यवभासप्रतिलब्धः अक्षयज्ञानविमोक्षसमाध्यनुगतः समन्तदिक्पञ्जरधारणीमुखावलोकप्रतिलब्धो वज्रमण्डलधारणीमुखावभासितचित्तः सुविभक्तज्ञानकूटविषयसमाधिविहारप्रतिलब्धः समन्ततलव्यूहमार्गप्रज्ञापारमिताविहारविषयो बुद्धगगनगर्भमण्डलसमाध्यालोकप्रसृतः सर्वबुद्धधर्मचक्रनेमिसमाध्यवभासितचित्तः त्र्यध्वज्ञानरत्नाक्षयमण्डलसमाध्यालोकप्राप्तः॥
अथ खलु भीष्मोत्तरनिर्घोष ऋषिः सुधनं श्रेष्ठिदारकं व्यमुञ्चत्। स पुनरपि भीष्मोत्तरनिर्घोषस्य ऋषेः पुरतः स्थितमात्मानं संजानाति। तं भीष्मोत्तरनिर्घोष ऋषिराह-स्मरसि कुलपुत्र? आह-स्मरामि आर्य कल्याणमित्राधिष्ठानेन। आह-एतमहं कुलपुत्र अपराजितध्वजं बोधिसत्त्वविमोक्षं जानामि। किं मया शक्यं सर्वजगद्विशेषज्ञानाभिज्ञावतारसमाधिप्रतिलब्धानां बोधिसत्त्वानां सर्वकालचक्रवशवर्तिनां बुद्धलक्षणज्ञानाभिनिर्हारकुशलानां तथागतदिवसावक्रान्तिविज्ञप्तिव्यूहानां त्र्यध्वविषयैकलक्षणज्ञानसमवसरणानां सर्वलोकधातुसुविभक्तकायानां सर्वधर्मधात्ववभासितज्ञानशरीराणां सर्वसत्त्वयथाशयाभिमुखाभ्युत्थितानां यथाशयसत्त्वचर्याविचारानुकूलोपचाराणां समन्ताभिरुचितरोचनानाम् अमलविपुलरुचिरज्ञानमण्डलविशुद्धानां चर्या ज्ञातुं गुणा वा वक्तुं प्रणिधिविशेषो वा सूचयितुं क्षेत्राभिसंस्कारो वा ज्ञातुं ज्ञानविषयो अवगाहितुं समाधिगोचरो वा अनुसर्तुं ऋद्विविकुर्वितं वा अवतरितुं विमोक्षवृषभिताविक्रीडितं वा अनुगन्तुं शरीरविभक्तिनिमित्तं वा उद्ग्रहीतुं स्वरमण्डलविशुद्धिर्वा प्रभावयितुं ज्ञानावभासो वा निदर्शयितुम्॥
गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे ईषाणो नाम जनपदः। तत्र जयोष्मायतनो नाम ब्राह्मणः प्रतिवसति। तमुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥
अथ खलु सुधनः श्रेष्ठिदारकस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भीष्मोत्तरनिर्घोषस्य ऋषेः पादौ शिरसाभिवन्द्य भीष्मोत्तरनिर्घोषं ऋषिमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य भीष्मोत्तरनिर्घोषस्य ऋषेरन्तिकात्प्रक्रान्तः॥९॥