१० आशा
Technical Details
१० आशा।
अथ खलु सुधनः श्रेष्ठिदारकः कल्याणमित्रगुणाराधितः कल्याणमित्रसंप्रेषितः कल्याणमित्रदर्शनावेशाविष्टः कल्याणमित्रानुशासनीं प्रतिपद्यमानः कल्याणवचनान्यनुस्मरन्, कल्याणमित्रानुगतप्रेमा कल्याणमित्राण्याकरं बुद्धदर्शनं संपश्यन्, कल्याणमित्राणि बुद्धधर्मसंदर्शकानि संपश्यन्, कल्याणमित्राण्याचार्याणि सर्वज्ञताधर्मेषु समनुपश्यन्, चक्षुर्भूतानि कल्याणमित्राणि बुद्धगगनालोकनतायै संपश्यन्, अनुपूर्वेण येन समुद्रवेतालीप्रदेशे समन्तव्यूहमुद्यानं तेनोपसंक्रान्तः। सोऽपश्यत् समन्तव्यूहमुद्यानं सर्वरत्नप्राकारपरिक्षिप्तं सर्वरत्नद्रुमपङ्क्तिषु आविद्धसमलंकृतं सर्वरत्नपङ्क्तिरुचिरसूक्ष्मकुसुमरेणुप्रमुक्तं सर्वरत्नद्रुमसमलंकृतं सर्वरत्नद्रुमपुष्पविचित्रकुसुमाकीर्णं सर्वगन्धद्रुमपङ्क्तिसमन्तदिग्निश्चरितगन्धं सर्वरत्नमालाद्रुमकोशप्रमुक्तप्रलम्बनानारत्नमालावृष्टयभिप्रवर्षणं सर्वमणिराजद्रुममणिरत्नकृतविचित्रभक्तिसंस्तीर्णोपशोभिततलं सर्वकल्पपुष्पद्रुमनानारङ्गवस्त्रप्रलम्बप्रच्छन्नोपचारसुविभक्तदेशं सर्ववाद्यद्रुमदिव्यातिरेकतूर्यमारुतसमीरितनिर्नादितमधुरनिघोषमनिम्नोन्नतपृथिवीसमतलाविद्धं सर्वाभरणवृक्षकोशप्रमुक्ताभरणविकृतविचित्रधाराभिप्रलम्बितोपशोभितव्यूहम्। तस्मिन् खलु पुनः समन्तव्यूहे महोद्याने दश प्रासादकोटीशतसहस्राणि सर्वमहामणिरत्नप्रतिमण्डितनिर्यूहव्यूहानि, दश कूटागारशतसहस्राणि जाम्बूनदकूटकनकच्छदनोपेतानि, दश विमानशतसहस्राणि वैरोचनमणिरत्नोपशोभितगर्भाणि, दश पुष्करिणीशतसहस्राणि सर्वरत्नमयानि रत्नेष्टकानिचितानि सप्तरत्नविचित्रसोपानानि नानामणिरत्नवेदिकापरिवृतानि दिव्यचन्दनवारिनिष्यन्दगन्धानि सुवर्णवालुकासंस्तीर्णदशप्रासादकनकमणिरत्नाकीर्णतलानि चतुर्दिक्षु विभक्तसोपानानि अष्टाङ्गोपेतवारिपरिपूर्णानि हंसक्रौञ्चमयूरकोकिलकलविङ्ककुणालनिर्नादरुतमधुरनिर्घोषाणि रत्नतालपङ्क्तिपरिवृतानि सुवर्णघण्टाजालसंछन्नमारुतसमीरितमनोज्ञनिर्घोषशब्दानि उपरिमहामणिरत्नवितानविततानि नानारत्नवृक्षवाटिकापरिवृतानि उच्छ्रितच्छत्रध्वजमणिरत्नजालोद्योतितानि दश च तडागशतसहस्राणि, कालानुसारिचन्दनकर्दमोपचितानि सर्वरत्नमयविचित्रवर्णपद्मसंछन्नानि महामणिरत्नपद्मावभासितविमलसलिलानि। तस्य चोद्यानस्य मध्य विचित्रध्वजं नाम महाविमानं सागरगर्भरत्नपृथिवीतलसंस्थानं वैदूर्यमणिरत्नस्तम्भोपशोभितं जाम्बूनदसुवर्णसमुद्गतकूटं जगद्विरोचनमणिरत्नगर्भव्यूहफलकबद्धमसंख्येयमणिरत्नजालोज्ज्वलिततलमजितवतिगन्धमणिराजनिर्धूपितोपचारमनुरचित-गन्धमणिराजसमीरितगन्धं विबोधनगन्धमणिराजविधमनतीक्ष्णेन्द्रियवासनम्। तस्मिंश्च विचित्रध्वजे महाविमानेऽपरिमितान्यासनानि प्रज्ञप्तानि-यदुत पद्मगर्भाणि दिग्रोचनमणिरत्नपद्मगर्भाणि वैरोचनमणिरत्नपद्मगर्भाणि जगद्रोचनमणिरत्नपद्मगर्भाणि चित्रकोशमणिरत्नपद्मगर्भाणि सिंहपञ्जरमणिरत्नपद्मगर्भाणि विमलमणिरत्नपद्मगर्भाणि मणिरत्नरचितपद्मगर्भाणि समन्तमुखमणिरत्नपद्मगर्भाणि प्रभाव्यूहमणिरत्नपद्मगर्भाणि सागरप्रतिष्ठानविशुद्ध मणिरत्नव्यूहसमन्तरश्मिप्रभासमणिराजपद्मगर्भाणि वज्रसिंहाक्रान्तमणिरत्नपद्मगर्भाणि। तस्य च विचित्रध्वजस्य महाविमानस्य अनेके निर्यूहा अचिन्त्यरत्नमया विचित्ररत्नव्यूहा अचिन्त्यवर्णनिर्भासरुचिरसंस्थानाः। तच्च समन्तव्यूहमुद्यानमुपरिष्टाद्दशभिर्महावितानशतसहस्रैः संछन्नं यदुत वस्त्रवितानैर्द्रुमलतावितानैः पुष्पवितानैर्माल्यवितानैर्गन्धवितानैर्मणिरत्नवितानैः सुवर्नवितानैराभरणवितानैः वज्रप्रभासमणिवितानैरैरावणनागराजविकुर्विताप्सरोवितानैः शक्राभिलग्नमणिरत्नवितानैः। एतत्प्रमुखैर्दशभिर्वितानशतसहस्रैः संछन्नम्। दशभिश्च महारत्नजालशतसहस्रैः संछन्नम्। यदुत रत्नगर्भकिङ्किणीजालैः रत्नच्छत्रजालैः रत्नबिम्बजालैः सागरगर्भमुक्ताजालैः नीलवैडूर्यमणिरत्नजालैः सिंहलताजालैः चन्द्रकान्तमणिरत्नजालैः गन्धविग्रहजालैः रन्तमकुटजालैः रन्तहारजालैः। एतत्प्रमुखैर्दशभिर्महामणिरत्नजालशतसहस्रैः संछन्नम्। दशभिश्च महावभासशतसहस्रैरवभासितम्-यदुत ज्योतिरश्मिमणिरत्नावभासेन आदित्यगर्भमणिरत्नावभासेन चन्द्रध्वजमणिरत्नावभासेन गन्धप्रधूपनार्चिमणिरत्नावभासेन श्रीगर्भमणिरत्नवभासेन पद्मगर्भमणिरत्नावभासेन ज्योतिर्ध्वजमणिरत्नावभासेन महाप्रदीपमणिरत्नावभासेन समन्तदिग्वैरोचनमणिरत्नावभासेन महागन्धमेघनिश्चरितविद्युन्मालामणिरत्नावभासेन। एतत्प्रमुखैर्दशभिर्महामणिरत्नावभासशतसहस्रैर्नित्यावभासितं तन्महोद्यानम्। दशमहाभरणमेघशतसहस्राभिवर्षितालंकारं च तन्महोद्यानं दशकालानुसारिचन्दनमेघशतसहस्राभिगर्जितं दशदिव्यसमतिक्रान्तमहामाल्यदाममेघशतसहस्राभिप्रलम्बितोपशोभितं दशदिव्यसमतिक्रान्तनानारङ्गविचित्रवस्त्रमेघशतसहस्राभिप्रवर्षितं दशदिव्यसमतिक्रान्ताभरणमेघशतसहस्रविभूषितं दशदेवपुत्रशतसहस्रदर्शनकामाधोमुखप्रणताभिप्रवर्षितं दशाप्सरोमेघशतसहस्रपूर्वसभागचरितस्वकस्वकात्मभावोत्सृजनाभिप्रवर्षितं दशबोधिसत्त्वमेघशतसहस्रधर्मश्रवणतर्षोपसंक्रान्ताभिप्रवर्षितं च तन्महोद्यानम्। यत्र आशोपासिका काञ्चनगर्भमहाभद्रासनोपविष्टा सागरगर्भमुक्ताजालालंकृता अवबद्धमकुटा दिव्यातिरेककनककेयूरवलयबाहुव्यूहा श्रीकायरश्मिमणिरत्नविराजितबाहुः अभिनीलविमलविलम्बमणिकुण्डला महारत्नजालसंछन्नोपशोभितशीर्षा सिंहमुखमणिरत्नकर्णचूडकधारणी चिन्ताराजमणिरत्नहारावसक्तकण्ठा सर्वरत्नजालसंछन्नप्रभोज्ज्वलितशरीरा प्राणिकोटिनियुतशतसहस्रप्रणतकाया। तत्र ये आशाया उपासिकायाः सकाशमपरिमाणाः सत्त्वाः पूर्वस्या दिश आगच्छन्ति, महाब्रह्माणो वा ब्रह्मपुरोहिता वा ब्रह्मकायिका वा वशवर्तिनो वा परनिर्मितवशवर्तिकायिका वा सुनिर्मिता वा निर्माणरतिकायिका वा संतुषिता वा तुषितकायिका वा सुयामा वा सुयामकायिका वा देवेन्द्रा वा त्रायस्त्रिंशत्कायिका वा यक्षेन्द्रा वा यक्षा वा गन्धर्वेन्द्रा वा गन्धर्वा वा कुम्भाण्डेन्द्रा वा कुम्भाण्डा वा नागेन्द्रा वा नागा वा असुरेन्द्रा वा असुरा वा गरुडेन्द्रा वा गरुडा व किन्नरेन्द्रा वा किन्नरा वा महोरगेन्द्रा व महोरगा वा यमा वा यमकन्या वा, प्रेतमहर्द्धिका वा प्रेता वा मनुष्येन्द्रा वा मनुस्या वा। एवं ये दक्षिणाया वा पश्चिमाया उत्तराया उत्तरपूर्वाया पूर्वदक्षिणाया दक्षिणपश्चिमायाः पश्चिमोत्तराया अध ऊर्ध्वाया दिश आगच्छति। महाब्रह्माणो व ब्रह्मपुरोहिता वा ब्रह्मकायिका वा वशवर्तिनो वा वशवर्तिकायिका वा यावन्मनुष्येन्द्रा वा मनुष्या वा आगच्छन्ति नानाव्याधिस्पृष्टा नानाक्लेशपर्यवस्थिता विविधदृष्टिगताभिनिविष्टाः कर्मावरणवृताः, ते सहदर्शनादाशाया उपासिकायाः सर्वव्याध्युपशान्ता भवति। विगतक्लेशमलचित्ता अपगतदृष्टिशल्याः सर्वावरणपर्वतविकीर्णा अनावरणविशुद्धिमण्डलमवतरन्ति। यत्र विशुद्धिमण्डले सर्वकुशलमूलान्युत्तपन्ते, सर्वेन्द्रियाङ्कुरा विवर्धन्ते, सर्वज्ञज्ञाननयसागराः समवसरन्ति। सर्वधारणीमुखनयसमुद्रा आवर्तन्ते। सर्वसमाधिमुखनयसमुद्रा अभिमुखीभवन्ति। सर्वप्रणिधानमुखानि संजायन्ते। सर्वचर्यामुखानि प्रवर्तन्ते। सर्वगुणाभिनिर्हारमुखानि विशुध्यन्ते। चित्तवैपुल्यतासर्वाभिज्ञावतिनयेन प्रवर्तन्ते। कायासङ्गता सर्वत्रानुगता भवन्ति॥
अथ खलु सुधनः श्रेष्ठिदारकः समन्तव्यूहमुद्यानं प्रविश्य समन्तादनुविलोकयन् अद्राक्षीदाशामुपासिकां भद्रासने निषण्णाम्। स येन आशोपासिका तेनोपजगाम। उपेत्य आशाया उपासिकायाः पादौ शिरसाभिवन्द्य आशोपासिकामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य एतदवोचत्-मया आर्ये अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। श्रुतं च मे आर्या बोधिसत्त्वानामववादानुशासनीं ददातीति। तद्वदतु मे आर्या-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥
सा आह-अहं कुलपुत्र, अशोकक्षेमध्वजस्य बोधिसत्त्वविमोक्षस्य लाभिनी। साहं कुलपुत्र अमोघदर्शना अमोघश्रवणा अमोघपर्युपासना अमोघैकवाससंवासना अमोघानुस्मरणा। नाहं कुलपुत्र, अनवरोपितकुशलमूलानां सत्त्वानां चक्षुष आभासमागच्छामि दर्शनविज्ञप्त्या, नापरिगृहीतकल्याणमित्राणां नासमन्वाहृतसम्यक्संबुद्धानाम्। मम कुलपुत्र सहदर्शनेन सत्त्वा अवैवर्तिका भवन्त्यनुत्तरायाः सम्यक्संबोधेः। अपि तु खलु पुनर्मे कुलपुत्र, पूर्वस्यां दिशि तथागता आगत्य इह रत्नासने निषद्य धर्मं देशयन्ति। यथा पूर्वस्यां दिशि, एवं दशभ्यो दिग्भ्यः। साहं कुलपुत्र अविरहिता तथागतदर्शनेन, अविरहिता धर्मश्रवणेन, अविरहिता बोधिसत्त्वसमवधानेन। यान्यपीमानि कुलपुत्र चतुरशीतिः प्राणिकोटीनियुतशतसहस्राणि इह समन्तव्यूहे महोद्याने प्रतिवसन्ति, सर्वाण्येतान्यवैवर्तिकान्यनुत्तरायाः सम्यक्संबोधेः मम सभागचरितानि। येऽप्यन्ये कुलपुत्र केचिदिह सत्त्वाः प्रतिवसन्ति, तेऽप्यविवर्त्याः सवेऽनुत्तरायाः सम्यक्संबोधेः। अविवर्त्यसंघसमवसरणा मम सभागचरिता बोधिसत्त्वाः। आह-कियच्चिरोत्पादितं त्वया आर्ये अनुत्तरायां सम्यक्संबोधौ चित्तम्? आह-अहं कुलपुत्र पूर्वेनिवासमनुस्मरामि, दीपंकरं तथागतमर्हन्तं सम्यक्संबुद्धम्। तस्य मे तथागतस्यान्तिके ब्रह्मचर्यं चीर्णम्। स च मे तथागतः पूजितः, धर्मदेशना च मे तस्यान्तिकादुद्गृहीता। तस्य परेण विमलो नाम तथागतोऽभुत्। तस्याहं शासने प्रव्रजिता, धर्मचक्रं च मे संधारितम्। तस्य परेण केतुर्नाम तथागतोऽभूत्। स मया आरागितः। तस्य परेण मेरुश्रीर्नाम तथागतोऽभूत्। तस्य परेण पद्मगर्भो नाम तथागतोऽभूत्। तस्य परेण वैरोचनो नाम तथागतः। तस्य परेण समन्तचक्षुर्नाम् तथागतः। तस्य परेण ब्रह्मशुद्धो नाम तथागतः। तस्य परेण वज्रनाभिर्नाम तथागतः। तस्य परेण वरुणदेवो नाम तथागतोऽभुत्। अनेन कुलपुत्र पर्यायेण जातिपरंपरया कल्पपरंपरया बुद्धपरंपरामवतरन्ती अनुस्मरमाणा तथागतानर्हतोऽनन्तर्यतया षट्त्रिंशद्गङ्गानदीवालुकासमांस्तथागताननुस्मरामि, ये मया आरागिता उपस्थिताः पूजिता अर्चिताः येषां मया अन्तिकाद्धर्मदेशना श्रुता, येषां च मे शासने ब्रह्मचर्यं चीर्णम्। अत उत्तरि कुलपुत्र तथागताः प्रजानन्ति, यावन्तो मया तथागता आरागिताः। अप्रमाणाः कुलपुत्र बोधिसत्त्वाः प्रथमचित्तोत्पादेनैव सर्वधर्मधातुस्फरणतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वाः महाकरूणानयेन सर्वजगदन्तर्गततया, अप्रमाणाः कुलपुत्र बोधिसत्त्वा महाप्रणिधानदशदिग्धर्मधातुतलनिष्ठानुगमनतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वा महामैत्र्या सर्वजगत्स्फरणतया, अप्रमाणाः कुलपुत्र, बोधिसत्त्वा बोधिसत्त्वचर्यया सर्वक्षेत्रेषु सर्वकल्पसमवसरणतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वाः समाधिबलेन बोधिसत्त्वमार्गाप्रत्युदावर्तनतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वा धरणीबलेन सर्वजगत्संधारणधारणीनयानुगमनतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वा ज्ञानालोकबलेन त्र्यध्वज्ञानयानुगमनसंधारणतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वा अभिज्ञाबलेन सर्वक्षेत्रेषु यथाशयसत्त्वाभिरुचितप्रभाजालचक्राभिनिर्हरणतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वाः प्रतिसंविद्बलेन एकघोषोदाहारसर्वजगत्संतोषणतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वाः कायविशुद्धया सर्वबुद्धक्षेत्रस्वशरीरस्फरणतया॥
सुधन आह-कियच्चिरेण आर्ये त्वमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे? आह-न खलु कुलपुत्र एकसत्त्वारम्बणतया बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते यदुत परिपाकविनयाय। न सत्त्वशतस्यार्थाय, न सत्त्वसहस्रस्य, न सत्त्वशतसहस्रस्य, न सत्त्वकोटेः, न सत्त्वकोटीशतस्य, न सत्त्वकोटीसहस्रस्य, न सत्त्वकोटीनियुतशतसहस्रस्य अर्थाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते। न सत्त्वकङ्करस्यार्थाय, न सत्त्वबिम्बरस्य, न सत्त्वप्रवरस्य, न सत्त्वपरमस्य, न सत्त्वावरस्य, न सत्त्वासीनस्य, न सत्त्वानौपम्यस्य, न सत्त्वनेमस्य, न सत्त्वविपासस्य, न सत्त्वमृगवस्य, न सत्त्वविनाहस्य, न सत्त्वविरागस्य, न सत्त्वावगमस्य, न सत्त्वविवगस्य, न सत्त्वसंक्रमस्य, न सत्त्वविसरस्य, न सत्त्वविजङ्गस्य, न सत्त्वविस्रोतसः, न सत्त्वविवाहस्य, न सत्त्वविभक्तेः, न सत्त्वविग्धन्तस्य, न सत्त्वतुलनस्य, न सत्त्वातुलस्य, न सत्त्ववरणस्य, न सत्त्वविवरणस्य, न सत्त्ववनस्य, न सत्त्वविवर्णस्य, न सत्त्वसाम्यस्य, न सत्त्ववरणस्य, न सत्त्वविचारस्य, न सत्त्वविसारस्य, न सत्त्वव्यत्यस्तस्य, न सत्त्वाभ्युद्गतस्य, न सत्त्वविसृष्टस्य, न सत्त्वदेवलस्य, न सत्त्वपरिभेदस्य, न सत्त्वविक्षोभस्य, न सत्त्वपलिगुञ्जस्य, न सत्त्वहरितस्य, न सत्त्वालोकस्य, न सत्त्वेन्द्रियस्य, न सत्त्वहेलुकस्य, न सत्त्वदुर्बुदस्य, न सत्त्वहरुणस्य, न सत्त्वमालुतस्य, न सत्त्वमैलुतस्य, न सत्त्वक्षयस्य, न सत्त्वाक्षयमुक्तस्य, न सत्त्वैलतायाः, न सत्त्वमालुतायाः, न सत्त्वमण्डुमायाः, न सत्त्वविषमतायाः, न सत्त्वसमतायाः, न सत्त्वप्रमन्तायाः, न सत्त्वप्रमर्तायाः, न सत्त्वामन्त्रायाः, न सत्त्वान्नमन्त्रायाः, न सत्त्वसङ्गमन्त्रायाः, न सत्त्वविमन्त्रायाः न सत्त्वहिमन्त्रायाः न सत्त्वपरमन्त्रायाः, न सत्त्वशिवमन्त्रायाः, न सत्त्वैलायाः, न सत्त्ववेलायाः, न सत्त्वतेलायाः, न सत्त्वशैलायाः, न सत्त्वकेलायाः, न सत्त्वशिलायाः, न सत्त्वश्वेलायाः, न सत्त्वनेलायाः, न सत्त्वभेलायाः, न सत्त्वसेलायाः, न सत्त्वपेलायाः, न सत्त्वहेलायाः, न सत्त्वमेलायाः, न सत्त्वसरडस्य, न सत्त्वमारुतस्य, न सत्त्वमेरुतस्य, न सत्त्वखेलुतस्य, न सत्त्वमालुतस्य, न सत्त्वमुलुतस्य, न सत्त्वाजवस्य, न सत्त्वकमलस्य, न सत्त्वकमरस्य, न सत्त्वातरस्य, न सत्त्वहेलुवस्य, न सत्त्ववेलुवस्य, न सत्त्वजावकस्य, न सत्त्वहवस्य, न सत्त्वहवलस्य, न सत्त्वबिम्बरस्य, न सत्त्वबिम्बहुरस्य, न सत्त्वचरणस्य, न सत्त्वचरमस्य, न सत्त्वपरवस्य, न सत्त्वधवरस्य, न सत्त्वप्रमदस्य, न सत्त्वविगमस्य, न सत्त्वोद्वर्तनस्य, न सत्त्वनिर्देशस्य, न सत्त्वक्षयस्य, न सत्त्वसंभूतस्य, न सत्त्वममस्य, न सत्त्ववदस्य अर्थाय, न सत्त्वोत्पलस्य, न सत्त्वपद्मस्य, न सत्त्वसंख्यायाः, न सत्त्वोपागमस्य, न सत्त्वगत्याः न सत्त्वासंख्येयस्य, न सत्त्वासंख्येयपरिवर्तस्य, न सत्त्वापरिमाणस्य, न सत्त्वापरिमाणपरिवर्तस्य, न सत्त्वापर्यन्तस्य,न सत्त्वापर्यन्तपरिवर्तस्य, न सत्त्वासमन्तस्य, न सत्त्वासमन्तपरिवर्तस्य, न सत्त्वागणेयस्य,न सत्त्वागणेयपरिवर्तस्य, न सत्त्वातुल्यस्य, न सत्त्वातुल्यपरिवर्तस्य, न सत्त्वाचिन्त्यस्य, न सत्त्वाचिन्त्यपरिवर्तस्य, न सत्त्वापर्यन्तस्य, न सत्त्वापर्यन्तपरिवर्तस्य, न सत्त्वामाप्यस्य, न सत्त्वामाप्यपरिवर्तस्य, न सत्त्वानभिलाप्यस्य, न सत्त्वानभिलाप्यपरिवर्तस्य, न सत्त्वानभिलाप्यानभिलाप्यस्य अर्थाय, न सत्त्वानभिलाप्यानभिलाप्यपरिवर्तस्यार्थाय। नैकलोकधातुपर्यापन्नानां सत्त्वानामर्थाय, न यावदनभिलाप्यानभिलाप्यलोकधातुपर्यापन्नानां सत्त्वानामर्थाय, न चातुर्द्वीपकलोकधातुपरमाणुरजःसमलोकधातुपर्यापन्नानां सत्त्वानामर्थाय, न सहस्रलोकधातुपरमाणुरजःसमलोकधातुपर्यापन्नानां सत्त्वानामर्थाय, न द्विसाहस्रलोकधातुपरमाणुरजःसमलोकधातुपर्यापन्नानां सत्त्वानामर्थाय, न त्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमलोकधातुपर्यापन्नानां सत्त्वानामर्थाय, न यावदनभिलाप्यानभिलाप्यत्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमलोकधातुपर्यापन्नानां सत्त्वानामर्थाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते यदुत परिपाकविनयाय, अपि तु अशेषनिःशेषानवशेषसर्वलोकधातुपर्यापन्नानां सर्वसत्त्वानामर्थाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते यदुत परिपाकविनयाय। नैकबुद्धारागणतायै बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते यदुत आरागणाभिराधनपूजोपस्थानतायै। न दशबुद्धारागणाभिराधनपूजोपस्थानतायै, न यावदनभिलाप्यानभिलाप्यलोकधातुपरमाणुरजःसमबुद्धारागणाभिराधनपूजोपस्थानतायै बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते। नैकलोकधातुपर्या पन्नबुद्धवंशारागणाभिराधनपूजोपस्थानतायै, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमलोकधातुपर्यापन्नतथागतवंशारागणाभिराधनपूजोपस्थानतायै बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते। नैकबुद्धक्षेत्रपरिशोधनाय, न यावदनभिलाप्यानभिलाप्यलोकधातुपरमाणुरजःसमबुद्धक्षेत्रपरिशोधनाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते। नैकतथागतशासनसंधारणाय, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजः समतथागतशासनसंधारणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते। नैकबुद्धप्रस्थानप्रणिधानविमात्रतावतरणाय न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमबुद्धप्रस्थानप्रणिधानविमात्रावरणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते। नैकतथागतबुद्धक्षेत्रव्यूहावतरणतायै, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमतथागतबुद्धक्षेत्रव्यूहावतरणाय, बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते। नैकबुद्धपर्षन्मण्डलविभक्त्यवतरणाय, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमबुद्धपर्षन्मण्डलविभक्त्यवतरणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते। नैकतथागतधर्मचक्रसंधारणाय, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमतथागतधर्मचक्रसंधारणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते। नैकसत्त्वचित्तसमुद्रावतरणाय, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमसत्त्वचित्तसमुद्रावतरणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते। नैकसत्त्वेन्द्रियचक्रपरिज्ञायै, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमसत्त्वेन्द्रियपरिज्ञायै बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते। नैकसत्त्वेन्द्रियसागरावतरणाय, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमसत्त्वेन्द्रियसागरावतरणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते। नैकलोकधातुकल्पपरंपरावतरणाय, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमलोकधातुकल्पपरंपरावतरणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते। नैकलोकधातुपर्यापन्नसर्वसत्त्वचर्यावासनानुसंध्यवतरणाय, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमलोकधातुपर्यापन्नसर्वसत्त्वचर्यावासनानुसंध्यवतरणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते। नैकलोकधातुपर्यापन्नसर्वसत्त्वक्लेशसमुद्रावतरणाय, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमलोकधातुपर्यापन्नसर्वसत्त्वसर्वक्लेशसमुद्रावतरणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते। नैकलोकधातुपर्यापन्नसर्वसत्त्वसर्वकर्मसमुद्रावतरणाय, न यावदनभिलाप्यानभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणूरजसमलोकधातुपर्यापन्नसर्वसत्त्वसर्वकर्मसमुद्रावतरणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते। नैकलोकधातुपर्यापन्नसर्वसत्त्वसर्वचर्यासमुद्रावतरणाय, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमलोकधातुपर्यापन्नसर्वसत्त्वसर्वचर्यासमुद्रावतरणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते। अपि तु अशेषनिःशेषानवशेषसर्वसत्त्वधातुपरिपाकविनयाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते। अनवशेषसर्वबुद्धारागणाभिराधनपूजोपस्थानतायै बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते। अनवशेषसर्वलोकधातुपर्यापन्नसर्वबुद्धवंशारागणाभिराधनपूजोपस्थानतायै बोधिसत्त्वानां प्रणिध्यभिलाषो भवति। अनवशेषसर्वबुद्धक्षेत्रपरिशोधनाय बोधिसत्त्वानामाशयो दृढीभवति। अनवशेषसर्वबुद्धशासनसंधारणाय बोधिसत्त्वानां प्रयोगः संभवति। अनवशेषसर्वतथागतप्रस्थानप्रणिधिविमात्रतानुगमाय बोधिसत्त्वानां चित्तवेगाः प्रादुर्भवन्ति। अनवशेषसर्वतथागतसर्वबुद्धक्षेत्रगुणव्यूहावतरणाय बोधिसत्त्वानां व्यवसाय उत्पद्यते। अनवशेषसर्वतथागतपर्षन्मण्डलसमुद्रावतरणाय बोधिसत्त्वानामभिलाषः प्रभवति। अनवशेषसर्वजगच्चित्तसागरावगाहनतायै बोधिसत्त्वानां प्रार्थना संजायते। अनवशेषसर्वसत्त्वेन्द्रियचक्रपरिज्ञायै बोधिसत्त्वानामभिकाङ्क्षोत्पद्यते। अनवशेषसर्वसत्त्वेन्द्रियसागरावतरणतायै बोधिसत्त्वानामुत्सोढिराजायते। अनवशेषसर्वलोकधातुकल्पपरंपरावतरणाय बोधिसत्त्वानां छन्दः संभवति। अनवशेषसर्वसत्त्वक्लेशवासनानुसंधिसमुच्छेदाय बोधिसत्त्वानां पराक्रम आजायते। अनवशेषसर्वसत्त्वकर्मक्लेशसमुद्रोच्छोषणाय बोधिसत्त्वानां महाज्ञानसूर्य उदागच्छति। अनवशेषसर्वसत्त्वचर्यापरिज्ञायै बोधिसत्त्वानां प्रज्ञालोकः प्रादुर्भवति। अनवशेषसर्वसत्त्वदुःखाग्निस्कन्धप्रशमनाय बोधिसत्त्वानां महाकरूणामेघः समुदागच्छति। संक्षेपण कुलपुत्र एतत्प्रमुखानि दश बोधिसत्त्वचर्यानयमुखासंख्येयशतसहस्राणि, यानि बोधिसत्त्वेन समुदानयितव्यानि। अपि तु खलु पुनः कुलपुत्र सर्वधर्मसमवसरणा बोधिसत्त्वानां चर्या यदुत ज्ञानानुगमाय। सर्वक्षेत्रसमवसरणा बोधिसत्त्वानां चर्या यदुत परिशोधनतायै। तस्या मम कुलपुत्र एवंप्रणिधेर्यन्निष्ठा काम धातुविशुद्धिः, तन्निष्ठानि मम प्रणिधानानि भवन्तु। यन्निष्ठा लोकधातुविशुद्धिः, तन्निष्ठानि मम प्रणिधानानि भवन्तु। या निष्ठा सर्वसत्त्वक्लेशवासनानुसंध्यनुशयानाम्, तन्निष्ठानि मम प्रणिधानानि भवन्तु॥
आह-को नाम आर्ये एष विमोक्षः? आह-अशोकक्षेमध्वजो नाम कुलपुत्र एष विमोक्षः। एतमहं कुलपुत्र, एकं बोधिसत्त्वविमोक्षं जानामि। किं मया शक्यं सागरसमचित्तानां बोधिसत्त्वानां सर्वबुद्धधर्मसंप्रतीच्छनतया, मेरुकल्पानां दृढाध्याशयतया, सुदर्शनभैषज्यराजोपमानां सर्वसत्त्वक्लेशव्याधिप्रमोक्षणतया, आदित्यकल्पानां सर्वसत्त्वाविद्यान्धकारविधमनतया, धरणीसमचित्तानां सर्वसत्त्वाश्रयप्रतिष्ठानभूततया, मारूतसदृशानां सर्वजगदर्थकरणतया, प्रदीपभूतानां सर्वसत्त्वज्ञानालोककरणतया, मेघोपमानां शान्तनिर्घोषयथावद्धर्मप्रवर्षणतया, चन्द्रोपमानां पुण्यरश्मिजालप्रमोचनतया, शक्रोपमानां सर्वजगदारक्षाप्रतिपन्नतया चर्या ज्ञातुं गुणान् वा वक्तुम्, अचिन्त्या वा बोधिसत्त्वशिक्षाः प्रभावयितुम्, अनन्तमध्या वा बोधिसत्त्वप्रणिधिविकल्पाः संदर्शयितुम्॥
गच्छ कुलपुत्र अयमिहैव दक्षिणापथे समुद्रवेताल्यां नालयुर्नाम जनपदः। तत्र भीष्मोत्तरनिर्घोषो नाम ऋषिः प्रतिवसति। तमुपसंक्रम्य परिपृच्छ। स ते कुलपुत्र बोधिसत्त्वचर्यामुपदेक्ष्यति॥
अथ खलु सुधनः श्रेष्ठिदारक आशाया उपासिकायाः पादौ शिरसाभिवन्द्य आशामुपासिकामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य प्रणिपत्य अश्रुमुखो रुदन् बोधिपरमदुर्लभतामनुविचिन्तयन्, कल्याणमित्रदुरारागणतामनुविचिन्तयन्, सत्पुरुषसमवधानसुदुर्लभतामनुविचिन्तयन्, बोधिसत्त्वेन्द्रियप्रतिलाभदुरभिसंभवतामनुविचिन्तयन्, बोधिसत्त्वाशयविशुद्धिदुर्लभतामनुविचिन्तयन्, सभागमित्रसमवधानदुर्लभतामनुविचिन्तयन्, यथावद्बोध्यभिमुखचित्तनिध्यप्तिदुर्लभतामनुविचिन्तयन्, अविषमधर्मनयानुशासनीप्रयोगदुर्लभतामनुविचिन्तयन्, असंहार्यचित्तकल्याणतायोगसंजननदुर्लभतामनुविचिन्तयन्, सर्वज्ञतावेगविवर्धनधर्मालोकसुदुर्लभतामनुविचिन्तयन्, आशाया उपासिकाया अन्तिकात्प्रक्रान्तः॥८॥