महाविद्यामण्डलवर्णनं षष्ठं प्रकरणम्
Technical Details
महाविद्यामण्डलवर्णनं षष्ठं प्रकरणम्।
अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्–कुत्राहं भगवन् गच्छेयं यत्र षडक्षरीं महाविद्याराज्ञीं लभेयम्? भगवानाह–अस्ति कुलपुत्र वाराणस्यां महानगर्यां धर्मभाणको य इमां षडक्षरीं महाविद्यां धारयति वाचयति योनिशश्च मनसि कुरुते। आह–गमिष्याम्यहं भगवन् वाराणसीं महानगरीं तस्य धर्मभाणकस्य दर्शनाय वन्दनाय पर्युपासनाय। भगवानाह–साधु साधु कुलपुत्र, एवं कुरुष्व। दुर्लभस्ते कुलपुत्र धर्मभाणकस्तथागतसमो द्रष्टव्यः, पूण्यकूट इव द्रष्टव्यः। सर्वतीर्थो गङ्गेव द्रष्टव्यः। अवितथवादीव द्रष्टव्यः। भूतवादीव द्रष्टव्यः। रत्नराशिरिव द्रष्टव्यः। वरदश्चिन्तामणिरिव द्रष्टव्यः। धर्मराज इव द्रष्टव्यः। जगदुत्तारण इव द्रष्टव्यः। न च कुलपुत्र त्वया धर्मभाणकं दृष्ट्वा विचिकित्साचित्तमुत्पादयितव्यम्। मा त्वं कुलपुत्र बोधिसत्त्वभूमेश्च्युत्वा अदाये प्रपत्स्यसे। स च धर्मभाणकः शीलविपन्नः आचरविपन्नो भार्यापुत्रदुहितृभिः परिवृतः काषायोच्चारप्रस्रावपरिपूर्णः असंवृत्तेर्यापथः॥
अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्–यथाज्ञप्तं भगवता। अथ सर्वनीवरणविष्कम्भी बोधिसत्त्वो महासत्त्व अनेकैर्बोधिसत्त्वपर्षद्गृहस्थैः प्रव्रजितैर्दारकदारिकादिभिः संप्रस्थितः। तस्य धर्मभाणकस्य पूजाकर्मणे दिव्यानि छत्राणि दिव्यानि उपानहानि मौलीकुण्डलस्रग्दामकेयूरहारार्धहाररत्नहारस्कन्धोपरिष्वजानिकपृष्ठोत्तर्याणि अङ्गुष्ठविभेदिकानि अन्यानि च विविधानि वस्त्राणि चीवराध्युषितानि विद्याधरसंचोदितानि काशिकवस्त्राण्यग्निशौचवस्त्राणि च अन्यानि च विविधानि वस्त्राणि पुष्पाणि। तद्यथा–उत्पलपद्मकुमुदपुण्डरीकमान्दारवमहामान्दारवाणि मञ्जूषकमहामञ्जूषकाणि चौदुम्बराणि अन्यानि विविधानि काष्ठपुष्पाणि चम्पककरवीरपाटलानि मुक्तकवार्षिकाणि शकुनकाध्युषितानि। सुमनानवमालिकचक्रवाकोपशोभितानि। शालिकौत्सुक्यानि शतपत्रिकाणि नीलपीतलोहितावदातमाञ्जिष्ठस्फटिकरजतवर्णानि। अन्यानि च स्थलजलजानि पुष्पाणि विविधानि गृहीत्वा येन वाराणसी महानगरी तेनोपजगाम। अनुपूर्वेण वाराणसीं महानगरीमनुप्राप्तः। येन स धर्मभाणकस्तेनोपसंक्रान्तः। उपसंक्रम्य पादौ शिरसाभिवन्द्य स तेन दृष्टः शीलविपन्न आचारविपन्नोऽसंवृतेर्यापथः। तेन ताणि छात्राण्युपानहानि वस्त्राभरणानि गन्धमाल्यविलेपनान्युपढौकितानि। तैर्वस्त्राभरणैः गन्धमाल्यैश्च महतीं पूजां कृत्वा तस्य धर्मभाणकस्य पुरस्तात्प्राञ्जलीभूतः तद्विज्ञमिदमवोचत्–अहो धर्मनिधानास्वादकोऽमृतनिधिरिव संचय अनवगाहोऽसि, सागरो यथा भाजनभूतोऽसि सर्वमानुष्यभूतेषु एव ते। तव सकाशाद्धर्मं देशयतः देवा नागा यक्षा गन्धर्वा असुरा गरूडाः किन्नरा महोरगा मनुष्यामनुष्याः सर्वे ते संनिपतिताः। तव धर्मश्रवणकाले महावज्रसमये धर्मपर्यायं निर्दिशसि परिमोक्षयसि। बहवः सत्त्वा ये संसारे बन्धनबद्धाः। पुण्यवन्तस्ते सत्त्वाः येऽस्यां वाराणस्यां महानगर्यां वसन्ति, पश्यन्ति, तव सततं परिग्रहं कुर्वन्ति। दर्शनमात्रेण सर्वपापानि निर्दहसि। यथाग्निर्दहति वनान्तरम्, एवं त्वं दर्शनेन सर्वपापानि दहसि। जानन्ते तव तथागता अर्हन्तः सम्यक्संबुद्धाः। अन्ये चानेकबोधिसत्त्वकोटीनियुतशतसहस्राणि तव पूजाकर्मण उपसंक्रामन्ति। ब्रह्माविष्णुमहेश्वरचन्द्रादित्यवायुवरुणाग्नयो यमश्च धर्मराजोऽन्ये च चत्वारो महाराजानः॥
अथे स धर्मभाणकस्तस्यैतदवोचत्–मा त्वं कुलपुत्र कौकृत्यमुत्पादयसि। कति माषाः क्लेषा औपभोगिकाः संसारस्य नैमित्तिकाः प्रजामण्डलस्योत्पादिकाः। ये च कुलपुत्राः षडक्षरीं महाविद्याराज्ञीं जानन्ते, न च ते रागेण द्वेषेण मोहेन संलिप्यन्ते। यथा जाम्बूनदस्य सुवर्णस्य न सज्जते मलम्, एवमेव कुलपुत्र यस्य षडक्षरी महाविद्या कायगता, न तस्य कायेन न रागेण न द्वेषेण न मोहेन संलिप्यते॥
अथ सर्वनीवरणविष्कम्भी गाढं पादे परिष्वज्यैनमेतदवोचत्–विकलेन्द्रियस्य चक्षुर्भूतो भव। नष्टमार्गस्योपदर्शको भव। धर्मपरितृषितस्य धर्मरसेन संतर्पय मे त्वम्। अनुत्तरासम्यक्संबोधिविप्रहीणस्य बोधिबीजं मे ददस्व। धर्माणामवकाशं ददस्व। सुप्रतिष्ठितरूपाणां कायपरिशुद्धिं ददस्व। अभेद्यानां कुशलानां प्रतिलम्भ इति सर्वजनाः कथयन्ति वाक्यं मधुरोपचयम्। एवं गुरुर्ददस्व मे षडक्षरीं महाविद्याराज्ञीं येनाहं क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुद्धो भवेयम्। द्वादशाकारं धर्मरन्ध्र(चक्र?)मावर्तयेयम्। सर्वसत्त्वानां सांसारिकं दुःखं परिमोचयेयम्। षडक्षरीमहाविद्याराज्ञीलब्धलाभो भवेयम्। ददस्व मे षडक्षरीं महाविद्याराज्ञीम्। त्राता भव, शरणं परायणम्। अद्वीपानां द्विपो भव॥
अथ स धर्मभाणकस्तस्यैतदवोचत्– दुर्लभं षडक्षरिमहाविद्याराज्ञ्या असमवज्रपदम्। अभेद्यवज्रपदम्। अनुत्तरज्ञानदर्शनपदम्। अक्षयज्ञानपदम्। निरुत्तरपदम्। मोक्षप्रवेशनपदम्। तथागतज्ञानविशुद्धिपदम्। रागद्वेषमोहसंसारदुःखपरिवर्जनपदम्। सर्वोपायकौशल्यपदम्। ध्यानविमोक्षसमाधिसमापूर्तिपदम्। सर्वधर्मप्रविशनपदम्। नित्यकालदेवताभिकाङ्क्षिपदम्। ये च कुलपुत्रा नानास्थानेषु दीक्षन्ते। मोक्षार्थेषु नानापटेषु दीक्षन्ते। तद्यथा इन्द्रपटं श्वेतपटं ध्युषितपटम्। दिवसनिरीक्षका महेश्वरेषु दीक्षन्ते। बैल्मवेगरूद्रेषु नग्नश्रमणेषु च। एषु स्थानेषु दीक्षन्ते। न तेषां मोक्षं संविद्यते। अनादिगतिकानामपि नापि नाशो भवति। सर्वदेवगणाश्च ब्रह्मविष्णुमहेश्वराः शक्रश्च देवानामिन्द्रश्चन्द्रादित्यौ वायुवरुणादयो यमश्च धर्मराजो चत्वारश्च महाराजानः, ते नित्यकालं षडक्षरीं महविद्याराज्ञीं प्रार्थयन्ति॥
अथ सर्वनीवरणविष्कम्भी तमाह–कथं वयं षडक्षरीं महाविद्याराज्ञीं लभेमहि येन वयं क्षिप्रवरा भवामः ? धर्मभाणकस्तमुवाच–तद्यथापि नाम सर्वनीवरणविष्कम्भिन् प्रज्ञापारमितानिर्जाताः सर्वतथागताः। तत्प्रज्ञापारमिता सर्वतथागतानां च नेत्रीत्याख्यायते। सापि च षडक्षरीं महाविद्याराज्ञीं प्रणमते कृताञ्जलिपुटा भवन्ती, प्रागेव तथागता अर्हन्तः सम्यक्संबुद्धा बोधिसत्त्वगणाः। इद कुलपुत्र तण्डुलवत्सारं महायानस्य किंचिदसौ बहुमहायानसूत्रं गेयं व्याकरणगाथानिदानेतिवृत्तजातकवैपुल्याद्भुतधर्मोपदेशकः प्राप्यन्ते(?) कुलपुत्र जपितमात्रेण शिवं मोक्षम्, किंबहुना अन्यकुशलमिति। किंवा तु समध्यगतं सारमुपगृह्णन्ति शालिनस्तथा सारमित्यनुगृह्णन्ति, नीत्वा स्वकीये निवेशने भाण्डानि परिपूर्णानि कृत्वा स्थापयित्वा दिवसानुरूपेण सूर्यतापेन परिशोषयित्वा मुसलप्रहारैर्विभेदयन्ति, ततश्चतुर्वर्षाणि परित्यजन्ति। किं सारमिति व्यवस्थितम्? तण्डुलसारमिति। एवमेवान्ये योगाः तुषसदृशाः। सर्वयोगानां चेयं षडक्षरी महाविद्या राज्ञी तण्डुलमिति भूता द्रष्टव्या। यस्याः कारणेन कुलपुत्र बोधिसत्त्वाः श्रावयन्तो भ्रमन्ति दानपारमितार्थिनः, शीलपारमितार्थिनः, क्षान्तिपारमितार्थिनः वीर्यपारमितार्थिनः, ध्यानपारमितार्थिनः, प्रज्ञापारमितार्थिनः। एकजापेन कुलपुत्र षट्पारमिताः परिपूरयन्ति। यस्य कस्यचिद्वस्त्रस्पर्शनेनापि अवैवर्तिकभूमिं प्रतिलभन्ते। एवमेवास्याः षडक्षरी महाविद्या राज्ञी, दुर्लभमस्या नामग्रहणम्। एकवारनामग्रहणेन सर्वे तथागताश्चीवरपिण्डपात्रशय्यासनग्लानप्रत्ययभैषज्यपरिष्करैः सर्वोपस्थानैरुपस्थिता भवन्ति॥
अथ सर्वनीवरणविष्कम्भी धर्मभाणकमेतदवोचत्–ददस्व मे षडक्षरिमहाविद्याराज्ञीम्। अथ स धर्मभाणकः संचिन्त्य संचिन्त्य व्यवस्थितः। ततो आकाशे छन्दो (शब्दो?) निश्चरति स्म–ददस्व आर्य षडक्षरीं महाविद्याराज्ञीम्। अयं बोधिसत्त्वभूतोऽनेकदुष्कराभियुक्तः। पुनः स धर्मभाणकः संचिन्तयति स्म–कुतः शब्दो निश्चरति। ततः स पुनरप्याकाशाच्छब्दो निश्चरितः–ददस्वार्थ षडक्षरीं महाविद्याराज्ञीम्। अयं बोधिसत्त्वोऽनेकदुष्कराभियुक्तः॥
अथ स धर्मभाणक आकाशं व्यवलोकयति स्म। यावत्पश्यति शरत्काण्डगौरवर्णं जटामुकुटधरं सर्वज्ञशिरसिकृतं शुभपद्महस्तं पद्मश्रियालंकृतं शरीरम्। स तादृशं रूपं दृष्ट्वा सर्वनीवरणविष्कम्भिणं बोधिसत्त्वमेतदवोचत्–अनुज्ञातस्ते कुलपुत्र अवलोकितेश्वरेण बोधिसत्त्वेन षडक्षरीं महाविद्याराज्ञीम्॥
तेन ससंभ्रमेण कृताञ्जलिपुटेन भूत्वा उद्गृहीतुमारब्धः–
॥ *॥ ०॥ +॥ ॐ मणिपद्मे हूं॥ +॥ ०॥ *॥
इयं च समनन्तरदत्तमात्रेण षड्विकारं पृथिवी प्रकम्पिता। इमे समाधयः सर्वनीवरणविष्कम्भिनः प्रतिलब्धाः। तद्यथापि नाम कुलपुत्र सूक्ष्मजनो नाम समाधिः, मैत्रीकरूणामुदितो नाम समधिः, योगाचारो नाम समाधिः, मोक्षप्रवेशव्यवस्थानो नाम समाधिः, सर्वालोककरो नाम समाधिः, व्यूहराजो नाम समाधिः, धर्मधरो नाम समाधिः। इमे समाधयः प्रतिलब्धाः। उद्गृहीतमात्रेण सर्वनीवरणविष्कम्भीणा बोधिसत्त्वेन तस्योपाध्यायस्य दक्षिणोपनामयितुमारब्धा–चत्वारो द्वीपाः सप्तरत्नपरिपूर्णाः॥
अथ स धर्मभाणकस्तस्यैतदवोचत्–एकस्याक्षरस्यापि न भवति दक्षिणा, प्रागेव षडक्षरिमहाविद्यायाः। न च गृह्णामि कुलपुत्र त्वत्सकाशात्। त्वं च बोधिसत्त्वभूत आर्योऽनार्योऽसि मा वैनेयश्च त्वं कुलपुत्र। तेन तस्य शतसहस्रमूल्यमुक्ताहारमुपनामितम्। स कथयति–कुलपुत्र, मद्वचनेन शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्योपनामयितव्यम्॥
अथ सर्वनीवरणविष्कम्भी तस्य धर्मभाणकस्य पादौ शिरसा वन्दित्वा प्रक्रान्तः परिपूर्णलाभो लब्धमनोरथः। येन जेतवनविहारस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्यैकान्ते व्यवस्थितोऽभूत्॥
इति षडक्षरिमहाविद्यामण्डलवर्णनं षष्ठं प्रकरणम्॥