षडक्षरिमहाविद्यामण्डलवर्णनं चतुर्थं प्रकरणम्
Technical Details
षडक्षरिमहाविद्यामण्डलवर्णनं चतुर्थं प्रकरणम्।
अथ अवलोकितेश्वरो भगवन्तमेतदवोचत्–अदृष्टमण्डलस्य न दातव्यां कथं भगवत्पद्माङ्कमुद्रामनुगृह्णाति ? कथं मणिधरां मुद्रां संजानीते ? कथं सर्वराजेन्द्रां संजानीते ? मण्डलपरिशुद्धिं कथं संजानीते ? मण्डलस्येदं निमित्तं चतुरस्रं पञ्चहस्तप्रमाणं सामन्तकेन मध्ये मण्डलस्यामिताभं लिखेत्। इन्द्रनीलचूर्णं पद्मरागचूर्णं मरकतचूर्णं स्फाटिकचूर्णं सुवर्णरूप्यचूर्णान्यमिताभस्य तथागतस्य काये संयोजयितव्यानि। दक्षिणे पार्श्वे महामणिधरो बोधिसत्त्वः कर्तव्य। वामपार्श्वे षडक्षरी महाविद्या कर्तव्या चतुर्भुजा शरत्काण्डगौरवर्णा, नानालंकारविभूषिता। वामहस्ते पद्मं कर्तव्यम्। दक्षिणहस्ते अक्षमाला कर्तव्या। दौ हस्तौ संप्रयुक्तौ सर्वराजेन्द्रा नाम मुद्रा कर्तव्या। तस्याः षडक्षरिमहाविद्यायाः पादमूले विद्याधरं प्रतिस्थापयितव्यम्। दक्षिणहस्ते धूपकटच्छुकं कर्तव्यं धूमायमानम्। वामहस्ते नानाविधालंकारपरिपूर्णं पिटकं कर्तव्यम्। तस्य च मण्डलस्य चतुर्द्वारेषु चत्वारो महाराजाः कर्तव्याः, नानाप्रहरणगृहीताः कर्तव्याः। तस्य मण्डलचतुष्कोणेषु चत्वारः पूर्णकुम्भाः नानामणिरत्नसंचिताः। यः कश्चित्कुलपुत्रो वा कुलदुहिता वा इच्छति मण्डलं प्रवेष्टुम्, तेन सर्वगोत्रस्यापरंपरस्य नामानि लिखितव्यानि, लिखित्वा च हस्ते गृहीतव्यानि च। मण्डले प्रथमतरं तानि नामानि प्रक्षिपेत्। ते सर्वे चरमभविका बोधिसत्त्वा भवन्ति। सर्वमानुष्यकेण दुःखेन विप्रहीणा भविष्यन्ति, क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते। तत आचार्येण अस्थाने नैव दातव्या। अथवा श्रद्धाधिमुक्तकस्य दातव्या। अथवा महायानश्रद्धाधिमुक्तकस्य दातव्या। न च तीर्थिकस्य दातव्या॥
अथामिताभस्तथागतोऽर्हन् सम्यक्संबुद्धोऽवलोकितेश्वरमेतदवोचत्–यदि कुलपुत्र इन्द्रनीलचूर्णं पद्मरागचूर्णं सुवर्णरूप्यचूर्णं दरिद्रस्य कुलपुत्रस्य कुलदुहितुर्वा न संविद्यन्ते तानि चूर्णानि, भगवन्नानारङ्गाणि संप्रयोक्तव्यानि? नानारङ्गाणि संप्रयोक्तव्यानि नानापुष्पैर्नानागन्धैः। यदि कुलपुत्र तदपि न संविद्यते देशान्तरगतस्य स्थानपदच्युतस्य, तदाचार्येण मानसिकं मण्डलं चिन्तितव्यम्। आचार्येण मन्त्रमुद्रालक्षणान्युपदर्शयितव्यानि॥
इति षडक्षरिमहाविद्यामण्डलवर्णनं चतुर्थं प्रकरणम्॥