मगधभ्रमणं षोडशं प्रकरणम्
Technical Details
मगधभ्रमणं षोडशं प्रकरणम्।
तदा स मगधाभिमुखं प्रत्युद्गच्छति। स मगधविषयमनुप्राप्तः। यावत् सत्त्वान् पश्यन्ति स्म परस्परं मांसभक्षणं कुर्वाणान्। अथ आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तानेवमाह–कस्माद्भोः, यूयं अन्योन्यं मासं भक्षयथ? ते चाहुः– नाद्यैव मासंभक्षणम्, विंशतिवर्षाणि परिपूर्णानि कान्तारस्य च प्रतिपन्नस्य च। नात्र किंचिदन्नपानं संविद्यते। तस्माद्वयं अन्योन्यं विरोधं कुर्वाणा जीविताः। एवं कृत्वा मांसभक्षणं कुर्वामः॥
अथ अवलोकितेश्वरो बोधिसत्त्वश्चिन्तामापेदे–केनोपायेनाहं सत्त्वान् सर्वान् सुखोपधानैस्तस्मात्कान्तारान्महादारूणादकालमरणात्परिमोचयेयं संतर्पयेयम्? अथावलोकितेश्वरो विविधानि वर्षाणि प्रवर्षितुमारब्धः। प्रथममुदकवर्षम् । यदा उदकेन संतर्पिताः प्रीणितगात्राश्च भवन्ति, तदा पश्चाद्दिव्यानि पिष्टकानि रसरसाग्रोपेतानि तेनाहारेण परिपूर्णानि। यदाहारेण संतर्पिता भवन्ति तदा धान्यवर्षाणि पतन्ति, अन्यानि च तिलतण्डुलकोलमुद्गमाषकलावमसूरयवगोधूमशालिधान्यकुलत्थादीनि पतन्ति स्म। विविधानि च वस्त्राभरणानि च प्रवर्षन्ति स्म। यदा यदा तेषां सर्वेषां सत्त्वानां केऽप्यभिप्राया भवन्ति, तदा तदा तेषां सत्त्वानामभिप्राया अनुसिध्यन्ते। अथ ते मागधकाः सत्त्वास्तदिदं विचित्रं स्वात्मसुखं दृष्ट्वा दुःखं च व्युपशान्तम्, तदा परमविस्मयमापन्नाः। ते च सर्वे एकस्थाने विश्रान्ताः, विश्रमित्वा परस्परमेवमाहुः–कस्य देवस्यायं प्रभावः ? ततस्तेषां पुरुषाणां मध्ये जीर्णो वृद्धो महल्लकः कुब्जो गोपाणसीवक्रोऽधिभग्नो दाण्डपरायणः अनेकवर्षशतसहस्रायुषिकः। स तेषां मध्ये स्थित्वा कथयति–न युष्माकमन्यदेवस्य कस्यचिदीदृशं प्रभावो भवति विरहितादवलोकितेश्वरस्य। ततस्ता पर्षदः पृच्छन्ति–कीदृशं तस्य निमित्तमवलोकितेश्वरस्य? अथ स पुरुष आर्यावलोकितेश्वरस्य गुणोद्भावनां भाषितुमारब्धः–
शृणुत कुलपुत्राः। अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वोऽन्धभूतानां दीपभूतः, सूर्यतापदग्धानां छत्रीभूतः, तृषोपद्रुतानां नदीभूतः, भयभीतानामभयंददः, व्याधिपरिपीडितानां वैद्यभूतः, दुःखितानां सत्त्वानां मातापितृभूतः, अवीच्युपपन्नानां सत्त्वानां निर्वाणप्रदर्शकः। ईदृशानि भवन्तस्तस्य गुणविशेषाणि। सुखितास्ते सत्त्वा लोके ये तस्य नाममनुस्मरन्ति। ते आपश्चिमं सांसारिकं दुःखं परिवर्जयन्ति। सचेतनास्ते पुरुषपुंगवा ये अवलोकितेश्वरस्य सततपरिग्रहं पुष्पधूपं निर्यातयन्ति। येऽवलोकितेश्वरस्य पुरतश्चतुरस्रं मण्डलकं कुर्वन्ति, ते राजानो भवन्ति चक्रवर्तिनः सप्तरत्नसमन्वागताः। तद्यथा–चक्ररत्नम्, अश्वरत्नं हस्तिरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नम्। एवं सप्त रत्नानि, एभिः सप्तरत्नैः समन्वागता भवन्ति। ये चावलोकितेश्वरस्यैकमपि पुष्पं निर्यातयन्ति, ते सुगन्धिकाया भवन्ति। यत्र यत्रोपपद्यन्ते तत्र तत्र परीपूर्णकायाश्च भवन्ति। एवं स पुरुषो गुणविशेषं कृतवान। ताश्च पर्षदः स्वकस्वकेषु भवनेषु प्रत्युद्गताः, अनन्तविमला नाम कायपरिशुद्धिः [तां] प्रतिलभन्ते स्म। अथ स जीर्णपुरूषः आनुलोमिकीं धर्मदेशनां कृत्वा स्वकं गृहं निवेशनं प्रत्युद्गतः। अथावलोकितेश्वरस्तत्रैवाकाशेऽन्तर्हितः॥
अथ स आकाशे चिन्तामापेदे–विश्वभूस्तथागतो मे चिरकालं दृष्टः, सोऽनुपूर्वेण जेतवनं विहारमनुप्रविष्टः। यावत्पश्यति अनेकानि देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यशतसहस्राणि। अनेकानि च बोधिसत्त्वशतसहस्राणि संनिपतितानि॥
अथ गगनगञ्जो बोधिसत्त्वो भगवन्तमेतदवोचत्–कतमोऽयं भगवन् बोधिसत्त्व आगच्छति? भगवानाह– एष कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्व आगच्छति। अथ गगनगञ्जो बोधिसत्त्वः तूष्णींभावेन व्यवस्थितः। अथावलोकितेश्वरो बोधिसत्त्वस्तं भगवन्तं त्रिः प्रदक्षिणीकृत्य वामपार्श्वे विश्रान्तः॥
अथ स पुनः श्रान्तं विदित्वा भगवान् पृच्छति–श्रान्तस्त्वं कुलपुत्र। कीदृशी कर्मभूमिस्त्वया निष्पादिताः ? तन तस्य भूतपूर्वं वर्णितम्–सदा प्रेतेष्ववीच्युपपन्नेषु कालसूत्ररौरवोपपन्नेषु हाहे तपने महानरके, सितोदके महानरके, असिच्छेदे महानरके, संवरे महानरके। एषु महानरकेषु ये सत्त्वा उपपन्नास्तेषां च कर्मभूमिः सत्त्वानामपरिपाककृता कर्तव्या, कृत्वा चानुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयितव्याः। ईदृशो मया सत्त्वपरिपाकः कृतः। अथ गगनगञ्जो बोधिसत्त्वो महासत्त्वः परमविस्मयमापन्नः– न च मे बोधिसत्त्वभूतस्य ईदृशं विषयं दृष्टं श्रुत वा, तथागतानामीदृशं विषयं न संविद्यते॥
अथे गगनगञ्जो बोधिसत्त्वोऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य पुरतः स्थित्वा अवलोकितेश्वरमेवमाह–मा त्वं श्रान्तः। क्लिष्टस्त्वम्। स आह–न चाहं युष्माकं मध्ये श्रान्तो न क्लिष्टः। तौ परस्परं सांकथ्यं कृत्वा तूष्णींभावेन व्यवस्थितौ॥
अथ भगवान् षट्पारमितानिर्देशं धर्मं देशयितुमारब्धः–शृण्वन्तु कुलपुत्राः। प्रथमं बोधिसत्त्वभूतेन दानपारमिता परिपूरयितव्या। एवं शीलपारमिता क्षान्तिपारमिता धै(वी)र्यपारमिता ध्यानपारमिता प्रज्ञापारमिता परिपूरयितव्या। इमां चानुलोमिकां धर्मदेशनां कृत्वा तूष्णींभावेन व्यवस्थितः। अथ ताः पर्षदः स्वकस्वकस्थानेषु प्रक्रान्ताः, ते च बोधिसत्त्वाः स्वकस्वकेषु बुद्धक्षेत्रेषु प्रक्रान्ताः॥
अयं कारण्डव्यूहमहायानसूत्ररत्नराजस्य प्रथमो निर्व्यूहः सर्वकर्मविशोधनोऽनुत्तरबोधिमार्गप्रतिष्ठापकः समाप्तः॥ १॥