सिंहलभ्रमणं चतुर्दशं प्रकरणम्
Technical Details
सिंहलभ्रमणं चतुर्दशं प्रकरणम्।
अथ स ब्राह्मणः तस्माद्देवनिकायादवतीर्य सिंहलद्वीपं प्रत्युद्गतः। गत्वा च राक्षसीनां पुरतो व्यवस्थितः कामरूपमात्मानमभिनिर्माय प्रासादिकम्। अथ ता राक्षस्योऽन्योन्यमेवमाहुः–अयमीदृशं परमकामरूपी पुरुषो दृश्यते। अथ तं दृष्ट्वा च तदा तासां राक्षसीनां कामचित्तमुत्पन्नम्। तदा तस्य सकाशमुपसंक्रम्यैतदवोचन्–भवांस्त्वं भजस्व अस्माकं कुमारीयौवनम्, न चास्माकं स्वामी संविद्यते। त्वं च भो पुरुष, अस्वामिकानां स्वामी भव। अगतिकानां गतिर्भव। अपरायणानां परयाणो भव। अत्राणानां त्राणं भव। अद्वीपानां द्वीपो भव। अन्धानामालोको भव। इमानि तेऽन्नगृहाणि पानगृहाणि वस्त्रगृहाणि विविधानि विचित्राणि शयनानि उद्यानरमणीयानि पुष्किरिणीरमयाणि॥
स कथयति–मदीयमाज्ञप्तं यदि कुरुते, तत्सर्वं युष्माकं यथाभिप्रायं करिष्यामि। ताश्च तमाहुः–कथं वयं तवाज्ञां न करिष्यामः ? तेन तासामार्याष्टाङ्गिकमार्गमुपदर्शितम्। दश कुशलानि कर्मपथान्युपदर्शितानि। आगमचतुष्टयं चाधीतम्। अथ ता राक्षस्यस्तस्यपुरुषस्यान्तिकादार्याष्टाङ्गिकमार्गं गृहीत्वा दश कुशलानि च संस्मर्य, सत्यचतुष्टयं प्राप्त्वा, आगमसत्यचतुष्टयाधीताः, काश्चित्स्रोतापत्तिफलमनुप्राप्ताः, सकृदागामिफलं चानुप्राप्ताः, अनागामिफलं चानुप्राप्ताः, यावत्काश्चिदर्हत्त्वं काश्चित्प्रत्येकबोधिमनुप्राप्ताः, तदा तासां राक्षसीनां रागदुःखं न बाधते। द्वेषदुःखं न बाधते। मोहदुःखं न बाधते। आघातचित्तं न भवति। न च कस्यचिज्जीवितान्तरायं कुर्वन्ति। अभिरता धर्मेषु व्यवस्थिताः, शिक्षासंवरमुपगृहीताः। एवं चाहुः–पुनरपि न प्राणातिपातं कुर्वामः। यादृशेन जाम्बुद्वीपका मनुष्या जीवन्ति अन्नेन पानेन, तादृशजीविकया वयं जीवामः। पुनरपि राक्षसीवृत्तिं न कुर्वामः। उपासकसंवरं धारयिष्याम इति। तादृशं शिक्षासंवरमुपगृहीत्वा तस्यैव पुरुषस्य पुरतोऽनिमिषैर्नयनैः प्रेक्षमाणाः प्रस्थिताः॥
इति सिंहलभ्रमणं नाम चतुर्दशं प्रकरणम्॥