वैनेयधर्मोपदेशः अष्टमं प्रकरणम्
Technical Details
वैनेयधर्मोपदेशः अष्टमं प्रकरणम्।
अथ रत्नपाणिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्–न मे भगवन क्वचिदीदृशः अचिन्त्यस्तथागतानां पुण्यस्कन्धो दृष्टो वा श्रुतो वा प्रागेव बोधिसत्त्वभूतस्य, यादृशो भगवतोऽवलोकितेश्वरस्य बोधिसत्त्वस्य पुण्यस्कन्धः। भगवानाह–यत्खलु कुलपुत्र मम सदृशाः गङ्गानदीवालुकोपमास्तथागता अर्हन्तः सम्यक्संबुद्धा भवेयुः, ते चैकस्थाने धारयेयुः सत्काराय दिव्यकल्पचीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः, ते च तथागता अर्हन्तः सम्यक्संबुद्धाः सर्वथैकत्र संनिपात्यन्ते। सर्वे अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य न शन्कुवन्ति पुण्यस्कन्धं गणयितुम्। प्रागेव कुलपुत्र अहमेकाकी अस्मिन् लोकधातौ विहरामि, तत्कथं शक्नुयां तस्य पुण्यस्कन्धं वाचा व्याहर्तुम्? अपि च कुलपुत्र सर्वे तथागता दशभ्यो वाग्भिः एवं वाचमभाषन्त–ते सत्त्वाः सुखिता लोके भवन्ति, ये अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नामधेयमनुस्मरन्ति। ते जरामरणव्याधिशोकपरिदेवदुःखदौर्मनस्येभ्यः परिमुक्ता भवन्ति, ते आपश्चिमसांसारिकं दुःखं नानुभवन्ति, ते शुक्लपाण्डरपटा इव राजहंसाः प्लुतवायुवेगा इव गच्छन्ति सुखावतीलोकधातुममिताभस्य तथागतस्य संमुखं धर्मश्रवणाय। धर्मं श्रुत्वा च सांसारिकं दुःखं तेषां काये न बाधते, न च रागद्वेषमोहेन जरामरणम्, न च तेषां क्षुत्पिपासा दुःखं काये न बाधते, न च ते गर्भावासदुःखमनुस्मरन्ति, तस्मिन्नेव पद्मे जायन्ते। धर्मरसेन पूर्यमाणाः सततपरिग्रहं व्यवस्थापिताः तावदस्मिंल्लोकधातौ तिष्ठन्ति, यावदवलोकितेश्वरस्य बोधिसत्त्वस्य दृढप्रतिज्ञा न परिपूरिता भवति–सर्वसत्त्वा सर्वदुःखेभ्यः परिमोक्षिताः यावदनुत्तरायाः सम्यक्संबोधौ न प्रतिष्ठापिता भवन्ति॥
अथ रत्नपाणिर्बोधिसत्त्वो भगवन्तमेतदवोचत्–कतमेन कालेन भगवतोऽस्य दृढप्रतिज्ञां परिपूरयति, सर्वसत्त्वाश्च मोक्षमार्गे प्रतिष्ठापिता भवेयुः ? भगवानाह–बहुभिः कुलपुत्र कारणैः सत्त्वाः कारणात् संसारे संसरन्ति, देवता सत्त्वान् परिपाचयति, तेषां सत्त्वानां बोधिमार्गमुपदर्शयति। येन येन रुपेण वैनेयाः सत्त्वाः, तेन तेन रुपेण धर्मं देशयति। तथागतवैनेयानां सत्त्वानां तथागतरुपेण धर्मं देशयति। प्रत्येकबुद्धवैनेयानां सत्त्वानां प्रत्येकबुद्धरूपेण धर्मं देशयति। अर्हत्त्ववैनेयानां सत्त्वानामर्हत्त्वरूपेण धर्मं देशयति। बोधिसत्त्ववैनेयानां सत्त्वानां बोधिसत्त्वरूपेण धर्मं देशयति। महेश्वरवैनेयानां सत्त्वानां महेश्वररूपेण धर्मं देशयति। नारायणवैनेयानां सत्त्वानां नारायणरूपेण धर्मं देशयति। ब्रह्मवैनेयानां सत्त्वानां ब्रह्मरूपेण धर्मं देशयति। इन्द्रवैनेयानां सत्त्वानामिन्द्ररूपेण धर्मं देशयति। आदित्यवैनेयानां सत्त्वानामादित्यरूपेण धर्मं देशयति। चन्द्रवैनेयानां सत्त्वानां चन्द्ररूपेण धर्मं देशयति। अग्निवैनेयानां सत्त्वानामग्निरूपेण धर्मं देशयति। वरुणवैनेयानां सत्त्वानां वरुणरूपेण धर्मं देशयति। वायुवैनेयानां सत्त्वानां वायुरूपेण धर्मं देशयति। नागवैनेयानां सत्त्वानां नागरूपेण धर्मं देशयति। विघ्नपतिवैनेयानां सत्त्वानां विघ्नपतिरूपेण धर्मं देशयति। यक्षवैनेयानां सत्त्वानां यक्षरूपेण धर्मं देशयति। वैश्रवणवैनेयानां सत्त्वानां वैश्रवणरूपेण धर्मं देशयति। राजवैनेयानां सत्त्वानां राजरूपेण धर्मं देशयति। राजभटवैनेयानां सत्त्वानां राजभटरूपेण धर्मं देशयति। मातृपितृवैनेयानां सत्त्वानां मातृपितृरूपेण धर्मं देशयति। यथा यथा वैनेयानां सत्त्वानां तथा तथा रूपेण धर्मं देशयति। एवं कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सत्त्वान् धर्मं देशयति, परिपाचयति, निर्वाणभूमिमुपदर्शयति॥
इति वैनेयधर्मोपदेशो नाम अष्टमं प्रकरणम्॥