अवीचिशोषणं नाम द्वितीयं प्रकरणम्
Technical Details
अवीचिशोषणं नाम द्वितीयं प्रकरणम्।
अथ तस्मिन्नेव पर्षन्मध्ये सर्वनीवरणविष्कम्भी नाम बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्–परमाश्चर्याद्भुतप्राप्तोऽहं भगवन्। कुत इमे रश्मयः समागच्छन्ति स्म? कस्यैष तथागतस्य विषयप्रभावः? इति। भगवानाह–नैष तथागतप्रभावः। कुलपुत्रोऽवीचौ महानरके आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः प्रविष्टः। सत्त्वान् परिमोचयित्वा च प्रेतनगरं प्रविशति। तेनेमे रश्मय उत्सृष्टाः॥
अथ सर्वनीवरणविष्कम्भी बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्–भगवन्, अवीचौ महानरके कानि सत्त्वानि संविद्यन्ते? यत्र वीचिर्न प्रज्ञायते। तत्रास्य धर्मं देशयति–यस्याः कुड्यप्राकारपर्यन्ता अयोमयी भूमिः समनन्तरप्रज्वलितैकज्वालीभूता, विस्फुरद्रत्नकरण्डकवत् संदृश्यते। तस्मिन्नेव महानरके आक्रन्दती कुम्भी तिष्ठति। तस्यामेव कुम्भ्यामनेकानि सत्त्वकोटीनियुतशतसहस्राणि प्रक्षिप्तानि। यथा बह्वयुदकायां स्थाल्यां मुद्गा वा माषा वा चोर्ध्वं गच्छन्तोऽधो गच्छन्तः स्विद्यन्ते पच्यन्ते, एवं ते सत्त्वा अवीचौ महानरके कायिकं दुःखं प्रत्यनुभवन्ति। तत्कथं भगवन् अवीचौ महानरकेऽवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः प्रविशति? भगवानाह–यथा कुलपुत्र राजा चक्रवर्ती दिव्यरत्नमयोद्याने प्रविशति महत्या चक्रवर्तिराज्यसमृद्धया, एवमेव कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तस्मिन्नवीचौ महानरके प्रविशति। न च पुनस्तस्य कायोऽन्यथाभावं गच्छति। यदा अवीचिमहानरकसमीपमुपसंक्रामति, तदा अवीचिर्महानरकः शीतीभावमनुगच्छति। तदा ते यमपालपुरूषाः संवेगचित्ताः परमोद्विग्नाश्चिन्तां समापद्यन्ते–किमस्मिन्नवीचौ महानरकेऽशुभनिमित्तं प्रादुर्भूतम् ? यदावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः प्रविशति, तदा तस्मिन् शकटचक्रप्रमाणमात्राणि पद्मानि प्रादुर्भूतानि। सा च कुम्भी विस्फुटिता। तस्मिन्नेवाग्निखदायां मधोः पुष्करिणी प्रादुर्भूता॥
अथ ते यमपालपुरूषा असिमुसलभिन्दिपालतोमरगदाचक्रत्रिशूलादीनुपसंगृह्य सर्वं चावीचिपरिष्कारं गृहीत्वा येन स यमो धर्मराजस्तेनोपसंक्रान्ताः। उपसंक्रम्य यमं धर्मराजमेतदवोचन्–यत्खलु देवो जानीयात् प्रथमम्–सा चास्माकं कर्मभूमिर्निरवशेषं परिक्षीणा अभिरमणीया संवृत्ता सर्वसुखसमर्पिता। यमो धर्मराजस्तानुवाच–किंकारणं युष्माकमपि कर्मभूमिः परिक्षीणा ?
यमपालपुरूषा ऊचुः–अपि च। यत्खलु देवो जानीयात् प्रथमम्–तस्मिन्नवीचिमहानरकेऽशुभनिमित्तं प्रादुर्भूतम्। सर्वं प्रशान्तं शीतीभावमुपगतम्। कामरूपी च तत्र पुरुषः प्रविष्टो जटामुकुटधरो दिव्यालंकारभूषितशरीरः परममैत्रमानसः सुवर्णबिम्बमिव दृश्यते। स च तादृशः पुरुषस्तत्र प्रविष्टः। तस्य च प्रविष्टमात्राच्छकटचक्रमात्राणि पद्मानि प्रादुर्भूतानि। सा च कुम्भी विस्फुटिता। तस्मिन्नेवाग्निखदायां मधोः पुष्करिणी प्रादुर्भूता॥
अथ स यमो धर्मराजश्चिन्तामापेदे–कस्य पुनर्देवस्यायं प्रभावः ? अथ महेश्वरस्य महर्द्धिकस्य, अथवा नारायणस्य पञ्चमहासमुद्रनमस्कृतस्य, अथवा अन्येषां महर्द्धिकदेवपुत्राणामपि वरप्रदानेनेदृशं फलविशेषं संवृत्तम् ? ते चेह भूमावनुप्राप्ताः ? अथवा राक्षस उत्पन्नः एष महारावणप्रतिद्वन्द्वी ? एवं स ततः स्थितश्चिन्तयामास। स च दिव्येन चक्षुषा व्यवलोक्य तच्च देवनिकायेन पश्यति स्म–ईदृशं वरं कस्यान्यस्य ? अथ स पुनरेवावीचौ महानरके व्यवलोकयति स्म। व्यवलोक्य तस्मिन्नेवावीचौ महानरकेऽवलोकितेश्वरं बोधिसत्त्वं महासत्त्वमेव पश्यति स्म॥
अथ स यमो धर्मराजो येनावलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य स्तोत्रविशेषं कर्तुमारब्धः। नमोऽस्त्ववलोकितेश्वराय, महेश्वराय, पद्मश्रिये, वरदाय, वशंकराय, पृथिवीवरलोचनकराय, जगदाश्वासनकराय, शतसहस्रभुजाय, कोटीशतसहस्रनेत्राय, एकादशशीर्षाय, वडवामुखपर्यन्ताय, धर्मप्रियाय, सर्वसत्त्वपरिमोक्षणकराय, कूर्ममकरमत्स्याश्वासनकराय, ज्ञानराश्युत्तमकराय, प्रियंददाय, रत्नश्रिये, उत्तमाय, अवीचिसंशोषणकराय, ज्ञानलक्ष्म्यलंकृताय, ज्ञानप्रियाय, सर्वदेवपूजितनमस्कृताय, वन्दिताय, अभयंददाय, धर्मदीपंकराय, कामरूपाय, गन्धर्वरूपया, काञ्चनपर्वतसमारूढाय, सागरकुक्षिगम्भीरधर्माय, परमार्थयोगमनुप्राप्ताय, संमुखसंदर्शनकराय, अनेकसमाधिशतसहस्रावकीर्णाय, अभिरतिकराय, विच्छुरितगात्राय, ऋषिपुंगवकराय, हडिनिगडबन्धनभयत्रस्तमार्गपरिमोक्षणकराय, सर्वसत्त्वाभावसंयुक्ताय, बहुपरिवारसंवर्तनीयाय, उपचितकराय, चिन्तामणिरत्नाय, निर्वाणमार्गोपदर्शनकराय, प्रेतनगरसमुच्छोषणकराय, छत्रभूतजगत्कराय, व्याधिपरिमोचनकराय, नन्दोपनन्दनागराजकृतयज्ञोपवीताय, अमोघपाशसंदर्शनकराय, अनेकमन्त्रशतावकीर्णाय वज्रपाणिविद्रावणकराय, त्रिलोकभयंकराय, यक्षराक्षसभूतप्रेतवेतालडाकिनीकूष्माण्डापस्मारसंत्रासनकराय, नीलोत्पलचारुनेत्राय, गम्भीरधीराय, विद्याधिपतये, सर्वक्लेशविमोक्षणकराय, विविधबोधिमार्गोपचिताय, समारूढमोक्षमार्गप्रवराय, आश्रयचित्तबोधिमार्गोपचिताय, प्रेतगतिपरिमोक्षणकराय, परमाणुरजोपमसमाधिशतसहस्राकीर्णाय। एवं यमो धर्मराजो विशेषतरं स्रोतावधानं कृत्वा पुनरपि यमो धर्मराजः त्रिः प्रदक्षिणीकृत्य तत्रैव प्रक्रान्तोऽभूत्॥
इति अवीचिशोषणं नाम द्वितीयं प्रकरणम्॥