७ अनुशंसापरिवर्तः सप्तमः
Technical Details
७ अनुशंसापरिवर्तः सप्तमः।
पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्व आदित एव अनुत्तरायां सम्यक्संबोधावुत्पन्ने चित्ते बहुकुशलमूलसंभारसमुदागतश्च भवति, बहुबुद्धपर्युपासितश्च भवति, बहुबुद्धपरिपृच्छकश्च भवति, कृताधिकारश्च भवति बुद्धानां भगवताम्, अध्याशयसंपन्नश्च भवति, दानसंविभागरतश्च भवति, शीलविशुद्धिगुरुकश्च भवति, क्षान्तिसौरत्यसंपन्नश्च भवति, वीर्यवांश्च भवति, वीर्यविशुद्धिगुरुकः, ध्यानविशुद्धिगुरुकश्च भवति, प्रज्ञावांश्च भवति, प्रज्ञाविशुद्धिगुरुकः। सोऽनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य प्रज्ञापारमितायामभियुक्तो मारान् पापीयसोऽधितिष्ठति तेन प्रज्ञाबलेन च-यथा मे माराः पापीयांसोऽवतारं न लभेरन्, मा च मे विहेठां कुर्युः। तस्याधिष्ठाने मारा अवतारं न लभन्ते, न चास्यान्तरायाय प्रत्युपस्थिता भवन्ति, नापि चित्तमुत्पादयन्ति-किमिति वयमस्य बोधिसत्त्वस्य अवतारं गवेषामहे, विहेठनां कुर्यामह इति। सचेत्तेषां चित्तमुत्पद्यतेऽन्तरायाय, ततो महाव्यसनमात्मनः संजानते, भयं च तेषां महत्प्रत्युपस्थितं भवति, संविग्नाश्च भवन्ति-मा वयं सर्वेण सर्वं न भविष्याम इति। ते तद्विहेठनाचित्तं पुनरपि प्रतिसंहरन्ति। पुनरपि तेषां ते चित्तोत्पादा अन्तर्धीयन्ते। अनेनापि सुविक्रान्तविक्रामिन् पर्यायेण बोधिसत्त्वस्य माराः पापीयांसोऽन्तरायाय प्रयुपस्थिता अवतारं न लभन्ते॥
पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायां छन्दश्च अध्याशयश्च गौरवं व चित्रीकारश्च शास्तृसंज्ञा च उत्पादिता भवति। न च षट्पारमितासंयुक्तायां कथायां भाष्यमाणायां काङ्क्षा वा विमतिर्वा विचिकित्सा वा उत्पादिता भवति, नापि गम्भारान् धर्मान् श्रुत्वा काङ्क्षायितत्वं वा धन्धायितत्वं वा विचिकित्सायितत्वं वा उत्पादितं भवति, नाप्यनेन जातु धर्मव्यवसनसंवर्तनीयं कर्मोपचितं भवति, नाप्यनेन जातु धर्मव्यसनसंवर्तनीयं चित्तमुत्पादितं भवति। अन्ये च बहवः सत्त्वाः प्रज्ञापारमितायां समादापिता भवन्ति, सर्वासु षट्पारमितासु संहर्षिता भवन्ति समुत्तेजिताः। तस्य पूर्वाशयचित्तविशुद्धितया पूर्वाशयासंक्लिष्टतया न माराः पापीयांसोऽन्तरायाय प्रत्युपस्थिता भवन्ति, नापि तस्य माराः पापीयांसोऽवतारं लभन्ते। सर्वाणि च मारकर्माण्युत्पन्नोत्पन्नानि बुध्यते। न च मारकर्मभिः संह्रियते, न च मारकर्मवशगो भवति। अनेनापि सुविक्रान्तविक्रामिन् पर्यायेण बोधिसत्त्वस्य माराः पापीयांसो न विहेठाय प्रत्युपस्थिता भवन्ति॥
पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वः प्रज्ञापारमितायां चरन् न रूपयोगनिमित्ते चरति, न रूपविसंयोगनिमित्ते चरति, न वेदनासंज्ञासंस्कारविज्ञानयोगनिमित्ते चरति, न वेदनासंज्ञासंस्कारविज्ञानविसंयोगनिमित्ते चरति। न रूपलक्षणयोगनिमित्ते चरति, न रूपलक्षणविसंयोगनिमित्ते चरति, न वेदनासंज्ञासंस्कारविज्ञानलक्षणसंयोगनिमित्ते चरति। न लक्षणविसंयोगनिमित्ते चरति, न वेदनासंज्ञासंस्कारविज्ञानलक्षणसंयोगनिमित्ते चरति। न रूपविशुद्धिनिमित्ते चरति, न रूपविशुद्ध्यनिमित्ते चरति, न वेदनासंज्ञासंस्कारविज्ञानविशुद्धिनिमित्ते चरति, न वेदना-न संज्ञा-न संस्कार-न विज्ञानविशुद्धिनिमित्ते चरति। न रूपारम्बणविशुद्धिनिमित्ते चरति, न रूपारम्बणविशुद्ध्यनिमित्ते चरति, न वेदना-न संज्ञा-न संस्कार-न विज्ञानारम्बणविशुद्धिनिमित्ते चरति, न वेदना-न संज्ञा-न संस्कार-न विज्ञानारम्बणविशुद्ध्यनिमित्ते चरति। रूपसंभवविशुद्धिसंयोगे चरति, न रूपसंभवविशुद्धिविसंयोगे चरति। न वेदना-न संज्ञा-न संस्कार-न विज्ञानसंभवविशुद्धिसंयोगे चरति, न विज्ञानसंभवविशुद्धिविसंयोगे चरति। न रूपारम्बणस्वभावविशुद्धिसंयोगे चरति, न रूपारम्बणस्वभावविशुद्धिविसंयोगे चरति। न वेदना-न संज्ञा-न संस्कार-न विज्ञानारम्बण-स्वभावविशुद्धिसंयोगे चरति, न विज्ञानारम्बणस्वभावविशुद्धिविसंयोगे चरति। न रूपप्रकृतिविशुद्धौ चरति, न वेदना-न संज्ञा-न संस्कार-न विज्ञानप्रकृतिविशुद्धौ चरति। न रूपारम्बणप्रकृतिविशुद्धिसंयोगे चरति, न रूपारम्बणप्रकृतिविशुद्धिविसंयोगे चरति, न वेदना-न संज्ञा-न संस्कार-न विज्ञानारम्बणप्रकृतिविशुद्धिविसंयोगे चरति। न रूपातीतानागतप्रत्युत्पन्नविशुद्धौ चरति, न वेदना-न संज्ञा-न संस्कार-न विज्ञानातीतानागतप्रत्युत्पन्नविशुद्धौ चरति। न रूपारम्बणातीतानागतप्रत्युत्पन्नविशुद्धौ चरति, न वेदना-न संज्ञा-न संस्कार-न विज्ञानारम्बणातीतानागतप्रत्युत्पन्नविशुद्धौ चरति। न रूपातीतानागतप्रत्युत्पन्नविशुद्धिसंयोगे चरति, न रूपातीतानागतप्रत्युत्पन्नविशुद्धिसंयोगे चरति, न वेदना-न संज्ञा-न संस्कार-न विज्ञानातीतानागतप्रत्युत्पन्नविशुद्धिसंयोगे चरति, न वेदना-न संज्ञा-न संस्कार-न विज्ञानातीतानागतप्रत्युत्पन्नविशुद्धिविसंयोगे चरति। न रूपारम्बणातीतानागतप्रत्युत्पन्नविशुद्धिसंयोगे चरति, न रूपारम्बणातीतानागतप्रत्युत्पन्नविशुद्धिविसंयोगे न वेदना-न संज्ञा-न संस्कार-न विज्ञानारम्बणातीतानागतप्रत्युत्पन्नविशुद्धिसंयोगे चरति, न वेदना-न संज्ञा-न संस्कार-न विज्ञानारम्बणातीतानागतप्रत्युत्पन्नविशुद्धिविसंयोगे चरति। एवं चरन् न रूपेण संयुज्यते न विसंयुज्यते। न वेदनासंज्ञासंस्कारविज्ञानैः संयुज्यते न विसंयुज्यते। न नामरूपेण संयुज्यते न विसंयुज्यते। न विपर्यासदृष्टिगतैः संयुज्यते न विसंयुज्यते। न कामरूपारूप्यधातुभिः संयुज्यते न विसंयुज्यते। न रागद्वेषमोहैः संयुज्यते न विसंयुज्यते। नात्मसत्त्वजीवपुद्गलभावाभावसंज्ञया संयुज्यते न विसंयुज्यते। नोच्छेदशाश्वतेन संयुज्यते न विसंयुज्यते। न धात्वायतनैः संयुज्यते न विसंयुज्यते। न पृथिव्यप्तेजोवाय्वाकाशविज्ञानधातुभिः संयुज्यते न विसंयुज्यते। न प्रतीत्यसमुत्पादेन संयुज्यते न विसंयुज्यते। न पञ्चभिः कामगुणैः संयुज्यते न विसंयुज्यते। न संक्लेशव्यवदानेन संयुज्यते न विसंयुज्यते। न दानमात्सर्येण संयुज्यते न विसंयुज्यते। न शीलदौःशील्येन संयुज्यते न विसंयुज्यते। न क्षान्तिव्यापादेन संयुज्यते न विसंयुज्यते। न वीर्यकौसीद्येन संयुज्यते न विसंयुज्यते। न ध्यानविक्षेपेण संयुज्यते न विसंयुज्यते। न प्रज्ञादौष्प्रज्ञ्यचित्ततया संयुज्यते न विसंयुज्यते। नाविपर्याससम्यक्प्रहाणस्मृत्युपस्थानर्द्धिपादैः संयुज्यते न विसंयुज्यते। नेन्द्रियबलबोध्यङ्गसमाधिसमापत्तिभिः संयुज्यते न विसंयुज्यते। न दुःखसमुदयनिरोधमार्गैः संयुज्यते न विसंयुज्यते। न शमथविदर्शनाभ्यां संयुज्यते न विसंयुज्यते। न विद्याविमुक्तिभ्यां संयुज्यते न विसंयुज्यते। न विमुक्तिज्ञानदर्शनेन संयुज्यते न विसंयुज्यते। नाभिज्ञाभिः संयुज्यते न विसंयुज्यते। न पृथग्जनश्रावकप्रत्येकबुद्धभूमिभिः संयुज्यते न विसंयुज्यते। नानुत्पादज्ञानक्षयज्ञानाभिसंस्कारज्ञानैः संयुज्यते न विसंयुज्यते। न संसारनिर्वाणाभ्यां संयुज्यते न विसंयुज्यते। न बुद्धज्ञानबलवैशारद्यैः संयुज्यते न विसंयुज्यते। न लक्षणसंपदा संयुज्यते न विसंयुज्यते। न बुद्धक्षेत्रव्यूहैः संयुज्यते न विसंयुज्यते। न दुःखसमुदयनिरोधमार्गैः संयुज्यते न विसंयुज्यते। न श्रावकप्रत्येकबुद्धबोधिसत्त्वसंपदा संयुज्यते न विसंयुज्यते। तत्कस्माद्धेतोः ? सर्वधर्मा हि सुविक्रान्तविक्रामिन् न संयुक्ता न विसंयुक्ताः। तत्कस्माद्धेतोः ? न हि सुविक्रान्तविक्रामिन् सर्वधर्माः संयोगेन प्रत्युपस्थिता न विसंयोगेन। संयोग इति हि सुविक्रान्तविक्रामिन् शाश्वतपदमेतत्, विसंयोग इत्युच्छेद एषः। सर्वधर्माणां हि सुविक्रान्तविक्रामिन् न कश्चिदवबोधः येन संयुज्येरन् वा विसंयुज्येरन् वा। सर्वधर्माणां हि सुविक्रान्तविक्रामिन् न कश्चित्संयोगाय प्रत्युपस्थितो न विसंयोगाय। सचेत् सुविक्रान्तविक्रामिन् धर्माणां कश्चित्संयोजयिता वा विसंयोजयिता वा अभविष्यत्, लब्धोऽभविष्यद्धर्माणां कारको वा कारयिता वा, उत्थापको वा उत्थापयिता वा, समुत्थापको वा समुत्थापयिता (वा), वेदको वा वेदयिता वा, ज्ञाता वा ज्ञापयिता वा, संयोजको वा विसंयोजको वा। प्रज्ञापयेत्तथागतः-अयमसौ धर्माणां कारको वा कारयिता वा, उत्थापको वा उत्थापयिता वा, समुत्थापको वा समुत्थापयिता वा, वेदको वा वेदयिता वा, ज्ञाता वा ज्ञापयिता वा, संयोजको वा विसंयोजको वा। यस्मात्तर्हि विक्रान्तविक्रामिन् सर्वधर्माणां न कश्चित्संयोगाय प्रत्युपस्थितो न विसंयोगाय, तस्मान्न कश्चिद्धर्माणां कारको वा कारयिता वा, उत्थापको वा उत्थापयिता वा, समुत्थापको वा समुत्थापयिता वा, वेदको वा वेदयिता वा, ज्ञाता वा ज्ञापयिता वा, संयोजको वा विसंयोजको वा समुपलभ्यते। अनुपलभ्यमाने वा तथागतः प्रज्ञपयति। विपर्याससमुत्थिता हि सुविक्रान्तविक्रामिन् सर्वधर्माः। न च विपर्यासः केनचित्संयुक्तो वा विसंयुक्तो वा। तत्कस्माद्धेतोः ? न हि सुविक्रान्तविक्रामिन् विपर्यासस्य वस्तूपलभ्यते, नापि संभव उपलभ्यते। तत्कस्माद्धेतोः ? अभूतो हि सुविक्रान्तविक्रामिन् विपर्यासः, वितथो मृषाधर्मस्तुच्छः। न चात्र कश्चिद्धर्म उपलभ्यते योऽसौ विपर्यास इत्युच्येत। विपर्यास इति सुविक्रान्तविक्रामिन् विप्रतिलम्भ एष सत्त्वानाम्, उल्लापनैषा सत्त्वानाम्, अभूतपरिकल्प एष सत्त्वानाम्, मन्यना स्पन्दना प्रपञ्चनैषा सत्त्वानाम्। तद्यथापि नाम सुविक्रान्तविक्रामिन् बालदारको रिक्तेन मुष्टिनोल्लापितः संजानाति भूतमिति, एवमेव सुविक्रान्तविक्रामिन् बालपृथग्जना उच्छेदेन विपर्यासेनोल्लापिता मूढा एवं मन्यन्ते-भूतमेतदिति। ते अभूते भूतसंज्ञिनो विपर्यासग्रस्ता दुर्मोच्या भवन्ति तस्माद्विपर्यासात्। एवं सुविक्रान्तविक्रामिन् सर्वबालपृथग्जना असंयुक्ता अविसंयुक्ता बन्धनबद्धाः संधावन्ति। ते संयोग इति मन्यन्ते, ते संयोग इत्युपलभन्ते, संयोग इति स्थापितं पश्यन्ति, संयोग इत्यभिनिविशन्ते। यत्र सुविक्रान्तविक्रामिन् संयोगः, तत्र विसंयोगः। यः पुनः संयोगं नोपलभते न मन्यते नाभिनिविशते, न विसंयोगमपि स मन्यते, सोऽत्यन्तविमुक्तः। सचेद्विसंयोगं मन्येत वा उपलभेत वा अभिनिविशेत वा, संयुक्त एवासौ भवेन्न विसंयुक्तः। तत्र सुविक्रान्तविक्रामिन् बोधिसत्त्व इममर्थवशं संपश्यन् न केनचिद्धर्मेण संयुज्यते न विसंयुज्यते, नापि कस्यचिद्धर्मस्य संयोगाय प्रत्युपस्थितो भवति न विसंयोगाय। इयं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य महासत्त्वस्य संयोगविसंयोगपरिज्ञा प्रज्ञापारमितायां चरतः। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वः क्षिप्रं सर्वधर्माणां पारमधिगच्छति॥
पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वः प्रज्ञापारमितायां चरन् न रूपासङ्गतायां चरति, न वेदना-न संज्ञा-न संस्कार-न विज्ञानासङ्गतायां चरति। न रूपासङ्गविशुद्धौ चरति, न वेदना-न संज्ञा-न संस्कार-न विज्ञानसङ्गविशुद्धौ चरति। न रूपासङ्गारम्बणे चरति, न वेदना-न संज्ञा-न संस्कार-न विज्ञानासङ्गारम्बणे चरति। न रूपासङ्गतासंयोगे चरति, न रूपासङ्गताविसंयोगे चरति। न वेदना-न संज्ञा-न संस्कार-न विज्ञानासङ्गतासंयोगे चरति, न विज्ञानासङ्गताविसंयोगे चरति। न रूपासङ्गताविशुद्धिसंयोगे चरति, न रूपासङ्गताविशुद्धिविसंयोगे चरति। न वेदना-न संज्ञा-न संस्कार-न विज्ञानासङ्गताविशुद्धिसंयोगे चरति, न विज्ञानासङ्गताविशुद्धिविसंयोगे चरति। न रूपारम्बणविशुद्धिसंयोगे चरति, न रूपारम्बणविशुद्धिविसंयोगे चरति। न वेदना-न संज्ञा-न संस्कार-न विज्ञानारम्बणविशुद्धिसंयोगे चरति, न विज्ञानारम्बणविशुद्धिविसंयोगे चरति। तत्कस्माद्धेतोः ? सर्वाणि ह्येतानि सुविक्रान्तविक्रामिन् न इञ्जितानि निमित्तानि स्पन्दितानि चरितानि विचरितानि बोधिसत्त्वेन परिज्ञातानि। स न क्वचिद्भूयश्चरति विचरति॥
पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वः प्रज्ञापारमितायां चरन् न रूपातीतानागतप्रत्युत्पन्नसङ्गतायां चरति, न रूपातीतानागतप्रत्युत्पन्नासङ्गतायां चरति। न वेदना-न संज्ञा-न संस्कार-न विज्ञानातीतानागतप्रत्युत्पन्नसङ्गतायां चरति, न विज्ञानातीतानागतप्रत्युत्पन्नसङ्गनायां चरति। न रूपातीतानागतप्रत्युत्पन्नविशुद्धौ चरति, न रूपातीतानागतप्रत्युत्पन्नाविशुद्धौ चरति। न वेदना-न संज्ञा-न संस्कार-न विज्ञानातीतानागतप्रत्युत्पन्नविशुद्धौ चरति, न विज्ञानातीतानागतप्रत्युत्पन्नाविशुद्धौ चरति। न रूपातीतानागतप्रत्युत्पन्नासङ्गारम्बणविशुद्धौ चरति, न रूपातीतानागतप्रत्युत्पन्नासङ्गारम्बणाविशुद्धौ चरति। न वेदना-न संज्ञा-न संस्कार-न विज्ञानातीतानागतप्रत्युत्पन्नासङ्गारम्बणविशुद्धौ चरति, न विज्ञानातीतानागतप्रत्युत्पन्नासङ्गारम्बणाविशुद्धौ चरति। तत्कस्माद्धेतोः ? न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वः प्रज्ञापारमितायां चरंश्चर्यां समनुपश्यति। अचर्येयं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य सर्वचर्या। प्रज्ञाप्रवेशश्चैष प्रज्ञापारमितायां चरतः। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वः क्षिप्रं सर्वज्ञताधर्मपरिपूरिमधिगच्छति॥
पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्वः प्रज्ञापारमितायां चरन् न रूपं विवृतमिति चरति, न रूपमविवृतमिति चरति। न वेदना व संज्ञा न संस्काराः। न विज्ञानं विवृतमिति चरति, न विज्ञानमविवृतमिति चरति। न रूपं शान्तमिति चरति, रूपमशान्तमिति चरति। न वेदना न संज्ञा न संस्काराः। न विज्ञानं शान्तमिति चरति, न विज्ञानमशान्तमिति चरति। न रूपं प्रकृतिविवृतमिति चरति, न रूपं प्रकृत्यविवृतमिति चरति। न वेदना व संज्ञा न संस्काराः। न विज्ञानं प्रकृतिविवृतमिति चरति, न विज्ञानं प्रकृत्यविवृतमिति चरति। न रूपं प्रकृतिशान्तमिति अशान्तमिति चरति। न वेदना न संज्ञा न संस्काराः। न विज्ञानं प्रकृतिशान्तमिति अशान्तमिति चरति। न रूपमतीतानागतप्रत्युत्पन्नं प्रकृतिविविक्तं वा प्रकृतिशान्तं वा चरति। न रूपमतीतानागतप्रत्युत्पन्नं प्रकृत्यविविक्तं चा प्रकृत्यशान्तं वा चरति। न वेदना न संज्ञां न संस्काराः। न विज्ञानमतीतानागतप्रत्युत्पन्नं प्रकृतिविविक्तं वा प्रकृतिशान्तं वा चरति, न विज्ञानमतीतानागतप्रत्युत्पन्नं प्रकृतिविविक्तं वा प्रकृत्तिशान्तं वा चरति। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वः क्षिप्रं सर्वज्ञताधर्मपरिपूरिमधिगच्छति॥
पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वः प्रज्ञापारमितायां चरन् रूपं न मन्यते। एवं न वेदनां न संज्ञां न संस्कारान्। न विज्ञानं मन्यते। रूपविशुद्धिं न मन्यते, रूपारम्बणविशुद्धिं न मन्यते। एवं वेदना संज्ञा संस्काराः। विज्ञानविशुद्धिं न मन्यते, विज्ञानारम्बणविशुद्धिं न मन्यते॥
पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वः (प्रज्ञापारमितायां चरन्) रूपं नाभिनिविशते। एवं वेदनां संज्ञां संस्कारान्। विज्ञानं नाभिनिविशते। रूपविशुद्धिं नाभिनिविशते। एवं वेदना-संज्ञा-संस्काराः। विज्ञानविशुद्धिः नाभिनिविशते। रूपारम्बणविशुद्धिं नाभिनिविशते। एवं वेदना-संज्ञा-संस्काराः। विज्ञानारम्बणविशुद्धिं नाभिनिविशते। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वः क्षिप्रं सर्वज्ञताधर्मपरिपूरिं गच्छति। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्व आसन्नो भवति दशानां तथागतबलानाम्, चतुर्णां तथागतवैशारद्यानाम्, अष्टादशानामावेणिकानां बुद्धधर्माणाम्, महामैत्र्या महाकरुणाया महामुदिताया महोपेक्षायाः। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्व आसन्नो द्वात्रिंशतां महापुरुषलक्षणनाम्। आसन्नो भवति सुवर्णवर्णच्छवितायाः। आसन्नो भवति तथागतानन्तप्रभतायाः। आसन्नो भवति नागावलोकितस्य। आसन्नो भवत्यनवलोकितमूर्धतायाः। आसन्नो भवत्यतीतानागतप्रत्युत्पन्नसङ्गज्ञानदर्शनस्य। आसन्नो भवति तथागतानुवादानुशासनीप्रातिहार्यस्य। आसन्नो भवति अतीतानागतप्रत्युत्पन्नासङ्गज्ञानदर्शनव्याकरणस्य। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वः क्षिप्रं सर्वबुद्धधर्मपरिपूरिमधिगच्छति। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वः क्षिप्रं बुद्धक्षेत्रपरिशुद्धिमधिगच्छति। क्षिप्रं श्रावकबोधिसत्त्वव्यूहसंपदं परिगृह्णाति। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न रूपे प्रतिष्ठते, न वेदनासंज्ञासंस्कारविज्ञानेषु प्रतिष्ठते। न नामरूपे प्रतिष्ठते। न विपर्यासनीवरणदृष्टिगतेषु प्रतिष्ठते। न कामरूपारूप्यधातौ प्रतिष्ठते, नात्मधातौ, न सत्त्वधातौ प्रतिष्ठते। न पुद्गलजीवसंज्ञायां प्रतिष्ठते। न पृथिव्यप्तेजोवाय्वाकाशविज्ञानधातौ प्रतिष्ठते। न धात्वायतनेषु प्रतिष्ठते। न संक्लेशव्यवदाने प्रतिष्ठते। न प्रतीत्यसमुत्पादे प्रतिष्ठते। न त्यागमात्सर्ये प्रतिष्ठते। न शीलदौःशील्ये प्रतिष्ठते। न क्षान्तिव्यापादे प्रतिष्ठते। न वीर्यकौसीद्ये प्रतिष्ठते। न ध्यानविक्षेपे प्रतिष्ठते। न प्रज्ञादौष्प्रज्ञ्ये प्रतिष्ठते। न स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गेषु प्रतिष्ठते। न ध्यानविमोक्षसमाधिसमापत्तिषु प्रतिष्ठते। न दुःखसमुदयनिरोधमार्गेषु प्रतिष्ठते। न क्षयानुत्पादाभिसंस्कारज्ञानेषु प्रतिष्ठते। न शमथविदर्शनायां प्रतिष्ठते। नाभिज्ञासु प्रतिष्ठते। न विद्याविमुक्तौ प्रतिष्ठते। न श्रावकप्रत्येकबुद्धसम्यक्संबुद्धभूमिषु प्रतिष्ठते। न पृथग्जनश्रावकप्रत्येकबुद्धधर्मेषु प्रतिष्ठते। न निर्वाणे प्रतिष्ठते। न बुद्धज्ञानबलवैशारद्येषु प्रतिष्ठते। नासङ्गज्ञाने प्रतिष्ठते। नातीतानागतप्रत्युत्पन्नज्ञानदर्शनेषु प्रतिष्ठते। न बुद्धक्षेत्रसंपदि प्रतिष्ठते। न श्रावकव्यूहसंपदि प्रतिष्ठते। न बोधिसत्त्वव्यूहसंपदि प्रतिष्ठते। तत्कस्माद्धेतोः ? अप्रतिष्ठिता हि सुविक्रान्तविक्रामिन् सर्वधर्माः। न हि सुविक्रान्तविक्रामिन् सर्वधर्माणां प्रतिष्ठानं विद्यते। तत्कस्माद्धेतोः ? सर्वधर्मा हि सुविक्रान्तविक्रामिन् अनालयाः। अनालयत्वान्न प्रतिष्ठन्ते। सचेत्सुविक्रान्तविक्रामिन् धर्माणां प्रतिष्ठानमभविष्यत्, आलयो वा कूटस्थो वा धर्माणामभविष्यत्, नि(न्य ?) दर्शयिष्यत्तथागतो धर्माणां प्रतिष्ठानम्-इदं धर्माणां प्रतिष्ठानम्, अयं धर्माणामालयः, अयं धर्माणां संचय इति। यस्मात्तर्हि सुविक्रान्तविक्रामिन् सर्वधर्मा अप्रतिष्ठिताः अनालयाः असंचयाः, तस्मान्न कश्चिद्धर्मः कूटस्थः। तस्मात्तथागतो धर्माणां प्रतिष्ठानं वा आलयं वा संचयं वा न निर्दिशति। न हि सुविक्रान्तविक्रामिन् धर्माः परिनिष्पन्नाः, नापि स्वभावः कश्चित्, असंभवादपरिनिष्पत्तितो धर्माणां न कश्चिदवतिष्ठते। तेनोच्यते अप्रतिष्ठिताः सर्वधर्मा इति। अस्थानयोगेन अनधिष्ठानयोगेन सुविक्रान्तविक्रामिन् अप्रतिष्ठिताः सर्वधर्माः। नास्ति सुविक्रान्तविक्रामिन् सर्वधर्माणां स्थितिः। तद्यथापि नाम सुविक्रान्तविक्रामिन् चतसृणां महानदीनामनवतप्तात् सरसः प्रस्रवन्तीनां नास्त्यधिष्ठानमन्यत्र महासमुद्रात्, एवमेव सुविक्रान्तविक्रामिन् सर्वधर्माणां नास्ति स्थितिः, यावदनभिसंस्कारं न क्षपयन्ति। अनभिसंस्कार इति सुविक्रान्तविक्रामिन् न तत्र स्थानं नास्थानं नाधिष्ठानम्, सर्वत्रैषा गणना नास्ति। स्थानमिति वा अधिष्ठानमिति वा अस्थानमिति वा अभिसंस्कार इति सुविक्रान्तविक्रामिन् गणनैषा निर्दिष्टा। यथासत्त्वप्रवृत्तिसंदर्शनमेतत्कृतमस्थानं वा स्थानं वा प्रतिष्ठानं वा। नानभिसंस्कारे काचिद्भूय इयं गणना। तेनोच्यते अप्रतिष्ठिताः सर्वधर्मा इति। अयं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य सर्वधर्माप्रतिष्ठानयोगः प्रज्ञापारमितायां चरतः। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वः क्षिप्रं सर्वज्ञधर्मान् परिपूरयति, आसन्नश्च भवत्यनुत्तरायां सम्यक्संबोधौ, क्षिप्रं च बोधिमण्डमुपसंक्रामति, क्षिप्रं च सर्वज्ञज्ञानं प्रतिलभते, क्षिप्रं च अतीतानागतप्रत्युत्पन्नज्ञानपरिपूरिमधिगच्छति, क्षिप्रं च सर्वसत्त्वचित्तचरितविस्पन्दितानां पारं गच्छति॥
तस्मात्तर्हि सुविक्रान्तविक्रामिन् बोधिसत्त्वेन महासत्त्वेन अर्थं कर्तुकामेन, सर्वसत्त्वानां दानं दातुकामेन, सर्वसत्त्वान् धर्मदानेन संतर्पयितुकामेन, सर्वसत्त्वानामविद्याण्डकोशं भेत्तुकामेन, सर्वसत्त्वानां महाज्ञानं बुद्धज्ञानमुपसंहर्तुकामेन, सर्वसत्त्वानामनुकम्पकेन भवितुकामेन, सर्वसत्वानां हितैषिणा भवितुकामेन, सर्वसत्त्वानां धर्मसुभिक्षं कर्तुकामेन, सर्वसत्त्वानां भोगसुभिक्षं कर्तुकामेन, सर्वसत्त्वां शीलभिक्षं कर्तुकामेन, सर्वसत्त्वानां क्षान्तिसौरत्यसुभिक्षं कर्तुकामेन, सर्वसत्त्वां वीर्यसुभिक्षं कर्तुकामेन, सर्वसत्त्वानां ध्यानभिक्षं कर्तुकामेन, सर्वसत्त्वानां प्रज्ञासुभिक्षं कर्तुकामेन, सर्वसत्त्वानां विमुक्षिसुभिक्षं कर्तुकामेन, सर्वसत्त्वानां स्वर्गोपपत्तिसुभिक्षं कर्तुकामेन, सर्वसत्त्वानां विद्याविमुक्तिसुभिक्षं कर्तुकामेन, सर्वसत्त्वानां वुमुक्तिज्ञानदर्शनसुभिक्षं कर्तुकामेन, सर्वसत्त्वानां नीवरणसुभिक्षं कर्तुकामेन, सर्वसत्त्वानां बुद्धधर्मसुभिक्षं कर्तुकामेन, सर्वसत्त्वानां सर्वगुणसंपत्सुभिक्षं कर्तुकामेन, धर्मचक्रं प्रवर्तयितुकामेन अप्रवर्तितपूर्वं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा अन्येन वा पुनः केनचिल्लोकेन सहधर्मेण, धर्मसांकथ्यं कर्तुकामेन, बुद्धभूमौ व्याकर्तुकामेन, श्रावकभूमौ व्याकर्तुकामेन, प्रत्येकबुद्धभूमौ व्याकर्तुकामेन, सर्वसत्त्वानां पूर्वप्रणिधानकुशलमूलानि संचोदयितुकामेन अस्यां प्रज्ञापारमितायां शिक्षितव्यं घटितव्यं व्यायच्छितव्यं प्रज्ञापारमिताभावनायोगमनुयुक्तेन भवितव्यम्। नाहं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य कंचिद्धर्ममेवं क्षिप्रं परिपूरिकरं समनुपश्यामि सर्वधर्माणां यथेह प्रज्ञापारमितायां यथानिर्दिष्टायामभियोगः प्रतिपत्तिः अस्य विहारस्यानुत्सर्गः यदुत प्रज्ञापारमिताविहाराय॥
ये केचित्सुविक्रान्तविक्रामिन् बोधिसत्त्वा अस्यां प्रज्ञापारमितायां चरन्ति, निष्ठा तत्र गन्तव्या-आसन्ना इमे बोधिसत्त्वा अनुत्तरायां सम्यक्संबोधिविति। येषां केषांचित् सुविक्रान्तविक्रामिन् इयं प्रज्ञापारमिता श्रोत्रावभासमप्यागमिष्यति, श्रुत्वा चाधिमोक्ष्यन्ति अभिनन्दिष्यन्ति, भूतसंज्ञां चोत्पादयिष्यन्ति, तेषामप्यहं कुशलमूलमनुत्तरायाः सम्यक्संबोधेराहारकं वदामि-निष्ठा च तत्र गन्तव्या-महाप्रज्ञासंभारोपचिता ह्येते कुलपुत्रा वा कुलदुहितरो वा, अन्यानि च कुशलमूलानि परिगृह्णन्तीति। येषां च सुविक्रान्तविक्रामिन् बोधिसत्त्वानामयं प्रज्ञापारमितोपायकौशल्यपरिवर्तनिर्देशो हस्तं गमिष्यति, किंचापि तत्र केचिन्न व्याकृता भविष्यन्ति संमुखं बुद्धैर्भगवद्भिः, अथ च पुनर्वेदितव्यमेतत्-आसन्ना ह्येते व्याकरणस्य, नचिरेणैते संमुखं व्याकरणं प्रतिलप्स्यन्त इति॥
तद्यथापि नाम सुविक्रान्तविक्रामिन् ये सत्त्वा दशकुशलान् कर्मपथान् समादाय वर्तन्ते, निष्ठा तत्र गन्तव्या-आसन्ना ह्येते सत्त्वा उत्तरकुरुषूपपत्तेः। एवमेव सुविक्रान्तविक्रामिन् यस्य कस्यचिद्बोधिसत्त्वस्य इयं प्रज्ञापारमिता हस्यं गमिष्यति, वेदितव्यमेतत्-आसन्नोऽयमनुत्तरायाः सम्यक्संबोधेरिति॥
तद्यथापि नाम सुविक्रान्तविक्रामिन् ये सत्त्वा दानं प्रयच्छन्ति मुक्तत्यागाश्च भवन्ति, सत्त्वांश्च दानेन प्रियवद्यतया अर्थचर्यया समानार्थतया च संगृह्णन्ति, शीलं च रक्षन्ति, निहतमानाश्च भवति, निष्ठा तत्र गन्तव्या-क्षिप्रमिमे सत्त्वा महाभोगा भवन्त्युच्चकुलीनाश्च॥
तद्यथापि नाम सुविक्रान्तविक्रामिन् ये सत्त्वा दानशीलाश्च भवन्ति शीलसंपन्नाश्च भवन्ति, क्षान्तिसंपन्नाश्च भवन्ति, वीर्यध्यानप्रतिष्ठिताः प्रज्ञया समन्वागताश्च भवन्ति, मैत्री च सत्त्वानामन्तिके उत्पादयन्ति, सत्त्वांश्च शीले समादापयन्ति, अधिपतिसंवर्तनीयं च कर्मोपचिन्वन्ति, वेदितव्यमेतत्-अचिरादेते चक्रवर्तिराज्यं कारयिष्यन्ति इति। एवमेव सुविक्रान्तविक्रामिन् यस्य कस्यचिद्बोधिसत्त्वस्य इयं प्रज्ञापारमिता हस्तगता भविष्यति, वेदितव्यमेतत्-क्षिप्रमयं बोधिमण्डमुपसंक्रमिष्यतीति॥
तद्यथापि नाम सुविक्रान्तविक्रामिन् यस्य राज्ञः क्षत्रियस्य पूर्णायां पूर्णमास्यां पञ्चदश्यां पुरतोऽर्थकरणे संनिषण्णस्य चक्ररत्नं प्रादुर्भवति, तत्रैवं वेदितव्यम्-चक्रवर्ती चायं भविष्यति, क्षिप्रं चास्य सप्त रत्नानि प्रादुर्भविष्यन्तीति। एवमेव सुविक्रान्तविक्रामिन् यस्य बोधिसत्त्वस्य अयं प्रज्ञापारमितापरिवर्तो हस्तं गमिष्यति, वेदितव्यमिदम्-क्षिप्रमयं सर्वज्ञतारम्बणैः समन्वङ्गीभविष्यति इति॥
तद्यथापि नाम सुविक्रान्तविक्रामिन् ये सत्त्वा उत्कृष्टकुशलमूलसमन्वागताश्च भविष्यन्ति शोभनसमाचाराश्च भविष्यन्ति, उदाराधिमुक्तिकाश्च भविष्यन्ति, प्रतिकूलसंज्ञा चैषां मानुष्यके आत्मभावे संतिष्ठते, शीलसंपन्नाश्च भवन्ति, महाजनस्य च कृत्यकारिणो भवन्ति, देवोपपत्तिं चाकाङ्क्षन्ति, वेदितव्यमेतत्-क्षिप्रमेते चातुर्महाराजिकानां देवानां सहव्रतायोपपत्स्यन्ते, तत्र चाधिपत्यं कारयिष्यन्ति। ये केचित्सुविक्रान्तविक्रामिन् परिशुद्धतरैः कुशलमूलैः समन्वागता उत्कृष्टकुशलमूलाश्च पूर्वं च दान ददति पश्चात्स्वयं भुञ्जते, प्राक् चान्येषां सत्त्वानां कृत्यानि कुर्वन्ति पश्चादात्मनः, न चाधर्मरागरक्ता भवन्ति, न विषमरागरक्ता भवन्ति, देवैश्वर्याधिपत्यं चाकाङ्क्षन्ति, वेदितव्यमेतत्-अचिरादेते अप्रकम्प्यं देवानां त्रायस्त्रिंशतामैश्वर्याधिपत्यं करिष्यन्ति, शक्राश्च भविष्यन्ति देवानामिन्द्रा इति। एवमेव सुविक्रान्तविक्रामिन् यस्य कस्यचिद्बोधिसत्त्वस्य इयं प्रज्ञापारमिता उपनंस्यते, निष्ठा तत्र गन्तव्या-क्षिप्रमयं सर्वधर्मैश्वर्याधिपतिवशवर्तितामनुप्राप्स्यतीति॥
तद्यथापि नाम सुविक्रान्तविक्रामिन् ये सत्त्वाश्चतुर्णां ब्रह्मविहाराणां लाभिनो भवन्ति, वेदितव्यमेतत्-क्षिप्रमेते ब्रह्मलोके उपपत्स्यन्त इति। एवमेव सुविक्रान्तविक्रामिन् यस्य कस्यचिद् बोधिसत्त्वस्य अयं प्रज्ञापारमितानिर्देश उपनंस्यते, वेदितव्यमिदम्-क्षिप्रमयं धर्मचक्रं प्रवर्तयिष्यतीति॥
तद्यथापि नाम सुविक्रान्तविक्रामिन् वार्षिकेषु मासेषु प्रत्युपस्थितेषु इयं महापृथिवी मेघान् प्रतीत्य स्निग्धा भवति, अनुपूर्वेण च प्रवर्षति, देवेनाभिष्यन्दमाना उपर्युपरि उदकं प्रवर्षन्ति, येनोत्साहं बहवोऽनुगच्छन्ति। ये चास्या महापृथिव्यास्तलं संतर्पयन्ति। एवमियं महापृथिवी अभ्यन्तरा च अभिष्यन्दिता स्निग्धा च भवति, उपरिष्टाच्च उदकमुह्यते, यथा निम्नानि च स्थलानि संतर्पयति, एवमियं महापृथिवी उपरिष्टान्मेघैरभिष्यन्दिता सती तृणगुल्मौषधिवनस्पतीनाभिष्यन्दयति। तेऽभिष्यन्दिताः सन्तो बहून् शाखापत्रपलाशान् मुञ्चन्ति बहुपुष्पफलाश्च भवन्ति, तदा चेयं महापृथिवी मनोज्ञगन्धमुत्सृजति। एवमियं महापृथिवी पुष्पफलोत्ससरस्तडागैस्तस्मिन् समये उपशोभिता भवति। ततश्च तुष्टा भवन्ति मनुष्याश्च अमनुष्याश्च तानि पुष्पफलानि परिभुञ्जमानास्तं च गन्धं जिघ्रन्तः। एवमेव सुविक्रान्तविक्रामिन् यदा बोधिसत्त्वस्य इयं प्रज्ञापारमिता अभिमुखी भवति, अस्यां च प्रज्ञापारमितायां योगमापद्यते, वेदितव्यमेतत् सुविक्रान्तविक्रामिन् अचिरेणायं बोधिसत्त्वोऽभिष्यन्दितः सर्वज्ञज्ञानेन, सर्वज्ञज्ञानं विवरिष्यति, सर्वज्ञज्ञानं प्रकाशयिष्यति, तेन च सत्त्वानार्द्रीकरिष्यत्यनुत्तरधर्मरत्नप्रकाशनतायै॥
तद्यथापि नाम सुविक्रान्तविक्रामिन् येऽनवतप्तस्य नागराजस्य भवने सत्त्वा उपपन्नाः, ते चत्वारो महानदीरुत्सृजति या महासमुद्रं संतर्पयन्ति। एवमेव सुविक्रान्तविक्रामिन् येषां बोधिसत्त्वानामियं प्रज्ञापारमिता हस्तमुपनंस्यति, अस्यां न शिक्षिष्यन्ते, सर्वे ते महाधर्मधाराः प्रवर्षन्ति, याभिः सर्वसत्त्वान् धर्मदानेन संतर्पयिष्यन्ति॥
तद्यथापि नाम सुविक्रान्तविक्रामिन् ये केचित्सत्त्वाः सुमेरोः पर्वतराजस्यान्तिकमुपसंक्रामन्ति, सर्वे ते एकवर्णा भवन्ति यदुत सुवर्णवर्णा भवन्ति। एवमेव सुविक्रान्तविक्रामिन् येषां बोधिसत्त्वानामयं प्रज्ञापारमितानिर्देशो हस्तगतो भविष्यति, सर्वे ते एकां गतिं गमिष्यन्ति यदुत तथागतगतिं सर्वज्ञतागतिम्॥
तद्यथापि नाम सुविक्रान्तविक्रामिन् सागरो महासमुद्रः सर्वोदकसंधारयिता, नित्यं तत्र सर्वमुदकं समवसरति, एवमेव सुविक्रान्तविक्रामिन् यस्य कस्यचिद्बोधिसत्त्वस्य अयं प्रज्ञापारमितानिर्देशो हस्तगतो भविष्यति, निष्ठा तत्र गन्तव्या-क्षिप्रमयं सर्वधर्मसागरतां सर्वधर्मभाजनतां सर्वधर्मसमवसरणतामनुप्राप्स्यति, क्षिप्रं च धर्मसंकेतेन अक्षोभ्यो भविष्यतीति॥
तद्यथापि नाम सुविक्रान्तविक्रामिन् सूर्यमण्डलमभ्युद्गच्छत् सर्वा दिशः प्रभाध्यामीकरोति, एवमेव सुविक्रान्तविक्रामिन् बोधिसत्त्वोऽस्यां प्रज्ञापारमितायां चरन् सर्वसत्त्वानां धर्मावभासकृत्येन प्रत्युत्पस्थितो भवति, इहाभ्युद्गच्छन् सुविक्रान्तविक्रामिन् बोधिसत्त्वः सर्वसत्त्वानां कुशलमूलावभासेन प्रत्युपस्थितो भवति, सर्वसत्त्वानां च दक्षिणीयतां गच्छति, सर्वसत्त्वानां च पुण्यक्षेत्रविशुद्धिं गच्छति, सर्वसत्त्वानां चाभिगमनीयो भवति, सर्वसत्त्वानां च पूज्यो भवति प्रशंसनीयः॥
अस्यां सुविक्रान्तविक्रामिन् प्रज्ञापारमितायां शिक्षमाणो बोधिसत्त्वोऽग्रतायां शिक्षते, सर्वसत्त्वानां च निर्वाणपथशोधनाय शिक्षते। तत्कस्माद्धेतोः ? एषा हि सुविक्रान्तविक्रामिन् अग्रा शिक्षा ज्येष्ठा वरा प्रवरा अनुत्तरा निरुत्तरा येयं प्रज्ञापारमिताशिक्षा। अस्यां शिक्षमाणः सुविक्रान्तविक्रामिन् बोधिसत्त्वः सर्वशिक्षापारमितां प्राप्नोति, सर्वशिक्षाश्च समादाय अभ्युद्गच्छति, सर्वशिक्षाणां च देशयिता भवति, सर्वशिक्षाणां च अभिवाहयिता भवति, अस्यां हि सुविक्रान्तविक्रामिन् शिक्षायामतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तो बोधिसत्त्वचर्यायां चरन्तः शिक्षिताः शिक्षिष्यन्ते शिक्षन्ते च। अस्यां च शिक्षायां सुप्रतिष्ठिता बुद्धा भगवन्तः सर्वसत्त्वेभ्योऽनुत्तरां शिक्षापरिशुद्धिं संप्रकाशितवन्तः, संप्रकाशयन्ति च। तत्कस्माद्धेतोः ? सर्वलोकाभ्युद्गतशिक्षा ह्येषा सुविक्रान्तविक्रामिन् यदुत प्रज्ञापारमिताशिक्षा। सर्वलोकविशिष्टा शिक्षा सर्वलोकस्वयंभूशिक्षा यदुत प्रज्ञापारमिताशिक्षा। प्रज्ञापारमितायां शिक्षमाणः सुविक्रान्तविक्रामिन् बोधिसत्त्वो न कस्मिंश्चिद्धर्मे शिक्षितो भवति लौकिके वा लोकोत्तरे वा, संस्कृते वा असंकृते वा, सास्रवे वा अनास्रवे वा, सावद्ये वा अनवद्ये वा। न क्वचित्सङ्गं जनयति, सर्वधर्मासङ्गविहारी भवति। तत्कस्माद्धेतोः ? सर्वधर्मा हि सुविक्रान्तविक्रामिन् असक्ता अबद्धा अमुक्ताः। नापि कस्यचिद्धर्मस्य सङ्गेन प्रत्युपस्थिता न बन्धनेन। रूपं हि सुविक्रान्तविक्रामिन् असक्तमबद्धममुक्तम्। वेदनासंज्ञासंस्कारविज्ञानमसक्तमबद्धममुक्तम्। नामरूपमसक्तमबद्धममुक्तम्। विपर्यासदृष्टिगतनीवरणान्यसक्तानि अबद्धानि अमुक्तानि। रागद्वेषमोहा असक्ता अबद्धा अमुक्ताः। षडाध्यात्मिकान्यायतनानि असक्तानि अबद्धानि अमुक्तानि। षड्बाह्यायतनानि असक्तानि अबद्धानि अमुक्तानि। कामरूपारूप्यधातवोऽसक्ता अबद्धा अमुक्ताः। आत्मधातुः सत्त्वधातुश्च असक्तोऽबद्धोऽमुक्तः। प्रतीत्यसमुत्पादोऽसक्तोऽबद्धोऽमुक्तः। संक्लेशव्यवदानमसक्तमबद्धममुक्तम्। एवं त्यागमात्सर्यशीलदौःशील्यक्षान्तिव्यापादवीर्यकौसीद्यध्यानविक्षेपप्रज्ञादौष्प्रज्ञ्यानि असक्तानि अबद्धानि अमुक्तानि। दुःखसमुदयनिरोधमार्गा असक्ता अबद्धा अमुक्ताः। स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाप्रमाणाविपर्यासा अमुक्ताः। इन्द्रियबलबोध्यङ्गसमाधिसमापत्तयोऽसक्ता अबद्धा अमुक्ताः। पृथिव्यप्तेजोवाय्वाकाशविज्ञानधातवोऽसक्ता अबद्धा अमुक्ताः। अनुत्पादक्षयाभिसंस्कारज्ञानानि असक्तानि अबद्धानि अमुक्तानि। अविद्याविमुक्ति असक्ते अबद्धे अमुक्ते। अभिज्ञासङ्गता असक्ता अबद्धा अमुक्ता। विद्याविमुक्तिज्ञानदर्शनमसक्तमबुद्धममुक्तम्। पृथग्जनश्रावकप्रत्येकबुद्धधर्मा असक्ता अबद्धा अमुक्ताः। निर्वाणमसक्तमबद्धममुक्तम्। बुद्धज्ञानबलवैशारद्यानि असक्तानि अबद्धानि अमुक्तानि। अतीतानागतप्रत्युत्पन्नासङ्गज्ञानदर्शनमसक्तमबद्धममुक्तम्। तत्कस्माद्धेतोः ? सर्वधर्माणां हि सुविक्रान्तविक्रामिन् बन्धनं नोपलभ्यते। असङ्गा अबद्धा हि सुविक्रान्तविक्रामिन् सर्वधर्माः, तेन तेषां विमुक्तिर्नोपलभ्यते। असक्ता इति सुविक्रान्तविक्रामिन् न तेषां कश्चिन्मोचयिता, अपि तु यदेवं सर्वधर्माणां दर्शनम्, इदमुच्यते असङ्गज्ञानदर्शनमिति। असङ्ग इति सुविक्रान्तविक्रामिन् सङ्गानुपलब्धिः। असङ्गोऽसङ्गतया, असङ्गोऽसङ्गभूततया असङ्ग इत्युच्यते। नात्र कश्चिदुपलभ्यते, यः संयुज्येत वा बध्येत वा। यतश्च नोपलभ्यते यः संयुज्यते वा बध्येत वा, तेन असङ्ग इत्युच्यते। अबद्ध इति सुविक्रान्तविक्रामिन् बन्धाननुपलब्धितः, बन्धनाभूततया अबद्ध इत्युच्यते। न हि तत्र किंचिद्बन्धनं विद्यते, नापि तत्र कश्चिदुपलभ्यते यो बद्धः। यतश्च नोपलभ्यते यो बद्धः, तेन अबद्ध इत्युच्यते। यश्च असक्तोऽबद्धः, कुतस्तस्य मुक्तिः ? यश्च न सज्जते न बध्यते, मुक्तोऽसौ विसंयुक्तः शीतीभूतो विप्रमुक्तः। तत्र न काचिद्भूयो बन्धना। तेनोच्यते विमुक्त इति। मोक्षोऽस्य भूयो न संविद्यते। अयं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य सर्वधर्मासक्ताबद्धामुक्तज्ञानदर्शनप्रवेशः प्रज्ञापारमितायां चरतः। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्व आसन्नो भवत्यनुत्तरायाः सम्यक्संबोधेः। क्षिप्रं च स सर्वज्ञज्ञानं प्रतिलभते। इमामहं सुविक्रान्तविक्रामिन् मुद्रां स्थापयामि बोधिसत्त्वानां संशयच्छेदाय प्रज्ञापारमितामभियुक्तानां प्रज्ञापारमितायां चरताम्। स्वयमिमं सुविक्रान्तविक्रामिन् मुद्रानिर्देशमधिष्ठास्यामि, न प्रतिबला मम श्रावका इमां प्रज्ञापारमितामुद्रां पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्चशत्यां धारयितुम्॥
अथ खलु भगवान् भद्रपालसुसार्थवाहपूर्वंगमानि पञ्चमात्राणि बोधिसत्त्वशतान्यामन्त्रयते स्म सुविक्रान्तविक्रामिणं च बोधिसत्त्वम्-शक्यथ यूयं कुलपुत्रास्तथागते परिनिर्वृते पश्चिमे काले पश्चिमे समये पश्चिमिकायां पञ्चशत्यां सद्धर्मान्तर्धानकालसमये सद्धर्मविप्रलोपे वर्तमाने संक्षीणकाले इमं तथागतस्य अनेककल्पकोटीनियुतशतसहस्रसमुदानीतं धर्मरत्नकोषं प्रज्ञापारमितापूर्वंगमं प्रज्ञापारमिताप्रभवं प्रज्ञापारमिताप्रतिष्ठानं धारयितुम्, परेभ्यश्च विस्तरेण संप्रकाशयितुम् ? एवमुक्ते बोधिसत्त्वा भगवन्तमेतदवोचत्-शक्यामो वयं भगवन् इमं तथागतस्य अनेककल्पकोटीनियुतशतसहस्रसमुदानीतमनुत्तरं धर्मरत्नकोषं प्रज्ञापारमितापूर्वंगमं प्रज्ञापारमिताप्रभवं प्रज्ञापारमिताप्रतिष्ठानं धारयितुम्, परेभ्यश्च विस्तरेण संप्रकाशयितुम्। किंचापि भगवन् स कालो महाभयो महाकान्तारो महाघोरश्च भविष्यति, यद्भूयसा च तस्मिन् समये सत्त्वाः सद्धर्मव्यवनसंवर्तनीयेन कर्मणा समन्वागता भविष्यन्ति, विषमलोभलुब्धा विषमरागरक्ता अधर्मरागरक्ता ईर्ष्यालोभपरीतचेतसः क्रोधनाश्चण्डाः परुषाः दुर्वचसः शठाः कुहका मायाविनोऽधर्मचारिणः कलहभण्डनविवादविग्रहबहुला असंवरस्थिताः लुब्धा लोभाभिभूताः कुसीदाः हीनवीर्या मुषितस्मृतयोऽसंप्रज्ञास्तुण्डाः मुखराः प्रगल्भा अन्तर्हृदयप्रतिच्छन्नपापकर्माणः उत्सदरागद्वेषमोहा अविद्याण्डकोषतमोमोहान्धकाराभिभूता मारपक्षानुकूलचारिणः प्रत्यर्थिकाश्च भविष्यन्ति, अस्य गम्भीरस्य धर्मविनयस्य धर्मरत्नकोषस्य अप्रत्युद्गतमनःशीलाश्च भविष्यन्ति, अथ च पुनरुत्सहामहे वयं भगवन् इमं तथागतस्य अनेककल्पकोटीनियुतशतसहस्रकुशलमूलसमुदानीतमनुत्तरं धर्मरत्नकोषं धारयितुं वाचयितुम्, ये च तस्मिन्नन्तकाले परीत्तपरीत्ता अपि सत्त्वा भविष्यन्ति एभिर्धर्मैरर्थिकाः, एषु धर्मेषु शिक्षितुकामा, अशठा ऋजवोऽमायाविनः, ये जीवितमपि परित्यजेयुः, न पुनरेषां धर्माणां प्रत्यर्थिका भवेयुः, नापीमान् धर्मान् प्रतिक्षिपेयुः, नोप्येभ्यो धर्मेभ्यः पराङ्मुखा भवेयुः, तेषामर्थं करिष्यामः, उत्साहं च दास्यामः, एष्वेवंरूपेषु धर्मेषु संदर्शयिष्यामः, समुत्तेजयिष्यामः संप्रहर्षयिष्यामः॥
अथ खलु भगवांस्तस्यां वेलायामिदं धर्माधिष्ठानं प्रज्ञापारमितानिर्देशमधितिष्ठिति स्म, मारस्य च पापीयसोऽस्मिन् धर्मपर्याये मारपाशानां छेदाय अधिष्ठानमकरोत्। अथ खलु भगवान् स्मितं प्राविष्करोति स्म, यथायं त्रिसाहस्रमहास्राहस्रो लोकधातुर्महतावभासेन स्फुटोऽभूत्। देवा अपि मनुष्यान् पश्यन्ति स्म, मनुष्या अपि देवान्। ये तत्र संनिपतिता देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाः, ते सर्वे दिव्यैः पुष्पैर्भगवन्तमभ्यवकिरन्ति स्म, दिव्यानि च चीवराणि क्षिपन्ति स्म, महान्तं च निर्नादनिर्घोषमकार्षुः-महाधिष्ठानं बतेदं तथागतेनाधिष्ठितं यत्रागतिर्माराणां पापीयसाम्। सर्वमारपाश हि च्छिन्ना अनेन धर्माधिष्ठानेन च। तेषां कुलपुत्राणां कुलदुहितृणां च भूयो मारेभ्यः पापीयोभ्योऽभयं प्रतिकाङ्क्षितव्यम्। ये इमं धर्मपर्यायं धारयिष्यन्ति वाचयिष्यन्ति परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति, उत्तीर्णास्ते बोधिसत्त्वा भविष्यन्ति। मारं च ते पापीयांसं ससैन्यं पराजयिष्यन्ति ये इमं धर्मपर्यायं धारयिष्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति॥
अथ खलु भगवान् सुविक्रान्तविक्रामिणं बोधिसत्त्वमेतदवोचत्-एवमेतत्सुविक्रान्तविक्रामिन्, एवमेतत्, यथैते देवपुत्रा वाचो भाषन्ते। बद्धसीमा सुविक्रान्तविक्रामिन् माराणां पापीयसामस्मिन् धर्मपर्याये भाष्यमाणे तथागतेन। येऽत्र खलु पुनः सुविक्रान्तविक्रामिन् कुलपुत्रा वा कुलदुहितरो वा इमं धर्मपर्यायमुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति, अगतिस्तत्र मारस्य पापीयसो भविष्यति, अनाक्रमणीयाश्च ते कुलपुत्राः कुलदुहितरश्च भविष्यन्ति मारैः पापीयोभिः। निहतमारप्रत्यर्थिकाश्च ते भविष्यन्ति उत्तीर्णसंग्रामाश्च, ये इमं धर्मपर्यायमुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति। न खलु पुनः सुविक्रान्तविक्रामिन् अयं धर्मपर्यायः संक्लिष्टानां सत्त्वानां हस्तं गमिष्यति, नापि मारपाशबद्धानां। आजानेयभूमिरियं सुविक्रान्तविक्रामिन्, नेयमनाजानेयानामनाजानेयभूमिः। तद्यथापि नाम सुविक्रान्तविक्रामिन् ये ते भविष्यन्ति हस्त्याजानेया वा अश्वाजानेया वा, न ते कोट्टराज्ञां परिचर्यां कुर्वन्ति, नापि ते क्रूरजनानां दर्शनमुपयान्ति। चक्रवर्तिनां सुविक्रान्तविक्रामिंस्तथारूपा हस्त्याजानेया अश्वाजानेयाश्च दर्शनमुपयान्ति, तेषां च अभ्युद्गच्छन्ति परिभोगाय उपस्थानपरिचर्यायै, चक्रवर्तिनां हि राज्ञां परिभोगाय भवन्ति। एवमेव सुविक्रान्तविक्रामिन् मनुष्याजानेयानां सत्त्वानामिमे एवंरूपा धर्मपर्यायाः परिभोगाय हस्तं गमिष्यन्ति। तद्यथापि नाम सुविक्रान्तविक्रामिन् उपोषधो नागराजः सुप्रतिष्ठितश्च नागराजः ऐरावणो नागराजः। न ते मनुष्याणामुपभोगाय संक्रामन्ति, नापि ते मनुष्याणां दर्शनायोपसंक्रामन्ति, नापि ते अन्येषां देवानामुपभोगाय परिभोगाय संक्रामन्ति, देवाजानेयानां ते नागराजानः परिभोगाय संक्रामन्ति। यथा यथा च शक्रो देवानामिन्द्रोऽभिक्रामति व्यूहं कृत्वा, तथा तथा चापि नागराजानस्तादृशमेव व्यूहं कृत्वा उपसंक्रामन्ति परिभोगाय। एवमेव सुविक्रान्तविक्रामिन् ये ते भविष्यन्ति मनुष्येन्द्राः पुरुषेन्द्राः तेषामिमे धर्मपर्याया उपभोगपरिभोगाय भविष्यन्ति, यदुत वाचनतया देशनतया संप्रकाशनतया, तेषां चेमे धर्मपर्याया महाव्यूहा महाविष्कारा महाधर्मालोका भविष्यन्ति, महतीं च धर्मप्रीतिमेषु धर्मपर्यायेषु तेऽनुभविष्यन्ति। महता च प्रीतिप्रामोद्येन समन्वागता भविष्यन्ति, अस्य धर्मपर्यायस्य एकं नयं ये धारयिष्यन्ति, कः पुनर्वादो ये सकलसमाप्तं लेखयित्वा धारयिष्यन्ति पूजयिष्यन्ति वैस्तारिकं च करिष्यन्ति, ते ते मनुष्येन्द्रा मनुष्याजानेयाः। परिगृहीतास्ते खलु पुनः सुविक्रान्तविक्रामिन् अनेन धर्मपर्यायेण भविष्यन्ति। अगतिरस्मिन्ननाजानेयानाम्। एतदप्यहं सुविक्रान्तविक्रामिन् सर्वसंशयच्छेदाय वदामि॥
अस्मिन् खलु पुनर्धर्मपर्याये भगवता भाष्यमाणे अनेकैरप्रमेयैर्बोधिसत्त्वैरनुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धाभूत्। अप्रमेयासंख्येयाश्च सत्त्वा अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयन्ति। नियताश्च ते तथागतेन निर्दिष्टा अभूवन् बोधाय॥
इदमवोचद्भगवान्। आत्तमनाः सुविक्रान्तविक्रामी बोधिसत्त्वो महासत्त्वः, चतस्रः पर्षदः, सदेवमानुषनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगश्च लोको भगवतो भाषितमभ्यनन्दन्॥ इति॥
आर्य प्रज्ञापारमितायामनुशंसापरिवर्तः सप्तमः॥
आर्यसुविक्रान्तविक्रामिपरिपृच्छा प्रज्ञापारमितानिर्देशः॥
सार्धद्विसाहस्रिका भगवती आर्यप्रज्ञापारमिता समाप्ता॥
या सर्वज्ञतया नयत्युपशमं शान्तैषिणः श्रावकान्
या मार्गज्ञतया जगद्धितकृतां लोकार्थसंपादिका।
सर्वाकारमिदं वदन्ति मुनयो विश्वं यया संगता-
स्तस्यै श्रावकबोधिसत्त्वगणिनो बुद्धस्य मात्रे नमः॥ १॥
ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत्।
तेषां च यो निरोधो एवं वादी महाश्रमणः॥ २॥