२ आनन्दपरिवर्तो द्वितीयः
Technical Details
२ आनन्दपरिवर्तो द्वितीयः।
अथ खल्वायुष्मानानन्दो भगवन्तमेतदवोचत् -उत्त्रसिष्यन्ति भगवन् अस्मिन्निर्देशे अधिमानिका निमित्तचारिण इति। अथ खल्वायुष्मान् शारद्वतीपुत्र आयुष्मन्तमानन्दमेतदवोचत्-अगतिरत्रायुष्मन् आनन्द अधिमानिकानाम्,अविषयः। न ते पुनरत्रोत्त्रसिष्यन्ति। तत्कस्माद्धेतोः ? उत्त्रस्ता एते ये पापमित्रहस्तगताः। अगतिस्तेषामत्र, अविषयः। ये पुनरायुष्मन्नानन्द अधिमानप्रहाणाय प्रतिपन्ना अधिमानप्रहाणायोद्युक्ताः, ते ह्यत्र उत्त्रसिष्यन्ति। तत्कस्माद्धेतोः ? अधिमानप्रज्ञया निरधिमानतां गवेषन्ते मानप्रहाणं च गवेषन्ते। ये पुनरायुष्मान्नानन्द मानं नोपलभन्ते न समनुपश्यन्ति न मन्यन्ते नाभिनिविशन्ते, न ते क्वचिदुत्त्रसिष्यन्ति, नापि क्वचिदुत्त्रासमाप्स्यन्ते। न च आयुष्मान्नानन्द अधिमानिकानामर्थाय इयं धर्मदेशना प्रवृत्ता। अनवकाशो ह्यत्र आयुष्मन्नानन्द अधिमानिकानाम्, ये च अधिमानप्रहाणायोद्युक्ता व्यावच्छन्ते। अधिमान इत्यायुष्मन्नानन्द अधिकारसमारोपस्यैतदधिवचनम्। येऽधिमाने चरन्ति, अधिकारसमारोपे ते चरन्ति। न ते समचारिणः। समचारिणोऽप्यस्मिन् धर्मे संशयः॥
ये पुनरायुष्मन्नानन्द नापि सममुपलभन्ते न विषमम्, नापि समं मन्यन्ते न विषमम्, एवं न सममभिनिविशन्ते न विषमम्, न ते क्वचिदुत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते॥
अगतिरत्रायुष्मन्नानन्द सर्वबालपृथग्जनानाम्, अविषयः। नात्र आयुष्मन्नानन्द सर्वबालपृथग्जना गतिमपि विन्दन्ति। श्रावकयानीयानामप्यानन्द अगतिरत्र। ये च प्रत्येकबुद्धयानीया गम्भीरेषु धर्मेषु चरन्ति, तेषामप्यत्रागतिः। येऽप्यायुष्मन्नानन्द बोधिसत्त्वयानीया निमित्तचारिणः कल्याणमित्रापरिगृहीताः पापमित्रहस्तगताः, तेषामप्येषु धर्मेषु निरुपलेपेषु अगतिरविषयः। स्थापयित्वा आयुष्मन्नानन्द दृष्टसत्यं श्रावकयानीयं (बोधिसत्त्वयानीयं) च कल्याणमित्रोपस्तब्धं गम्भीरधर्माधिमुक्तम्, य एषां धर्माणामनुलोमं चरन्ति, य एषां धर्माणा**मवगाहन्तेऽवतरन्ति च। ये पुनरायुष्मन्नानन्द बोधिसत्त्वा निमित्तापगता अनिमित्तचारिणोऽनानात्वचारिणो गम्भीरेषु धर्मेष्वत्यन्तमेव निर्याताः, ये नैवं चित्तमुपलभन्ते न बोधिम्, न कस्यचिद्धर्मस्य नानात्वं कुर्वन्ति, न समनुपश्यन्ति, तेषामेषु एवंरूपेषु धर्मेषु न धन्धायितत्वं न काङ्क्षायितत्वम्। तत्कस्माद्धेतोः ? सर्वधर्माणां हि तेऽनुलोमं स्थिताः, न विलोमम्। ते यतो यतो धर्मान् पृच्छ्यन्ते, ततस्तत एव अनुलोमं विसर्जयिष्यन्ति, अनुलोमं च संधयन्ति॥
अथ खलु भगवानायुष्मन्तमानन्दमेतदवोचत्-एवमेतदानन्द यथायं शारद्वतीपुत्रो निर्दिशति। अभूमिरानन्द अस्यां धर्मदेशनायामधिमानिकानाम्, अविषयो हि अवतर्तुमस्यां बुद्धबोधौ। अनुलोमेयमानन्द बुद्धबोधिः। न हि आनन्द हीनाधिमुक्तिकानां सत्त्वानामुदारेषु धर्मेषु बुद्धधर्मेषु चित्तं क्रामति। हीनाधिमुक्तिका हि आनन्द आभि(धि ?)मानिकाः प्रतिलोममवस्थिता बुद्धबोधेः। तेऽधिमानस्य वशेन गच्छन्ति। शुद्धेयमानन्द पर्षत् पूर्वजिनकृताधिकारा अवरोपितकुशलमूला बहुबुद्धपर्युपासिता गम्भीरधर्माधिमुक्तिका गम्भीरधर्मचरिता। विश्वस्तो हि आनन्द तथागतोऽस्यां पर्षदि प्रसह्य धर्मं देशयति, न च कंचिदनुरक्ष्यं धर्मं देशयति। सारेयमानन्द पर्षदपगतपर्पटशर्कतकठल्या बहुबुद्धशतसहस्रपर्युपासिता सारे प्रतिष्ठिता। शर्करकठल्यमित्यानन्द बालपृथग्जनानामेतदधिवचनम्, येषामेषु धर्मेषु नास्त्यवकाशः। पर्पटमित्यानन्द आधिमानिकानां पुद्गलानामेतदधिवचनम्। निरभिमानेयमानन्द पर्षद् महद्भिः कुशलमूलैरभ्युद्गता॥
तद्यथापि नाम आनन्द यदा अनवतप्तो नागराजः प्रमुदितो भवति प्रीतिसौमनस्यजातः, तदा स्वभवने पञ्चभिः कामगुणैः परिचारयति, स्वभवनेऽभिप्रमुदितो महावृष्टिमुत्सृजति अष्टाङ्गोपेतस्य पानीयस्य। तदा येऽपि तस्य पुत्रा भवन्ति, तेऽपि प्रमुदिताः स्वेषु स्वेषु भवनेषु पञ्चभिः कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्तो महावृष्टिमुत्सृजन्ति, एवमेव आनन्द तथागतस्यार्हतः सम्यक्संबुद्धस्य महाधर्मवृष्टिमुत्सृजतो य इमे ज्येष्ठपुत्रा बोधिसत्त्वा महासत्त्वाः, तेऽपि इह लोकधातौ स्वकस्वकानि च बुद्धक्षेत्राणि गत्वा इमं धर्मसमुदयमारभ्य तेषां तथागतानां पुरस्तान्महाधर्मवृष्टिमुत्सृजन्ति, महाधर्मवर्षं चाभिवर्षन्ति। तद्यथापि नाम आनन्द सागरो नागराजो यदा प्रमुदितो भवति, तदा स्वभवने महावर्षधाराः प्रमुञ्चति। ये च तत्र भवने नैवासिका नागा भवन्ति, ते ता वर्षधाराः संप्रतीच्छन्ति, तुष्टाश्च भवन्ति, ताभिश्च ते वर्षधाराभिः सुखं च संजानन्ते। येऽपि तस्य पुत्रा भवन्ति, तेऽपि ता वर्षधाराः सहन्ते, ताभिश्च वर्षधाराभिः प्रामोद्यं प्रतिलभन्ते। तत्कस्माद्धेतोः ? असह्या हि आनन्द ता वर्षधारा अन्यैर्नागैः। नाप्यन्ये नागाः सुखं संजानीरंस्ताभिर्वर्षधाराभिः, न च तुष्टा भवेयुः। एवमेवानन्द ये तथागतस्य धर्मरत्नमध्यावसन्ति, ये च तथागतस्य ज्येष्ठपुत्रा बोधिसत्त्वा महासत्त्वाः कृतकुशलमूला उदाराशया गम्भीरधर्मनयनिर्जाताः, ते इमां महाधर्मनयवृष्टिं तथागतस्य प्रसहन्ते, श्रुत्वा उदग्राः प्रीताः प्रहर्षिताः सुखं संजानन्ते। इदमानन्द तथागतोऽर्थवशं संप्रतीत्य शुद्धायां पर्षदि महासिंहनादं नदति, महाधर्मवृष्टिमुत्सृजति॥
तद्यथा आनन्द राजा चक्रवर्ती बहुरत्नकोशसंनिचयः। बहवश्चास्य पुत्रा भवेयुर्जातिमन्तो मातृशुद्धाः। तान् सर्वानानयित्वा रत्नगञ्जं समं संविभजेदनुप्रयच्छेत्, न च कंचित्पुत्रं वञ्चयेत्। ते खलु एवं संविभक्तास्तस्य राज्ञश्चक्रवर्तिनोऽन्तिके भूयस्या मात्रया अधिकं प्रेम च प्रसादं च संजनयेयुः, समानार्थतां च राज्ञश्चक्रवर्तिनः आत्मसु संजानीरन्। एवमेव आनन्द तथागतोऽपि धर्मराजा धर्मस्वामी स्वयंभूरिमान् पुत्रान् संनिपात्य इमं धर्मरत्नगञ्जं संविभजति एभ्यः पुत्रेभ्यः, न कंचिद्वञ्चयति, ते ममान्तिके भूयस्या मात्रया प्रेम च प्रसादं च गौरवं चोत्पादयन्ति, समानार्थतायां च बुद्धवंशस्यानुच्छेदाय तिष्ठन्ति॥
न शक्यमानन्द अन्यैः सत्त्वैरिदं धर्मरत्नं हीनाधिमुक्तिकैरधिमानिकैर्दृष्टिचरितैर्निमित्तचरितैरुपलम्भदृष्टिचरितैरस्मिमानहतै रागद्वेषमोहाभिभूतैरुत्पथप्रयातैः। न हि आनन्द हीनाधिमुक्तिकानां सत्त्वानां चक्रवर्तिधनं रोचते। ये एव आनन्द चक्रवर्तिपुत्रा भवन्ति, तेषामेव चक्रवर्तिधनं रोचते। किमानन्द दरिद्रसत्त्वानां चक्ररत्नेन वा हस्तिरत्नेन वा अश्वरत्नेन वा मणिरत्नेन वा स्त्रीरत्नेन वा गृहपतिरत्नेन वा परिणायकरत्नेन वा उदारैर्वा वस्त्रैः, उदारैर्वा सुवर्णमुक्तावैडूर्यशङ्खशिलाप्रवालजातरूपरजतैस्तैः प्रयोजनम्, यानि लब्ध्वापि प्रीता न शक्नुवन्ति परिभोक्तुम्। समर्घं वा विक्रीणन्ति, अकौशल्याच्च उज्झन्ति। तत्कस्मात् ? न हि ते रत्नकोविदाः। नाप्यानन्द दरिद्रसत्त्वा रत्नान्यपि प्रजानन्ति - अस्य रत्नस्येदं नामेति। एवमेव आनन्द ये तथागतस्य पुत्रा दृष्टसत्या बोधिसत्त्वाश्च महासत्त्वाः, ते खल्वस्य धर्मरत्नकोशस्य प्रत्येषकाः। तेभ्यश्चेदं धर्मरत्नमनुपलम्भशून्यताप्रतिसंयुक्तं बुद्धधर्मप्रतिसंयुक्तंरोचते क्षमते च। ते एव अनेन कार्यं कुर्वन्ति। किमानन्द दरिद्रसत्त्वाः श्रुतविहीनाः श्रुतविप्रतिपन्ना बाला अचक्षुष्मन्तः अनेन धर्मरत्नकोशेन करिष्यन्ति ? लब्ध्वा चोज्झिष्यन्ति अन्येभ्योऽपि वा दातव्यं मंस्यन्ते। न हि आनन्द चण्डाला वा पुक्कसा वा वेणुकारा वा, ये वा केचिदन्ये दरिद्रजीविनः सत्त्वाः उदारं रत्नं लब्ध्वा स्वयं परिभुञ्जते। ते समर्धं वा विक्रीणन्ति उज्झन्ति वा। दरिद्रसत्त्वा इत्यानन्द सर्वतीर्थ्यकराणामेतदधिवचनम्, ये चान्यतीर्थिकाः श्रावकाः। दरिद्रसत्त्वा इत्यानन्द सर्वबालपृथग्जनानामेतदधिवचनं दृष्टिपङ्कनिमग्नानामौपलम्भिकानां बन्धाभिनिविष्टानां निमित्तचरितानामुत्पथप्रयातानाम्, ये खलु आनन्द इदं धर्मरत्नं लब्ध्वा न शक्नुवन्ति परिभोक्तुम्, उज्झन्ति वा, मुधा वा अन्येभ्यः प्रयच्छन्ति। ये पुनरानन्द धर्मरत्नं प्राप्नुवन्ति बुद्धपुत्रा बुद्धगोचरचारिणस्तथागतवंशानुच्छेदस्थिताः, ते खल्विमं (दं ?) धर्मरत्नं परिभुञ्जते। ते लब्ध्वा च न विप्रणाशयन्ति, रत्नसंज्ञिनश्चात्र भवन्ति। न हि आनन्द शृगालः सिंहनादं परिभुङ्क्ते। ये पुनरानन्द सिंहपोतका भवन्ति महासिंहेनोत्पादिताः, ते तं महासिंहनादं परिभुञ्जते। एवमेव आनन्द शृगालोपमाः सर्वबालपृथग्जना मिथ्यादृष्टयः। ते न समर्था तथागतमहासिंहनादं परिभोक्तुम्, महासिंहस्य सम्यक्संबुद्धस्य धर्मम्। ये पुनरानन्द सम्यक्संबुद्धस्य पोतकाः महाबुद्धसिंहेन स्वयं भुञ्जानेनोत्पादिताः, ते इमं सम्यक्संबुद्धमहासिंहनादं परिभुञ्जते, परिभोक्ष्यन्ते इति॥
अथ खल्वायुष्मान् शारद्वतीपुत्रो भगवन्तमेतदवोचत्-आश्चर्यं भगवन् यावत्परिशुद्धेयं तथागतस्य पर्षत् संनिपतिता। परमाश्चर्यं भगवन् परिशुद्धेयं तथागतस्य पर्षत्, स्वयंभूपर्षदनवमृद्यपर्षद् वज्रोपमपर्षद् अचलाकम्प्याक्षोभ्यपर्षदियं भगवन्। एवमुक्ते भगवानायुष्मन्तं शारद्वतीपुत्रमेतदवोचत्-गुणांस्त्वं शारद्वतीपुत्र पर्षदः परिकीर्तयसि। आह-न ह्यस्या भगवन् पर्षदो मया शक्या गुणाः परिकीर्तयितुम्। तत्कस्माद्धेतोः ? सुमेरुकल्पेयं भगवन् पर्षदनन्तगुणसमन्वागता। भगवानाह-एवमेव शारद्वतीपुत्र अनन्तगुणसमन्वागतेयं पर्षत्। न ह्यस्याः पर्षदो गुणानामन्तः शक्योऽधिगन्तुं सम्यक्संबुद्धैरपि, प्रागेव अन्यैः सत्वैः। नेयं शारद्वतीपुत्र पर्षत्तथागतेन संनिपतिता, नाप्यस्यां तथागतस्य किंचिदौत्सुक्यमासीद्वा। स्वेनैव कुशलमूलेन इयं मम नामधेयं श्रुत्वा पर्षत् संनिपतिता। नास्यां पर्षदि तथागतेन कश्चिद्व्यापारितो नाप्यधीष्टः। स्वेनैव कुशलमूलेनैते संचोदिताः यदस्यां पर्षद्यागताः। धर्मतैषा। अवश्यं हि एवंरूपायां धर्मदेशनायामेवंरूपाणां महासत्त्वानां संनिपातो भवति। येऽप्यन्ये शारद्वतीपुत्र बुद्धा भगवन्तः इमं सर्वसंशयोच्छेदनं बोधिसत्त्वपिटकं संप्रकाशयिष्यन्ति, तेषामप्येवंरूपः पर्षत्संनिपातो भविष्यति, एवंरूपमेव पर्षन्मण्डलमवश्यं भावनीयमस्यां धर्मदेशनायाम्। एषा धर्मतेति॥
आर्यप्रज्ञापारमितायामानन्दपरिवर्तो नाम द्वितीयः॥