२७ सारपरिवर्तः सप्तविंशतितमः
Technical Details
२७ सारपरिवर्तः सप्तविंशतितमः।
अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्-सारे बतायमायुष्मन् सुभूते बोधिसत्त्वो महासत्त्वश्चरति, यः प्रज्ञापारमितायां चरति। एवमुक्ते आयुष्मान् सुभूतिरायुष्मन्तं शारिपुत्रमेतदवोचत्-सारे बतायमायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वश्चरति, यः प्रज्ञापारमितायां चरति॥
अथ खलु संबहुलानां कामावचराणां देवपुत्रसहस्राणामेतदभवत्-नमस्कर्तव्यास्ते सत्त्वाः, यैरनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितानि अभिनिर्हृतानि। ये चेह गम्भीरायां प्रज्ञापारमितायां चरन्ति, तथा चरन्तो भूतकोटिं न साक्षात्कुर्वन्ति, यदुत श्रावकभूमौ वा प्रत्यकबुद्धभूमौ वा। अनेनापि पर्यायेण दुष्करकारका बोधिसत्त्वा महासत्त्वा वेदितव्याः, ये धर्माणां धर्मतायां चरन्ति, न च तां धर्मतां साक्षात्कुर्वन्ति। अथ खल्वायुष्मान् सुभूतिस्तेषां संबहुलानां कामावचराणां देवपुत्रसहस्राणां चेतसैव चेतःपरिवितर्कमाज्ञाय तानि संबहुलानि कामावचराणां देवपुत्राणां सहस्राण्यामन्त्रयन्ते स्म-नेदं देवपुत्रास्तेषां बोधिसत्त्वानां महासत्त्वानां दुष्करम्, यत्ते तां भूतकोटिं न साक्षात्कुर्वन्ति। इदं तु देवपुत्रास्तेषां बोधिसत्त्वानां महासत्त्वानां दुष्करं चैव परमदुष्करं चैव, यदप्रमेयानसंख्येयानप्रमाणान् सत्त्वान् परिनिर्वापयिष्याम इति संनाहं संनह्यन्ते। ते च सत्त्वा अत्यन्ततया न संविद्यन्ते, असंविद्यमाना नोपलभ्यन्ते, सत्त्वविविक्तत्वात्। एवं वैनयिका अयन्ततया न संविद्यन्ते। एवं च बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुं संप्रस्थिताः सत्त्वान् विनेष्याम इति, आकाशं स देवपुत्रा विनेतव्यं मन्येत यः सत्त्वान् विनेतव्यान् मन्येत। तत्कस्य हेतोः? आकाशविविक्ततया हि देवपुत्राः सत्त्वविविक्तता वेदितव्या। अनेन देवपुत्राः पर्यायेण दुष्करकारका बोधिसत्त्वा महासत्त्वाः, येऽसंविद्यमानानामनुपलभ्यमानानां सत्त्वानां कृतशः संनाहं संनह्यन्ते। आकाशेन न स देवपुत्राः सार्धं वेदितव्यं मन्येत, यः सत्त्वानां कृतशः संनाहं संनद्धव्यं मन्येत। अयं च संनाहो बोधिसत्त्वेन महासत्त्वेन सत्त्वानां कृतशः संनद्धः। सर्वात्यन्ततया सत्त्वानुपलब्धिरुक्ता तथागतेनार्हता सम्यक्संबुद्धेन। सा च सत्त्वविविक्ततयैव वेदितव्या, वैनयिकविवक्ततया च सत्त्वविविक्तता वेदितव्या। सचेदत्रैवं भाष्यमाणे बोधिसत्त्वो महासत्त्वो न संसीदति, वेदितव्यमेतद्देवपुत्राः-चरत्ययं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम्। तत्कस्य हेतोः? सत्त्वविविक्ततया हि रूपविविक्तता वेदितव्या। एवं सत्त्वविविक्ततया वेदनासंज्ञासंस्कारविविक्तता वेदितव्या। सत्त्वविविक्ततया विज्ञानविविक्तता वेदितव्या। एवं यावत्सत्त्वविविक्ततया सर्वधर्मविविक्तता वेदितव्या। एवं देवपुत्राः सर्वधर्मविविक्तता द्रष्टव्या। एवं देवपुत्राः सर्वधर्मविविक्ततायां भाष्यमाणायां बोधिसत्त्वो महासत्त्वो न संसीदति। यतो न संसीदति, ततश्चरति प्रज्ञापारमितायाम्॥
अथ खलु भगवान् जानन्नेव आयुष्मन्तं सुभूतिमेतदवोचत्-किं कारणं सुभूते बोधिसत्त्वो महासत्त्व एवं सर्वधर्मविविक्ततायां भाष्यमाणायां न संसीदति? सुभूतिराह विविक्तत्वाद्भगवन्न संसीदति। अनेन भगवन् कारनेन बोधिसत्त्वो महासत्त्वः सर्वधर्मविविक्ततायां भाष्यमाणायां न संसीदति। नापि भगवन् कश्चिद्धर्मः संसीदति। तत्कस्य हेतोः? न हि भगवन् कश्चिद्धर्म उपलभ्यते, यः संसीदेत्। सोऽपि भगवन् धर्मो नोपलभ्येत, येन धर्मेण यो धर्मः संसीदेत्। भगवानाह-एवमेतत्सुभूते, एवमेतत्। अपि तु खलु पुनः सुभूते सचेदेवं भाष्यमाणे देश्यमाने निर्दिश्यमाने एवमुपदिश्यमाने बोधिसत्त्वो महासत्त्वो न संसीदति न विषीदति न विषादमापद्यते, नावलीयते न संलीयते, न विपृष्ठीकरोति मानसम्, न भग्नपृष्ठीकरोति, नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते, चरति प्रज्ञापारमितायाम्। सुभुतिराह-एवमेतद्भगवन्, एवमेतत्सुगत। सचेद्भगवन् बोधिसत्त्वो महासत्त्व एवं चरति, चरति प्रज्ञापारमितायाम्। एवं चरन्तं बोधिसत्त्वं महासत्त्वं सेन्द्रका देवाः सब्रह्मकाः सप्रजापतिकाः सेशानाः सर्षिनरनारीगणा आरात्प्राञ्जलीभूता नमस्यन्ति। भगवानाह-न केवलं सुभूते एवं चरन्तं बोधिसत्त्वं महासत्त्वं सेन्द्रका देवाः सब्रह्मकाः सप्रजापतिकाः सेशानाः सर्षिनरनारीगणा आरात्प्राञ्जलीभूता नमस्यन्ति, येऽपि ते सुभूते ब्रह्मकायिका देवा ब्रह्मपुरोहिता ब्रह्मपार्षद्या महाब्रह्माणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वा अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठाश्च देवाः, तेऽपि सुभूते तं बोधिसत्त्वं महासत्त्वं प्रज्ञापारमितायां एवं चरन्तं नमस्यन्ति। येऽपि ते सुभूते अप्रमेयेष्वसंख्येयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा एतर्हि तिष्ठन्ति ध्रियन्ते यापयन्ति, तेऽपि बुद्धा भगवन्तः प्रज्ञापारमितायामेवं चरन्तं बोधिसत्त्वं महासत्त्वं बुद्धचक्षुषा पश्यन्ति। ते च सुभूते बोधिसत्त्वं महासत्त्वां प्रज्ञापारमितायां चरन्तमनुगृह्णन्ति, समन्वाहरन्ति। ये च खलु पुनः सुभूते बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुगृह्यन्ते समन्वाह्रियन्ते, ते ते सुभूते बोधिसत्त्वा महासत्त्वा अविनिवर्तनीया अनुत्तरायाः सम्यक्संबोधेर्धारयितव्याः। न च तेषामन्तराया उत्पत्स्यन्ते मारतो वा अन्यतो वा। तत्कस्य हेतोः? ये सुभूते त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, ते सर्वे माराः पापीयांसो भवेयुः। एकैकश्च मारः पापीयांस्तावतीरेव मारसेना अभिनिर्मिमीते। तेऽपि सुभूते माराः पापीयांसस्तस्य बुद्धसमन्वाहृतस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो न प्रतिबला अन्तरायं कर्तुमनुत्तरायाः सम्यक्संबोधेः। तिष्ठन्तु खलु पुनः सुभूते त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वा माराः पापीयांसः, यावन्त सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तेऽपि सर्वे माराः पापीयांसो भवेयुः, एकैकश्च मारः पापीयांस्तावतीरेव मारसेना अभिनिर्मिमीते, तेऽपि सुभूते माराः पापीयांसस्तस्य बुद्धसमन्वाहृतस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो न प्रतिबला अन्तरायं कर्तुमनुत्तरायाः सम्यक्संबोधेः। द्वाभ्यां सुभूते धर्माभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वस्तस्मिन् समये दुर्धर्षो भवति मारैः पापीयोभिर्मारकायिकाभिर्वा देवताभिः। कतमाभ्यां द्वाभ्याम्? यदुत सर्वसत्त्वाश्चास्य अपरित्यक्ता भवन्ति, सर्वधर्माश्च अनेन शून्यतातो व्यवलोकिता भवन्ति। आभ्यां सुभूते द्वाभ्यां धर्माभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वो दुर्घर्षो भवति मारैः पापीयोभिर्मारकायिकाभिर्वा देवताभिः। अपराभ्यां सुभूते द्वाभ्यां धर्माभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वो दुर्घर्षो भवति मारैः पापीयोभिर्मारकायिकाभिर्वा देवताभिः। कतमाभ्यां द्वाभ्याम्? यदुत यथावादी तथाकारी च भवति, बुद्धैश्च भगवद्भिः समन्वाह्रियते। आभ्यां सुभूते द्वाभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वो दुर्घर्षो भवति मारैः पापीयोभिर्मारकायिकाभिर्वा देवताभिः।
एवं चरतः सुभूते बोधिसत्त्वस्य महासत्त्वस्य देवा अप्युपसंक्रमितव्यं मंस्यन्ते। उपसंक्रम्य च परिप्रष्टव्यं मंस्यन्ते, परिप्रश्नीकर्तव्यं मंस्यन्ते, पर्युपासितव्यं मंस्यन्ते, उत्साहं चास्य वर्धयिष्यन्ति-क्षिप्रं त्वं कुलपुत्र अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे। तस्मात्तर्हि कुलपुत्र अनेनैव विहारेण विहर यदुत प्रज्ञापारमिताविहारेण। तत्कस्य हेतोः? एतेनैव हि त्वं कुलपुत्र विहारेण विहरन् अनाथानां सत्त्वानां नाथो भविष्यसि, अत्राणानां सत्त्वानां त्राता भविष्यसि, अशरणानां सत्त्वानां शरणं भविष्यसि, अलयनानां सत्त्वानां लयनं भविष्यसि, अपरायणानां सत्त्वानां परायणं भविष्यसि, अद्वीपानां सत्त्वानां द्वीपो भविष्यसि, अन्धानां सत्त्वानामालोको भविष्यसि, अपरिणायकानां सत्त्वानां परिणायको भविष्यसि, अगतिकानां सत्त्वानां गतिर्भविष्यसि, मार्गप्रनष्टानां सत्त्वानामप्रतिशरणानां मार्गप्रणेता प्रतिशरणं भविष्यसि। एवं ते देवपुत्रास्तस्य बोधिसत्त्वस्य महासत्त्वस्योत्साहं वर्धयिष्यन्ति। तत्कस्य हेतोः? एतेन हि सुभूते प्रज्ञापारमिताविहारेण विहरतो बोधिसत्त्वस्य महासत्त्वस्य ये तेऽप्रमेयेष्वसंख्येयेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, तेऽपि भिक्षुसंघपरिवृता बोधिसत्त्वगणपुरस्कृताः प्रज्ञापारमितायां चरतो विहरतस्तस्य बोधिसत्त्वस्य महासत्त्वस्य एभिरेवंरूपैर्गुणैः समन्वागतस्य यदुत प्रज्ञापारमिताविहरणगुणैः, बुद्धा भगवन्तो नाम च गोत्रं च बलं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति तस्य बोधिसत्त्वस्य महासत्त्वस्य। तद्यथापि नाम सुभूते अहमेतर्हि रत्नकेतोर्बोधिसत्त्वस्य महासत्त्वस्य, शिखिनो बोधिसत्त्वस्य महासत्त्वस्य नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपो धर्मं देशयामि, उदानं चोदानयामि अपरेषां च बोधिसत्त्वानां महासत्त्वानाम्, य एतर्हि अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके ब्रह्मचर्यं चरन्ति। एवमेव सुभूते तेऽपि बुद्धा भगवन्तो ये एतर्हि इह मम बुद्धक्षेत्रे बोधिसत्त्वा महासत्त्वा ब्रह्मचर्यं चरन्ति, अनेन च प्रज्ञापारमिताविहारेण विहरन्ति, तेषां च बोधिसत्त्वानां महासत्त्वानां नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति॥
सुभूतिराह-किं सर्वेषामेव भगवन् बोधिसत्त्वानां महासत्त्वानां नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपास्ते बुद्धा भगवन्तो धर्मं देशयन्ति, उदानं चोदानयन्ति? भगवानाह-नो हीदं सुभूते। न सुभूते सर्वेषां बोधिसत्त्वानां महासत्त्वानां नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपास्ते बुद्धा भगवन्तो धर्मं देशयन्ति, उदानं चोदानयन्ति, किं तर्हि सुभूते ये तेऽविनिवर्तनीया बोधिसत्त्वा महासत्त्वाः सर्वसङ्गविगताः, तेषां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति॥
सुभूतिराह-सन्ति भगवन् अविनिवर्तनीयान् बोधिसत्त्वान् महासत्त्वान् स्थापयित्वा ततोऽन्ये बोधिसत्त्वा महासत्त्वाः, येषां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति? भगवानाह-सन्ति सुभूते प्रतिपक्षबलिनो बोधिसत्त्वयानिकाः पुद्गलाः अविनिवर्तनीयान् बोधिसत्त्वान् महासत्त्वान् स्थापयित्वा, येषां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति। ते पुनः कतमे? ये एतर्हि अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बोधिसत्त्वचर्यामनुशिक्षमाणरूपा बोधिसत्त्वचारिकां चरन्ति, अनुशिक्षमाणरूपा विहरन्ति, इमे ते सुभूते बोधिसत्त्वयानिकाः पुद्गला अविनिवर्तनीयान् बोधिसत्त्वान् महासत्त्वान् स्थापयित्वा येषां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति। येऽपि ते सुभूते रत्नकेतोर्बोधिसत्त्वस्य महासत्त्वस्य बोधिसत्त्वचर्यामनुशिक्षमाणरूपा बोधिसत्त्वचर्यां चरन्ति, अनुशिक्षमाणा विहरन्ति, इमेऽपि ते सुभूते बोधिसत्त्वा महासत्त्वा अविनिवर्तनीयान् बोधिसत्त्वान् महासत्त्वान् स्थापयित्वा येषां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति॥
पुनरपरं सुभूते ये बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः सर्वधर्मा अनुत्पत्तिका इत्यधिमुञ्चन्ति, न च तावदनुत्पत्तिकधर्मक्षान्तिप्रतिलब्धा भवन्ति। सर्वधर्माः शान्ता इत्यधिमुञ्चन्ति, न च सर्वधर्मेष्वविनिवर्तनीयवशिताप्राप्तिमवक्रान्ता भवन्ति। अनेनापि सुभूते विहारेण विहरतां तेषां बोधिसत्त्वानां महासत्त्वानां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति। येषां खलु पुनः सुभूते बोधिसत्त्वानां महासत्त्वानां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति, प्रहीणा तेषां श्रावकभूमिः प्रत्येकबुद्धभूमिश्च। बुद्धभूमिरेव तेषां प्रतिकाङ्क्षितव्या। तेऽपि व्याकरिष्यन्तेऽनुत्तरायां सम्यक्संबोधौ। तत्कस्य हेतोः? येषां हि सुभूते बोधिसत्त्वानां महासत्त्वानां एवं प्रज्ञापारमितायां चरतां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं च वर्णं न रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति, तेऽप्यविनिवर्तनीयतायां स्थास्यन्ति॥
पुनरपरं सुभूते ये बोधिसत्त्वा महासत्त्वा इमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा अधिमोक्ष्यन्ति, न धन्धायिष्यन्ति, न काङ्क्षिष्यन्ति, न विचिकित्सिष्यन्ति, एवमेतद्यथा तथागतेनार्हता सम्यक्संबुद्धेन भाषितमित्यधिमुच्य विस्तरेण श्रोष्यन्ति, एवं च चित्तमुत्पादयिष्यन्ति-इमां वयं प्रज्ञापारमितामक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकाद्विस्तरेण शृणुयामेति, तेषां च बोधिसत्त्वयानिकानां पुद्गलानां ये चास्य बुद्धक्षेत्रे ब्रह्मचर्यं चरन्ति, तेषां चान्तिकादिमामेव प्रज्ञापारमितां श्रुत्वा अधिमोक्ष्यन्ति, तेऽप्येनां प्रज्ञापारमितामधिमुच्यमाना यथा तथागतेन भाषिता तथा चाधिमोक्ष्यन्ते, तथा चाधिमुच्यमाना अविनिवर्तनीयतायां स्थास्यन्ति। एवं सुभूते बहुकरं प्रज्ञापारमितायाः श्रवणमपि वदामि, कः पुनर्वादो य एनामधिमोक्ष्यन्ति। अधिमुच्य तथत्वाय स्थास्यन्ति। तथत्वाय प्रतिपत्स्यन्ते। तथत्वाय स्थित्वा तथत्वाय प्रतिपद्य तिष्ठन्ति तथतायाम्। तथतायां तिष्ठन्तः सर्वज्ञतायां च धर्मं देशयन्ति॥
सुभूतिराह-यदा भगवंस्तथताविनिर्मुक्तो नान्यः कश्चिद्धर्म उपलभ्यते, तदा कोऽयं भगवन् धर्मः स्थास्यति तथतायाम्, को वा अयमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, को वा अयमिमं धर्मं देशयिष्यति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-यत्सुभूते एवं वदसि-यदा तथताविनिर्मुक्तो नान्यः कश्चिद्धर्म उपलभ्यते, तदा कोऽयं भगवन् धर्मस्तथतायां स्थास्यति, को वाचमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, को वायमिमं धर्मं देशयिष्यतीति। न सुभूते तथताविनिर्मुक्तोऽन्यः कश्चिद्धर्म उपलभ्यते, यो धर्मस्तथतायां स्थास्यति। तथतैव तावत्सुभूते नोपलभ्यते, कः पुनर्वादो यस्तथतायां स्थास्यति। न सुभूते तथता अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते। सोऽपि सुभूते धर्मो न कश्चिदुपलभ्यते, योऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धो वा, अभिसंभोत्स्यते वा, अभिसंबुध्यते वा। न सुभूते तथता धर्मं देशयति। सोऽपि सुभूते नोपलभ्यते, यो धर्मो देश्येत॥
अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्-गम्भीरा भगवन् प्रज्ञापारमिता। दुष्करकारका भगवन् बोधिसत्त्वा महासत्त्वाः, येऽनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामाः। तत्कस्य हेतोः? न च नाम भगवन् कश्चिद्धर्मस्तथतायां तिष्ठति, नापि कश्चिद्धर्मोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, नापि कश्चिद्धर्मं देशयति। अत्र च ते नावलीयन्ते, नापि काङ्क्षन्ति, नापि धन्धायन्ते॥
अथ खल्वायुष्मान् सुभूतिः शक्रं देवानामिन्द्रमेतदवोचत्-यत्कौशिक एवं वदसि-दुष्करकारका बोधिसत्त्वा महासत्त्वाः, येषामेवं गम्भीरेषु धर्मेषु भाष्यमाणेषु न भवति। काङ्क्षायितत्वं धन्धायितत्वं वेति। सर्वधर्मेषु कौशिक शून्येषु कस्यात्र काङ्क्षायितता वा भवति धन्धायितता वा भवति? शक्र आह-यद्यदेव आर्युसुभूतिर्निर्दिशति, तत्तदेव शून्यतामारभ्य निर्दिशति, न च क्वचित्सज्जति। तद्यथापि नाम अन्तरीक्षे इषुः क्षिप्तो नैव क्वचित्सज्जति, एवमेव आर्यसुभूतेर्धर्मदेशना न क्वचित्सज्जति॥
अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्-कच्चिदहं भगवन् सुभूतिं स्थविरमारभ्य एवं भाषमाणं एवं निर्दिशंस्तथागतस्योक्तवादी भवामि धर्मवादी च, धर्मस्य चानुधर्मं व्याकुर्वन् व्याकरोमि? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्-यत्खलु त्वं कौशिक एवं भाषसे-एवमेतत्कौशिक, एवमेतत्। एवं भाषमाणं एवं निर्दिशंस्तथागतस्योक्तवादी भवसि धर्मवादी च, धर्मस्य चानुधर्मं व्याकुर्वन् व्याकरोषि। तत्कस्य हेतोः? यद्यदेव हि कौशिक सुभूतेः स्थविरस्य प्रतिभाति, तत्तदेव कौशिक शून्यतामारभ्य प्रतिभाति। तत्कस्य हेतोः? सुभूतिर्हि कौशिक स्थविरः प्रज्ञापारमितामपि तावन्न समनुपश्यति, नोपलभते, कुतः पुनर्यः प्रज्ञापारमितायां चरति। बोधिमेव तावन्नोपलभते, किं पुनर्यो बोधिमभिसंभोत्स्यते। सर्वज्ञतामेव तावन्नोपलभते, कुतः पुनर्यः सर्वज्ञतामनुप्राप्स्यति। तथतामेव तावन्नोपलभते, कुतः पुनर्यस्तथागतो भविष्यति। अनुत्पादमेव तावन्नोपलभते, किं पुनर्योऽनुत्पादं साक्षात्करिष्यति। बोधिसत्त्वमेव तावन्नोपलभते, कुतः पुनर्यो बोधिमभिसंभोत्स्यते। बलान्येव तावन्नोपलभते, कुतः पुनर्यो बलसमङ्गी भविष्यति। वैशारद्यान्येव तावन्नोपलभते, कुतः पुनर्यो विशारदो भविष्यति। धर्ममेव तावन्नोपलभते, कुतः पुनर्यो धर्मं देशयिष्यति। सर्वधर्मविविक्तविहारेण सर्वधर्मानुपलम्भविहारेण हि कौशिक सुभूतिः स्थविरो विहरति। यः खलु पुनरयं कौशिक सुभूतेः स्थविरस्य सर्वधर्मविविक्तविहारः सर्वधर्मानुपलम्भविहारश्च, एष कौशिक विहारो बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो विहरतः शततमीमपि कलं नोपैति। सहस्रतमीमपि शतसहस्रतमीमपि कोटीतमीमपि कोटीशततमीमपि कोटीसहस्रतमीमपि कोटीशतसहस्रतमीमपि कोटीनियुतशतसहस्रतमीमपि कलां नोपैति। संख्यामपि कलामपि गणनामपि उपमामपि औपम्यमपि उपनिसामपि उपनिषदमपि न क्षमते। तथागतविहारं हि कौशिक स्थापयित्वा ततोऽन्यान् सर्वान् विहारानभिभवत्ययं विहारः, योऽयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो विहरतो विहारः। अयं कौशिक तेषां सर्वविहाराणामग्र आख्यायते, श्रेष्ठ आख्यायते, ज्येष्ठ आख्यायते, वर आख्यायते, प्रवर आख्यायते, प्रणीत आख्यायते, उत्तम आख्यायते, अनुत्तम आख्यायते, निरुत्तर आख्यायते, असम आख्यायते, असमसम आख्यायते। सर्वश्रावकप्रत्येकबुद्धविहारानयं विहारोऽभिभवति, योऽयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो विहरतो विहारः। तस्मात्तर्हि कौशिक सर्वसत्त्वानामग्रतां गन्तुकामेन श्रेष्ठतां गन्तुकामेन ज्येष्ठतां गन्तुकामेन वरतां गन्तुकामेन प्रवरतां गन्तुकामेन प्रणीततां गन्तुकामेन उत्तमतां गन्तुकामेन अनुत्तमतां गन्तुकामेन निरुत्तरतां गन्तुकामेन असमतां गन्तुकामेन असमसमतां गन्तुकामेन कौशिक कुलपुत्रेण वा कुलदुहित्रा वा अनेन विहारेण विहर्तव्यम्, योऽयं बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितायां चरतां विहरतां विहार इति॥
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां सारपरिवर्तो नाम सप्तविंशतितमः॥