२६ मायोपमपरिवर्तः षड्विंशतितमः
Technical Details
२६ मायोपमपरिवर्तः षड्विंशतितमः।
अथ खलु शक्रस्य देवानामिन्द्रस्यैतदभूत्-चरन्नेव तावदयं बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानभिभवति, कः पुनर्वादो यदा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो भविष्यति। लाभास्तेषां सत्त्वानां सुलब्धाः, सुजीवितं च ते सत्त्वा जीवन्ति, येषां सर्वज्ञतायां चित्तं क्रामति। कः पुनर्वादो यैरनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। स्पृहणीयास्ते सत्त्वा ये सत्त्वसारा अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते॥
अथ खलु शक्रो देवानामिन्द्रो मान्दारवाणि पुष्पाण्यभिनिर्माय पुष्पाणामञ्जलिं कृत्वा तथागतमर्हन्तं सम्यक्संबुद्धमभ्यवाकिरत्, एवं च वाचमभाषत-यैर्बोधिसत्त्वयानिकैः पुद्गलैरनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्-अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यामहे, अभिसंबुध्य सर्वसत्त्वान् महता संसारार्णवेनोह्यमानान् समे पारिमे तीरे प्रतिष्ठापयिष्याम इति, समृध्यन्तां तेषामभीप्सिताः परिचिन्तिताः, परिगृहीताश्चित्तोत्पादाः एतेषामेव बुद्धधर्माणां परिपूरणाय भवन्तु, एतेषामेव सर्वज्ञताप्रतिसंयुक्तानां धर्माणां परिपूरणाय भवन्तु, एतेषामेव स्वयंभूधर्माणां परिपूरणाय भवन्तु, एतेषामेव असंहार्यधर्माणां परिपूरणाय भवन्तु। न मे भगवन् एकचित्तोत्पादोऽप्युत्पद्यते, यत्ते बोधिसत्त्वा महासत्त्वा महाकरुणया समन्वागता विवर्तेरन् अनुत्तरायाः सम्यक्संबोधेरिति। न मे भगवन् एकचित्तोत्पादोऽप्युत्पद्यते यत्ते बोधिसत्त्वयानिकाः पुद्गला अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुं संप्रस्थिताः, ततो विवर्तेरन्। इति यद्भूयस्या मात्रया प्रणिधिं जनयिष्यन्त्यनुत्तरायां सम्यक्संबोधौ इमानि संसारावचराणि दुःखानि सत्त्वानां संपश्यन्तः।
तत्कस्य हेतोः? तया महाकरुणया अर्थकामा हितकामा हि ते सदेवमानुषासुरस्य लोकस्यानुकम्पकाः, ये इमैरेवंरूपैश्चित्तोत्पादैः समन्वागताः किमिति वयं तीर्णाः सत्त्वांस्तारयेम, मुक्ता मोचयेम, आश्वस्ता आश्वासयेम, परिनिर्वृताः परिनिर्वापयेम, इत्येतैश्चित्तोत्पादैर्विहरन्ति। यस्तेषां भगवन् प्रथमयानसंप्रस्थितानां बोधिसत्त्वानां महासत्त्वानां चित्तोत्पादाननुमोदते, अविनिवर्तनीयानामप्यविनिवर्तनीयधर्मतामनुमोदते, एकजातिप्रतिबद्धानामपि बोधिसत्त्वानां महासत्त्वानामेकजातिप्रतिबद्धधर्मतामनुमोदते, कियत्स भगवन् कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्-स्यात्खलु पुनः कौशिक शक्येत सुमेरोः पर्वतराजस्य पलाग्रेण तुल्यमानस्य प्रमाणं ग्रहीतुम्, न त्वेव कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर्वा बोधिसत्त्वस्य महासत्त्वस्यानुमोदनासहगतस्य चित्तोत्पादस्य पुण्यप्रमाणं ग्रहीतुम्। स्यात्खलु पुनः कौशिक शक्येत चातुर्महाद्वीपके लोकधातौ पलाग्रेण तुल्यमाने प्रमाणं ग्रहीतुम्, न त्वेव कौशिक तस्यानुमोदनासहगस्य चित्तोत्पादस्य पुण्यप्रमाणं ग्रहीतुम्। स्यात्खलु पुनः कौशिक शक्येत साहस्रे चूलिके लोकधातौ तुल्यमाने पलाग्रेण प्रमाणं ग्रहीतुम्, न त्वेव कौशिक तस्यानुमोदनासहगतस्य चित्तोत्पादस्य पुण्यप्रमाणं ग्रहीतुम्। स्यात्खलु पुनः कौशिक शक्येत द्विसाहस्रे मध्यमे लोकधातौ पलाग्रेण तुल्यमाने प्रमाणं ग्रहीतुम्, न त्वेव कौशिक तस्यानुमोदनासहगतस्य चित्तोत्पादस्य पुण्यप्रमाणं ग्रहीतुम्। स्यात्खलु पुनः कौशिक शक्येत त्रिसाहस्रमहासाहस्रे लोकधातौ तुल्यमाने पलाग्रेण प्रमाणं ग्रहीतुम्, न त्वेव कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर्वा बोधिसत्त्वस्य महासत्त्वस्यानुमोदनासहगतस्य चित्तोत्पादस्य पुण्यप्रमाणं ग्रहीतुम्॥
एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्-माराधिष्ठितास्ते भगवन् सत्त्वा वेदितव्याः, ये बोधिसत्त्वानां महासत्त्वानां प्रथमचित्तोत्पादमुपादाय यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्धानामेवमप्रमेयमनुमोदनासहगतस्य चित्तोत्पादस्य पुण्यमिति न शृण्वन्ति, न जानन्ति, न पश्यन्ति, तामनुमोदनां न समन्वाहरन्ति। मारपक्षिका भगवंस्ते सत्त्वा भविष्यन्ति, ये बोधिसत्त्वानां महासत्त्वानामिमांश्चित्तोत्पादान्नानुमोदिष्यन्ते। मारभवनेभ्यश्च ते भगवन् सत्त्वाश्च्युता भविष्यन्ति, य इमांश्चित्तोत्पादांस्तेषां बोधिसत्त्वानां महासत्त्वानां नानुमोदिष्यन्ते। तत्कस्य हेतोः? मारभवनविध्वंसनकरा हि तैर्भगवन् इमे चित्तोत्पादा अभिनिर्हृताः, यैरमी चित्तोत्पादा अनुत्तरायां सम्यक्संबोधौ परिणामिताः, अनुमोदिता वा अमी चित्तोपादाः। अनुमोदितव्या भगवंस्तेषां बोधिसत्त्वानां महासत्त्वानाममी चित्तोत्पादाः, यैर्बोधिसत्त्वैर्महासत्त्वैरनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। येषां भगवंस्तथागतोऽपरित्यक्तः, धर्मोऽपरित्यक्तः, संघोऽपरित्यक्तः, तैः कुलपुत्रैः कुलदुहितृभिश्चेमे चित्तोत्पादा अनुमोदितव्याः॥
एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्-एवमेतत्कौशिक, एवमेतत्। येषां कौशिक तथागतोऽपरित्यक्तः, धर्मोऽपरित्यक्तः, संघोऽपरित्यक्तः, तैः कुलपुत्रैः कुलदुहितृभिश्चेमे चित्तोत्पादा अनुमोदितव्याः। यैः कौशिक कुलपुत्रैः कुलदुहितृभिश्चेमे चित्तोपादा अनुमोदिता बोधिसत्त्वयानिकैर्वा प्रत्येकबुद्धयानिकैर्वा श्रावकयानिकैर्वा, ते क्षिप्रं तथागतानर्हतः सम्यक्संबुद्धानारागयिष्यन्ति, न विरागयिष्यन्ति। एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्-एवमेतद्भगवन्, एवमेतत्सुगत। यैः कुलपुत्रैः कुलदुहितृभिश्चेमे चित्तोत्पादा अनुमोदिता बोधिसत्त्वयानिकैर्वा प्रत्येकबुद्धयानिकैर्वा श्रावकयानिकैर्वा, ते क्षिप्रं तथागतानर्हतः सम्यक्संबुद्धानारागयिष्यन्ति, न विरागयिष्यन्ति। एवं तैरनुमोदनासहगतैश्चित्तोत्पादकुशलमूलैर्यत्र यत्रोपपत्स्यन्ते, तत्र तत्र सत्कृताश्च भविष्यन्ति, गुरुकृताश्च भविष्यन्ति, मानिताश्च भविष्यन्ति, पूजिताश्च भविष्यन्ति, अर्चिताश्च भविष्यन्ति, अपचायिताश्च भविष्यन्ति। न च ते अमनआपानि रूपाणि द्रक्ष्यन्ति। न च ते अमनआपान् गन्धान् घ्रास्यन्ति। न च ते अमनआपान् रसान् परिभोक्ष्यन्ते। न च ते अमनआपानि स्प्रष्टव्यानि स्प्रक्ष्यन्ति। न च तेषामपायेषूपपत्तिः प्रतिकाङ्क्षितव्या। स्वर्गोपपत्तिस्तेषां प्रतिकाङ्क्षितव्या। तत्कस्य हेतोः? तथा हि तैः कुलपुत्रैः कुलदुहितृभिर्वा सर्वसत्त्वसुखावहान्यप्रमेयाणामसंख्येयानां सत्त्वानां कुशलमूलान्यनुमोदितानि यैरपि भगवंश्छन्दमुत्पाद्य बोधये बोधिसत्त्वयानिकानां पुद्गलानां ते चित्तोत्पादा अनुमोदिताः, तेषां ते चित्तोत्पादा विवर्धमाना अनुत्तरायाः सम्यक्संबोधेराहारका भविष्यन्ति। तेऽप्यनुत्तरां सम्यक्संबोधिमभिसंबुध्य अप्रमेयानसंख्येयान् सत्त्वान् परिनिर्वापयिष्यन्ति। भगवानाह-एवमेतत्कौशिकः, एवमेतत्, यथा त्वया वाग्भाषिता तथागतस्यैवानुभावेन। येन कौशिक कुलपुत्रेण वा कुलदुहित्रा वा बोधिसत्त्वयानिकानां पुद्गलानां ते चित्तोत्पादा अनुमोदिताः, अनेन कौशिक पर्यायेण तेन कुलपुत्रेण वा कुलदुहित्रा वा बोधिसत्त्वयानिकानां पुद्गलानां तांश्चित्तोत्पादाननुमोद्य अप्रमेयाणां सत्त्वानामसंख्येयानां सत्त्वानां कुशलमूलान्यनुमोदितानि भवन्ति, अवरोपितानि अभिनिर्हृतानि च भवन्ति॥
सुभूतिराह-कथं च भगवन् मायोपमं चित्तमनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-तत्किं मन्यसे सुभूते समनुपश्यसि त्वं मायोपमं चित्तम् ? सुभूतिराह-नो हीदं भगवन्। भगवानाह-तत्किं मन्यसे सुभूते समनुपश्यसि त्वं मायाम्? आह-नो हीदं भगवन्। नाहं भगवन् मायोपमं चित्तं नापि मायां समनुपश्यामि। भगवानाह-तत्किं मन्यसे सुभूते यन्न मायां नापि मायोपमं चित्तं समनुपश्यसि, तत्किं त्वमन्यत्र मायाया मायोपमाद्वा चित्तात् तं धर्मं समनुपश्यसि यो धर्मोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? आह-नो हीदं भगवन्। नाहं भगवन् अन्यत्र मायाया मायोपमाद्वा चित्तात् तं धर्मं समनुपश्यामि, यो धर्मोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते। सोऽहं भगवन् अन्यत्र मायाया मायोपमाद्वा चित्तात् तं धर्मसमनुश्यन् कतमं धर्ममुपदेक्ष्यामि अस्तीति वा नास्तीति वा? यश्च अत्यन्तविविक्तो धर्मः, न सोऽस्तीति वा नास्तीति वा उपैति। योऽपि धर्मोऽत्यन्ततया विविक्तः, नासावनुत्तरां सम्यक्संबोधिमभिसंबुध्यते। तत्कस्य हेतोः? न हि भगवन् असंविद्यमानो धर्मोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते। तस्मात्तर्हि भगवन् अत्यन्तविविक्ता प्रज्ञापारमिता। यश्च धर्मोऽत्यन्तविविक्तः, नासौ धर्मो भावयितव्यः।
नाप्यसौ कस्यचिद्धर्मस्यावाहको वा निर्वाहको वा। कथं भगवन् बोधिसत्त्वो महासत्त्वोऽत्यन्तविविक्तां प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? अनुत्तरापि नाम भगवन् सम्यक्संबोधिरत्यन्तविविक्ता। यदा भगवन् प्रज्ञापारमिताप्यत्यन्तविविक्ता, अनुत्तरापि सम्यक्संबोधिरत्यन्तविविक्ता, तदा कथं भगवन् विविक्तेन विविक्तमभिसंबुद्धं भवति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-साधु साधु सुभूते। एवमेतत्सुभूते, एवमेतत्। अत्यन्तविविक्ता सुभूते प्रज्ञापारमिता, अत्यन्तविविक्तैव अनुत्तरा सम्यक्संबोधिः। यत एव सुभूते अत्यन्तविविक्ता प्रज्ञापारमिता, अत एव अत्यन्तविविक्ता अनुत्तरा सम्यक्संबोधिरभिसंबुध्यते। सचेत्सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितामत्यन्तविविक्तामिति संजानीते, न सा प्रज्ञापारमिता स्यात्। एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, नापि सुभूते प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते। न च विवेकेन विवेकमभिसंबुध्यते, अभिसंबुध्यते च बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिम्। न च प्रज्ञापारमितामनागम्याभिसंबुध्यते॥
सुभूतिराह-यथाहं भगवन् भगवतो भाषितस्यार्थमाजानामि, तथा गम्भीरे भगवन् अर्थे चरति बोधिसत्त्वो महासत्त्वः। भगवानाह-एवमेतत्सुभूते, एवमेतत्। गम्भीरेऽर्थें सुभूते चरति बोधिसत्त्वो महासत्त्वः। दुष्करकारकः सुभूते बोधिसत्त्वो महासत्त्वः, यो गम्भीरेऽर्थे चरति, तं चार्थं न साक्षात्करोति यदुत श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा॥
सुभूतिराह-यथाहं भगवन् भगवतो भाषितस्यार्थमाजानामि, तथा न कश्चिद्दुष्करकारको बोधिसत्त्वो महासत्त्वः। तत्कस्य हेतोः? तथा हि भगवन् स एव धर्मो नोपलभ्यते यः साक्षात्कुर्यात्, सोऽपि धर्मो नोपलभ्यते यः साक्षात्क्रियते, सोऽपि धर्मो नोपलभ्यते येन साक्षात्क्रियेत। सचेद्भगवन् एवं भाष्यमाणो बोधिसत्त्वो महासत्त्वो न संसीदति, नावलीयते न संलीयते, न विपृष्ठीभवति, नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते, चरति प्रज्ञापारमितायाम्। सचेच्चरामीति न समनुपश्यति, चरति प्रज्ञापारमितायाम्। आसन्ना मेऽनुत्तरा सम्यक्संबोधिरिति सचेदेवमति न समनुपश्यति, चरति प्रज्ञापारमितायाम्। दूरीकृता मे श्रावकभूमिः प्रत्येकबुद्धभूमिर्वेति सचेदस्यैवमपि न भवति, चरति प्रज्ञापारमितायाम्। तद्यथापि नाम भगवन् आकाशस्य नैवं भवति-कस्यचिदहमासन्नः, कस्यचिद्वा दूर इति। तत्कस्य हेतोः? अविकल्पत्वाद्भगवन् आकाशस्य। एवमेव भगवन् प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति-अनुत्तरां सम्यक्सबोधिर्ममासन्ना, श्रावकभूमिः प्रत्येकबुद्धभूमिश्च मम दूर इति। तत्कस्य हेतोः? निर्विकल्पत्वाद्भगवन् प्रज्ञापारमितायाः।
तद्यथापि नाम भगवन् मायापुरुषस्य नैवं भवति-मायाकारो ममासन्नः, यः पुनरन्यो जनकायः संनिपतितः स मम दूर इति। तत्कस्य हेतोः? अविकल्पत्वाद्भगवन् मायापुरुषस्य। एवमेव भगवन् प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति-अनुत्तरा सम्यक्संबोधिर्ममासन्ना, श्रावकभूमिः प्रत्येकबुद्धभूमिश्च मम दूर इति। तत्कस्य हेतोः? अविकल्पत्वाद्भगवन् प्रज्ञापारमितायाः। तद्यथापि नाम भगवन् प्रतिभासस्य नैवं भवति-येनारम्बणेन प्रतिभास उत्पद्यते तन्ममासन्ने, ये तु खलु पुनरत्र नोपसंक्रान्ता आदर्शे वा उदकपात्रे वा ते मम दूर इति। तत्कस्य हेतोः? अविकल्पत्वाद्भगवन् प्रतिभासस्य। एवमेव भगवन् प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति-अनुत्तरा सम्यक्संबोधिर्ममासन्ना, श्रावकभूमिः प्रत्येकबुद्धभूमिश्च मम दूर इति। तत् कस्य हेतोः? अविकल्पत्वाद्भगवन् प्रज्ञापारमितायाः। तद्यथापि नाम भगवंस्तथागतस्य कश्चित्प्रियो वा अप्रियो वा न संविद्यते, तत्कस्य हेतोः? सर्वकल्पविकल्पप्रहीणत्वात्तथागतस्य, एवमेव भगवन् प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य न कश्चित्प्रियो वा अप्रियो वा संविद्यते। तत्कस्य हेतोः? अविकल्पत्वाद्भगवन् प्रज्ञापारमितायाः। यथैव हि भगवन् सर्वकल्पविकल्पप्रहीणस्तथागतः, तथैव भगवन् प्रज्ञापारमितापि सर्वकल्पविकल्पप्रहीणा। तद्यथापि नाम भगवंस्तथागतेनार्हता सम्यक्संबुद्धेन यो निर्मितको निर्मितः, न तस्यैवं भवति-श्रावकभूमिः प्रत्येकबुद्धभूमिश्च मम दूरे, अनुत्तरा सम्यक्संबोधिर्ममासन्नेति। तत्कस्य हेतोः? अविकल्पत्वाद्भगवन्निर्मितस्य। एवमेव भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितां चरतो नैवं भवति-श्रावकभूमिः प्रत्येकबुद्धभूमिश्च मम दूरे, अनुत्तरा सम्यक्संबोधिर्ममासन्नेति। तत्कस्य हेतोः? अविकल्पत्वादेव भगवन् प्रज्ञापारमितायाः।
तद्यथापि नाम भगवन् स निर्मितको यस्य कृत्यस्य कृतशो निर्मितः, तत्कृत्यं करोति। स च निर्मितकोऽविकल्पः। तत्कस्य हेतोः? अविकल्पत्वादेव निर्मितस्य। एवमेव भगवन् बोधिसत्त्वो महासत्त्वो यस्य कृत्यस्य कृतश इमां प्रज्ञापारमितां भावयति, तच्च कृत्यं करोति, सा च प्रज्ञापारमिता अविकल्पा। तत्कस्य हेतोः? अविकल्पत्वादेव भगवन् प्रज्ञापारमितायाः। तद्यथापि नाम भगवन् दक्षेण पलगण्डेन वा पलगण्डान्तेवासिना वा दारुमयी स्त्री वा पुरुषो वा यन्त्रयुक्तः कृतो भवेत्। स यस्य कृत्यस्यार्थाय कृतः, तच्च कृत्यं करोति। स च दारुसंघातोऽविकल्पः। तत्कस्य हेतोः? अविकल्पत्वादेव भगवन् दारुसंघातस्य। एवमेव भगवन् बोधिसत्त्वो महासत्त्वो यस्य कृत्यस्य कृतश इमां प्रज्ञापारमितां भावयति, तच्च कृत्यं करोति, सा च प्रज्ञापारमिता अविकल्पा। तत्कस्य हेतोः? अविकल्पत्वादेव भगवन् अस्याः प्रज्ञापारमिताया इति॥
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां मायोपमपरिवर्तो नाम षड्विंशतितमः॥