२४ अभिमानपरिवर्तश्चतुर्विंशतितमः
Technical Details
२४ अभिमानपरिवर्तश्चतुर्विंशतितमः।
अथ खलु भगवान् पुनरप्यायुष्मन्तमानन्दमामन्त्रयते स्म-यस्मिन् खलु पुनरानन्द समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते, प्रज्ञापारमितायां योगमापद्यते, प्रज्ञापारमितां भावयति, तस्मिन् आनन्द समये ये त्रिसाहस्रमहासाहस्रे लोकधातौ माराः पापीयांसः, ते सर्वे संशयिता भवन्ति-किमयं बोधिसत्त्वो महासत्त्वोऽन्तरा भूतकोटिं साक्षात्करिष्यति श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा, उताहो अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते इति। पुनरपरमानन्द तस्मिन् समये माराः पापीयांसः शोकशल्यविद्धा भवन्ति यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताविहारेण विहरति। पुनरपरमानन्द यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति, प्रज्ञापारमितायां योगमापद्यते, प्रज्ञापारमितां भावयति, तस्मिन् समये माराः पापीयांसो बोधिसत्त्वस्य महासत्त्वस्य विहेठामुपसंहरन्ति, भयं संजनयन्ति, उल्कापातान् दिशि दिश्युत्सृजन्ति, दिग्दाहानुपदर्शयन्ति-अप्येव नाम अयं बोधिसत्त्वो महासत्त्वोऽवलीयेत वा रोमहर्षो वा अस्य भवेत्, येनास्यैकचित्तोत्पादोऽपि क्षीयेत अनुत्तरायां सम्यक्संबोधेरिति। तत्र आनन्द न सर्वस्य बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयानुपसंक्रामति विहेठनाभिप्रायः, अपि तु कस्यचिदुपसंक्रामति, कस्यचिन्नोपसंक्रामति॥
आनन्द आह-कियद्रूपस्य भगवन् बोधिसत्त्वस्य महासत्त्वस्य उपसंक्रामति मारः पापीयान् विहेठनाभिप्रायः? भगवानाह-येन आनन्द बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततः प्रज्ञापारमितायां भाष्यमाणायामधिमुक्तिचित्तं नोत्पादितं भवति, अस्य आनन्द बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयानुपसंक्रामति विहेठनाभिप्रायः, अवतारं चास्य लभते॥
पुनरपरमानन्द यो बोधिसत्त्वो महासत्त्वो गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां संशयप्राप्तो भवति, विमतिमुत्पादयति-स्याद्वेयं प्रज्ञापारमिता, एवं न वा स्यादिति, अस्याप्यानन्द बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयानुपसंक्रामति विहेठनाभिप्रायः, अवतारं चास्य लभते॥
पुनरपरमानन्द यो बोधिसत्त्वो महासत्त्वः कल्याणमित्रविरहितो भवति, पापमित्रपरिगृहीतश्च भवति, स गम्भीराणि गम्भीराणि स्थानानि प्रज्ञापारमितायां भाष्यमाणायां न शृणोति, अशृण्वन्न जानाति, अजानन्न परिपृच्छति-कथं प्रज्ञापारमिता भावयितव्येति, अस्याप्यानन्द बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयानुपसंक्रामति विहेठनाभिप्रायः, अवतारं चास्य लभते॥
पुनरपरमानन्द यो बोधिसत्त्वो महासत्त्वोऽसद्धर्मपरिग्राहकमालीनो भवति-एष मम सहायकः, सर्वार्थेषु मां न परित्यजति, बहवोऽपि बोधिसत्त्वा महासत्त्वा ममान्येऽपि सहायकाः सन्ति। न च पुनस्ते ममाभिप्रायं परिपूरयन्ति। अयं तु मया प्रतिरूपः सहायो लब्धः। अयं ममाभिप्रायं परिपूरयिष्यति। अस्याप्यानन्द बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयानुपसंक्रामति विहेठनाभिप्रायः, अवतारं चास्य लभते॥
पुनरपरमानन्द यो बोधिसत्त्वो महासत्त्वोऽस्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायामन्यं बोधिसत्त्वमेवं वदेत्-गम्भीरा बतेयं प्रज्ञापारमिता। किं तवैनया श्रुतया? न ह्येवमत्र युज्यमानमन्येषु सूत्रान्तेषु यथा तथागतेन भाषितम्। अहमप्यस्यामगाधमास्वादं न लभे। किं तवैनया श्रुतया लिखितया वेति? एवमन्यानपि बोधिसत्त्वान् महासत्त्वान् विवेचयते। अस्याप्यानन्द बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयानुपसंक्रामति विहेठनाभिप्रायः, अवतारं चास्य लभते॥
पुनरपरमानन्द यस्मिन् समये बोधिसत्त्वो महासत्त्वोऽन्यान् बोधिसत्त्वानवमन्यते-अहं विवेकविहारेण विहरामि, नान्ये विवेकविहारेण विहरन्ति, नान्येषां विवेकविहाराः संविद्यन्ते इति। तस्मिन्नानन्द समये मारः पापीयांस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भवति, संहर्षजातो हर्षितचित्तः प्रीतिप्रामोद्यजातो भवति। तत्कस्य हेतोः? दूरीकरोत्येषोऽनुत्तरां सम्यक्संबोधिमिति॥
पुनरपरमानन्द यस्मिन् समये बोधिसत्त्वस्य महासत्त्वस्य नामग्रहणं वा गोत्रग्रहणं वा धुतगुणपरिकीर्तनं वा भवति, एवं स तावन्मात्रकेण ततोऽन्यान् बोधिसत्त्वान् महासत्त्वान् पेशलान् कल्याणधर्मणोऽवमन्यते। ते च तस्य गुणा न संविद्यन्ते, येऽविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितायां चरतां गुणाः, ते आकारास्तानि लिङ्गानि तानि निमित्तानि तस्य न संविद्यन्ते। सोऽसंविद्यमानेष्वविनिवर्तनीयगुणेषु क्लेशमुत्पादयति, यदुत आत्मानमुत्क्रोशयति, परान् पंसयति-न खल्वेते तेषु धर्मेषु संदृश्यन्ते, यत्राहं संदृश्य इति। तत्र माराणां पापीयसामेवं भवति- न शून्यानि मारभवनानि भविष्यन्ति, उत्सदानि भविष्यन्ति। महानिरयास्तिर्यञ्चः प्रेतविषया आसुराश्च काया उत्सदा भविष्यन्तीति। तथा च मारः पापीयानधिष्ठास्यति, यथा ते बोधिसत्त्वा महासत्त्वा एवं प्रवृत्ता अध्याक्रान्ता लाभसत्कारेण भविष्यन्ति, आदेयवचनाश्च भविष्यन्ति। ते तया आदेयवचनतया बहुजनं ग्राहयिष्यन्ति। तेषां च स महाजनः श्रोतव्यं श्रद्धातव्यं मंस्यते। ते दृष्ट्वा श्रुत्वा च तेषामनुकृतिमापत्स्यन्ते। ते दृष्टश्रुतानुकृतिमापद्यमाना न तथत्वाय शिक्षिष्यन्ते, न तथत्वाय प्रतिपत्स्यन्ते, न तथत्वाय योगमापत्स्यन्ते। एवं ते न तथतायां शिक्षमाणा न तथतायां प्रतिपद्यमाना न तथतायां योगमापद्यमानाः संक्लेशं विवर्धयिष्यन्ति। एवं ते विपर्यस्तया चित्तसंतत्या यद्यदेव कर्म आरप्स्यन्ते कायेन वा वाचा वा मनसा वा, तत्सर्वमनिर्दिष्टत्वाय अकान्तत्वाय अप्रियत्वाय अमनआपत्वाय संवर्त्स्यते। एवं ते महानिरया उत्सदा भविष्यन्ति, तिर्यञ्चः प्रेतविषया आसुराश्च कायाः, मारभवनानि चोत्सदानि भविष्यन्ति। इममप्यानन्द अर्थवशं संपश्यन् मारः पापीयांस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भवति॥
पुनरपरमानन्द यस्मिन् समये बोधिसत्त्वो महासत्त्वः श्रावकयानिकेन पुद्गलेन सार्धं कलहायति विवदति विगृह्णीते आक्रोशेत् परिभाषेत व्यापद्येत दोषमुत्पादयति, तस्मिन् समये मारस्य पापीयस एवं भवति-दूरीकरिष्यति बतायं कुलपुत्रः सर्वज्ञताम्, अतिदूरे स्थास्यति सर्वज्ञतायाः सचेत्पुनर्बोधिसत्त्वयानिकः पुद्गलोऽन्येन बोधिसत्त्वयानिकेन पुद्गलेन सार्धं कलहायति विवदति विगृह्णीते आक्रोशति परिभाषते व्यापद्यते दोषमुत्पादयति, तत्र मारः पापीयान् भूयस्या मात्रया तुष्टो भवति, उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भवति। एवं चास्य भवति-उभावप्येतौ बोधिसत्त्वौ दूरे स्थास्यतः सर्वज्ञताया इति॥
पुनरपरमानन्द यो बोधिसत्त्वो महासत्त्वो व्याकृतोऽव्याकृतेन बोधिसत्त्वेन महासत्त्वेन सार्धं कलहायेत् विवदेत् विगृह्णीयात् आक्रोशेत् परिभाषेत व्यापद्येत दोषमुत्पादयेत्, चित्तं चाघातयेत्, तेन बोधिसत्त्वेन महासत्त्वेन चित्तोत्पादे तावत एव कल्पान् संनाहः संनाह्यः, सचेदस्यापरित्यक्ता सर्वज्ञता॥
एवमुक्ते आयुष्मानानन्दो भगवन्तमेतदवोचत्-अस्ति भगवंस्तेषां चित्तोत्पादानां किंचिन्निःसरणम्, उताहो तावत एव कल्पानवश्यं तेन बोधिसत्त्वेन महासत्त्वेन संनाहः संनह्यः? भगवानाह-सनिःसरणमानन्द मया धर्मो देशितः श्रावकयानिकानां प्रत्येकबुद्धयानिकानां बोधिसत्त्वयानिकानां च पुद्गलानाम्। तत्र आनन्द योऽयं बोधिसत्त्वयानिकः पुद्गलो बोधिसत्त्वयानिकेन पुद्गलेन सार्धं कलहायित्वा विवदित्वा विगृह्य आक्रुश्य परिभाष्य व्यापद्य दोषमुत्पाद्य न प्रतिदेशयति, नायत्यां संबराय प्रतिपद्यते, अनुशयं वहति, अनुशयबद्धो विहरति, नाहमानन्द तस्य पुद्गलस्य निःसरणं वदामि। अवश्यं तेन आनन्द पुद्गलेन पुनरेव तावत एव कल्पान् संनाहः संनह्यः। यः पुनरानन्द बोधिसत्त्वयानिकः पुद्गलो बोधिसत्त्वयानिकेन पुद्गलेन सार्धं कलहायित्वा विवदित्वा विगृह्य आक्रुश्य परिभाष्य व्यापद्य दोषमुत्पाद्य प्रतिदेशयति, प्रतिदेश्य आयत्यां संवराय प्रतिपद्यते, एवं च चित्तमुत्पादयति-येन मया सर्वसत्त्वानां विग्रहा विवादा विरोधा उत्सारयितव्या निध्यापयितव्याः प्रशमयितव्याः, सोऽहं नाम स्वयमेव विवदामि। लाभा मे दुर्लब्धा न सुलब्धाः, योऽहं जल्पिते प्रतिजल्पामि। येन मया सर्वसत्त्वानां संक्रमभूतेन भवितव्यम्, सोऽहं परेषु त्वमित्यपि वाचं भाषे, परुषं वा कर्कशं वा प्रतिवचो ददामि। इदमपि मया नैव वक्तव्यम्। जडसदृशेन एडमूकसमेन मया कलहविग्रहविवादेषु भवितव्यम्, परतो दुरुक्तानि दुरागतानि दुर्भाषितानि भाष्यमाणानि शृण्वता चित्तं नाघातयितव्यम्। परेषामन्तिके न ममैतत्साधु, न चैतन्ममां प्रतिरूपम्, योऽहं परस्य दोषान्तरं संजाने। एतदपि मे न प्रतिरूपम्, यदहं परेष दोषान्तरमपि श्रोतव्यं मन्ये। तत्कस्य हेतोः? न मया अध्याशयो विकोपयितव्यः, येन मया सर्वसत्त्वाः सर्वसुखोपधानैः सुखयितव्याः, परिनिर्वापयितव्याश्च अनुत्तरां सम्यक्संबोधिमभिसंबुध्य, स नामाहं व्यापद्ये। न च मया स्वपराद्धेष्वपि परेषु व्यापत्तव्यम्। स नामाहं क्षोभं गच्छामि। इदं मया न करणीयम्। दृढपराक्रमतया पराक्रान्तव्यम्। न च मया जीवितान्तरायेऽपि क्रियमाणे क्षोभः करणीयः, न भ्रुकुटिर्मुखे उत्पादयितव्येति। अस्याहमानन्द बोधिसत्त्वस्य महासत्त्वस्य निःसरणं वदामि। एवं चानन्द बोधिसत्त्वेन महासत्त्वेन श्रावकयानिकानामपि पुद्गलानामन्तिके स्थातव्यम्, यथा न कस्यचित्सत्त्वस्यान्तिके क्षुभ्येत, एवमेव च सर्वसत्त्वानामन्तिके स्थातव्यम्। कथं चानन्द बोधिसत्त्वेन महासत्त्वेन अपरेषां बोधिसत्त्वयानिकानां पुद्गलानामन्तिके स्थातव्यम्? तद्यथापि नाम आनन्द शास्तरि। एते मम बोधिसत्त्वा महासत्त्वाः शास्तार इत्येवं स्थातव्यम्। एकयानसमारूढा बतेमे मम बोधिसत्त्वा महासत्त्वाः, एकमार्गसमारूढा बतेमे मम बोधिसत्त्वा महासत्त्वाः, समानाभिप्राया बतेमे मम बोधिसत्त्वा महासत्त्वाः, समयानसंप्रस्थिता बतेमे मम बोधिसत्त्वा महासत्त्वाः। यत्रैभिः शिक्षितव्यम्, तत्र मया शिक्षितव्यम्। यथैव चैभिः शिक्षितव्यम्, तथैव मया शिक्षितव्यम्। सचेत्पुनरेषां कश्चिद्व्यवकीर्णविहारेण विहरिष्यति, न मया व्यवकीर्णविहारेण विहर्तव्यम्। सचेत्पुनरेतेऽव्यवकीर्णविहारेण विहरिष्यन्ति सर्वज्ञताप्रतिसंयुक्तैर्मनसिकारैः, मयाप्येवं शिक्षितव्यम्। एवं सर्वज्ञतायां शिक्षमाणस्य आनन्द बोधिसत्त्वस्य महासत्त्वस्य अन्तरायो न भवत्यनुत्तरायाः सम्यक्संबोधेः, क्षिप्रं च अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते इति॥
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायामभिमानपरिवर्तो नाम चतुर्विंशतितमः॥