२३ शक्रपरिवर्तस्त्रयोविंशतितमः
Technical Details
२३ शक्रपरिवर्तस्त्रयोविंशतितमः।
तेन खलु पुनः समयेन शक्रो देवानामिन्द्रस्तस्यामेव पर्षदि संनिपतितः संनिषण्णोऽभूत्। अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्-गम्भीरेयं भगवन् प्रज्ञापारमिता। दुर्द्दशा दुरनुबोधा बतेयं भगवन् प्रज्ञापारमिता। एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्-एवमेतत्कौशिक, एवमेतत्। गम्भीरेयं कौशिक प्रज्ञापारमिता। दुर्दृशा दुरनुबोधा बतेयं कौशिक प्रज्ञापारमिता। आकाशगम्भीरतया गम्भीरेयं प्रज्ञापारमिता। विविक्तत्वाद्दुर्दृशा। शून्यत्वाद्दुरनुबोधेयं प्रज्ञापारमिता। एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्-न ते भगवन् सत्त्वा अवरकेण कुशलमूलेन समन्वागता भविष्यन्ति य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यन्ति। श्रुत्वा च उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति। एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्-एवमेतत्कौशिक, एवमेतत्। न ते कौशिक सत्त्वा अवरकेण कुशलमूलेन समन्वागता भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यन्ति। श्रुत्वा चोद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति। यावन्तः कौशिक जम्बूद्वीपे सत्त्वाः, ते सर्वे दशकुशलकर्मपथसमन्वागता भवेयुः, तत्किं मन्यसे कौशिक अपि नु ते सत्त्वास्ततोनिदानं बहु पुण्यं प्रसवेयुः? शक्र आह-बहु भगवन्, बहु सुगत।
भगवानाह-अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितां श्रोष्यति। श्रुत्वा च उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्ष्यत्युद्देक्ष्यति स्वाध्यास्यति लिखिष्यति। अस्य कौशिक पुण्यस्कन्धस्य असौ पौर्वकाणां जाम्बूद्वीपकानां सर्वसत्त्वानां शीलमयः पुण्यस्कन्धः शततमीमपि कलां नोपैति। सहस्रतमीमपि शतसहस्रतमीमपि कोटीतमीमपि कोटीशततमीमपि कोटीसहस्रतमीमपि कोटीशतसहस्रतमीमपि कोटीनियुतशतसहस्रतमीमपि कलां नोपैति। संख्यामपि कलामपि गणनामपि उपमामपि औपम्यमपि उपनिसामपि उपनिषदमपि न क्षमते, येन कुशलमूलेन स कुलपुत्रो वा कुलदुहिता वा समन्वागतो भवति, य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यति। श्रुत्वा चोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्षत्युद्देक्ष्यति स्वाध्यास्यति लिखिष्यति॥
अथ खल्वन्यतरो भिक्षुः शक्रं देवानामिन्द्रमेतदवोचत्-अभिभूतोऽसि कौशिक तेन कुलपुत्रेण वा कुलदुहित्रा वा य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यति। श्रुत्वा चोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्ष्यत्युद्देक्ष्यति स्वाध्यास्यति लिखिष्यति। एवमुक्ते शक्रो देवानामिन्द्रस्तं भिक्षुमेतदवोचत्-एकचित्तोत्पादेनैव अहमार्य तेन कुलपुत्रेण वा कुलदुहित्रा वा अभिभूतः। कः पुनर्वादो य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यति। श्रुत्वा च उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्ष्यत्युद्देक्ष्यति स्वाध्यास्यति लिखिष्यति। कः पुनर्वादो ये श्रुत्वा उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वोपदिश्योद्दिश्य स्वाध्याय्य लिखित्वा तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते। ते सदेवमानुषासुरं लोकमभिभवन्तो गमिष्यन्ति बोधिसत्त्वा महासत्त्वाः। न केवलं ते सदेवमानुषासुरं लोकमभिभवन्तो गमिष्यन्ति, येऽपि ते स्रोतआपन्नाः सकृदागामिनोऽनागामिनोऽर्हन्तः सम्यक्संबुद्धाः, तानपि ते सर्वानभिभवन्तो गमिष्यन्ति बोधिसत्त्वा महासत्त्वाः। न केवलं स्रोतआपन्नान् सकृदागामिनोऽनागामिनोऽर्हतः प्रत्येकबुद्धानभिभवन्तो गमिष्यन्ति, येऽपि ते बोधिसत्त्वा महासत्त्वा महादानपतयः प्रज्ञापारमितोपायकौशल्यविरहिताः, तानपि ते सर्वानभिभवन्तो गमिष्यन्ति बोधिसत्त्वा महासत्त्वाः। न केवलं तान् महादानपतीन् बोधिसत्त्वानभिभवन्तो गमिष्यन्ति, येऽपि ते बोधिसत्त्वा महासत्त्वा परिशुद्धशीला अखण्डेन शीलस्कन्धेनाच्छिद्रेणाकल्मषेण परिपूर्णेन परिशुद्धेन अशबलेन शीलस्कन्धेन समन्वागताः प्रज्ञापारमितोपायकौशल्यविरहिताः, तानपि ते सर्वानभिभवन्तो गमिष्यन्ति बोधिसत्त्वा महासत्त्वाः। न केवलमखण्डेनाच्छिद्रेणाकल्मषेण परिपूर्णेन परिशुद्धेन अशबलेन शीलस्कन्धेन समन्वागतान् बोधिसत्त्वान् महासत्त्वानभिभवन्तो गमिष्यन्ति, येऽपि ते बोधिसत्त्वा महासत्त्वाः क्षान्तिसंपन्ना उपशमसंपन्ना अप्रतिहतचित्ता अन्ततो दग्धस्थूणायामप्याघातचित्तं नोत्पादयन्ति प्रज्ञापारमितोपायकौशल्यविरहिताः, तानपि ते सर्वानभिभवन्तो गमिष्यन्ति बोधिसत्त्वा महासत्त्वाः।
न केवलं क्षान्तिसंपन्नानुपशमसंपन्नानप्रतिहतचित्तान् बोधिसत्त्वान् महासत्त्वानभिभवन्तो गमिष्यन्ति, येऽपि ते बोधिसत्त्वा महासत्त्वा आरब्धवीर्या अनिक्षिप्तधुरा अकुसीदा अनवलीनकायवाङ्मनःकर्मान्ताः प्रज्ञापारमितोपायकौशल्यविरहिताः, तानपि ते सर्वानभिभवन्तो गमिष्यन्ति बोधिसत्त्वा महासत्त्वाः। न केवलमारब्धवीर्याननिक्षिप्तधुरानकुसीदाननवलीनकायवाङ्मनःकर्मान्तान् बोधिसत्त्वान् महासत्त्वानभिभवन्तो गमिष्यन्ति, येऽपि ते बोधिसत्त्वा महासत्त्वा ध्यानारामा ध्यानरता ध्यानबलिनो ध्यानबलवन्तो ध्यानप्रतिष्ठिता ध्यानवशिनः प्रज्ञापारमितोपायकौशल्यविरहिताः, तानपि ते सर्वानभिभवन्तो गमिष्यन्ति बोधिसत्त्वा महासत्त्वाः। यथानिर्दिष्टायां हि प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वः सदेवमानुषासुरलोकं सर्वान् श्रावकप्रत्येकबुद्धयानिकाननुपायकुशलांश्च बोधिसत्त्वान् महासत्त्वानभिभवति, तेषां चानभिभूतो भवति। तत्कस्य हेतोः? यो हि बोधिसत्त्वो महासत्त्वो यथानिर्दिष्टायां प्रज्ञापारमितायां चरति, प्रज्ञापारमितामनुवर्तते, अयं बोधिसत्त्वो महासत्त्वः सर्वज्ञवंशस्यानुपच्छेदाय स्थितो भवति। अयं बोधिसत्त्वो महासत्त्वस्तथागतान् न दूरीकरिष्यति। अयं बोधिसत्त्वो महासत्त्व एवं प्रतिपद्यमानो नचिराद्गमिष्यति बोधिमण्डम्। अयं बोधिसत्त्वो महासत्त्व एवं शिक्षमाणः सत्त्वान् क्लेशपङ्के संसीदमानानुद्धरिष्यति।
अयं बोधिसत्त्वो महासत्त्व एवं शिक्षमाणो बोधिसत्त्वशिक्षायां शिक्षते, न श्रावकशिक्षायां शिक्षते, न प्रत्येकबुद्धशिक्षायां शिक्षते। एवं शिक्षमाणं च प्रज्ञापारमितायां बोधिसत्त्वं महासत्त्वं चत्वारो लोकपाला महाराजान उपसंक्रम्यैवं वक्ष्यन्ति-क्षिप्रं त्वं कुलपुत्र अस्यां बोधिसत्त्वचर्यायां शिक्षस्व, लघु शिक्षस्व। इमानि ते चत्वारि पात्राणि यानि त्वया बोधिमण्डे निषद्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धेन प्रतिग्रहीतव्यानीति। एवं शिक्षमाणं बोधिसत्त्वं महासत्त्वं यथानिर्दिष्टायां प्रज्ञापारमितायां न केवलं चत्वारो लोकपाला महाराजान उपसंक्रमितव्यं मंस्यन्ते, अहमपि भगवंस्तं बोधिसत्त्वं महासत्त्वमुपसंक्रमिष्यामि, कः पुनर्वादस्तदन्ये देवपुत्राः। तथागतैरपि सोऽर्हद्भिः सम्यक्संबुद्धैर्नित्यमेव समन्वाहृतो भविष्यति बोधिसत्त्वो महासत्त्वः। एवं प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य यानि कानिचिल्लौकिकानि दुःखानि परोपक्रमिकाणि वा अन्यानि वा उत्पद्येरन्, तान्यस्य सर्वेण सर्वं सर्वथा सर्वं नोत्पत्स्यन्ते। अयमपि भगवन् दृष्टधार्मिको गुणस्तस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो भवति॥
अथ खल्वायुष्मत आनन्तस्यैतदभवत्-किमयं शक्रो देवानामिन्द्रः स्वकेन प्रतिभानेन भाषते, उताहो बुद्धानुभावेनेति? अथ खलु बुद्धानुभावेन शक्रो देवानामिन्द्र आयुष्मत आनन्दस्य चेतसैव चेतःपरिवितर्कमाज्ञाय आयुष्मन्तमानन्दमेतदवोचत्-बुद्धानुभावोऽयमार्यानन्द वेदितव्यः, बुद्धाधिष्ठानमिदमपि आर्यानन्द वेदितव्यम्, अप्रतिबलो ह्यहमार्यानन्द बोधिसत्त्वान् महासत्त्वानारभ्य व्याहर्तुम्। अथ खलु भगवानायुष्मन्तमानन्दमामन्त्रयते स्म-एवमेतदानन्द, एवमेतत् यथा शक्रेण देवानामिन्द्रेण भाषितम्। तथागतस्यैषोऽनुभावः, तथागतस्यैतदधिष्ठानम्, यच्छक्रेण देवानामिन्द्रेण भाषितमिति॥
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां शक्रपरिवर्तो नाम त्रयोविंशतितमः॥