अविकल्पप्रवेशधारणी
Technical Details
अविकल्पप्रवेशधारणी
१४२
एव मया श्रुतम् एकस्मिन् समये भगवान् राजग्ढ़े विरहति स्म।
सर्वत्रैधातुकप्रतिविशिष्ट निर्विकल्पधर्मधातुगर्भे प्रासादे महता भिक्षुसघेन सार्ध महता च बोधिसत्वसघेन।
तद् यथा अविकल्पेन च बोधिसत्त्वेन महासत्त्वेन।
अविकल्पप्रभासेन च बोधिसत्त्वेन महासत्त्वेन।
अविकल्पचन्द्रेन च बोधिसत्तेन महासत्त्वेन। निर्विकल्पवीरेण च।
निर्विकल्पधर्मनिर्देशकुशलेन च।
निर्विकल्पस्वभावेन च।
निर्विकल्पमतिना च।
निर्विकल्पनादेन च।
निर्विकल्पस्फरणेन च।
निर्विकल्पस्वरेण च।
महेश्वरेण् च।
निर्विकल्पमहामैत्रीस्वरेण च।
अवलोकितेश्वरेण च बोधिसत्त्वेन सार्धम्। तत्र खलु भगवान् अनेकशतसहस्रया पर्षदा परिवृतः पुरस्कृतो धर्म देशयति स्म।
यद् उत धर्माणा निर्विकल्पताम् आरभ्य।
१४४
अथ खलु भगवान् असमन्ता सर्वावती बोधिसत्त्वपर्षदम् अवलोक्य बोधिसत्त्वान् आमन्त्रयते स्म।
धारयत यूय कुलपुत्रा अविकल्पप्रवेशा नाम धारणी याम् अविकल्पप्रवेशा धारणी धारयन् बोधिसत्त्वो महासत्त्वो बुद्धधर्मान् लघुलघु सपादयति यथाकाल च विशेषाय परैति।
१४६
अथ तस्याम् एव पर्षद्य् अविकल्पपरभासो नाम बोधिसत्त्वो महासत्त्वः।
स उत्थायासनाद् एकासम् उत्तरासङ्ग कृत्वा दक्षिणञ् जानुमण्डल प्ढ़िव्या प्रतिष्ठाप्य येन भगवास् तेनाञ्जलि प्रणम्य भगवन्तम् एतद् अवोचत्।
निर्विकल्पप्रवेशा धारणी देशयतु भगवन्। या श्रुत्वा बोधिसत्त्वा महासत्त्वा धारय्ष्यन्ति।
वाचयिष्यन्ति।
योनिशश् च मनसिकरिष्यन्ति।
परेभ्यश् च विस्तरेण सप्रकाशयिष्यन्ति।
एवम् उक्ते भगवान् आह।
तेनै हि कुलपुत्राः शृणु साधु च सुष्ठु च मनसुकुरु।
भाषिष्ये ऽहम् अविकल्पप्रवेशा धारणी। साधु भगवन्न् इति ते बोधिसत्त्वा भगवतः प्रत्यश्रौषुः।
१५०
भगवास् तेषाम् एतद् अवोचत्।
इह कुलपुत्रा बोधिसत्त्वो महासत्त्वो ऽविकल्पाधिपतेय धर्म श्रुत्वाविकल्पम् आश्य सन्निवेश्य सर्वविकल्पनिमित्तानि परिवर्जयति।
स तत्प्रथमतः प्रकृतिविकल्पनिमित्तानि परिवर्जयति सर्वाणि। यद् उत ग्राह्य वा ग्राहक वा।
तत्रेद प्रकृतिविकल्पनिमित्त यत् सास्रवे वस्तुनि निमित्त।
सास्रव पुनर् वस्तु पञ्चोपादानस्कन्धः।
यद् उत रूपोपादानस्कन्धः।
वेदनोपादानस्कन्धः।
सज्ञोपादानस्कन्धः।
सस्कारोपादानस्कन्धः।
विज्ञानोपादानस्कन्धश् च।
कथ पुनस् तानि विकल्पनिमित्तानि परिवर्जयति।
आभासगमनयोगेनामुखीभूतान्य् अमनसिकारतः।
१५२
तस्य तानि क्रमशो विकल्पनिमित्तानि परिवर्जयतः तदन्यानि प्रतिपक्षनिरूपणविकल्पनिमित्तानि समुदाचरन्त्य् आमुखीभवन्त्य् आभासकरणयोगेन।
यद् उत दाननिरूपणविकल्पनिमित्त।
शीलनिरूपणविकल्पनिमित्त।
क्षान्तिनिरूपणविकल्पनिमित्त।
वीर्यनिरूपणविकल्पनिमित्त।
ध्याननिरूपणविकल्पनिमित्त।
प्रज्ञानिरूपणविकल्पनिमित्त।
यद् उत स्वभावनिरूपणतो वा।
गुणनिरूपणतो वा।
सारनिरूपणतो वा।
स तान्य् अपि प्रतिपक्षनिरूपणविकल्पनिमित्तान्य् अमनसिकारतः परिवर्जयति।
१५६
तस्य तानि परि वर्जयतः तदन्यानि तत्त्वनिरूपणविकल्पनिमित्तानि समुदाचरन्त्य् आमुखीभवन्त्य् आभासगमनयोगेन।
यद् उत शून्यतानिरूपणविकल्पनिमित्त।
तथतानिरूपणविकल्पनिमित्त।
भूतकोटिनिरूपणविकल्पनिमित्त।
अनिमित्तपरमार्थधर्मधातुनिरूपणविकल्पनिमित्त।
यद् उत स्वलक्षणनिरूपणतो वा। गुणनिरूपणतो वा सारनिरूपणतो वा । स तान्य् अपि तत्त्वनिरूपणविकल्पनिमित्तान्य् अमनसिकारतः परिवर्जयति।
१६०
तस्य तान्य् अपि परिवर्जयतो ऽपराणि प्राप्तिनिरूपणविकल्पनिमित्तानि समुदाचरन्त्य् आमुखीभवन्त्य् आभासगमनयोगेन।
तद् यथा प्रथमभूमिप्राप्तिनिरूपणविकल्पनिमित्त।
यावद् देशमभूमिप्राप्तिनिरूपणविकल्पनिमित्तम्।
अनुत्पत्तिकधर्मक्षान्तिप्राप्तिनिरूपणविकल्पनिमित्त।
व्याकरणप्राप्तिनिरूपणविकल्पनिमित्त।
बुद्धक्षेत्रपरिशुद्धिप्राप्तिनिरूपणविकल्पनिमित्त।
सत्त्वपरिपाकप्राप्तिनिरुपणविकल्पनिमित्त।
अभिषेकप्राप्तिनिरूपणविकल्पनिमित्त। यावत्
सर्वाकारज्ञाप्राप्तिनिरूपणविकल्पनिमित्त
। यद् उत स्वलक्षणनिरूपणतो वा गुणनिरूपणतो वा सारनिरूपणतो वा।
स तान्य् अपि प्राप्तिनिरूपणविकल्पनिमित्तान्य् अमनसिकारतः परिवर्जयति।
१६४
एव स बोधिसत्त्वो महासत्त्व एतानि सर्वाकारविकल्पनिमित्तान्य् अमनसिकारतः परिवर्जयन् सुप्रयुक्तो हवत्य् अविकल्पेन।
न च तावद् अविकल्प धातु स्पृशति।
अस्ति त्व् एष योनिशःसमाधिर् अविकल्पधातु स्पर्शनायै।
स तस्य सम्यक्प्रयोगस्य भावनान्वयाद् बहुलीकरणान्वयात् सम्यङ्मनसिकारान्वयाद् अनभिसस्काराद् अनाभोगतो वाविकल्प धातु सृशति।
क्रमेण च परिशोधयति।
१६६
केन कारणेन कुलपुत्रा अविकल्पधातुर् अविकल्प इत्य् उच्यते।
सर्वविकल्पनिरूपणसमतिक्रान्तताम् उपादाय।
देशनादर्शनविकल्पसमतिक्रान्तताम् उपादाय।
सर्वविकल्पनिमित्तसमतिक्रान्तताम् उपादाय।
सर्वेन्द्रियविकल्पसमतिक्रान्तताम् उपादाय।
सर्वविषयविकल्पसमतिक्रान्तताम् उपादाय।
सर्वविज्ञप्तिविकल्पसमतिक्रान्तताम् उपादाय।
सर्वक्लेशोपक्लेशज्ञेयावरननिरालयता चोपादाय।
तेनोच्यते ऽविकल्पो धतुर् अविकल्प इति।
१७०
कतरत् तद् अविकल्प। अविकल्पो ऽरूपो ऽनिदर्शनो ऽप्रतिष्ठितो ऽनाभासो ऽविज्ञप्तिर् अनिकेतन इति।
अविकल्पधातुप्रतिष्ठितो हि बोधिसत्त्वो महासत्त्वो ज्ञेयनिर्विशिष्टेन निर्विकल्पेन ज्ञानेनाकाशसमतलान् सर्वधर्मान् पश्यति। तत्पृष्ठलब्धेन ज्ञानेन मायामरीचिस्वप्नप्रतिभासप्रतिश्रुत्काप्रतिबिम्बोदकचन्द्रनिर्मितसमान् सर्वधर्मान् पश्यति।
ततो महासुखविहारविभुत्ववैपुल्यताञ् च प्रतिलभते।
महाचित्तसमृद्धिवैपुल्यताञ् च प्रतिलभते।
महाप्रज्ञाज्ञानवैपुल्यताञ् च प्रतिलभते।
महादेशनाविहारविभुत्ववैपुलताञ् च प्रतिलभते।
सर्वकालसर्वाकारसर्वसत्त्वार्थकरण्प्रतिबलश् च भवति।
अनाभोगबुद्धकार्याप्रतिप्रश्रब्धितः।
१७६
तद् यथा कुलपुत्रा एकघनसारमयस्य पाषाणपर्वतस्याधस्तान् महानानारत्नपरिपूर्णनिधिः स्याद्।
भासुराणा विचित्राणा महाचिन्तामणिरत्नाना।
यद् उत रूप्यरत्नस्य वा। सुवर्णरत्नस्य वा। अश्मगर्भनानारत्नस्य वा।
अथ खल्व् एकत्यः पुरुष आगच्छेन् महानिधानेनार्थी।
त महानिधानाभिज्ञः पुरुष एव वदेद्। एतस्य भोः पुरुष एकभनसामयस्य पाषाणपर्वतस्याधस्तान् महारत्ननिधान।
भासुराणा रत्नाना परिपूर्ण तस्याधस्तान् महाचिन्तामणिरत्ननिधान।
स त्व ततः प्रकृतिपाषाणम् एवोत्खनस्व। तदुत्खनतस् ते रूप्यप्रतिभास पाषाणम् आभासम् आगमिष्यति। तत्रापि त्व्या महानिधानसज्ञा न कर्तव्या। तत् परिज्ञायोत्खनितव्य।
तदुत्खनतस् ते सुवर्णप्रतिभास पाषाणम् आभासम् आगमिष्यति।
तत्रापि त्वया महानिधानसज्ञा न कर्तव्या।
तद् अपि परिज्ञायोत्खनितव्य। तदुत्खनतस् ते नानारत्नप्रतिभास पाषाणम् आभासम् आगमिष्येत्।
तत्रापि त्वया महानिधानसज्ञा न कर्तव्या।
तद् अपि प्रैज्ञायोत्खनितव्यम्।
एव हि त्व भोः पुरुष सुप्रयुक्तस् तदुत्खनितो ऽभिसस्कारम् अन्तरेणाप्रयत्नेनैव महाचिन्तामणिरत्ननिधान द्रक्ष्यसि।
तस्य च महारत्ननिधानस्य प्रतिलम्भात् त्वम् आढ्यो भविष्यसि।
महाधनो महाभोगः स्वपरार्थेषु समर्थो भविष्यतीति।
१७८
तथा हि कुलपुत्रा इयम् उपमा कृता यावद् एवास्यार्थस्य विज्ञप्तये। एकघनसारमयपाषाणपर्वत इति सक्लेशद्वयप्रत्युपस्थितस्य सस्कारप्रकारानाम् एतद् अधिवचन।
अधस्तान् महाचिन्तामणिरत्ननिधानम् इत्य् अविकल्पधातोर् एतद् अधिवचन।
महाचिन्तामणिरत्ननिधानेनार्थीति बोधिसत्त्वस्य महासत्त्वस्यैतद् अधिवचन।
महारत्ननिधानाभिज्ञाः पुरुष इति तथागतस्यार्हतः सम्यक्सबुद्धस्यैतद् अधिवचन।
प्रकृतिपाषाणम् इति प्रकृतिविकल्पनिमित्तानाम् एतद् अधिवचन।
१८०
उत्खननम् इति अमनसिकारस्यैतद् अधिवचन।
रूप्यप्रतिभास पाषाणम् इति प्रतिपक्षनिरूपणविकल्पनिमित्तानाम् एतद् अधिवचन।
सुवर्णप्रतिभास पाषाणम् इति शून्यतादिविकल्पनिमित्तानाम् एतद् अधिवचन।
नानारत्नप्रतिभास पाषाणम् इति प्राप्तिविकल्पनिमित्तानाम् एतद् अधिवचन।
महाचिन्तामणिरत्ननिधानस्य प्रतिलभ इत्य् अविकल्पधातुस्पर्शनाया एतद् अधिवचन।
इति हि कुलपुत्राः अनेनोपमोपन्यासेनाविकल्पप्रवेशो ऽनुगन्तव्यः।
१८४
कथ पुनः कुलपुत्रा बोधिसत्त्वो महासत्त्व एतानि यथानिर्दिष्टानि विकल्पनिमित्तानि व्युपपरीक्षमाणो ऽविकल्पधातु प्रविशति।
इह कुलपुत्रा अविकल्पधातुप्रतिष्ठितो बोधिसत्त्वः महासत्त्वः रूपप्रकृतिविकल्पनिमित्त आमुखीभूत एव व्युपपरीक्षते।
यो मम रूपम् इति चरति विकल्पे चरति।
परेषा रूप इति चरति विकल्पे चरति।
रूपम् इदम् इति चरति विकल्पे चरति।
रूपम् उत्पद्यते।
निरुध्यते।
सक्लिश्यते।
व्यवदायत इति चरति विकल्पे चरति।
नास्ति रूपम् इति चरति विकल्पे चरति।
स्वभावतो ऽपि नास्ति।
हतुतो ऽपि नास्ति।
फलतो ऽपि नास्ति।
कर्मतो ऽपि नास्ति।
योगतो ऽपि नास्ति वृत्तितो ऽपि नास्ति रूपम् इति चरति विकल्पे चरति।
विज्ञ्प्तिमात्र रूप इति चरति विकल्पे चरति।
यथा रूप नास्ति तथा रूपप्रतिभासा विज्ञप्तिर् अपि नास्तीति चरति विकल्पे चरति।
१८८
यतश् च कुलपुत्रा बोधिसत्त्वो महासत्त्वो रूपम् इति नोपलभते।
रूपप्रतिभासाम् अपि विज्ञप्तिन् नोपलभते।
न च सर्वेण सर्व विज्ञप्ति विपरिणाशयति।
नचान्यत्र विज्नप्तिम् अभावतः न समनुपश्यति।
न चान्यत्र विज्ञप्तेर् अभाव समनुपश्यति।
तस्याश् च रूपप्रतिभासाया विज्ञप्तेर् अभाव तया विज्ञप्त्या नैकत्वेन समनुपश्यति।
न पृथक्त्वेन समनुपश्यति।
न च विज्ञप्त्यभाव भावतः समनुपश्यति।
नाभावतः समनुपश्यति।
एभिः कुलपुर्ताः पुत्राः सर्वाकारैः सर्वविकल्पैर् यो न विकल्पयत्य् अयम् अविकल्पधातुर् इति न समनुपश्यति।
अय कुलपुत्राः प्रवेशनयो ऽविकल्पस्य धातोः। एव च बोधिसत्त्वो महासत्त्वो ऽविकल्पधातुप्रतिष्ठितो भवति।
१९२
एव वेदनायाः सज्ञायाः सस्काराणा विज्ञानस्य।
एव दानपारमितायाः शीलपारमितायाः क्षान्तिपारमितायाः
वीर्यपारमितायाः ध्यानपारमितायाः प्रज्ञापारमितायाः।
एव शून्यतादीना यावति सर्वाकारज्ञताया योज्यम्।
इह कुलपुत्राः बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतानिरूपणविकल्पनिमित्त आमुखीभूत एव व्युपपरीक्षते।
यो मम सर्वाकारज्ञतेति चरति विकल्पे चरति।
अप्रेषा सर्वाकारज्ञतेति चरति स विकल्पे चरति।
सर्वाकारज्ञतेयम् इति चरति विकल्पे चरति।
सर्वाकरज्ञता प्राप्यत इति चरति विकल्पे चरति।
सर्वाकारज्ञता सर्वक्लेशन्ज्ञयावरणप्रहाणायेति चरति विकल्पे चरति।
सर्वाकारज्ञताया नान्यत् त्रैधातुक व्यवदानाद् इति चरति विकल्पे चरति।
सर्वाकारज्ञतोत्पद्यते।
निरुध्यते।
सक्लिश्यते।
व्यवदायत इति चरति विकल्पे चरति। नास्ति सर्वाकारज्ञतेति चरति विकल्पे चरति।
स्वभावतो ऽपि नास्ति। हेतुतो ऽपि नास्ति।
फलतो ऽपि नास्ति।
कर्मतो ऽपि नास्ति। योगतो ऽपि नास्ति।
वृत्तितो ऽपि नास्ति सर्वाकारज्ञतेति चरति विकल्पे चरति।
विज्ञप्तिमात्रा सर्वाकारज्ञतेति चरति विकल्पे चरति।
यथा सर्वाकारज्ञता नास्ति तथा सर्वाकारज्ञताप्रतिभासा विज्ञप्तिर् अपि नास्तीति चरति विकल्पे चरति।
१९६
यतश् च बोधिसत्त्वो महासत्त्वो यथैव सर्वाकारज्ञतान् नोपलभते।
तथैव तत्प्रतिभासाम् अपि विज्ञप्तिन् नोपलभते।
न च सर्वेण सर्व तद्विज्ञप्ति विप्रणाशयति।
न चान्यत्र तद्विज्ञप्तेर् अन्य कञ्चिद् धर्मम् उपलभते।
अभावतश् च ता विज्ञप्ति न समनुपश्यति।
न चान्यत्र विज्ञप्तेर् अभाव समनुपश्यति।
न च तस्या विज्ञप्तेर् अभावतया विज्ञप्त्या एकत्वेन समनुपश्यति।
न पृथक्त्वेन समनुपश्यति।
न च तस्या विज्ञप्तेर् अभाव भावतः समनुपश्यतु।
नाभावतः समनुपश्यति।
एभिः कुलपुत्राः सर्वाकारैः सर्वविकल्पैर् यो न विकल्पयत्य् अयम् अविकल्पधर्मधातुर् इति न समनुपश्यति।
एवम् अयम् प्रवेशनयो ऽविकल्पस्य धातोः।
एव हि कुलपुत्रा बोधिसत्त्वो महासत्त्वो ऽविकल्पधातुप्रतिष्टितो भवति।
१९८
अस्य कुलपुत्रा धर्मपर्यायस्य उद्ग्रहणलेखनवाचनाद् बहुतर पुण्य नन्व् एव गङ्गानदीवालुकोपमात्मभावपरित्यागस्य नन्वे एव गगानदीवालुकोपमलोकाधातुपरिपूर्णरत्नदानस्य नन्व् एव गगानदीवालुकोपमल्प्कधातुपरिपूर्णतथागतबिबकारापणपुण्यस्कन्धस्येति।
२००
अथ खलु भगवास् तस्या वेलाया इमे गाथे अभाषत॥
अविकल्पासयो भूत्वा सद्धर्मे ऽस्मिन् जिनात्मजः।
विकल्पदुर्ग व्यतीत्य क्रमान् निष्कल्पम् आप्नुते॥ १॥
प्रशान्तम् अचल श्रेष्ठ वशवर्तिसमासम।
अविकल्पसुख तस्माद् बोधिसत्त्वो ऽधिगच्छति॥ २॥
इदम् अवोचद् बह्गवान् आत्तमना अविकल्पप्रभासश् च बोधिसत्त्वो महासत्त्वः सा च सर्वावती पर्षत् सदेवमानुषासुरगन्धर्वश् च लोको भगवतो भाषितम् अभ्यनन्दन्न् इति॥