द्वितीयः
Technical Details
CHAPTER 2
VAJRA-GUHYA-VAJRA-MANDALA-VIDHI-VISTARA
अथ भगवान् सर्वतथागतसर्ववज्रधरणीसमयसंभववज्रन्नाम समाधिं समापन्नः। समनन्तरसमापन्ने चाथ तावदेव सर्वतथागतहृदयेभ्यः। स एव भगवान् वज्रपाणिः वज्रधररूपधारिण्यः समन्त ज्वालागर्भा वज्रधारणीसमयमुद्रा देवता भूत्वा विनिःसृत्य, सर्वलोकधातुषु सर्वबुद्धानां सर्वतथागतवज्रधारणी ज्ञानानि निष्पाद्य, सर्वतथागतसमयमुद्राबिम्बानि भूत्वा, सर्वतथागतानां वज्रधातुमहामण्डले सन्निवेशयोगेन चन्द्रमण्डलान्याश्रित्येदमुदानमुदानयामास।
अहो हि बोधिचित्तस्य सर्वसत्वहितैषिता।
यद् विनयवशाद् धीराः स्त्रीरूपमपि कुर्वते॥
Emanation of deities from samadhi
अथ भगवान् सर्वतथागतज्ञानमुद्रासमयवज्रधात्वधिष्ठानं नाम समाधिं समापद्येमां स्वविद्यात्तमामभाषत् ओं वज्रधात्वीश्वरि हूं वज्रिणि॥
अथ खल्वक्षोभयस्तथागतः सर्वतथागतवज्रसत्वसमयज्ञानमुद्रामण्डलाधिष्ठानन् नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं वज्रवज्रिणि हूं॥
अथ रत्नसंभवस्तथागतः सर्वतथागतवज्ररत्नसमयज्ञानमुद्रामण्डलाधिष्ठानन् नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं रत्नवज्रिणि हूं॥
अथामितायुस्तथागतः सर्वतथागतवज्रधर्मसमयज्ञानमुद्रामण्डलाधिष्ठानन् नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं धर्मवज्रिणि हूं॥
अथामोघसिद्धिस्तथागतः सर्वतथागतवज्रकर्नसमयज्ञानमुद्रामण्डलाधिष्ठानन् नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं कर्मवज्रिणि हूं॥
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतमहाधारणीसमयमुद्राचतुष्टयमभाषत्॥
ओं वज्रसत्वगुह्यसमये हूं॥
ओं गुह्यवज्राङ्कुशि हूं॥
ओं वज्रगुह्यरागे रागय हूं॥
ओं गुह्यवज्रसाध्वीश्वरि हूं॥
समन्तभद्रा, तथागताङ्क शी, रतिरागा, साधुमती च। वज्रधारण्यः।
ओं वज्रगुह्यरत्नसमये हूं॥
ओं वज्रगुह्यप्रभे हूं॥
ओं वज्रध्वजाग्रगुह्ये हूं॥
ओं गुह्यहासवज्रि हूं॥
रत्नोत्तमा, रत्नोल्का, ध्वजाग्रकेयूरा, हासवती च। रत्नधारण्यः॥
ओं वज्रधर्मगुह्यसमये हूं॥
ओं वज्रकोशगुह्ये हूं॥
ओं वज्रगुह्यमण्डले हूं॥
ओं वज्रगुह्यजापसमये हूं॥
वज्राम्बुजा, आधारणी, सर्वचक्र, सहस्रावर्ता च। धर्मधारण्यः॥
ओं वज्रगुह्यकर्मसमये हूं॥
ओं वज्रगुह्यकवचे हूं॥
ओं गुह्यवज्रदंष्ट्राधारिणि हूं॥
ओं वज्रगुह्यमुष्टि हूं॥
सिद्धोत्तरा, सर्वरक्षा, तेजःप्रत्याहारिणी, धरणीमुद्रा च। सर्वधारण्य इति॥
अथ वज्रपाणिर्महाबोधिसत्वः पुनरपि सर्वतथागतवज्रगुह्यसमयमुद्राचतुष्टयमभाषत्।
ओं गुह्यसत्ववज्रि हूं॥
ओं गुह्यरत्नवज्रि हूं॥
ओं गुह्यधर्मवज्रि हूं॥
ओं गुह्यकर्मवज्रि हूं॥
ता एव वज्रपारमितादयः सर्वतथागतवज्रगुह्यसमयधारणीसंग्रहसमयमुद्राः। वज्रधत्वीश्वरीमहामण्डले सज्वालाः चन्द्रमण्डलाश्रिताः स्थाप्याः॥
अथ पुनरपि वज्रपाणिः सर्वतथागत वज्रगुह्यपूजासमयमुद्राचतुष्टयमभाषत्।
ओं वज्रगुह्यरतिपूजासमये सर्वपूजां प्रवर्तय हूं॥
ओं वज्रगुह्याभिषेकपूजासमये सर्वपूजां प्रवर्तय हूं॥
ओं वज्रगुह्यगीतापूजासमये सर्वपूजां प्रवर्तय हूं॥
ओं वज्रगुह्यनृत्यपूजासमये सर्वपूजां प्रवर्तय हूं॥
ता एव वज्रलास्यादयः सज्वालाः स्वचिन्हा मुद्राश्चक्रमण्डलकोणचतुष्टये स्थाप्याः॥
Delineation of the mandala
अथ वज्रपाणिः पुनरपीदं वज्रगुह्यं नाम महावज्रमण्डलमभाषत्।
अथातः संप्रवक्ष्यामि वज्रमण्डलमुत्तमं।
वज्रधातुप्रतीकाशं वज्रगुह्यमितिस्मृतं॥१॥
महामण्डलयोगेन सर्वमण्डलमालिखेत्।
सर्वमण्डलमध्येषु बुद्धमुद्राः समालिखेत्॥२॥
पर्यङके सुस्थितं चैत्यं वज्रधात्वीश्वरी स्मृता।
पर्यङ्के वज्रा वज्रां तु वज्रचिन्तेति कीर्तिता॥३॥
वज्ररत्नं तु पर्यङ्के स्वाभिषेकेति कीर्तिता।
पर्यङ्के वज्रपद्मं तु आयुधैति प्रकीर्तिता॥४॥
कर्मवज्रं तु पर्यङ्के सर्ववज्रेति कीर्तिता।
पद्मप्रतिष्ठाः समालेख्याः प्रभामण्डलसंस्थिताः॥५॥
पर्यङ्केतु लिखेद् वज्रमुत्थितं द्वयङ्कुशं तथा।
वज्रं वज्रपरियुक्तं साधुकारद्वयं तथा॥६॥
रत्नं करोज्वलं कुर्यात्सूर्यमुद्रान्तथैव च।
ध्वजाग्रं चैव सज्वालं दन्तपङिक्तर्द्विवज्रगे॥७॥
वज्रमध्ये लिखेत्पद्मं खड्गं सज्वालमेव च।
वज्रारं वज्रचक्रं तु जिव्हां रश्मिकरोज्ज्वलां॥८॥
वज्रं तु सर्वतो वक्त्रं कवचं वज्रसंयुतं।
वज्रदंष्ट्रे तथा लेख्ये मुष्टिमुद्रा करद्वये॥९॥
सत्ववज्रादयो लेख्या यथावद् धातुमण्डले।
चिन्हमुद्राः समालेख्या वज्रलास्यादिमण्डले॥१०॥
बाह्यातश्च यथायोगं स्वचिन्हंतु समालिखेत्।
मैत्रेयादिस्वचिन्हानि यथाभिरुचितं लिखेद्॥११॥ इति॥
Initiation into the mandala
अथात्र वज्रगुह्यमण्डले प्रवेशादिविविधविस्तरो भवति।
तत्र प्रथमं तावद्वज्राचार्यः स्वयं सत्ववज्रिमुद्रां बध्वा प्रविशेत्; प्रविश्य सकृत् प्रदक्षिणीकृत्य, तां मुद्रां भगवते वज्रपाणये निर्यात्य, स्वहृदये यथावन्मुक्त्वा, चतुर्षु द्वारेषु वज्राङ्कु शकर्ममुद्रादिभिर्यथावत् कर्माणि कृत्वा निष्क्रमेद्, अभिनिष्क्रम्य शिष्यां प्रवेशयेत् वज्रधातुमहामण्डलयोगेनेति। ततः प्रवेश्य मुष्ट्याच्छाद्य सिद्धिगुह्यवज्रचिन्हं दत्वा, वज्रगुह्यमुद्राज्ञानं शिक्षयेत्॥
Mudra
तत्र प्रथमं तावद् वज्रगुह्यकायमुद्राज्ञानं शिक्षयेत्।
चन्द्रमण्डलमध्ये तु हस्तपादाञ्जलिं मुखं
विजृंभन् भावयेद्वज्रं वज्रिणीमपि रागयेत्॥१॥
अङ्कुशं बाहुसंकोचं शीर्षे वज्रं तु भावयेत्।
शब्दापयंस्तु हस्तेन आनयेदङ्कुशीमपि॥२॥
वाणप्रक्षेपयोगेन विजृंभन् प्रहरेद् हृदि।
रागयेन्मारयोगेन रतिवज्रामपि स्वयं॥३॥
बाहुबन्धेन बध्नीयाद् हृदयं स्वयमात्मनः।
वज्रवर्मप्रयोगेण रक्षेद् बुद्धमपि स्वयम्॥ इति॥४॥
तत्रैषां हृदयानि भवन्ति।
वज्र रागय होः॥
वज्राङ्कु श जः॥
मारय मारय फट्॥
बन्ध रक्ष हं॥
ततो वज्रगुह्यदृष्टिमुद्राज्ञानं शिक्षयेत्।
वज्रदृष्टिस्तु संरागप्रहर्षोत्फुल्ललोचना।
तया निरीक्षता स्त्री तु वश्या भवति शाश्वती॥१॥
प्रद्रुतप्रचलच्चक्षुः पक्ष्मकर्षणलोचना।
दीप्तकृष्टिरिति प्रोक्ता सर्वमाकर्षयेज्जगत्॥२॥
प्रध्वस्तभृकुटीभङ्गक्रोधसंकुचितेक्षणं।
क्रोधदृष्टिं समाधाय त्रैलोक्यमपि नाशयेत्॥३॥
मेरुमर्दनपाषाणदृढानिमिषलोचना।
मैत्रीदृष्टिरिति ख्याता ज्वरग्रहविषापहा॥ इति॥४॥
अथासां हृदयानि भवन्ति।
वज्रदृष्टि मट्॥
दीप्तदृष्ट्याङ्कु शिज्जः॥
क्रोधदृष्टि हीः॥
दृढदृष्टि त्रट्॥
ततो वज्रगुह्यवाङ्मुद्राज्ञानं शिक्षयेत्।
होः होः होः हो इति प्रोक्ते वाग्विवर्तितया क्षणात्।
रागयेत् सर्वसत्वां सो वज्रवाचा परिस्फुटां॥१॥
ज्जः ज्जः ज्जः ज्ज इति प्रोक्ते क्रोधवाचा परिस्फुटां।
आकर्षयेज्जगत्सर्वमपि वज्रधरोपमम्॥२॥
हुं हुं हुं हुं समाधाय शब्दवाचा परिस्फुटां।
मारयेत् सर्वसत्वां सो मेरुमर्दनसन्निभाम्॥३॥
हं हं हं हं इति प्रोक्ते सूक्ष्मवाचा परिस्फुटां।
रक्षेत् सर्वमिदं लोचमपि वज्रात्मकं जिनम्॥ इति॥४॥
तत्रैतानि हृदयानि भवन्ति।
वज्र होः॥
वज्र ज्जः॥
वज्र हुं॥
वज्र हं॥
ततो वज्रगुह्यचित्तमुद्राज्ञानं शिक्षयेत्।
सर्वाकारवरोपेतं भावयन् स्वयमात्मना।
वज्रपाणिं स्वमात्मानं सर्वबुद्धां वशन्नयेत्॥१॥
सर्वाकारवरोपेतं भावयन् स्वयमात्मना।
वज्रगर्भं स्वमात्मानमाकर्षयेद्वज्रपाणिनं॥२॥
सर्वाकारवरोपेतं भावयन् स्वयमात्मना।
वज्रनेत्रं स्वमात्मानं सर्वधर्मां स मारयेत्॥३॥
सर्वाकारवरोपेतं भावयन् स्वयमात्मना।
वज्रविश्वं स्वमात्मानं सर्ववज्रं स रक्षति॥ इति॥४॥
तत्रैतानि हृदयानि भवन्ति।
वज्रपाणि वशमानय सर्वबुद्धान् होः॥
वज्रगर्भ वज्रपाणिं शीघ्रमाकर्षय हूं ज्जः॥
वज्रनेत्र सर्वधर्मान् मारय हूं फट्॥
वज्रविश्व रक्ष सर्ववज्रान् हं॥
ततो वज्रगुह्यमुद्राज्ञानं शिक्षयेत्।
सत्ववज्रां समाधाय हृदये स्वयमात्मनः।
वज्रदृष्ट्या निरीक्षन् वै सर्वमावेशयेज्जगत्॥१॥
रत्नवज्रां समाधाय हृदये स्वयमात्मनः।
दीप्तदृष्ट्या निरीक्षन् वै सर्वमानयते वशं॥२॥
धर्मवज्रां समाधाय हृदये स्वयमात्मनः।
क्रोधदृष्ट्या निरीक्षन् वै जगत्सर्वं स मारयेत्॥३॥
कर्मवज्रां समाधाय हृदये स्वयमात्मनः।
मैत्रीदृष्ट्या निरीक्षन् वै रक्षेत्सर्वमिदं जगद्॥ इति॥४॥
अथासां वज्रगुह्यज्ञानमुद्राणां हृदयानि भवन्ति।
वज्रगुह्यसमय अः॥
वज्रगुह्यसमय होः॥
वज्रगुह्यसमय हुं॥
वज्रगुह्यसमय हं॥
ततो वज्रगुह्यमुद्राबन्धं शिक्षयेत्।
वज्राञ्जलिसमुद्भूता महागुह्याः प्रकीर्तिताः।
महामुद्राः समासेन तासां बन्धः प्रवक्ष्यते॥१॥
अङ्गुष्ठद्वयपर्यङ्का कुञ्चिताग्राग्रविग्रहा।
सममध्योत्तमाङ्गा च वज्रधात्वीश्वरी स्मृता॥२॥
सा एव मध्यवज्रा तु मध्याभ्यां तु मणीकृता।
मध्यानामान्त्यपद्मा च प्रसारितकराङ्गुली॥३॥
अग्र्या वज्रा दिवज्राग्री साङ्गुष्ठद्वयगूहिता।
साधुकाराग्र्यरत्ना च स रत्नाग्राकरोज्वला॥४॥
समानामान्त्यरत्ना च सा एव परिवर्तिता।
सुप्रसारितसर्वाग्रा समाङ्गुष्ठान्तरस्थिता॥५॥
प्रसारिताङ्गुलीमण्डासा एव तु मुखोद्धृता।
अङ्गुष्ठवज्रसंच्छन्ना समाग्र्याभ्यन्तरस्थिता॥६॥
द्वयङ्गुष्ठविकचा सा तु ततोऽभ्यन्तरवज्रिणी।
वज्रगुह्याः पुनश्चैता वज्रबन्धसमुद्भवाः॥७॥
धर्मगुह्याः पुनश्चिन्हैः संपुटान्तरभावितैः।
कर्मगुह्यान्तरस्थितैस्तु चिन्हैः कर्मप्रदर्शनम्॥८॥
अतः परं प्रवक्ष्यामि धर्ममुद्राः समासतः।
आः ज्जः होः सः, उं आं त्रं हः, ह्रीः धं भं रं, कं हं हुं वं॥१॥
गुह्यमुद्रा द्विधिकृत्य कर्ममुद्रासु कल्पयेत्।
यावद्यः समयाग्र्यो वै द्विधीकृत्य तथैव च॥२॥
अथासां साधनं वक्ष्ये समयस्त्वम् इति ब्रूवन्।
स्वयं बध्वा तु सिध्यन्ते कामरागसुखात्मनः॥१॥
आसां त्वधिकमेकं तु सर्वकालं न बन्धयेत्।
गुह्ये वार्थमहत्कार्ये प्रयुञ्जीत् विचक्षणः॥२॥
यसर्वात्मसित्थात ह्येता दृढभार्याः स्वयंभुवां।
साधकेषु दृढं रक्ता मा त्यजेयुः पतिन्निजम्॥३॥ इति॥
अथासां सर्वमुद्राणां बन्धादिति कर्माणि भवन्ति।
वज्रवेशं समुत्पाद्य आत्मनश्च परस्य वा।
बन्धयेद्वा बन्धयेद्वापि अनेन हृदयेन तु॥
वज्र हूं बन्ध॥
अथ मोक्षो भवति।
यतो यतः समुत्पन्नाः सर्वमुद्राः समासतः।
तत्र तत्र तां मुञ्चेदनेन हृदयेन तु॥
ओं वज्र मुः॥
अथ दृढीकरणं भवति।
रत्न वज्रां दृढीकृत्य हृदयान्मूर्ध्नि मोक्षिता।
अग्राभ्यां कवचं बन्धेदनेन हृदयेन तु॥
ओं दृढ वज्रकवच धृट्॥
अथ बन्धसमयो भवति।
यथा स्थानेषु वै मुक्ता कवचेन दृढीकृता।
निबन्धेत्तालया सर्वा ह्यनेन हृदयेन तु॥
ओं गुह्यसमयताल सः॥
वज्रसत्वो रुचिजप्तिः सर्वमण्डलकर्मसु।
प्रयोक्तव्योऽत्र समये सर्वसिद्धिकरः परम्॥ इति॥
सर्वतथागतमहायानाभिसमयान् महाकल्पराजाद् वज्रगुह्यवज्रमण्डलविधिविस्तरः समाप्तः॥