१२। अप्रतिष्ठानप्रकाशः।
नमो बुद्धाय।
वित्तेर्यदप्रतिष्ठानं बोद्धसर्व्वस्वमिष्यते।
किं चानाभोगयोगेन यदि सत्त्वार्थकारिता॥
यद्यपोहविधी जातौ ततोच्छेदविधिस्थितिः।
सदा जाता निरुद्धे तु जन्मच्छेदो पशोर्वचः॥
स्वसम्बित्तिरथो मानं वित्तेः सत्त्वं तदिष्यते।
सर्व्वालेख्यविहीनत्वात् सत्त्वं तत्र न पेशलम्॥
पृष्ठे यदीष्यते सत्त्वं सत्त्वं वस्तु तदा न हि।
प्रतिज्ञोच्चेदवाधार्थमनुलेखं तदुच्यते॥
वेदनं विद्यते मोलौ पृष्ठे तदवभासनात्।
निर्विकल्पं भवेदादौ ज्ञानं तद् ग्राहकं ततः॥
अतीतानागतादीनां चित्तानां स्थित्यसम्भवात्।
नैःस्वभाव्यं अतस्तेषां जगाद जगतां प्रभुः॥
उत्पादमेव धर्म्माणां अचिन्त्या निजसम्बिदा।
स एव शून्यता प्रोक्ता नानुच्छेदानुगामिनी॥
अप्रतिष्ठानतो बीजादप्रतिष्ठं भवेत् फलम्।
तायिनां तद् वरं तत्त्वं कृत्रिमात् कृत्रिमं यथा॥
ध्यानमस्ति न चेत्येवं न ब्रूमो अङ्गचारिणाम्।
प्रतीत्योत्पादतो यस्मात् सदोदेति यथा रसः॥
प्रतीत्योत्पद्यते यद् यद् तत् तत् [चेत्]चित्तमद्वयम्।
भेदस्तु शून्यचिच्चित्रैर्धर्म्मसम्भोगनिर्म्मितैः॥
अप्रतिष्ठां विधायै तत् यदलाभि शुभं मया।
तेनाप्रतिष्ठतां यातु जगत् सर्व्वोपभोगतः॥
॥अप्रतिष्ठानप्रकाशः समाप्तः॥
The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Subscribe to our newsletter for latest updates about the canon text of our project