अथ चतुस्त्रिंशः पटलविसरः
Technical Details
अथ चतुस्त्रिंशः पटलविसरः।
अथ खलु भगवां शाक्यमुनिः पुनरपि तं शुद्धावासभवनमवलोक्यः मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। शृणु मञ्जुश्रीः ! त्वदीयमुद्रातन्त्रं सरहस्यं परमगुह्यतमं अप्रकाश्यमश्राद्धसत्त्वतथागतशासनेऽनभिप्रसन्नं असमयानुज्ञानत्रिरत्नवंशानुच्छेदनकरे अकल्याणमित्रपरिगृहीते पुण्यकामे दुष्टजनसम्पर्कव्यतिमिश्रिते पापमित्रपरिगृहीते दूरीभूते बुद्धधर्माणां निःफलीभूते कल्पेऽस्मिन्नाचार्यानुपदेशे अवभिषिक्त तव कुमार ! परमगुह्यतमे मण्डले अदृष्टसमये तथागतकुले असमन्ते जने अप्रकाश्य सर्वभूतानां त्वन्मन्त्रानुवर्त्तिनां अश्राद्धो बुद्धधर्माणां दूरीभूतो हि बोधये॥
न तस्या दापयेन्मुद्रां तन्त्रं चैव न दर्शयेत्।
प्रमादान्मोहसम्मूढः लोभाद्या यदि दापयेत्॥
न सिद्ध्यन्ते तन्त्रमन्त्रा वै विपरीतस्य जापिनः।
असान्निध्यं कल्पयेन्मुद्रां मन्त्राश्चैवमन्यथा॥
सिद्धिं न लभते क्षिप्रंश्च शरीरेणापि हीयते।
सौम्यानां श्राद्धचित्तानां समये तत्त्वदर्शिनाम्॥
तन्त्रमन्त्रप्रवृत्तानां मुद्रातन्त्रं प्रकाशयेत्।
त्रिरत्नपूजका ये च प्रसन्ना जिनशासने॥
विधिप्रयोगदृष्टानां तेषां मुद्रा प्रकाशयेत्।
बोधिचित्तविधिज्ञानां बोधिचित्तविभूषिताम्॥
नित्यं बोधिमार्गस्थां तेषां मुद्रां प्रकाशयेत्।
तन्त्रमन्त्रप्रयुक्तानां समये दृष्टपरापराम्॥
महाबोधो प्रतिच्छूनां तेषां मुद्रां प्रकाशयेत्।
प्रसन्नानां जिनपुत्रेषु तेषु श्रावकखड्गिणाम्।
दृष्टधर्मफलं येषां तेषां मुद्रां प्रकाशयेत्।
अविकल्पितधर्माणां श्राद्धानां गतिमत्सराम्॥
शास्तुर्वचनयुक्तिज्ञां तेषां मुद्रां प्रकाशयेत्।
मुद्रा मुद्रिता ह्येते प्रमाणस्था साष्टशतं तथा॥
न चातिरिक्ता न चोनाश्च साक्षाद् बुद्धैः प्रकाशिताः।
मञ्जुश्रियस्य कल्पे वै मन्त्राश्चैव तत्समा॥
साष्टं शतमित्युक्तं मन्त्राणां तत्समोदिताम्।
मुद्राश्चैव शताष्टं तु कथिता मुनिवरैः पुरा॥
एतत्प्रमाणं तु कल्पस्य मुद्रामन्त्रसमुद्भवे।
कोशं सर्वबुद्धानां मन्त्रकोशमुदाहृतम्॥
मुद्रा मन्त्रसमोपेताः संयुक्तः क्षिप्रकर्मिकः।
न चक्रेण विना स्पन्दं युक्तिमुत्पद्यते रथे॥
तथैव सर्वमन्त्राणां मुद्रावर्जं न कर्मकृत्।
मन्त्रा मुद्रसमोपेता संयुक्ता क्षिप्रकर्मिका॥
सर्वमावर्त्तयं ह्येते त्रैलोक्यससुरासुरम्।
किं पुनर्मानुषे लोके अन्यकर्मेषु संस्कृते॥
दृष्टधर्मफलो ह्येतां मुद्रामन्त्रेषु दृश्यते।
संयुक्तः उभयतः शुद्धां विधियुक्तेन दर्शिता॥
आवर्तयन्ति भूतानां जिनाग्राणां तु ससूनुताम्।
मन्त्रं मुद्रतपश्चैव त्रिधा कर्म करे स्थितम्॥
यथेष्टा सम्पदां कृत्स्नां प्राप्नुयाज्जपिनस्तथा।
मन्त्राणां मुद्रिता मुद्रा मन्त्रैश्चापि मुद्रिता॥
न मन्त्रं मुद्रहीनं तु न मुद्रा मुद्रवर्जिता।
मुद्रा मन्त्रसमोपेता संयुक्ता सर्वकर्मिका॥
अन्योन्यफला ह्येते अन्योन्यफलमुद्भवा।
साधके युक्तिमायुञ्जे न सार्धं कर्म न विद्यते॥
सिध्यन्ते सर्वमन्त्रा वै मुद्रायुक्तास्तु रूपिनाम्।
विधिदृष्टः प्रयुक्तस्तु मन्त्रं + + समुद्रितम्॥
न सौ विद्यति तत् स्थानं यत्राकृष्टो न सिद्ध्यति।
भवाग्र्या वीचिपर्यन्तं लोकधात्वगतिं तरम्॥
यत्राविष्टो न चाकृष्टः असाध्यो यो न विद्यते।
न सौ संविद्यते कश्चित् सत्त्वो यो निवर्तितुम्॥
महर्द्धिका बोधिसत्त्वापि आकृष्यन्ते विधिवादिता।
असमर्त्था बोधिसत्त्वापि दशभूमिसमाश्रिता॥
रक्षाविधानभेतुं वा कर्मसिद्धि निवारितुम्।
अधृष्यः सर्वभूतानां मन्त्रमुद्रसमासृताः॥
सर्वभूतानां यो हि मन्त्रे समाश्रितः।
मुद्रा प्रयोगयुक्ता वै एते रक्षासमुद्भवा॥
उद्भूतिः सर्वमन्त्राणां सर्वमन्त्रेषु दृश्यते।
मन्त्रातः सर्वमुद्राणां अन्योन्यसमासृताः॥
रूपजापविधिर्मार्गे होमकर्मे प्रयुज्यते।
अतो जात तथासिद्धिः मुद्रा मन्त्रेषु दृश्यते॥
जापिनो नित्यमुद्युक्तः सदा तेषु प्रतिष्ठितः।
सिद्ध्यन्ते सर्वमन्त्रा वै अवन्ध्यं मुनिनां वचः॥
वचनं सर्वबुद्धानां अन्यथाकारितं हितैः।
+ + + + + + + + + + + + मन्त्रतन्त्रेषु युक्तितः॥
कारितं यैर्विधिर्मुक्ता अशेषं मन्त्रमुद्रया।
एतत् कुमार ! मञ्जुश्रीः ! कथयामि पुनः पुनः॥
अशेषमन्त्रमुक्तिस्तु मुद्रा तत्र हितोदयम्।
तां वन्दे कल्पराजेऽस्मिं नैस्तारिकं फलसम्भवम्॥
हितं गुह्यतमं लोके मुद्रातन्त्रं समुद्धितम्।
ततोऽसौ युक्तिमां श्रीमां सहिष्णुर्बालरूपिणः॥
ईषस्मितमुखो भूत्वा कुमारो विश्वसम्भवः।
बोधिसत्त्वो महावीर्यः दशभूमिसमा तः॥
प्रयच्छ मुनिना श्रेष्ठं बुद्धमादित्यबान्धवम्।
यदेतत्कथितं लोके भगवन्मन्त्रकारणम्॥
पूर्वकैरपि सम्बुद्धैः कथितं तत्पुरा मम।
अधुना शाक्यसिंहेन किमर्थं सम्प्रकाशितम्॥
एतन्मे संशयो जातः आचक्ष्व मुनिसत्तव !।
कलविङ्करुतो धीमां ब्राह्मगर्जितसम्भवः॥
अब्रवीद् बोधिसत्त्वं तु दशभूमिप्रतिष्ठितम्।
पुराहं बहुकल्पानि संसारे सरता म य॥
लब्धोऽयं कल्पराजेन्द्रः मुनेः सङ्कुसुमाह्वयात्।
तत्र तत्र मया सत्त्वा उपकारकृतं बहु॥
करुणावशमागत्य प्रणिधिं च कृतं तदा।
यदाहं बुद्धमग्रो वै सम्भवामि युगाधमे॥
शासनार्थं करित्वा वै धर्मचक्रानुवर्त्तिते।
अपश्चिमे च काले वै निर्वास्येऽहं यदा भुवि॥
एतत्तु कल्पराजेन्द्रं निर्दिशेऽहं तवान्तिके।
मयापि निर्वृते लोके शून्ये जम्बुसमाह्वये॥
दूरीभूते तथा शास्तुः धर्मकोशे कलौ युगे।
नाशनार्थं तु सत्त्वानां करिष्यत्येप कल्पराट्॥
तवैव सम्प्रदत्तोऽयं कल्पराजा सविस्तरः।
सत्त्वानामर्थमुद्युक्तः तस्मिं काले भविष्यति॥
अधर्मिष्ठास्तदा सत्त्वास्तस्मिं काले भयानके।
अव्यवस्थस्थिता नित्यं राजानो दुष्टमानसाः॥
मानुषामानुषाश्चापि सर्वे शासनविद्विषाः।
नाशयिष्यन्ति मे सर्वं धर्मकोशं मयोदितम्॥
तेष विनयार्थाय मन्त्रकोशमुदाहृतम्।
तवैतत् कुमार ! प्रणिधानं पूर्वकल्पानचिन्तिताम्॥
यावन्ति केचिद् बुद्धा वै निर्वृता लोकबान्धवा।
तेषां साशनार्थाय करिष्यामि युगे युगे॥
बालदारकरूपोऽहं विचरिष्यामि सर्वत।
मन्त्ररूपेण सत्त्वानां विनेष्यामि तदा तदा॥
एतत् कुमार ! तुभ्यं वै प्रणिधानं पुरा कृतम्।
तत् प्राप्तमधुना बाल ! निर्देक्ष्यामि तेनैवे॥
शून्ये बुद्धक्षेत्रे अशरण्ये तदा जने।
मन्त्ररूपेण सत्त्वानां बालिशस्त्वं समादिशेत्॥
विनेष्यसि बहुं सत्त्वां सर्वसम्पत्तिदायकः।
वरदस्त्वं सर्वसत्त्वानां तस्मिं काले युगाधमे॥
निर्वृते हि मया लोके शून्यीभूते महीतले।
त्वयैव बालरूपेण बुद्धकृत्यं करिष्यसि॥
महारण्ये तदा रम्ये हिमवत्कुक्षिसम्भवे।
नद्या हिरण्यवतीतीरे निर्वाणं मे भविष्यतीति॥
आर्यमञ्जुश्रियमूलकल्पात् बोधिसत्त्वपिटकावतंसका-
न्महायानवैपुल्यसूत्रात् द्वात्रिंशतिमः मुद्रा-
चोदनविधिमञ्जुश्रीपरिपृच्छ-
निर्देशपरिवर्तः पटल-
विसरः परिसमाप्तः।