अथ अष्टाविंशतितमः पटलविसरः
Technical Details
अथ अष्टाविंशतितमः पटलविसरः।
अथ भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। अस्ति मञ्जुश्रीः ! अपरमपि त्वदीयपटविधानं साधनौपयिकं सर्वकर्मार्थसाधकम्। एतेनैव तु एकाक्षरेण हृदयमन्त्रेण षडाक्षरेण वामकरान्तेन त्वदीयेन मूलमन्त्रेण वा षडक्षरहृदयेन ॐकाराद्येन एकाक्षरेण वा पटस्याग्रतः अस्यैव कल्पं भवति। पश्चिमे काले पश्चिमे समये मयि तथागते परिनिर्वृते शून्ये बुद्धक्षेत्रे युगाधमे प्राप्ते अत्राणे लोके अशरणे अपरायणे इदमेव कल्पराजा त्राणभूतं भविष्यति। शरणभूतं लयनभूतं परायणभूतम्। कतमं च तत्॥
आदौ तावत् पूर्वमेवानाहते पटे केशापगते सप्तहस्तायते तृहस्तपृथके सदशे कुङ्कुमचन्दनरसपर्युषिते बुद्धं भगवन्तं शाक्यमुनिं लिखयेत्। पद्मासनोपविष्टं धर्मं देशयमानं मञ्जुश्रियं कुमारभूतमवलोकयन्तम्। दक्षिणे पार्श्वे सुधनं सुभूमिं आर्याक्षयमतिं मञ्जुश्रियं च भगवतो नमस्कारं कुर्वन्तं कुमाररूपिणं सर्वालङ्कारविभूषिताङ्गं वामपार्श्वे समन्तभद्रं आर्यावलोकितेश्वरं भद्रपालं सुशोभनं च लेखयेत्। भगवत्प्रतिमा ह्रस्वतरा च लेखयितव्या। आर्यावलोकितेश्वरसुधनौ चमरव्यग्रहस्तौ कार्यौ। वसुधा चाधस्तात्। रत्नकरण्डकव्यग्रहस्ताः पूर्वकायविनिर्गताः लेखयितव्या। उपरिष्टाच्च विद्याधरकुमारौ मालाधारिणौ मेघाश्च वर्षमाणाः सविद्युता लेखयितव्याः। सर्वे च बोधिसत्त्वा पुष्पमाणा यो भगवतो मुखं व्यवलोकयन्तः कर्तव्याः। सालङ्काराः प्रसन्नदृष्टयः पूर्वकाये निषीदवनतेन लेखयितव्याः॥
तमीदृशं पटं सधातुके चैत्ये स्थाप्य पश्चान्मुखमक्षरलक्षं जपेत्। अस्य मञ्जुश्रियः काष्ठमौनी त्रिःकालस्नायी तृचेलपरिवर्त्ती सततपोषधिकः शाकयावकयथाभैक्षभैक्षाहारश्चतुर्भागमन्नं कृत्वा रत्नत्रयस्य भागमेकं अन्यः मञ्जुश्रियः अन्यत् सर्वसत्त्वानां शेषमात्मनो पयुञ्जीत। अक्षान्तकायो मनसि भगवन्तं कृत्वा सर्वसत्त्वानालम्बनेन मनसा नात्मार्थमहं किञ्चित् करोमि करिष्याम्यन्यत्र सर्वसत्त्वानामर्थायेति ध्यात्वा जापं कुर्यात्। स्नानं गन्धं पुष्पं धूपं बलिं प्रदीपांश्च दद्यात्। स्नापनं पटच्छायायाः गन्धानधस्तात् पुष्पाणि च बलिं च सततं दद्यात्। तत्रैव तेषां पूर्वं दद्यात्। रत्नत्रयस्य पश्चान्मैत्रेयस्य तदनन्तरमवलोकितेश्वरस्य आर्यसमन्तभद्रस्य आर्याकाशगर्भस्य आर्याक्षयमतेः कुमारभूतस्य चन्द्रप्रभस्य सर्वनीवरणविष्कम्भिणः आर्यवज्रधरस्य आर्यतारायाः आर्यमहामायूर्या आर्यपराजितायाः भगवत्याः प्रज्ञापारमितायाश्च गन्धं पुष्पं धूपं बलिं च सर्वमेतेषां पूर्वं दत्वा पश्चात् पटस्य दद्यात्॥
पश्चाद् बहिरेकस्मिं प्रदेशे सर्वोष्ट्रगर्दभश्वहस्तिरूपाणि विनायकानि वल्मीकमृत्तिकया कृत्वा तेषां चाशेषं दद्यात्। अविस्मृत्य पिण्याकपिष्टकतिलकृतकुलत्थमत्स्यमांसमूलकवार्त्ताकपद्मपत्रकांसभाजनानि च वर्जयेत्। कुशविण्डकोपविष्टः तत्रैव श्रान्तः सर्वबुद्धानुस्मृतिं भावयेत्। मनसा जापं कुर्यात्। अन्यत्र विविक्ते कुशसंस्तरे शय्यां कल्पयेत्। अतिपानमतिभोजनं अतिपर्यटनं अतिदर्शनमतिशय्यां च वर्जयेत्। त्रिः कालं बुद्धानुस्मृति भावयेत्। शुक्रबन्धं च कुर्यात्। शोभनानि च स्वप्नानि नान्यस्य प्रकाशयेत्। भगवतो निवेदयेत्॥
एवमनुपूर्वेण त्वरमाणः अक्षरलक्षं जपेत्। अन्ते च भगवतीं प्रज्ञापारमितां वाचयेत्। जपकाले भगवतोऽथ मञ्जुश्रियः कुमारभूतस्य मुखमवलोक्य जापं कुर्यात्। अनाकुलाक्षरपदः। अक्षसूत्रान्ते च नमस्कारं कृत्वा निवेदयेत्॥
अनेन विधिना पूर्वसेवां कृत्वा पटं क्वचित् स्वस्थे स्थाने स्थाप्य कर्म कुर्यात्। यत्र मनसः परितुष्टिरस्ति॥
पतविधानं समाप्तम्॥
पश्चाद् भगवन्तं मञ्जुश्रियं श्वेतचन्दनमयं पद्मासनस्थं भगवतीं प्रज्ञापारमितां एकहस्ते दधानं दक्षिणेन फलं दधानं कारयेत्। तमेकस्मिं शुचौ प्रदेशे पश्चान्मुखं स्थापयित्वा तस्याग्रतोऽग्निकुण्डं कुर्यात्। सर्वकर्म सचतुरस्रं द्विवितस्तिप्रमाणं अधश्च गन्धां सर्वधान्यानि च क्षिपेत्। तस्योपरि कुर्यात्॥
अनेन विधिना नवमग्निमुत्पाद्य अश्वत्थसमिद्भिरग्निं अथवाशोकस्य वा घृततन्दुलोदनं क्षीरदधि मधु च सर्वमुपहृत्य ताम्रभाजने स्थापयित्वा अष्टसहस्रं परिजप्य पूर्णाहुतिं दद्यात्। पश्चादन्यस्मिं दिने शुक्लप्रतिपदमारभ्य कर्म कुर्यात् अश्वत्थसमिद्भिरग्निं प्रज्वाल्य विगतधूमं दृष्ट्वा अग्निमावाहयेत्। “आगच्छ हरिपिङ्गल ! दीप्तजिह्व ! लोहिताक्ष ! हरिपिङ्गल ! देहि ददापय स्वाहा॥”
अनेन मन्त्रेणाहुतित्रयं दद्यात्। पश्चाद् भगवन्तमावाहयेत्। “आगच्छगच्छ कुमारभूत ! सर्वसत्त्वार्थमुद्यतोऽहं साहाय्यं मे कल्पय गन्धपुष्पधूपं च प्रतिगृह्ण स्वाहा॥”
यद् ददाति तदनेन दातव्यम्। आगतस्य चार्घो देयः सुगन्धपुष्पपानीयेन पश्चाद्धोमं कुर्यात्। सप्तवारानुदाहृत्य एकैवाहुतिं क्षिपेत्। एवं सप्तदिवसानि घृततन्दुलानि तिलयावकेन चाप्यायनं कुर्यात्॥
अत्रान्तरादवश्यमार्यमञ्जुश्रियं कुमाररूपिणं पश्यति। द्व्यङ्गुलप्रमाणानां चन्दनसमिधानामष्टसहस्रं जुहुयात्। दिनेदिने शतं पृथिवीपतीनां वशमानयति। जातीकुसुमानां लक्षं जुहुयात्। राजा वश्यो भवति। पद्मानां दधिमधुघृताक्तानां सहस्रं जुहुयात्। द्रव्यं लभते। शमीसमिद्भिरग्निं प्रज्वाल्य तिलां जुहुयात्। धनपतिर्भवति। सततमुदकमुदके जुहुयात्। प्रातरुत्थितः सर्वजनप्रियो भवति। अर्कसमिधानां दधिमधुघृताक्तानां लक्षं जुहुयात्। सहस्रपिण्डं ग्रामं लभते। बहुपुत्रिकां जुहुयात्। कन्यां यामिच्छति तां लभते। अपामार्गं जुहुयात् व्याधिं प्रशमयति। क्षीरवृक्षकाष्ठैरग्निं प्रज्वाल्य तिलाहुतीनां लक्षं जुहुयात्। यां चिन्तयित्वा करोति तां लभते। विषयार्थी पद्मानां लक्षं जुहुयात्। विषयं लभते। यवानां लक्षहोमेनाक्षयमन्नमुत्पद्यते। गुग्गुलुपृयङ्गुं च घृतेन सह होमयेत्। पुत्रं लभते। अकाकोलीने जातीकुसुमानां पानीये जुहुयात्। सप्ताहेन ग्रामं लभते। जातीकुसुमानां जले एकैकं पुष्पं गृहीत्वा जुहुयात्। अवशेषं खण्डं यस्य घ्राणाय दीयते स घ्राणमात्रेण वश्यो भवति। कुङ्कुम कस्तूरिकालवङ्गपुष्पं च मुखे प्रक्षिप्य जपेत्। येन सह मन्त्रयते स वश्यो भवति। मरीचमष्टसहस्राभिमन्त्रितं कृत्वा मुखे प्रक्षिप्य क्रुद्धोऽपि वचनेन प्रियो भवति। शिखामनेनैव बध्नीयात्। अदृश्यो भवति। शक्रं दृष्ट्वा मनसानुस्मरेद् विगतक्रोधो भवति। नित्यजापेन सर्वजनप्रियो भवति। महति प्रत्यूषेऽभ्युत्थाय जातीकुसुमसहितं पानीयं शुचौ प्रदेशे भूमौ जुहुयात्। मन्त्री भवति। अनतिक्रमणीयवचनः। भये समुत्पन्ने मनसि कुर्यात्। भयं न भवति। परस्य क्रुद्धस्यापि मैत्रीं भावयित्त्वा अनुस्मृत्य मुखं व्यवलोकयेत्। विगतक्रोधो भवति। सर्वसुगन्धपुष्पैः होमं कुर्याद् यमुद्दिश्य करोति स वश्यो भवति। सप्ताभिमन्त्रितं उदकं प्रत्युषसि पिबेत्। नियतवेदनीयं कर्म क्षपयति। सप्तजप्तेनोदकेन मुखं प्रक्षालयेत् सर्वजनप्रियो भवति। पुष्पाण्यभिमन्त्र्य यस्य ददाति स वश्यो भवति। आचार्यत्वमेकेन लक्षहोमेन तन्दुलानाम्। विषयपतित्वं तिलानां पद्मानां सहस्रं जुहुयात्। दीनारसहस्रं लभते। वीरक्रयक्रीतां गुग्गुलुसर्जरसं गन्धरसं श्रीवासकं चैकतः कृत्वा जुहुयात्। पञ्चम्यां पञ्चम्यां षण्मासम्।पूर्णे सहस्रगुणं लभते। सर्वगन्धैः प्रतिकृतिं कृत्वा तीक्ष्णशस्त्रेणैकधारेण च्छित्वा च्छित्वा जुहुयात्। दक्षिणेन पादा पुरुषस्य वामपादं स्त्रियः यमिच्छति स वश्यो भवति। सप्ताहं त्रिसन्ध्यं धुत्तूरकपुष्पाणि जुहुयात्। गावो लभते। अर्ककाष्ठैर्धान्यं शिरीषपुष्पैरश्वां अशोकपुष्पैः सुवर्णं व्याधिघातकपुष्पैर्वस्त्राणि लभते। यद् यदिच्छति तत् सर्वं जातीकुसुमहोमेन करोति। यद्वर्णानि पुष्पाणि पानीये जुहोति सवितुरुदये। तद्वर्णानि वस्त्राणि लभते। सप्तजप्तं भाजनं कृत्वा भिक्षामटति भिक्षामक्षयां लभते। रात्र्यामुत्थाय परिजप्यात्मानं स्वयं शोभनानि स्वप्नानि पश्यति॥
अथ राजानं वशीकर्तुकामः तस्य पादपांसुं गृहीत्वा सर्षपैस्तैलैश्च मिश्रयित्वा जुहुयात्। सप्ताहं त्रिसन्ध्यं वश्यो भवति॥
राज्ञीं वशीकर्तुकामः सौवर्चलां शतपुष्पां वाराहीं चैकतः कृत्वा जुहुयात्। सप्तरात्रं त्रिसन्ध्यं वश्या भवति। राजमात्यं वशीकर्तुकामः भल्लातकानां तिलां वचां च प्रतिकृतिं कृत्वा जुहुयात्। सप्ताहं सप्तरात्रं च वश्यो भवति॥
पुरोहितं वशीकर्तुकामः ब्रह्मदण्डीं शतपुष्पां चैकतः कृत्वा जुहुयात्। सप्तरात्रं त्रिसन्ध्यं वश्यो भवति॥
ब्राह्मणानां वशीकर्तुकामः, पायसं घृतसहितं जुहुयात्। सर्वे वश्या भवन्ति॥
अथ क्षत्रियं वशीकर्तुकामः, शाल्योदनं घृतसहितं जुहुयात्। सप्ताहम्॥
वैश्यानां वशीकरणे यावकां गुडसहितां जुहुयात्। वश्यो भवति॥
पिण्याकं जुहुयात्। शूद्रा वश्या भवन्ति॥
सर्वानेकतः कृत्वा जुहुयात् सर्वे वश्या भवन्ति॥
चतुःपथे एकशून्ये गृहे वा बलिं निवेद्य योऽस्य ग्लानः स तस्माद् विनिर्मुक्तो भवति॥
मुखं स्पृशं जपे ज्वरमपगच्छति। अष्टशतजप्तेन शिखाबन्धेन सर्वव्याधिभ्यः परिमुच्यते। सर्वरोगेभ्यः मूश्रकं बध्वा शिखा बन्धं कृत्वा स्वप्तव्यं। सर्वरोगा अपगच्छन्ति। व्याधिना ग्रस्तः जपमात्रेण मुच्यते। गलग्रहे वल्मीकमृत्तिकां जप्त्वा लेपः कार्यः। व्याधिरपगच्छति। अक्षिरोगे नीलीकलिकानि जुहुयात्। व्युपशाम्यति॥
पटविधानस्यार्तरिकर्म्मः॥
पूर्वोक्तेन विधानेन अनाहते पटे केशापगते आर्यमञ्जुश्रीः कुमारभूतः आभिलेख्यः सर्वालङ्कारविभूषितः। रक्तवर्णः कुमाररूपी पद्मासनस्थः। दक्षिणपार्श्वे अर्यावलोकितेश्वरः वामपार्श्वे समन्तभद्रः। आर्यमञ्जुश्रियस्य किञ्चिदूनौ। तं पटं स्थापयित्वा कोटिं जपेत्। राजा भवति॥
चन्दनसमिधानां कुङ्कुमाभ्यक्तानां लक्षं जुहुयात्। राजा भवति। अगरुसमिधानां दधिमधुघृताक्तानां लक्षं जुहुयात्। राजा भवति। जातीकुसुमानां घृताक्तानां कोटिं जुहुयात्। राजा भवति॥
यत्प्रमाणानां पद्मानां राशिं जुहोति तत्प्रमाणानां दीनाराणा राशी लभते। यावद् यावत् तावज्जप्यमानां न गृह्णाति तावद् विद्याधरचक्रवर्ती भवति। भल्लातकानां लक्षं जुहुयात् दीनारसहस्रं ददाति। व्याधिघातकफलानां लक्षं जुहुयात् महाधनपतिर्भवति। अष्टसहस्रहोमेन गुग्गुलुसमिधानां धान्यं लभते। सतततिलहोमेनाव्यवच्छिन्नं धान्यं लभते। गोतण्डुलानां लक्षं जुहुयात्। सह दध्ना गोसहस्रं लभते। बहुपुत्रिकाफलानि शमीफलानि चैकतः कृत्वा जुहुयात्। यामिच्छति कन्यां तां लभते। शमीपत्राणि जुहुयात्। सर्वकामदो भवति। अगस्तिपुष्पाणि क्षीराक्तानि जुहुयात्। ब्राह्मणवशीकरणा। करवीरपुष्पाणि शुक्लानि जुहुयात्। क्षत्रियवशीकरणे। कर्णिकारपुष्पाणि जुहुयाद्राजा वशीकरणे। धुत्तूरकपुष्पाणि जुहुयात्। शूद्रवशीकरणे। अर्कपुष्पाणां दधिमधुघृताक्तानां लक्षं जुहुयात्। सर्वव्याधिभ्यः परिमुच्यते॥
अनेनैव विधिना पुष्पाणां सुगन्धानां लक्षं पादमूले निवेदयेत्। नित्यसुखी भवति। अश्वत्थसमिद्भिरग्निं प्रज्वाल्य शमीपुष्पाणां सहस्रं जुहुयात्। नक्षत्रपीडा व्युपशाम्यति। गोरोचनया मन्त्रमभिलेख्य शिरसि बध्वा सङ्ग्रामेऽवतरेत्। शस्त्रैर्न स्पृश्यते। हस्तिस्कन्धे मञ्जुश्रियमग्रतो बलस्य दत्त्वा दर्शनमात्रेणैव परबलस्य भङ्गो भवति। ध्वजाग्रे कुमाररूपिणं सौवर्णमयूरासनस्थं कृत्वा सङ्ग्राममवतरेत्। दर्शनादेव परबलस्य भङ्गो भवति। जातीकुसुमानां पादमूले लक्षं निवेदयेत्। तत्रैव कुशसंस्तरे शय्यां कुर्वीत। स्वप्ने यथाभिलषितं कथयति। प्रदीपानां सहस्रं दत्त्वा एकप्रदीपं पद्मसूत्रवर्त्तिं कृत्वा मधुयष्टिं वेष्टयित्वा प्रज्वाल्य पश्येद् यथाभूतं मञ्जुश्रियं कुमारभूतं पश्यति॥
द्वितीयं पटविधानं समाप्तम्।
सौवर्णं रजतं वा कुमारं कृत्वा वरदं दक्षिणेन पाणिना। वामेन भगवतीं प्रज्ञापारमितां दधानं तमीदृशं सधातुककरण्डकं पुरतः स्थाप्याक्षरलक्षं जपेत्। पूजां वासरिणां कुर्यात्। बालदारकदारिकाश्चास्याग्रतो भोजयितव्या। गीतं वादितं पुस्तकवाचनं चाकुर्यात्। जपपरिसमाप्तौ पुष्पत्रयेणार्घं दत्वा प्रेषयेत्। पूर्वोक्तेन विधानेनावाहनविसर्जनं पद्ममुद्रां बध्वा जापं कुर्यात्। ध्वजमुद्राया आवर्त्तनं स्वस्तिकमुद्रया आसनं पूर्णमुद्रायार्घं एकलिङ्गमुद्रायां पुष्पाणि मनोरथमुद्रायां प्रदीपं यमलमुद्राया धूपं मयूरासनमुद्राया गन्धं यष्टिमुद्राया बलिं अनेन विधानेन रात्रौ दिनेदिने कुर्याद् यावज्जापपरिसमाप्तिरिति। पश्वात् कर्माणि कुर्यात्॥
जातीकुसुमानां समुद्रगामिन्यां नद्यां लक्षं प्लावयेत्। विषयं लभते। रात्रौ जातिकुसुमौघं कृत्वा भगवतः पुरतः स्वपेत्। भगवन्तं पश्यति धर्म देशयमानं बोधिसत्त्वपरिवृतं यमुद्दिश्य करोति तदेव कम कुर्यात्। नान्यस्य कुर्यात्। उपोषधिकेन शुक्लप्रतिपदमारभ्य श्रीवासकधूपं मधुमिश्रं जुहुयात् राज्यं लभते। कोटिं जपेत् मञ्जुश्रियं स्वयमेव पश्यति धर्मदेशनां च करोति। यदि केनचित् सहोल्लापयति सम्मुखमवभाषते अवैवर्त्तिकश्च बोधिसत्त्वो भवति॥
तृतीयं विधानम्॥
रक्तचन्दनमयं कुमाररूपिणं एकेन पार्श्वेन प्रियंकरं अन्येन वीरमती साशोकवृक्षाश्रयां कारयेत्। तमेकपार्श्वे स्थापयित्वा लवणसर्वपराजिकाव्यामिश्रेण रक्तचन्दनप्रतिकृतिं कृत्वा च्छित्वा च्छित्वा जुहुयाद् यस्य नाम्ना स वश्यो भवति। उदुम्बरफलानि यस्य नाम्ना जुहुयात् स वश्यो भवति। काकोदुम्बरिकाफलानि जुहुयाद् यस्य नाम्ना स वश्यो भवति। शृङ्गाटकं जुहुयात् ब्राह्मणवशीकरणे पद्ममूलानि क्षत्रियवशीकरणे कशेरुकाणि जुहुयात्। वश्यवशीकरणे शालूकानि जुहुयात्। शूद्रवशीकरणे लवणशर्कराणामष्टसस्रं जुहुयात्। त्रिसन्ध्यं सप्ताहं यस्य नाम्ना जुहोति स वश्यो भवति। निम्बपत्राणि कटुतैलाक्तानि जुहुयात् आहुत्याष्टसहस्रं त्रिसन्ध्यं सप्ताहं यस्य नाम्ना स वश्यो भवति। सर्वेण होमेन वशीकरणम्॥
बृहतीकुसुमानां लक्षं जुहुयात् सुवर्णं लभते। कालाञ्जनिकाकुसुमानामष्टसहस्रं जुहुयात् महान्तं ग्रामं लभते। पाटलपुष्पाणि जुहुयाद् धान्यमक्षयं लभते। श्रीपर्णीपुष्पाणि जुहुयात् सुवर्ण लभते। वचां दधिमधुघृताक्तां जुहुयात् सर्ववादेषूत्तरवादी भवति। ब्राह्मीरसघृतसहितं ताम्रभाजने स्थापयित्वा तावज्जपेद् यावद् दशसहस्राणि पश्चात् पिबेत् सर्ववादिनो विजयते। यस्य क्रुद्धस्याष्टसहस्राभिमन्त्रितं कृत्वा लोष्टं क्षिपेत् पुरतः स क्रोधं मुञ्चति॥
चतुर्थं विधानम्।
अनाहते पटे केशापगते उपोषधिकेन चित्रकरेण अश्लेषकैर्वर्णकैः आर्यमञ्जुश्रियश्चित्रापयितव्यः। पद्मासनोपविष्टं धर्मं देशयमानं दर्क्षिणपार्श्वे आर्यमहामेखला वामपार्श्वे चार्यप्रज्ञापारमिता जापवती सर्वालङ्कारविभूषिता शुक्लवस्त्रनिवसना। तस्याधस्तात् पद्मसरः, बहुविधपुष्पसङ्कीर्णः नागराजानौ अकायविनिर्गतौ पद्मदण्डधृतहस्तौ आर्यापराजिता चैकस्मिं विघ्नविनायकां नाशयन्ती अग्निज्वालामुखी भृकुटीकृतलोचनां अन्यस्मिं पार्श्वे आर्यपर्णशबरी पाशपरशुव्यग्रहस्ता कृष्णरक्तनेत्रा मयूरपृष्ठभिरूढा साधकं परिरक्षन्ती। साधकश्च पद्ममालाव्यग्रहस्तः भगवतो मञ्जुश्रियमुखं व्यवलोकयमानः उपरिष्टाच्चामरपुष्पमालादुन्दुभिधारिणौ देवपुत्रौ लेखयितव्यौ॥
तं पटं पश्चान्मुखं स्थाप्य सधातुके चैत्ये कोटिं जपेत्। जपान्ते च महतीं पूजां कृत्वा भगवतीं प्रज्ञापारमितां वाचयित्वा दशसहस्राणि जपेत्। मञ्जुश्रियो मुखं व्यवलोकयमानः। पश्चात् पटं कम्पते। राज्यं लभते। चक्षुश्च लभते। विद्याधरो भवति। हसते चक्रवर्त्ती भवति। भाषणे बोधिसत्त्वः प्रथमभूमिप्रतिलब्धो भवति। धर्मदेशनां चास्य शृणोति॥
तस्यैव पटस्याग्रतः कपिलायाः समानवत्सायाः गोघृतं गृह्य ताम्रभाजने स्थाप्य तावज्जपेद् यावदूष्मायति। धूमायति। प्रज्वलति। ऊष्मायमानं पीत्वा परममेधावी भवति। श्रुतिधरः धूमायमानेऽन्तर्द्धानम् ज्वलमाने आकाशगमनम्। आमशरावसम्पुटे स्थाप्य वचां जातीकुसुमैर्वेष्टयित्वा तावज्जपेद् यावदङ्कुरीभवति। तां भक्षयित्वा श्रुतिधरो भवति। अन्यां कोटिं जपेत् मञ्जुश्रियं साक्षात् पश्यति। धर्मदेशनां च शृणोति। तां चाधिमुच्यते॥
सौवर्णपद्मं शतपत्रं कारयित्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य तावज्जपेद् यावज्ज्वलतीति। तेन गृहीतमात्रेण विद्याधराणां चक्रवर्ती भवति परैरधर्षणीयः। मनःशिलां हरितालमञ्जनं वा श्रीपर्णीसमुद्गके प्रक्षिप्य तावज्जपेद् यावत् खुट्खुटाशब्दं करोति। गृहीतमात्रेण भूमिचराणां राक्षसपिशाचानामधिपतिर्भवत्यधृष्यः। खड्गं गृह्य सल्लक्षणसङ्कीर्णं अव्रणं तावज्जपेद् यावदहिरिव फणं कृत्वा तिष्ठति। तं गृह्य विद्याधरचक्रवर्ती कल्पायुरधृष्यः। मनःशिलां तृलोहपरिवेष्टितां कृत्वा मुखे प्रक्षिप्य तावज्जपेद् यावच्चुलुचुलायतीति। अदृश्यो भवति। खड्गहर्ता अदृश्यः सर्वाणि कुशलोपसंहितानि करोति। वर्जयित्वा कामोपसंहितम्। शमीवृक्षरूढस्याश्वत्थस्य सारं गृह्य तृलोहपरिवेष्टितं कृत्वा मुखे प्रक्षिप्य तावज्जपेद् यावच्चुलुचुलायति। अधृष्यो भवति वर्षसहस्रं जीवति॥ रजतं चक्रं कृत्वा असुरविवरस्याग्रतः तावज्जपेद् यावच्चक्रं असुरजन्त्राणि भित्त्वा प्रविशति। तत्क्षणमेवासुरयुवतयो निर्गच्छन्ति। ताभिः सह प्रविश्य कल्पस्थायी भवति। लोहमयं तृशूलं कृत्वा तस्मिं विवरद्वारे जापं करोति तत्र सर्वयन्त्राणि स्फुटन्ति। यावद्भिः सहेच्छति तावद्भिः सह प्रविशति। कल्पस्थायी भवति। मैत्रेयं च भगवन्तं पश्यति॥
पञ्चमं पटविधानम्।
श्वेतार्कमयं अङ्गुष्ठमात्रं भगवन्तं मञ्जुश्रियं कारयित्वा अर्कपुष्पाणां लक्षं निवेदयेत्। सामन्तराज्यं प्रतिलभते। श्वेतकरवीरमूलमयं कृत्वा अङ्गुष्ठमात्रमेव तत्पुष्पाणामेकां कोटिं निवेदयेत् मन्त्री भवति। करहाटवृक्षमयं वितस्तिप्रमाणमात्रं कारयित्वा तत्पुष्पाणां लक्षं निवेदयेत्। सेनापत्यं लभते। श्वेतचन्दनमयं वितस्तिप्रमाणमात्रं भगवन्तं मञ्जुश्रियं कृत्वा जातीकुसुमानां लक्षं निवेदयेत्। पुरोहित्यं लभते। अश्वत्थवृक्षमयं अङ्गुलमात्रप्रमाणं भगवन्तं मञ्जुश्रियं कारयित्वा अकाकोलीने पानीयकुम्भं निवेदयेत्। बहुजनसम्मतो भवति। सर्वगन्धमयं कृत्वा सर्वगन्धपुष्पैर्निवेदितैः यमिच्छति तमाप्नोति। सतत्तसमितमगरुसमिधानां जुहुयात् मन्त्री बहुजनस्य सम्मतो भवति। सततजापेन पञ्चानन्तर्याणि विक्षिपयति। मरणकाले मञ्जुश्रियं पश्यति। धर्मदेशनां चास्य करोति। उत्थायोत्थाय अष्टशतं जपेत् सर्वसत्त्वानामधृष्यो भवति। अक्षिणी परिजप्य स्वामिनं पश्येत्। प्रसादवां भवति। यमुद्दिश्य कर्मकरो तत्रस्थं सप्तभिर्दिवसैः ग्रामान्तरस्थं एकविंशतिभिर्दिवसैः विषयान्तरस्थं चतुर्भिः मासैः नद्यन्तरितं षड्भिर्मासैः स्वकुलविधानेनान्यमन्त्रविधानेन चाशेषं कर्मं करोति वर्जयित्वा कामोपसंहितम्। आभिचारुकं चेति॥
षष्ठो विधानः।
इत्युक्तं युगान्तेहितं + + + + + + तथा।
सत्त्वानामल्पपुण्यानां हितार्थं मुनिना पुरा॥
शासनान्तर्हिते शास्तुः शाक्यसिंहस्य तापिने।
सिद्धिं यास्यते तस्मिं काले रौद्रेऽतिभीरवे॥
सप्तमं वक्ष्यते ह्यत्र कल्परात्रे सुखावहे।
ममैतत् कथितं कल्पं तस्मिं काले सुदारुणे॥
सत्त्वानामल्पपुण्याणां मार्गो ह्येष प्रवर्तितः।
बोधिसम्भारहेतुत्वं त्रियानपथनिम्नगम्॥
उपायकौशल्यसत्त्वानां दर्शयामि तदा युगे।
तृष्णामूढा हि वै सत्त्वा रागद्वेषसमाकुला॥
तेषां दर्शयाम्येतं मार्गं तृष्णावशानुगम्।
तृष्णाबन्धनबद्धास्तु कुशलं वा कर्महेतुतः॥
सिद्धिसाध्यं तथा द्रव्यं मन्त्रतन्त्रं समोदितम्।
विनयार्थं तु सत्त्वानां कथितं लोकनायकैः॥
एतत् कर्मस्य माहात्म्यं साधकानां तु जापिनाम्।
इत्युक्त्वा मुनिवरो ह्यग्र शाक्यसिंहो नरोत्तमः॥
कथित्वा मन्त्रतन्त्राणां बलं वीर्यं सविस्तरम्।
अमोघं दर्शयेत् सिद्धिं तस्मिं काले युगाधमे॥
शुद्धावासं तदा वव्रे देवसङ्घा जिनोत्तमो।
यमेतन्मार्षा प्रोक्तं कल्पराजं सविस्तरम्॥
सवलोकहितार्थाय मञ्जुघोषस्य शासनमिति॥
आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात्
महायानवैपुल्यसूत्रात् षड्विंशतिमः कर्म-
विधानार्यमञ्जुश्रीयपरिवर्त्तपटलविसरः परिसमाप्त इति।