अथाष्टादशः पटलविसरः
Technical Details
अथाष्टादशः पटलविसरः।
अथ भगवान् शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य तं च पर्षन्मण्डलं मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। अस्ति मञ्जुश्रीः ! त्वदीयमन्त्रचर्याभियुक्तस्य बोधिसत्त्वचर्यापरिपूरणार्थाभिप्रायस्य बोधिसत्त्वस्य महासत्त्वस्य क्रियाकालक्रमणयोगानुकूलयोगचर्यानुकूलनक्षत्रव्यवहारामुवर्तनक्रमं सर्वमन्त्रचर्यार्थसाधनोपयिकपटलविसरम्॥ भाषिष्ये, तं शृणु, साधु च सुष्ठु च मनसि कुरु॥
एवमुक्ते भगवता मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत्। आश्चर्यं भगवन् ! यावद् भाषितं परमेणानुग्रहेणानुगृहीता बोधिसत्त्वा महासत्त्वा सर्वबोधिसत्त्वचर्यानुवर्तिनां सर्वमन्त्रचर्यार्थपरिपूरकाणां सत्त्वानाम्। तद्वदतु भगवानस्माकमनुकम्पार्थम्॥
एवमुक्तो मञ्जुश्रीः कुमारभूतः कृताञ्जलिपुटो भगवन्तमवलोकयमानः ताः तूष्णीमेवमवस्थितोऽभूत्॥
अथ खलु भगवान् शाक्यमुनिर्लोकानुग्रहकाम्यया।
वज्रेन्द्रवचनं श्रेष्ठं हितार्थं सर्वदेहिनाम्॥
इदं भोः ! भद्रमुखाः ! श्रेष्ठं नक्षत्रं हिताहितं।
सर्वमन्त्रार्थचर्यायां युक्तायुक्ताः समाहिताः॥
सिद्धमर्थं तथापूर्णमनुकूलं चापि कथ्यते।
सिद्धिहेतोस्तथा मन्त्री मन्त्रं तन्त्रोपलक्षयेत्॥
शुचेऽहनि शुचौ देशे शुचाचाररते सदा।
प्रशस्ते तिथिनक्षत्रे शुक्लपक्षे सदा शुचिः॥
स्नातो ध्यायी व्रती मन्त्री मन्त्रतन्त्रार्थकोविदः।
होम जाप तथा सिद्धिं कुर्यात् कर्म सविस्तरम्॥
रेवती फल्गुनी चित्रा मघा पुष्यार्थसाधिका।
अनूराधा तथा ज्येष्ठा मूला चापि वर्णिता॥
आषाढावुभौ भाद्रपदौ सदा सिद्ध्यर्थ श्रवणा।
सिद्ध्यर्थं श्रवणा श्रेष्ठा धनिष्ठा चापि वर्णिता॥
सिद्धिहेतोस्तथा मन्त्रै रोहिण्या मृगशिरास्तथा।
अश्विन्यौ पुनर्वसूयुक्ते नक्षत्रौ स्वातिरेवतौ॥
प्रशस्ता गणिता ह्यते विद्यासाधनतत्पराः।
एतेषामिन्दुवारं तु विधिरेवमुदाहृतम्॥
शैत्यैः शान्तिकं शेषकाले ततो विद्यापुष्ट्यर्थं चापि तत्परम्।
मध्याह्ने दिनकरे कर्म चन्द्रे चापि गर्हितम्॥
अर्धरात्रे स्थिते चन्द्रे कुर्यात् कर्माभिचारुकम्।
तृतीये याममनुप्राप्ते पुष्टिहेतोः समारभेत्॥
पुष्ट्यर्थं साधयेन्मन्त्रं भोगहेतोस्तदा नृषु।
उदयन्तं भास्करं विद्यात् सर्वकर्मेषु युक्तितः।
रक्ताभावे तथा भानोः कुर्यात् कर्माभिचारुकम्।
शेषकाले ततो विद्यात् पूर्वाह्ने रविमण्डले॥
युगमात्रोत्थिते तथा नित्यं कुर्याच्छान्तिककर्मणि।
ततो द्विहस्तितो ज्ञेयं प्रमाणे चैव गभस्तिने॥
कुर्याच्छान्तिककर्माणि शान्तिकेष्वपि योजिते।
मन्त्रमुद्रैस्तथाश्रेष्ठैर्जिनाग्रकुलसम्भवैः॥
मध्याह्ने सवितरि प्राप्ते कुर्यादाभिचारुकम्।
अतःपरेण आकृष्येद् वश्यार्थं च योजितम्॥
युगमात्रावनते भानौ अपराहोपगते तथा।
कुर्यात् सर्वकर्माणि क्षुद्रार्थे च योजिताः॥
ततः परेण काले ते सूर्यं धानमते तदा।
वश्याकर्षणसर्वाणि कुर्यात् कर्माणि धीमतः॥
अस्तं याते तदा भानौ रक्ताकारसमप्रभे।
कुर्यात् तानि कर्माणि रक्ताभाससमोदिताम्॥
कान्तकामाः सदा कुर्यात् कर्मैश्चापि रागिभिः।
कुलत्रयेऽपि शान्यं कथितं कर्म निन्दितम्॥
कन्यार्थी कारयेत् क्षिप्रं कर्मकालसमोदितम्।
प्रथमे यामे तदा कर्म साधयेत् सत्त्वयोजितः॥
अतः परेण सर्वत्र सर्वकर्माणि कारयेत्।
अर्धरात्रे तदा चन्द्रा ग्रहः पश्येद् वसुन्धराम्॥
प्रविशेत् पश्चिमां देशां तस्मिन् काले समोदिताम्।
ततः परेण ग्रहः पश्ये सूर्यो सनराधिपाम्॥
प्रसवे दक्षिणां देशां सिद्ध्यर्थी मन्त्रयोजितः।
मर्त्येऽपि लभते क्षिप्रं कार्यसिद्धिं तु पुष्कलाम्॥
अजापी जापिनश्चापि + + + लभते फलम्।
यथेष्टां कुरुते सिद्धिं जापिनस्यापि धीमते॥
तृतीये यामे सदा गच्छेद् दिशं चापि यत्नतः।
दक्षिणपश्चिमान्मध्ये व्रजेत् तत्र फलोद्भवी॥
उदयन्ते तथा भानौ प्रभवोदुत्तरां दिशम्।
ततः परेण कालान्ते युगमात्रोत्थिते रवौ॥
गच्छद् विदिशं तन्त्रज्ञः सिद्धिकामफलोद्भवाम्।
पश्चिमोत्तरयोर्मध्यं स देशः परिकीर्तितः॥
अजापी जापिनस्यापि युक्तिरुक्ता तथागतैः।
निर्दिष्टां कार्यनिष्पत्तौ सिद्धमन्त्रस्य वा तदा॥
मध्याह्ने पूर्वतो गच्छेद् दिशांश्चैव सर्वतः।
ततः परेण कर्माणि + + + + + कारयेत्॥
अर्धरात्रे तदा चन्द्रो ग्रहः पश्येद् वसुन्धराम्।
कालान्ते विदिशान्ते मुनि + + + + बोधिना॥
पूर्वमुत्तरयोर्मध्ये सदृशः सिद्धि लिप्सताम्।
ततः परेण दिशः प्रोक्ताः पूर्वदक्षिणयोः सदा॥
कथितः कालभेदश्च दिशश्चैव विदिक्षु वा।
अपराह्ने तथा भानोः प्रविशे दैत्यमालयम्॥
सुरङ्गेषु च सर्वेषु सत्त्वेषु कूपवासिषु।
सर्वथा श्रीमुखेष्वेव सर्वत्र पातालोद्भववासिनाम्॥
ततः परेण यामान्ते रक्ताङ्गे ग्रहमण्डले।
प्रविशेद् यक्षयोनीनां निलयांश्चैव सुकश्मलाम्॥
व्रजेत् परिगृहां क्षिप्रकालेष्वेव नियोजितम्।
उत्तिष्ठन्तं साधयेन्मन्त्रं प्रसादाश्रयसम्भवाम्॥
आरुरुक्ष पुराग्रं वै असिद्धिः सिद्धिरेव वा।
आरुरोह स्वकावासं प्रासादाग्रं तु मानवी॥
सिद्धन्ते चिन्तिता तस्य कालेष्वेव सुयोजिताः।
मन्त्रसिद्धिः सदा तस्य मन्त्रतन्त्रविशारदैः॥
दिशे गमनेनैव सिद्धिमात्रां समुच्यते।
अमन्त्री मानवः क्षिप्रं लभते फलसम्भवाम्॥
ईप्सितां साधयेदर्थां ग्राम्यांश्चैव च मानुषाम्।
काला निगमतः प्रोक्तं दिशांश्चैव समन्ततः॥
प्रसवेत् सर्वतो मन्त्री कालेष्वेह देशेषु च।
अश्विनी भरणिसंयुक्ता कृत्तिका मृगशिरास्तथा॥
एतेष्वेव हि सर्वत्र नक्षत्रेष्वेव योजिता।
शान्तिकं कर्म निर्दिष्टं फलहेतुसमोदयम्॥
रोहिण्यां साधयेदर्थां पुष्टिकामः सदा जापी।
आर्द्रायां कारयेत् कर्म वश्याकर्षणहेतुभिः॥
पुनर्वस्वो तथा पुष्ये साधयेद्धनसम्पदाम्।
विचित्राभरणवस्त्रांश्च अञ्जनं समनःशिलाम्॥
रोचनां गैरिकांश्चैव आज्यं चैव सुपूजितम्।
वश्याकर्षणमेधां च पुष्येषु च नियोजयेत्॥
आश्लेषायां तथा कर्मा आकृष्टाप्रहरणादयम्।
मघासु कुर्यात् तथा कर्म राज्यमर्थाभिवार्धनम्॥
फल्गुन्यावुभौ श्रेष्ठौ आरुरोह स्ववाहनम्।
विचित्राणि कर्माणि हस्तेनैव विधीयते॥
स्वात्यां विशाखयोः कुर्याद् द्रव्यकर्मसमुद्भवम्।
अनुराधा तथा ज्येष्ठा उभौ नक्षत्रयोजितौ॥
सिद्धिकामः सदा कुर्याद् राज्यकामस्तथा सदा।
भौम्यार्थसम्पदांश्चापि विविधां योनिजां पराम्॥
साधयेद् धननिष्पत्तिं नक्षत्रेष्वेव योजिताः।
उभौ ह्यषाढौ तथा प्रोक्तौ जन्तुकर्मसु योजयेत्॥
धातुजेष्वपि सर्वत्र दृश्यते सिद्धिमानवे।
मूले मूलकर्माणि ओषध्यां विविधोद्भवाम्॥
साधयेन्मन्त्रतन्त्रज्ञो मूलनक्षत्रयोजिताम्।
श्रवणेष्वेव सर्वत्र कुर्याच्छ्रावण्यवर्णिताम्॥
निर्वाणप्रापकं धर्मं प्रव्रज्यां चापि योजयेत्।
धनिष्ठेषु सदा कुर्याद् धूपपुष्करिसाधनाम्॥
वृक्षां वाहनां चैव वस्त्रांश्चैव विधानवित्।
कुर्यात् शतभिषक् कर्म हिंसाप्राणिषु निर्दयाम्॥
प्राणापरोधसत्त्वेषु कुत्सितां तां विवर्जयेत्।
उभौ भद्रपदौ श्रेष्ठौ भूम्यामर्थनिवारकौ॥
सम्पदा कुरुते क्षिप्रं कर्मेष्वेव हि योजितौ।
सेनापत्यार्थसाधने + + + + + + + + + ++ ॥
राज्ये धननिष्पत्तिभूषणाभरणादिषु।
नानाधातुगणांश्चैव + + + + यथेप्सिताम्॥
साधयेन्मन्त्रतन्त्रज्ञ उभौ नक्षत्रयोजितौ।
रेवत्यां साधयेद् द्रव्यं नानाधातुसमुद्भवाम्॥
साधयेन्मन्त्रकर्माणि नानारत्नसमुद्भवम्।
सर्वोदकानि सर्वाणि साधयेन्मन्त्रवितं सदा॥
अश्विन्यश्च भरण्यश्च कृत्तिकानां तथांशकम्।
एतदङ्गारके प्रोक्तं क्षेत्रं चैव नभस्तले॥
तस्या वार तथा कीर्त्तिं सौम्यां साधये च तदा महीम्।
कृत्तिकं त्र्यंशकं विद्यात् रोहिणीमृगशिरो परौ॥
एतद् भार्गवे विद्यात् क्षेत्रं चैवं नभस्तले।
मृगशिरांशं तथा चैवं आद्रायां च सुयोजिताः॥
पुनर्वसुश्च तदा विद्याच्छान्त्यर्थं क्षेत्रमुद्भवम्।
पुष्याङ्गं तथाश्लेषं मघं चैव निबोधितम्॥
एतद् भानोः सदा क्षेत्रं कुर्यादाभिचारुकम्।
फल्गुन्या तु उभौ साङ्गौ ग्रहचिह्नितचिह्नितौ॥
इन्दुवारं तथा विद्यात् क्षेत्रं तस्य निशाकरे।
हस्तचित्रौ तथा सांशौ कुर्यात् कर्मातिमानितम्॥
बुधस्थाने तु उद्दिष्टः सर्वकर्मप्रसाधकः।
स्वात्या विशाखसंयुक्ता सांशा वापि कीर्तिता॥
द्वितीयं क्षेत्रनिर्दिष्टं दिवाकरस्य न संशयः।
अनुराधाज्येष्ठसांशौ तौ निर्दिष्टौ पृथिवीसुतौ॥
द्वितीयमङ्गारकक्षेत्रं वृश्चिकातसमुद्भवः।
सर्वधर्मार्थसंयुक्तं कर्मयुक्तार्थसाधयेत्॥
वर्जयेद् धीमतो हिंसां प्राणहिंसाभिचारुकाम्।
साधयेद् विविधानर्थां कर्मांश्चैव सुपुष्कलाम्॥
मूलाषाढौ तथा प्रोक्तौ उभौ सांशत्रिकोद्भवौ।
एतद् बृहस्पतेः क्षेत्रं नभःस्थं दृश्यते भुवि॥
साधयेत् कर्म युक्तात्मा विधानाच्च निवारकाम्।
महाभोगार्थसम्पत्ती सफलांश्चैव फलोद्भवाम्॥
धन्विनि राशिनिर्दिष्टो कुर्यात् सर्वसम्पदाम्।
श्रवणा धनिष्ठनिर्दिष्टा शतभिषां सममोदिता॥
एतत् शनिश्चरक्षेत्रं द्वितीयं कथितं पुरा।
राश्यमकरनिर्दिष्टा सर्वानर्थनिवारकः॥
तत्रस्थो यदि कर्माणि आरभेत विचक्षण।
सिध्यत्ययत्नान्मन्त्रज्ञस्तस्मिं काले प्रयोजिता॥
राश्यः कुम्भनिर्दिष्टा प्रोक्ता मुनिभिः पुरा।
उभौ भद्रपदौ प्रख्यौ रेवती च यशस्विनी॥
अङ्गहीना तथा पूर्वा शुभेन्द्रग्रहचिह्निताः।
प्रशस्ताः शोभनाः सर्वे तत् क्षेत्रं गुरवे + दा॥
मीनराशिसमासेन कथितं लोकचिह्नितैः।
ग्रहः प्रधान सर्वत्र तिर्यङ्मुक्ता सर्वकर्मसु॥
सप्तैते कथिता ह्यग्रमानुषाणां गणागमे।
अनन्ता ग्रहमुख्यास्तु अनन्ता ग्रहकुत्सिताः॥
मध्यस्था कथिता ह्येते मानुषाणां हिताहिता। इति।
तेषां सत्त्वप्रयोगेषु निर्दिष्टा मन्त्रजापिनाम्॥
सत्त्वासत्त्वं तथा कालं नियमं चैव कीर्तितम्।
नाग्रहो धर्मसंयुक्तं न कर्मो ग्रहचिह्नितम्॥
संयोगग्रहनक्षत्रो मन्त्रसिद्धिमुदाहृता।
न सिद्धिः कालमिति ज्ञेया नासिद्धिः कालमुच्यते॥
सिद्ध्यसिद्धावुभावेतौ सङ्गाकालतः क्रमा।
विपरीतरता धर्मा न धर्मा धर्मचारिणः॥
धर्मकर्मसमायोगा संयुक्तः साधयिष्यति।
न दैवात् कर्ममुक्तस्तु सिद्धिर्न सिद्धिर्देवमुद्भवा॥
तत्कर्मश्च सिद्धिश्च दैवमेव नियोजयेत्।
न दैवात् कर्ममुक्तस्तु दैवं कर्ममितःपरम्॥
कर्मकं तु मतः प्रोक्तं विधिनिर्दिष्टहेतुना।
ग्रहा कर्ममुक्तास्तु नक्षत्राश्च सुपूजिताः॥
तस्मात् कर्म समं तेषां कर्मार्थं सिद्धिरिष्यते।
कथिता गणना ह्येते कर्म एव सदैवतम्॥
न ग्रहा राशयो योनिरक्षताश्च सुपूजिताः।
कर्म एष सदा विद्यात् विधिमुक्ता समोदिता॥
फलोद्भवं च सदा कर्म युक्तिर्मन्त्रेषु भाषिता।
तस्माद् युक्तितः कर्म न ग्रहो नापि राश्यजा॥
नक्षत्राणां तिथीनां च गतियोनि समासतः।
कालप्रमाणनियमश्च न परं कर्मयोः सदा॥
तस्मात् तन्त्रवित् सेव धर्म एव नियोजयेत्।
अनन्तग्रहाणां लोके राशयो विविधा परे॥
तिथयो गणिता सङ्ख्ये क्षेत्रश्चैव नियोक्तृभिः।
तस्मात् संक्षेपतो वक्ष्ये कथ्यमानं निबोधताम्॥
मेषो वृषो मिथुनश्च कर्कटश्च सुयोजितः।
सिंहकन्यतुलं चैव वृश्चिकधन्विनौ परौ॥
मकरः कुम्भ इति ज्ञेयौ मीनवानरयोऽपरे।
मानुषो देवराशिश्च अपरो गरुडापरौ॥
यक्षराक्षसाराश्यो तिर्यक्प्रेतशुभौ परे।
नरका राशिनिर्दिष्टा अनन्ता गतियोनिजा॥
निर्दिष्टा राशयः सर्वे नानाधातुसमुद्भवाः।
असङ्ख्येया मुनिभिः प्रोक्ता राशयो बहुधा परे॥
तेषां गतिचिह्नानि सत्त्वयोनिसमाश्रयम्।
कथितं कथयिष्येऽह अनन्तां नक्षत्रा ग्रहाम्॥
क्षेत्रा च बहुधा प्रोक्ता नानाग्रहनिषेविता। इति।
बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रादार्यमञ्जुश्रियमूलकल्पात् षोडशपटलविसराद् द्वितीयो ग्रहनक्षत्रलक्षणक्षेत्रज्योतिषज्ञानपरिवर्त पटलविसरः।