अष्टमः पटलविसरः
Technical Details
अष्टमः पटलविसरः।
अथ खलु भगवान् शाक्यमुनिर्मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। ये ते मञ्जुश्रीः ! त्वया निर्दिष्टा सत्त्वा तेषामर्थाय इदं पटविधानं विसरमाख्यातम्। ते स्वल्पेनैवोपायेन साधयिष्यन्ते। तेषामर्थाय साधनोपयिकं गुणविस्तरप्रभेदविभागशो कर्मविभागं समनुभाषिष्यामि। तं शृणु साधु च सुष्ठु च मनसि कुरु भाषिष्ये। सर्वसत्त्वानामर्थाय॥
अथ खलु मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत्। साधु साधु भगवन् ! सुभाषिता तेऽस्मद्विभावनोद्योतनकरीं मन्त्रचर्यागुणनिष्पत्तिप्रभावनकरीं वार्णाम्। तद्वदतु तं भगवान्। यस्येदानीं कालं मन्यसे। अस्माकमनुकम्पार्थम्॥
अथ भगवान् शाक्यमुनिः सर्वावन्तं पर्षन्मण्डलमवलोक्य स्मितमकार्षीत्। अथ भगवतः शाक्यमुनिर्मुखद्वारात् नीलपीतस्फटिकवर्णादयो रश्मयो निश्चरन्ति स्म। समनन्तरनिश्चरिता च रश्मयो सर्वावन्तं पर्षन्मण्डलं अवभास्य त्रिसाहस्रमहासाहस्रं लोकधातुं सर्वमारभवनं जिह्मीकृत्य सर्वनक्षत्रद्योतिशैलगणप्रभां यत्रेमौ चन्द्रसूर्यौ महर्धिकौ महानुभावौ तया प्रभया तेऽपि जिह्मीकृतौ नावभास्यन्ते, निष्प्रभाणि च भवन्ति। न विरोचन्ते जिह्मीकृतानि च संदृश्यन्ते सर्वमणिमन्त्रौपधिरत्नप्रभां निःप्रभीकृत्य पुनरेव भगवतः शाक्यमुनेः मुखद्वारान्तर्धीयते स्म॥
अथ खलु वज्रपाणिर्बोधिसत्त्वो महासत्त्वः तत्रैव पर्षन्मण्डले सन्निपतितोऽभूत् सन्निषण्णः। स उत्थायासनात् सत्त्वरमाणरूपो भगवतश्चरणयोर्निपत्य भगवन्तमेतदवोचत् – नाहेतुकं नाप्रत्ययं बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति। को भगवन् हेतुः, कः प्रत्ययो स्मितस्य प्राविष्करणाय॥
एवमुक्ते, भगवान् वज्रपाणिं बोधिसत्त्वमामन्त्रयते स्म। एवमेतद् वज्रपाणे ! एवमेतत्। यथा वदसि तत् तथा। नाहेत्वप्रत्ययं तथागतानां विद्यते स्मितम्। अस्ति हेतुः अस्ति प्रत्ययः। यो इदं सूत्रेन्द्रराजं मञ्जुश्रीमूलकल्पा विद्याचर्यानुष्ठानकर्मसाधनोपयिकसमवशरणधर्ममेघानिःश्रितं समनुप्रवेशानुवर्तकं करिष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति श्रद्धास्यन्ति पुस्तकलिखितं कृत्वाः पूजयिष्यन्ति वन्दनचूर्णानुलेपनधूपमाल्यैः छत्रध्वजपताकैः विविधैर्वा प्रकारैर्वाद्यविशेषैर्वा नानातूर्यताडावचरैः। अन्तशः अनुमोदनासहगतं वा चित्तसन्ततिर्वा प्रतिलप्स्यन्ते रोमहर्षणं सञ्जनं वा करिष्यन्ति विद्याप्रभावशक्तिं वा श्रुत्वा संहृष्यन्ते अनुमोदिष्यन्ते चर्यां वा प्रतिपत्स्यन्ते। व्याकृतास्ते मया अनुत्तरायां सम्यक् सम्बोधो सर्वे ते भविष्यन्ति। बुद्धा भगवन्तः। अत एव जिनाः स्मितं कुर्वन्ति नान्यथा इति॥
आदौ तावद् दृष्टसमयः कृतपुरश्चरणः लब्धाभिषेकः अस्मिन् कल्पराजमूलमन्त्रहृदयं उपहृदयं वा अन्यतरं वा मन्त्रं गृहीत्वा एकाक्षरं वा अन्यं वा यथेप्सितं महारण्यं गत्वा त्रिंशल्लक्षाणि जपे फलोदकाहारः मूलपर्णभक्षो वा कृतपुरश्चरणो भवति॥
ततो पर्वतायमभिरुह्य ज्येष्ठं पटं पश्चान्मुखं प्रतिष्ठाप्य, आत्मना पूर्वाभिमुखो कुशविण्डकोपविष्टः श्वेतपद्मानां श्वेतकुङ्कुमाभ्यक्तानां लक्षमेकं भगवतः शाक्यमुनेः सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकाणां पटस्याधस्तान्निवेदयेत्। कर्पूरधूपं च यथाविभवतः दहेत्। देवपुत्रनागानां च पूजा कुर्यात्। यथालब्धैः पुष्पैः॥ ततोऽर्धरात्रकालसमये शुक्लपूर्णमास्यां प्रातिहारकप्रतिपूर्णायां पटस्याग्रतः अग्निकुण्डं कृत्वा पद्माकारं श्वेतचन्दनकाष्ठैरग्निं प्रज्वाल्य कुङ्कुमकर्पूरं चैकीकृत्य, अष्टसहस्राहुतिं जुहुयात्। यथाविभवतः कृतरक्षः॥
ततः भगवतः शाक्यमुनेः रश्मयो निश्चरन्ति समन्ताच्च पटः एकज्वालीभूतो भवति। ततः साधकेन सत्त्वरमाणरूपेण पटं त्रिःप्रदक्षिणीकृत्य सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकाणां प्रणम्य पटं ग्रहीतव्यम्॥
अतीतेन पूर्वलिखितसाधकपटान्तदश ततो गृहीतमात्रोत्पतति। अच्छटामात्रेण ब्रह्मलोकमतिक्रामति। कुसुमावतीं लोकधातुं सम्प्रतिष्ठति। यत्रासौ भगवां सङ्कुसुमितराजेन्द्रस्तथागतः तिष्ठति ध्रियते यापयति धर्मं च देशयति आर्यमञ्जुश्रियं च साक्षात् पश्यति धर्मं शृणोति अनेकान्यपि बोधिसत्त्वशतसहस्रा पश्यति तांश्च पर्युपास्ते महाकल्पसहस्रं अजरामरलीली भवति। पटस्तत्रैव तिष्ठति सर्वबुद्धबोधिसत्त्वाधिष्ठितो भवति तेषां चाधिष्ठानं सञ्जानीते क्षेत्रशतसहस्रं चाक्रामति कायशतसहस्रं वा दर्शयति अनेकऋद्धिप्रभावसमुद्गतो भवति आर्यमञ्जुश्रियश्च कल्याणमित्रो भवति नियतं बोधिपरायणो भवतीति॥
बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद्
अष्टम उत्तमसाधनौपयिककर्मपटल-
विसरात् प्रथमः समाप्त इति॥