पञ्चमः पटलविसरः
Technical Details
पञ्चमः पटलविसरः।
अथ खलु भगवान् शाक्यमुनिः सर्वं तत्पर्षन्मण्डलमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयेत स्म। अस्ति मञ्जुश्रीः अपरमपि त्वदीयं मध्यमं पटविधानम्। तद् भाषिष्येऽहम्। शृणु, साधु च सुष्ठु च मनसि कुरु॥
आदौ तावत् पूर्वनिर्दिष्टेनैव सूत्रकेण पूर्वोक्तेनैव विधिना पूर्वपरिकल्पितैः शिल्पिभिः पूर्वप्रमाणैव मध्यमपटः सुशोभनेन शुक्लेन सुव्रतेन सदशेन अश्लेषकौरङ्गैरपगतकेशसङ्कारादिभिर्यथैव प्रथमं तथैव तत् कुर्यात् वर्जयित्वा तु प्रमाणरूपकात् तत्पटं पश्चादभिलिखापयितव्यम्॥
आदौ तावद् शुद्धावासभवनं समन्तशोभनाकारं स्फुटितरत्नमयाकारं सितमुक्ताहारभूषितं तस्मिं मध्ये भगवांश्छाक्यमुनिः चित्रापयितव्यः रत्नसिंहासनोपनिषण्णः धर्मं देशयमानः सर्वाकारवरोपेतः, दक्षिणपार्श्वे आर्यमञ्जुश्रीः पद्मकिञ्जल्काभः कुङ्कुमादित्यवर्णो वा वामस्कन्धप्रदेशे नीलोत्पलावसक्तः कृताञ्जलिपुटः भगवन्तं शाक्यमुनिं निरीक्षमाणः ईषत्प्रहसितवदनः कुमाररूपी पञ्चचीरकोपशोभितशिरस्कः बालदारकालङ्कारभूषितः दक्षिणजानुमण्डलावनतशिरः भगवतश्च शाक्यमुनेर्वामपार्श्वे आर्यावलोकितेश्वरः शरत्काण्डगौरो यथैव पूर्वं तथैवमभिलेख्यम्। किन्तु भगवतश्वामरमुद्धूयमानं तस्य पार्श्वे आर्यमैत्रेयं समन्तभद्रः वज्रपाणिर्महामतिः शान्तमति गगनगञ्जः सर्वनीवरणविष्कम्भिनश्चेति। एतेऽनुपूर्वतोऽभिलेख्याः। यथैव प्रथमं तथैव सर्वालङ्कारभूषिताः चित्रापयितव्याः॥
तेषां चोपरिष्टा अष्टौ बुद्धा भगवन्तश्चित्रापयिव्याः स्थितका अभयप्रदानदक्षिणकराः पीतचीवरोत्तरासङ्गीकृतदेहाः वामहस्तेन चीवरकर्णकावसक्ता ईषद्रक्तावभासकाषायसुनिवस्ताः समन्तप्रभाः सर्वाकारवरोपेताः। तद्यथा - सङ्कुसुमितराजेन्द्रस्तथागतः रत्नशिखिः शिखिः विश्वभुक् क्रकुच्छन्दकः बकग्रीविः काश्यपः सुनेत्रश्चेति। इत्येते बुद्धा भगवन्तश्चित्रापयितव्याः॥
दक्षिणे पार्श्वे भगवत आर्यमञ्जुश्रियस्य समीपे महापर्षन्मण्डलं चित्रापयितव्यम्। अष्टौ महाश्रावकाः अष्टौ प्रत्येकबुद्धाः यथैव पूर्वं तथैव ते चित्रापयितव्याः। किन्तु आर्यमहामौद्गल्यायनशारिपुत्रौ भगवतः शाक्यमुने चामरमुद्धूयमानौ स्थितकायमभिलेख्यौ। एवं शुद्धावासकायिका देवपुत्रा अभिलेख्याः। शक्रश्च देवानामिन्द्रः सयामश्च सन्तुषितश्च सुनिर्मितश्च शुद्धश्च विमलश्च सुदृशश्च अतपश्च आभास्वरश्च ब्रह्मा च सहाम्पतिः अकनिष्ठश्च एवमादयो देवपुत्रा रूपावचराः कामावचराश्चानुपूर्वतोऽभिलेख्याः आर्यमञ्जुश्रियसमीपस्थाः पर्षन्मण्डलोपरिचितविन्यस्ताः स्वरूपवेषधारिणो चित्रापयितस्याः। भगवतः सिंहासनस्ताधस्तात्समन्तान्महापर्वतः महासमुद्राभ्युद्गतं यावत् पटान्ते चित्रापयितव्यः। एकस्मिन् पटान्तकोणे साधको यथावेषसंस्थानाकारः अवनतजानुकौर्परशिरः धूपकटच्छुकव्यग्रहस्तः चित्रापयितव्यः। तस्मिंश्च रत्नपर्वते आर्यमञ्जुश्रियस्याधस्तात् यमान्तकक्रोधराजा यथापूर्वनिर्दिष्टमभिलेख्यम्। वामपार्श्वे भगवतः सिंहासनस्याधस्ताद् आर्यावलोकितेश्वरपादमूलसमीपे तस्मिंश्च रत्नपर्वतोपनिषण्णा तारादेवी अभिलेख्याः। यथा पूर्वनिर्दिष्टा तथा चित्रापयितव्याः। समन्ताश्च तत्पटं मुक्तपुष्पावकीर्णं चम्पकनीलोत्पलसौगन्धिकमालतीवर्षिकधानुष्कारीकपुन्नागकेसरादिभिः पुष्पैरभ्यवकीर्णं समन्तात् पटम्। उपरिष्टाच्च पटान्तकोणे उभयान्ते द्वौ देवपुत्रौ महापुष्पौघमुत्सृजमानौ विचित्ररूपधारिणौ अन्तरीक्षस्थितौ वारिमेघान्तर्गतनिलीनौ उत्पतमानौ सितवर्णौ अभिलेख्याविति॥
एतन्मध्यमकं प्रोक्तं पटः श्रेयार्थमुद्भवम्।
मध्यसिद्धिस्तदायत्ता मनुजानां तु भूतले॥
यत्किञ्चित् कृतं पापं संसारे संसरतो पुरा।
नश्यते तत्क्षणादेव पटं दर्शनादिह॥
मूढसत्त्वा न जानन्ति भ्रमन्ता गतिञ्चके।
पटस्या दर्शना ये तु मञ्जुघोषस्य मध्यमे॥
अपि किल्विषकारी स्यात् पञ्चानन्तर्यकारिणः।
दुःशीलस्यापि सिध्येयुर्मन्त्रा विविधभाषिताः॥
अपि क्षिप्रतरं सिद्धि प्राप्नुयात् कृतजापिनः।
रोगी मुच्यते रोगाद् दरिद्रो लभते धनम्॥
अपुत्रो लभते पुत्रं मध्यमे पटदर्शने।
दृष्टमात्रं तदा पुण्यं प्राप्नुयाद् विपुलं महत्॥
नियतं देवमनुष्याणं सौख्यभागी भवेन्नरः।
बुद्धत्वं नियतं तस्य जन्मान्ते च भविष्यति॥
लिखना वाचनाच्चैव पूजजलेखना तथा।
दर्शना स्पर्शनाच्चैव मुच्यते सर्वकिल्विषात्॥
प्रार्थनाध्येषणा ह्येवं अटस्यास्य महाद्युतेः।
लभते सफलं जन्मां क्षिप्रं चानुमोदना॥
न शक्यं वाचया वक्तुमपि कल्पाग्रकोटिभिः।
यत् पुण्यं प्राप्नुया जन्तु सफलं पटदर्शनादिति॥
बोधिसत्त्वपिटकावतंसक्रान्महायानवैपुल्यसूत्राद्
आर्यमञ्जुश्रियमूलकल्पात् पञ्चमः
पटलविसरः।
द्वितीयः पटविधानविसरः समाप्तः॥