१५ मत्स्य-जातकम्
Technical Details
१५. मत्स्य-जातकम्
शीलवतामिहैवाभिप्रायाः कल्याणाः समृध्यन्ति प्रागेव परत्रेति शीलविशुद्धौ प्रयतितव्यम्। तद्यथानुश्रूयते-
बोधिसत्त्वः किल कस्मिंश्चिन्नातिमहति कह्लार-तामरस-कमल-कुवलयविभूषितरुचिरसलिले हंस-कारण्डव-चक्रवाक-मिथुनोपशोभिते तीरान्तरुहतरुकुसुमावकीर्णे सरसि मत्स्याधिपतिर्बभूव। स्वभ्यस्तभावाच्च बहुषु जन्मान्तरेषु परार्थचर्यायास्तत्रस्थोऽपि परहितसुखप्रतिपादनव्यापारो बभूव।
अभ्यासयोगाद्धि शुभाशुभानि कर्माणि सात्म्येन भवन्ति पुंसाम्।
तथाविधान्येव यदप्रयत्नाज्जन्मान्तरे स्वप्न इवाचरन्ति॥१॥
इष्टानामिव च स्वेषामपत्यानामुपरि निविष्टहार्दो महासत्त्वस्तेषां मीनानां दानप्रियवचनार्थचर्यादिक्रमैः परमनुग्रहं चकार।
अन्योन्यहिंसाप्रणयं नियच्छन्परस्परप्रेम विवर्धयंश्च।
योगादुपायज्ञतया च तेषां विस्मारयामास स मत्स्यवृत्तम्॥२॥
तत्तेन सम्यक्परिपाल्यमानं वृद्धिं परां मीनकुलं जगाम।
पुरं विनिर्मुक्तमिवोपसर्गैर्न्यायप्रवृत्तेन नराधिपेन॥३॥
अथ कदाचित्सत्त्वानां भाग्यसम्पद्वैकल्यात्प्रमादाच्च वर्षाधिकृतानां देवपुत्राणां न सम्यग्देवो ववर्ष। अथासम्यग्वर्षिणि देवे तत्सरः फुल्लकदम्बकुसुमगौरेण नवसलिलेन न यथापुरमापुपूरे। क्रमेण चोपगते निदाघकालसमये पटुतरदीप्तिभिः खेदालसगतिभिरिव च दिनकरकिरणैस्तदभितप्तया च धरण्या ज्वालानुगतेनेव च ह्लादाभि लाषिणा मारुतेन तर्षवशादिव प्रत्यहमापीयमानं तत्सरः पल्वलीबभूव।
निदाघकाले ज्वलितो विवस्वाञ्ज्वालाभिवर्षीव पटुश्च वायुः।
ज्वरातुरेवाशिशिरा च भूमिस्तोयानि रोषादिव शोषयन्ति॥४॥
अथ बोधिसत्त्वो वायसगणैरपि परितर्क्यमाणं प्रागेव सलिलतीरान्तचारिभिः पक्षिगणैर्विषाददैन्यवशगं विस्पन्दितमात्रपरायणं मीनकुलमवेक्ष्य करुणायमानश्चिन्तामापेदे। कष्टा बतेयमापदापतिता मीनानाम्।
प्रत्यहं क्षीयते तोयं स्पर्धमानमिवायुषा।
अद्यापि च चिरेणैव लक्ष्यते जलदागमः॥५॥
अपयानक्रमो नास्ति नेताप्यन्यत्र को भवेत्।
अस्मद्व्यसनसंकृष्टाः समायान्ति च नो द्विषः॥६॥
अस्य निःसंशयमिमे तोयशेषस्य संक्षयात्।
स्फुरन्तो भक्षयिष्यन्ते शत्रुभिर्मम पश्यतः॥७॥
तत्किमत्र प्राप्तकालं स्यादिति विमृशन्स महात्मा सत्याधिष्ठानमेकमार्तायनं ददर्श। करुणया च समापीड्यमानहृदयो दीर्घमुष्णमभिनिश्वस्य नभः समुल्लोकयन्नवाच-
स्मरामि न प्राणिवधं यथाहं सञ्चिन्त्य कृच्छ्रे परमेऽपि कर्तुम्।
अनेन सत्येन सरांसि तोयैरापूरयन्वर्षतु देवराजः॥८॥
अथ तस्य महात्मनः पुण्योपचयगुणात्सत्याधिष्ठानबलात्तदभिप्रसादितदेवनागयक्षानुभावाच्च समन्ततस्तोयाबलम्बिबिम्बा गम्भीरमधुरनिर्घोषा विद्युल्लतालङ्कृतनीलविपुलशिखरा विजृम्भमाणा इव प्रविसर्पिभिः शिखरभुजैः परिष्वजमाना इव चान्योन्यमकालमेघाः कालमेघाः प्रादुरभवन्।
दिशां प्रमिण्वन्त इव प्रयामं शृङ्गैर्वितन्वन्त इवान्धकारम्।
नभस्तलादर्शगता विरेजुश्छाया गिरीणामिव कालमेघाः॥९॥
संसक्तकेकैः शिखिभिः प्रहृष्टैः संस्तूयमाना इव नृत्तचित्रैः।
प्रसक्तमन्द्रस्तनिता विरेजुर्धीरप्रहासादिव ते घनौघाः॥१०॥
मुक्ता विमुक्ता इव तैर्विमुक्ता धारा निपेतुः प्रशशाम रेणुः।
गन्धश्चचारानिभृतो धरण्यां विकीर्यमाणो जलदानिलेन॥११॥
निदाघसम्पर्कविवर्धितोऽपि तिरोबभूवार्ककरप्रभावः।
फेनावलीव्याकुलमेखलानि तोयानि निम्नाभिमुखानि सस्रुः॥१२॥
मुहुर्मुहुः काञ्चनपिञ्जराभिर्भाभिर्दिगन्ताननुरञ्जयन्ती।
पयोदतूर्यस्वनलब्धहर्षा विद्युल्लता नृत्तमिवाचचार॥१३॥
अथ बोधिसत्त्वः समन्ततोऽभिप्रसृतैरापाण्डुभिः सलिलप्रवाहैरापूर्यमाणे सरसि धारानिपातसमकालमेव विद्रुते वायसाद्ये पक्षिगणे प्रतिलब्धजीविताशे च प्रमुदिते मीनगणे प्रीत्याभिसार्यमाणहृदयो वर्षनिवृत्तिसाशङ्कः पुनः पुनः पर्जन्यमाबभाषे-
उद्गर्ज पर्जन्य गभीरधीरं प्रमोदमुद्वासय वायसानाम्।
रत्नायमानानि पयांसि वर्षन्संसक्तविद्युज्ज्वलितद्युतीनि॥१४॥
तदुपश्रुत्य शक्रो देवानामिन्द्रः परमविस्मितमनाः साक्षादभिगम्यैनमभिसंराधयन्नुवाच-
तवैव खल्वेष महानुभाव मत्स्येन्द्र सत्यातिशयप्रभावः।
आवर्जिता यत्कलशा इवेमे क्षरन्ति रम्यस्तनिताः पयोदाः॥१५॥
महत्प्रमादस्खलितं त्विदं मे यन्नाम कृत्येषु भवद्विधानाम्।
लोकार्थमभ्युद्यतमानसानां व्यापारयोगं न समभ्युपैमि॥१६॥
चिन्तां कृथा मा तदतः परं त्वं सतां हि कृत्योद्वहनेऽस्मि धुर्यः।
देशोऽप्ययं त्वद्गुणसंश्रयेण भूयश्च नैवं भवितार्तिवश्यः॥१७॥
इत्येवं प्रियवचनैः संराध्य तत्रैवान्तर्दधे। तच्च सरः परां तोयसमृद्धिमवाप।
तदेवं शीलवतामिहैवाभिप्रायाः कल्याणाः समृध्यन्ति प्रागेव परत्रेति शीलविशुद्धौ प्रयतितव्यम्।
इति मत्स्य-जातकं पञ्चदशम्।