प्रथम अध्यायः
Technical Details
स्वयम्भू पुराण
प्रथम अध्यायः
स्वयम्भूधर्मधातुसमुत्पत्ति निदानकथा
ॐ नमः श्री धर्मधातुवागीश्वराय सर्व बुद्धधर्मबोधिसत्त्वेभ्यः।
श्रीमता येन सद्धर्मस्त्रैलोके संप्रकाशितः।
श्रीघनं तं महाबुद्धं वन्देकऽहं शरणाश्रितः॥१॥
नत्वा त्रिजगदीशानं धर्मधातुजिनालयं।
तत्स्वयम्भूसमुद्देशं वक्षामि शृणुतादरात्॥२॥
श्रद्धया यः शृणोतीमां स्वयम्भूत्पत्तिसत्कथां।
परिशुद्धत्रिकायाः स बोधिसत्त्वो भवेद् ध्रुवं॥३॥
तद्यथा भूत्पुराभिज्ञः जयश्री सुगतात्मजः।
बोधिमण्डविहारे स बिजहार ससांधिकः॥४॥
तत्र जिनेश्वरो नाम बोधिसत्त्व महामतिः।
श्रद्धया शरणं गत्वा जयश्रीयं उपाश्रयेत्॥५॥
तदा धीमान्जयश्रीः स सर्वसत्त्व हितार्थवित्।
सद्धर्मसमुपादेष्टुं सभासने समाश्रयेत्॥६॥
तत्र सर्वे महासत्त्वा बोधिसत्त्वा जिनात्मजाः।
अर्हन्तो भिक्षवश्चापि ब्रह्मचारिणः श्रावकाः॥७॥
भिक्षुण्यो ब्रह्मचारिण्यो ब्रतिनश्चाप्युपासकाः।
उपासिकास्तथान्येऽपि गृहस्थश्च महाजनाः॥८॥
ब्राह्मणास्तिर्थीकाश्चापि यतयश्च तपस्विनः।
राजानो मन्त्रिणोमात्याः सैन्याधिपतिश्च पौरिकाः॥९॥
ग्राम्या जनपदाश्चापि तथान्यवासिनो जनाः।
तत्सद्धर्मामृतं पातुं श्रद्धया समुपागताः॥१०॥
तत्र सभासनासीनं तमर्हतं जयश्रीयं।
अभ्यर्च्य सादरं नत्वा तत्सभायां यथाक्रमं॥११॥
कृतांजलिपुटाः सर्वे परिवृत्य समन्ततः।
पुरस्कृत्य समुद्विक्ष्य समाश्रयन् समाहिताः॥१२॥
तान् सर्वान् समुपासीनान् सद्धर्म श्रवणोत्सुकान्।
दृष्ट्वा जिनश्री बोधिसत्त्वः समुत्थितः॥१३॥
उद्वहन्नुत्तरासंगं सांजलि समुपाश्रितः।
जानुभ्यां भूतले धृत्वा सम्पश्यन्नेवमव्रवीत्॥१४॥
भदन्तोहर्षमिच्छामि चरितुं बोधिसंवरं।
तदादौ किं व्रतं धृत्वा संचरेय समाहितः॥१५॥
तद् भवान् समुपादिस्य सर्वानस्मान् प्रबोधयन्।
बोधिमार्गे समायुज्य चारयितुं शुभेर्हति॥१६॥
इति संप्रार्थितं तेन श्रुत्वा च सुगतात्मजः।
जयश्रीस्तं महासत्त्वं सभामन्त्रैवमादिशत्॥१७॥
श्रृणु वत्सास्ति ते वांछा सम्बोधिसंवरे यदि।
यथाक्रमं प्रवक्षामि संबोधिव्रतसाधनं॥१८॥
यो वांछा तत्र संसारे चरितुं बोधिसंवरं।
स आदौ शरणं गत्वा सद्गुरुं समुपाश्रयेत॥१९॥
तदुपदेशमासाद्य यथाविद्यि समाहितः॥२०॥
तीर्थे स्नात्वा विशुद्धात्मा त्रिरत्नशरणं गताः।
यथाविधि समभ्यर्च्य संबोधि निहिताशयः॥२१॥
उपोषधंव्रतमाधाय समाचरेज्जगद्धिते।
एवं यश्चरते नित्यं संबोधिमानसः सुधीः॥२२॥
परिशुद्ध त्रिकायः स बोधिसत्त्वे भवेद्।
बोधिसत्त्वो महासत्त्वः सर्व्वसत्त्व हितार्थभृत्॥२३॥
क्रमात्संबोधि संभारं संपूरयेत् समाहितः।
एतत्पुण्याभियुक्तात्माचतुर्ब्रह्म विहारधृक्॥२४॥
निःक्लेशो निर्ज्जयन्मारोन संबोधिः समवाप्नुयात्॥२५॥
एवं सर्वत्र लोकेषु सद्धर्म संप्रकाशयन्।
समाप्य सौगतंकार्य सुनिर्वृतिमवाप्नुयात्॥२६॥
ततोऽर्हं सुगतो भूत्वा सर्व्वान्सत्त्वान्प्रवोधयन्।
बोधिमार्गे प्रतिष्ठाप्य संवृत्तौ संप्रचारयेत्॥२७॥
एवं सर्वेऽपि संबुद्धाः येतीता अप्यनागताः।
वर्त्तमानाश्च ते हयेतद् व्रतपुण्य विपाकतः॥२८॥
बोधिप्राप्य जिना आसन्भविष्यन्ति भवन्त्यपि।
एवं सर्वे महासत्त्वा बोधिसत्त्वा जिनात्मजाः॥ २९॥
अर्हन्तोऽपि था सर्वे परिशुद्धत्रिमण्डलाः।
बोधिं प्राप्य सुनिर्वाणं याता यास्यन्ति यान्त्यतः॥३०॥
एवं यूयं परिज्ञाय यदेच्छथ सुनिवृतिं।
त्रिरत्नशरणं गत्वा संचरध्वमिदं व्रतं॥३१॥
इति तेन समादिष्टं श्रुत्वा स सुगतात्मजः।
जिनेश्वरं तमर्हन्तं सम्पश्यन्नेवमव्रवीत्॥३२॥
भदन्त श्रोतुमिछामि तद् व्रतस्थानमुत्तमं।
एतद् व्रतं चरेत्कुत्र तद्देशं समुपादिशत्॥३३॥
इति संप्रार्थिते तेन जयश्रीः स महामतिः।
जिनेश्वरं महासत्त्वं तं पश्यन्नेवमादिशत्॥३४॥
शृणु वत्स समाधायं व्रतस्थानसमुत्तमं।
मुनीश्वरैर्यथाख्यातं तथा वक्षामि तेऽधुना॥३५॥
पुण्यक्षेत्रेषु तीर्थेषु विहारे सुगताश्रमे॥
बुद्धानां निवृतानांच चैत्येषु प्रतिमासु च॥३६॥
बुद्धक्षेत्रेषु सर्वत्र व्रतस्थानं समुत्तमं।
एतेष्वमि समाख्यातं स्वयम्भूचैत्यं उत्तमं॥३७॥
एवं विज्ञाय यो धीमान्व्रतं चरितुमिच्छति।
स स्वयम्भू जिनक्षेत्रं आश्रित्य चरतां व्रतं॥३८॥
स्वयम्भूक्षेत्रमाश्रित्य यश्चरति व्रतं मुदा।
स लभेत् तन्महत् पुण्यमक्षयं बोधिसाधनं॥३९॥
एतत् पुण्यं विशुद्धात्मा भद्रश्री सद्गुणाश्रयः।
बोधिसत्त्वो महाभिज्ञा भवज्जिनात्मजो ध्रुवं॥४०॥
दुर्गतिं न ब्रजेत् क्वापि संसारे स कदाचन।
सदा सद्गतिसंजातो बोधिचर्याव्रतं चरेत्॥४१॥
एवं स संसरल्लोके कृत्वा सर्वत्र भद्रता
संबोधि प्रणिधिं धृत्वा संचरे तद्जगद्धिते॥४२॥
एवं च बोधि संभारं पूरयित्वा यथाक्रमं।
त्रिविधां बोधिमासाद्यः निर्वृतिपदमाप्नुयात्॥४३॥
एवं यूयं परिज्ञात्वाः स्वयम्भूस्थान आश्रिता।
त्रिरत्नशरणं गत्वा संचरथ व्रतोत्तमं॥४४॥
एतत्तेनार्हतादिष्टं श्रुत्वा स सुगतात्मजः।
जयश्रियं तमर्हन्तं सम्पश्यन्नेवमब्रवीत्॥४५॥
भदन्त भवता दिष्टं श्रुत्वा मे रोचते मनः।
स्वयम्भूचैत्यमाराध्य चरितुं व्रतमाभवं॥४६॥
स्वयम्भू चैत्यराजः श्रीधर्मधातु जिनालयः।
कुत्रास्त्यत्र महीलोके तत् समादेष्टुमर्हति॥४७॥
इति सप्रार्थितं तेन श्रुत्वां सोऽर्हन् यतिः सुधीः।
जयश्री स्तं महासत्त्व समालोक्यैवमादिशत॥४८॥
विद्यतेऽत्र महीलोके उत्तरस्यां हिमालये।
नेपाल इति विख्यातेः गोपुच्छाख्येर्नगोत्तमः॥४९॥
तद्गिरेर्नाम चातुर्ध्य चतुर्युगेषु वर्तते।
तद्यथाभूद्युगे सत्ये पद्मगिरिरिति स्मृतः॥५०॥
त्रेतायां वज्रकूटाख्यो गोशृंगो द्वापरे स्मृतः।
इदानीं तु कलौऽसौ गोपुच्छ इति विश्रुतः॥५१॥
सोऽपिशैलो इदानीतु लोकै नेपाल देशकैः।
साम्हेगुरिति विख्यात स्तथासंप्रस्थितो भुवि॥५२॥
स सर्वधातुरलादि सर्वद्रव्यमयोक्तमः।
अश्वत्थ प्रमुखैर्सवैर्पादपैः संप्रशोभितः॥५३॥
सर्वत्र कुसुमैर्कान्तः संर्वोषधिफलद्रुमैः।
सर्वपक्षिविरावैश्चः भ्रमद्भ्रमरनिस्वनैः॥५४॥
जन्तुभिः सकलः स्नेह निवद्धमैत्रमानसैः।
तपस्विवद्धया भद्रचारिभिः सनिषेवितः॥५५॥
अष्टांग गुणसंपन्न संशुद्धामृतनिर्झरैः।
शोभितः पुष्पगंधाधि संवासितैः समीरणैः॥५६॥
संसेवितः सदा दिव्य महोत्साहैर्विवाजितः।
सर्वलोकाधिपैर्नित्यं संसेवितः समादरैः॥५७॥
तत्र रत्नमय पद्मः कर्ण्णिकायां समाश्रितः।
दिव्य स्फटिकरत्नाभज्योतिरूपो निरञ्जनः॥५८॥
एकहस्तः प्रमानोच्चश्चैत्यरूपो जिनाश्रयः।
स्वयम्भूः सर्वलोकानां भद्रार्थ समवस्थितः॥५९॥
ब्रह्म शक्रादिभिर्देवैः सर्वैल्लोकाधिपैरपि।
सर्वैर्दैत्याधिपैश्चापि नागेन्द्रैः गरुडैरपि॥६०॥
सिद्धै विद्याधरैः साध्यैरूर्यक्षगन्धर्वकिन्नरैः।
राक्षसेन्द्रैश्च रुद्रैश्च ग्रहैस्तारागणैरपि॥६१॥
वसुभिश्चाप्सरोभिश्चः सर्वैश्व त्रिदशाधिपैः।
ऋषिभिर्यतिभिः सर्वै योगिभि ब्रह्मचारिभिः॥६२॥
सर्वैश्च तीर्थिकै विज्ञैस्तापसैश्चापिसज्जनैः।
दिवानिशं चतुः संध्यं दृष्ट्वा स्मृत्वा प्रवन्दितः॥६३॥
नित्यकालं समागते समभ्यर्च्य समादरात्।
संस्तुतिभिः महोत्साहैः संमानिताभिवन्दितः॥६४॥
एवं स त्रिजगन्नाथः स्वयम्भू धर्मधातुकः।
सर्वलोक हितार्थेन संभाषयन्समास्थितः॥६५॥
इदानीन्तु कलौ लोका दुष्टाः क्रूराशया शठाः।
दृष्टवेदं धर्मधातुं हि हरिष्यन्ति न संशयः॥६६॥
इत्यसौ शिलयाछाद्य गुप्ति कृत्वा प्रकाशितः।
तदुपरिष्टीकाभिश्च विधाय चैत्यमुत्तम॥६७॥
छात्रध्वजपताकाभिरलंकृत्याध्यतिष्ठतं।
तत्रापि सर्वलोकैश्च सर्वलोकाधिपैरपि॥६८॥
समागत्य समाराध्य समभ्यर्च्याभिवन्दितः।
सत्कारैश्च महोत्साहैः स्तुतिप्रदक्षिणादिभिः॥६९॥
प्रणामैश्च समाराध्य सेवितो मानितोऽर्चितः।
एवं स त्रिजगन्नाथो धर्मधातु जिनालयः॥७०॥
सर्वसत्त्व शुभार्थेन संशोभिता व्यवस्थितः।
तत्र ये शरणं गत्वा यान्ति शुद्धया मुदा॥७१॥
दुर्ग्गतिं ते न गछन्ति संसारेऽत्र कदाचन
सद्गतावेव संजाता धर्म्मश्री संघशोभिता॥७२॥
बोधिसत्त्वा महासत्त्वाः परिशुद्धत्रिमण्डलाः।
भद्रश्री सद्गुणधारा सर्वसत्त्व हितंकराः॥७३॥
बोधिचर्याव्रतं धृत्वा संचरे जगद्धिते।
एवं यूयमपि ज्ञात्वा श्रद्धया शरण गताः॥७४॥
स्वयम्भूचैत्यमाराध्य संचरध्वं व्रतं सदा।
एवं कृत्वात्र संसारे भद्रश्री सद्गुणाश्रया॥७५॥
बोधिसत्त्वा महासत्त्वा जिनात्मजा भविष्यथः।
ततः संबोधिसंभारं पूरयित्वा यथाक्रमं॥७६॥
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यथः।
इति तेन समादिष्टं निशंम्य स महामतिः॥७७॥
शास्तारं तं समालोक्य पुनरेवमवोचत।
भदन्त श्रोतुमिच्छामि यत्स्वयम्भू जिनालयः॥७८॥
कदा स्वयं समुत्पन्नः कथं च तदुपादिश।
इति संप्रार्थित तेन श्रुत्वा सोऽर्हन् यतिः सुधीः॥७९॥
जयश्रीस्तं महासत्त्वं संपश्यन्नेवमादिशत्।
साधु श्रृणु महाभाग यथा मया श्रुतं गुरोः॥८०॥
तथाहं ते प्रवक्षामि स्वयम्भूत्पत्तिसत्कथां।
तद्यथा पाटलीपुत्रे पुरेऽशोको नराधिपः॥८१॥
सद्धर्म साधनोत्साही त्रिरत्नसेवकोऽभवत्।
स तत्र कुक्कुटारामे विहारे सुगताश्रमे॥८२॥
उपगुप्तं महाभिज्ञं वन्दितुं समुपाचरेत्।
तदा सोऽर्हन् महाभिज्ञः सर्वसंघपुरस्कृतः॥८३॥
सभामध्यासनासीनस्तस्थौ ध्यात्वा समाहितः।
तमर्हतं सभासीनं सर्वसंघपुरस्कृतः॥८४॥
दृष्ट्वाशोकः स भूमीन्द्रो मुदितः समुपाचरत्।
तत्र स सहसोपेत्य साञ्जलिरर्हतो यतीन्॥८५॥
सर्वान्नत्वोपगुप्तं तमष्टांगैः प्राणमन्मुदा।
ततस्तं गुरुमर्हन्तं महोत्साहैः यथाविधिं॥८६॥
समभ्यर्च्य प्रणत्वा च धर्मं श्रोतुमुपाश्रयत्।
तथा तत्मन्त्रिणः सर्वे सामात्यसचिवो जनाः॥८७॥
तमर्हन्तं यतिन्नत्वा तत्रैकान्तमुपाश्रयत्।
ततः सोऽर्हन् महाभिज्ञो दृष्ट्वा सर्वा समाश्रितान्॥८८॥
आदिमध्यान्तकल्याणं सद्धर्मसमुपादिशत्।
तत्सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रवोधिताः॥८९॥
धर्मविशेषमाज्ञाय संबोधिव्रतमीच्छिरे।
ततः सोऽपि महाराजः श्रुत्वा तद्धर्ममुत्तमं॥९०॥
संबोधिसाधनोचर्या संचरितुं समैच्छत।
ततः स नृपती राजा साञ्जलिः समुपाश्रितः॥९१॥
तमर्हन्तं महासत्त्वं नत्वा पश्यं मुदावदत्।
भदन्त श्रोतुमिच्छामि संबोधिसाधनं व्रतं॥९२॥
कुत्र पुण्यतमं क्षत्रं यत्राशु सिध्यते व्रतं।
तद् भवान् समुपादिश्य सर्वांल्लोकान् प्रबोधयन्॥९३॥
बोधिमार्गे समायुज्य संचारयितुमर्हति॥
इति संप्रार्थिते राज्ञा श्रुत्वा सोऽर्हन् महामतिः॥९४॥
तमशोकं महीपालं सम्पश्यन्नेवमब्रवीत्।
साधु शृणु महाराज यथा मे गुरुणोदितं॥९५॥
तथाहं ते प्रवक्षामि बोधिव्रतं यदीच्छसि।
सर्वक्षत्रोत्तमो राजन्नुत्तरस्यां हिमालये॥९६॥
नेपाले इति विख्यातो यत्राशु सिध्यते व्रतं।
तत्राप्यति महत्पुण्यक्षत्रं बुद्धैः प्रशंसितं॥९७॥
स्वयम्भूचैत्यराजस्य धर्मधातोः समाश्रयं।
तत्र यद्यत्कृतं कर्म तत्तत्संसिध्यते दुतं॥९८॥
इति सर्वै महासत्त्वैः संसेवितं जिनैरपि।
इति विज्ञाय राजेन्द्र सम्बोधिं यदि वाञ्छसि॥९९॥
तच्चैत्यशरणं गत्वा संचरस्व सुसंवरं।
एतत्पुण्यविशुद्धात्मा भद्रश्री सद्गुणर्द्धिमान्॥१००॥
बोधिसत्त्वो महाभिज्ञो भवेः सर्वहितार्थभृत्।
ततः क्रमेन सम्बोधिं संभारं परिपूरयन्॥१०१॥
निःक्लेशोऽर्हञ्जगन्नाथाः सम्बुद्धपदमाप्स्यसि।
इति तेनार्हतादिष्टं निशम्य स नृपो मुदा॥१०२॥
उपगुप्तं गुरुं नत्वा पप्रच्छैवं समादरात्।
भदन्त श्रोतुमिछामि स्वयम्भूत्पत्ति सत्कथां॥१०३॥
कदा स्वयं समुत्पन्नं स्तत्समादेष्टुमर्हति।
इति संप्रार्थितं राज्ञा श्रुत्वा सोऽर्हन् यतिः सुर्धीः॥१०४॥
अशोकं तं महीपालं सम्पश्यन्नेवमादिशत्।
साधु राजन् यथादिष्टं गुरुणा मे श्रुतं मया॥१०५॥
तथाहं संप्रवक्षामि शृणुष्व तत्समाहितः।
तदा चासौ जगच्छास्ता शाक्यमुनिस्तथागतः॥१०६॥
सर्वज्ञो धर्मराजोऽर्हन् मुनीश्वरो विनायकः।
स सर्वः सांधिकैः सार्द्धं जनपदेषु संचरन्॥१०७॥
एकस्मिन् समये तत्र नेपाले समुपाचरत्।
गोपुच्छपर्व्वतपार्श्वे पश्चिमे श्रीस्वयम्भूवः॥१०८॥
पुच्छाग्रोऽभिध चैत्यस्यसंन्निधौ सुगताश्रमे।
सर्वसत्त्वहितार्थेन पूर्णन्दुरिव भासयन्॥१०९॥
सद्धर्म्म समुपार्देष्टुं विजहार ससांधिकः।
यदा स भगवाञ्छास्तान् सत्त्वानां धर्म्म वृद्धये॥११०॥
सद्धर्म्म समुपादेष्टुं सभासने समाश्रयत्।
तं दृष्ट्वा तदा तत्र मञ्जुश्रियः ममाश्रमे॥१११॥
विहारे वासिनी चूडाभिधानी ब्रह्मचारिणी।
अर्हन्ती भिक्षुणी भद्रा सद्धर्म्मगुणवाञ्छिनी॥११२॥
सुप्रसन्नाश्रया शुद्धा काषाय चीवरावृता।
दिव्यपूजोपचाराणि समादाय प्रमोदिता॥११३॥
तत्सद्धर्मामृतं पातुं तत्राशु समुपाचरत्।
तदा तत्र महासत्त्वा बोधिसत्त्वा जिनात्मजाः॥११४॥
मैत्रेयप्रमुखाः सर्वे तद्धर्म श्रोतुमागताः।
अर्हन्तो भिक्षवश्चापि श्रावका ब्रह्मचारिणः॥११५॥
भिक्षुण्यो ब्रह्मचारिण्यः चैलका व्रतिनोऽपि च।
त्रिरत्नशरणासीनाश्चोपासका उपासिकाः॥११६॥
बौद्धभक्तिरताः सर्वे तद्धर्मश्रोतुमागताः।
सर्वे ते समुपायातास्तत्र सभासनाश्रितं॥११७॥
संबुद्धं तं समालोक्य मुदिताः समुपाचरन्।
ते सर्वेऽभ्यर्च्य तं नाथं नत्वा साञ्जलयोर्मुदा॥११८॥
तत्सद्धर्मामृत पातुं तत्सभायां समाश्रयन्।
ब्रह्मशक्रादया देवाः सर्वे लोकाधिपा अपि॥११९॥
ग्रहास्तारागणाश्चापि सिद्धा विद्याधरा अपि।
साध्या रुद्राश्च गन्धर्वा यक्षगुह्यककिन्नराः॥१२०॥
दैत्येन्द्रा राक्षसेन्द्राच नागेन्द्रा गरुडा अपि।
एवमन्येपि लोकेन्द्राः सर्वे तत्र मुदागताः॥१२१॥
तं मुनीन्द्रं समभ्यर्च्य नत्वा तत्र समाश्रयन्।
हारिती यक्षिणी चापि बोधिसत्त्वानुपालिनी॥१२२॥
सा भवन्तं तमानस्य तत्सभायां समाश्रित।
अथ स भगवानञ्छास्ता दृष्ट्वा सर्वान् समाश्रितान्॥१२३॥
मैत्रेयं समुपामन्त्र्य सम्पश्यन्नेवमादिशत्।
मैत्रेयेमं जगन्नाथं स्वयम्भूवं जिनालयं॥१२४॥
धर्मधातुं त्रिरत्नायं पश्यध्वं यूयमादरात्।
भजध्वं श्रद्धया नित्यं गत्वात्र शरणं मुदा॥१२५॥
बोधिचर्याव्रतं धृत्वा संचरन्ते जगद्धिते।
श्रद्धया ये भजन्त्यत्र शरणं समुपाश्रिताः॥१२६॥
बोधिचर्याव्रतं धृत्वा संचरन्ते जगद्धिते।
सर्वे विमुक्तपापास्ते परिशुद्ध त्रिमण्डलाः॥१२७॥
बोधिसत्त्वा महाभिज्ञाः भवेयुः सद्गुणाश्रयाः।
भद्रश्रीसुखसम्पन्नश्चतुर्ब्रह्मविहारिकाः॥१२८॥
सर्वसत्त्व हितोद्युक्ताः संबोधिव्रतचारिणः।
न क्वापि दुर्गतिंयायुः सदा सद्गतिसंभवाः॥१२९॥
त्रिरत्नभजनोत्साहाः सद्धर्म्मसाधनोद्यमाः।
ततः प्रव्रज्या संबुद्धशासने शरणं गताः॥१३०॥
ब्रह्मचर्यां व्रतं धृत्वा संचरेरन् समाहिताः।
ततस्ते निर्मलात्मानो निःक्लेशाः विजितेन्द्रियाः॥१३१॥
त्रिविधां बोधिमासाध सम्बुद्धपद्माप्नुयुः।
एवं विज्ञाय ये मर्त्या वाञ्छन्ति सौगतं पदं॥१३२॥
ते भजन्तु सदात्रैव श्रद्धया शरणाश्रिताः।
इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाश्रिताः॥१३३॥
सर्वे लोकाः प्रमोदन्तस्तथा भजितुमीच्छीरे।
मैत्रेयः स ततो धीमान् बोधिसत्त्व हि मोदितः॥१३४॥
समुत्थाय मुनीन्द्रस्य पुरतः समुपाचरन्।
उद्वहन्नुक्तरासंगं प्रणत्वा तं मुनीश्वरं॥१३५॥
जानुभ्यां भुवि संघाय साञ्जलिरेतमव्रवीत।
भगवान् नाथः सर्वज्ञ धर्मधातुजिनालयः॥१३६॥
कदायं स्वयंमुत्पन्न स्तन्समादेष्टुमर्हति।
इति संप्रार्थिते तेन मैत्रेयेण महात्मना॥१३७॥
भगवन्तं महाविज्ञं संपश्यन्नेवमादिशत।
साधु शृणु समाधाय मैत्रेयोऽस्य स्वयम्भूवः॥१३८॥
समुत्पत्तिकथां वक्षे सर्वलोकाभिबोधने।
पुरास्मिन् भद्रकल्पेऽभूद् विपश्वी नाम सर्ववित्॥१३९॥
जगछास्ता मुनीन्द्रोऽर्हन् धर्म्मराजस्तथागतः।
अशीति वर्ष साहस्र परमायूंषि यदा नृणां॥१४०॥
तदाहं सत्य धर्म्माख्या बोधिसत्त्वाऽभवंत् किल।
यदा स भगवाञ्छास्ता वन्धुमत्याः पुरोऽन्तिके॥१४१॥
विहारे धर्म्ममादिश्च विजहार ससांधिकः।
तदाहं तं जगन्नाथमाराध्य समुपस्थितः॥१४२॥
तदात्रा भूत्सप्तकोश व्यायामविस्तरो ह्रदः।
तदनुशासनां धृत्वा प्राचरं बोधि सम्वरं॥१४३॥
अष्टांग गुण सम्पन्नः जलाश्रयो नगावृतः।
पद्मोत्पलादि सौगन्धि नाना पुष्प प्रशोभितः॥१४४॥
हंस सारस काडम्ब प्रमुख पक्षिमण्डितः।
तीरोपान्तनगारुह सर्वर्त्तु पुष्पितैर्द्रुमैः॥१४५॥
फलौषधादि बृक्षैश्च समन्तात् परिमण्डितः।
मीनकच्छपमण्डूकप्रमुख जलवासिनां॥१४६॥
जन्तूनां निलयोऽगाधः सर्वनागाधिपालयः।
तत्र सर्वाहिराजेन्द्रः कर्क्कोटकाभिधो महान्॥१४७॥
एवं तदा महा तीर्थः पुण्यामृताश्रयो वभौ।
सदा त्रत्रिदशाः सद्धर्मप्सरोभिः प्रमोदिताः॥१४८॥
स्नात्वा संक्रीडमानाः सत्सौख्यं भुक्त्वा दिवं ययुः।
तथा ब्रह्मादयः सर्वे महर्षयस्तपश्विनः॥१४९॥
स्नान संध्यादिकं कर्म्म कृत्वा संसेविरे सदा।
एवं लोकाधिपाश्चापि स्नात्वात्र सर्वदा मुदा॥१५०॥
स्वस्व कुले समभ्यर्च्य महोत्साहैर्निसेविरे।
एवंमन्येपि लोकाश्च व्रतिनो ब्रह्मचारिणः॥१५१॥
स्नात्वात्र संवरं धृत्वाः पूतात्मानो दिवं ययुः।
बोधिसत्त्वा तथानैके स्नानदानव्रतं मुदा॥१५२॥
कृत्वात्र विमलात्मानः समाचारञ्जगद्धिते।
एवं सर्वे मुनीन्द्रैश्च स्नान व्रतादि बीजंफलं॥१५३॥
महत्पुण्यतरं श्रेष्ठमाख्यातं बोधिसाधनं।
यत्र स्नात्वा त्रिरत्नानां शरणे समुपाश्रिताः॥१५४॥
बोधिचर्या व्रतं धृत्वा प्राचरन्त जगद्धिते।
ते आशु विमलात्मानो भद्रश्रीसत्गुणान्विताः॥१५५॥
बोधिसत्त्वाः महासत्त्वा वभूवुः सुगतात्मजाः।
केचिन्निः क्लेशितात्मानो भवसंचारे निस्पृहाः॥१५६॥
श्रावकबोधिसत्त्वमासाद्य बभूवु ब्रह्मचारिणः।
केचिच्च निर्मलात्मानो संसारे विरताश्रयाः॥१५७॥
प्रत्येकबोधिमासाद्य सुनिर्वृतिं समाययुः।
केचित् संबोधिचित्तं च प्राप्य सद्धर्मलालसाः॥१५८॥
बोधिचर्याव्रतं धृत्वा समाचरञ्जगद्धिते।
केचित् सर्वे भुक्त्वा दिव्यकामसुखान्यपि॥१५९॥
सद्धर्मगुणसंरक्ताः प्राचरन् सर्वदा शुभे।
केचित् सर्वे महीपालाः सुनीति धर्मचारिणः॥१६०॥
कृत्वा सत्त्वहितार्थानि ययुरन्ते जिनालयं।
अहमपि तदा तत्र स्नात्वाचरं व्रतं सदा॥१७१॥
एतत्पुण्यविशुद्धात्मा द्रुतं सम्बोधिमाप्तवान्।
यैश्चाप्यस्य जलं पीतं तेऽपि निर्मुक्तपातकाः॥१६२॥
परिशुद्धाशया भद्रा बभूवु बोधिभागिनः।
एवमसौ महातीर्थः सर्वैरपि मुनीश्वरैः॥१६३॥
समधिष्ठापितोऽद्यापि प्रशंसितो महीतले।
तत्र पश्चात् स्वयं धर्मधातुरुत्पत्स्यते ध्रुवं॥१६४॥
इत्यादिश्य मुनीन्द्रौऽसौ भूया एरेवं समादिशत्।
तदा तत्र समुपन्ने धर्मधातौ जिनालये॥१६५॥
निरुत्पातं शुभोत्साहं प्रवर्तिष्यति सर्वदा।
सर्वे लोकाश्च तं दृष्ट्वा धर्मधातुं स्वयम्भूवं॥१६६॥
श्रद्धया शरणं गत्वा प्रभजिष्यन्ति सर्वदा।
तदेतत्पुण्यलिप्तास्ते सर्वे लोकाः शुभेन्द्रियाः॥१६७॥
भद्रश्री सत्सुखं भुक्त्वा यास्यन्त्यन्ते जिनालयं।
इत्यादिष्टं मुनीन्द्रेण विपश्विना निशम्यते॥१६८॥
सर्वे सभाश्रिता लोकाः प्राभ्यनन्दन् प्रवोधिताः।
इति विपश्विना शास्ता समादिष्टं श्रुतं मया॥१६९॥
तथा युष्मत्प्रोधार्थ समाख्यातं प्रवुद्ध्यतां।
इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्यते॥१७०॥
मैत्रेयादि समालोकाः सर्वेऽपि संप्रसेदिरे।
इति स्वयम्भूधर्मधातु समुत्पत्ति निदानकथा प्रथमोऽध्यायः समाप्तः।