२८ वीतशोकावदानम्
Technical Details
२८ वीतशोकावदानम्।
यदा राज्ञा अशोकेन भगवच्छासने श्रद्धा प्रतिलब्धा, तेन चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितं पञ्चवार्षिकं च कृतम्। त्रीणि शतसहस्राणि भिक्षूणां भोजितानि यत्रैकोऽर्हतां द्वौ शैक्षाणां पृथग्जनकल्याणकानां च। (स)समुद्रायां पृथिव्यां जनकाया यद्भूयसा भगवच्छासनेऽभिप्रसन्नाः। तस्य भ्राता वीतशोको नाम तीर्थ्याभिप्रसन्नः। स तीर्थ्यैर्विग्राहितः-नास्ति श्रमणशाक्यपुत्रीयाणां मोक्ष इति। एते हि सुखाभिरताः परिखेदभीरवश्चेति। यावद्राज्ञा अशोकेनोच्यते-वीतशोक, मा त्वमनायतनेऽप्रसादमुत्पादय, अपि तु बुद्धधर्मसंघे प्रसादमुत्पादय। एष आयतनगतः प्रसाद इति। अथ राजा अशोकोऽपरेण समयेन मृगवधाय निर्गतः। अत्र वीतशोकेनारण्ये ऋषिर्दृष्टः पञ्चातपेनावस्थितः। स च कष्टतपः सारसंज्ञी। तेनाभिगम्य पादाभिवन्दनं कृत्वा स ऋषिः पृष्ट-भगवन्, कियच्चिरं ते इहारण्ये प्रतिवसतः ? स उवाच-द्वादश वर्षाणीति। वीतशोकः कथयति- कस्तवाहारः ? स ऋषिरुवाच- फलमूलानि। किं प्रावरणम् ? दर्भचीवराणि। का शय्या? तृणसंस्तरणम्। वीतशोक उवाच-भगवन्, किं दुःखं बाधते? ऋषिरुवाच-इमे मृगा ऋतुकाले संवसन्ति। यदा मृगानां संवासो दृष्टो भवति, तस्मिन् समये रागेण परिदह्यामि। वीतशोक उवाच- अस्य कष्टेन तपसा रागोऽद्यापि न बाध्यते, प्रागेव श्रमणाः शाक्यपुत्रीयाः स्वास्तीर्णासनशयनोपसेविनः। कुत एषां रागप्रहाणं भविष्यति ? आह च-
कष्टेऽस्मिन् विजने वने निवसतां वाय्वम्बुमूलाशिनां
रागो नैव जितो यदीह ऋषिणा कालप्रकर्षेण हि।
भुक्त्वान्नं सघृतं प्रभूतपिशितं दध्युत्तमालंकृतं
शाक्येष्विन्द्रियनिग्रहो यदि भवेद्विन्ध्यः प्लवेत्सागरे॥१॥
सर्वथा वञ्चितो राजा अशोको यच्छ्रमणेषु शाक्यपुत्रीयेषु कारां करोति। एतच्च वचनं श्रुत्वा राजा उपायज्ञोऽमात्यानुवाच- अयं वीतशोकस्तीर्थ्याभिप्रसन्नः। उपायेन भगवच्छासनेऽभिप्रसादयितव्यः। अमात्या आहुः - देव, किमाज्ञापयसि ? राजा आह- यदा अहं राजा अलंकारं मौलिं पट्टं चापनयित्वा स्नानशालां प्रविष्टो भवामि, तदा यूयं वीतशोकस्योपायेन मौलिं पट्टं च बद्ध्वा सिंहासने निषादयिष्यथ। एवमस्तु इति। यावद्राजा राजालंकारं मौलिं पट्टं चापनयित्वा स्नानशालायां प्रविष्टः, ततोऽमात्यैर्वीतशोक उच्यते-राज्ञोऽशोकस्यात्ययात् त्वं राजा भविष्यसि। इमं तावद्राजालंकारं प्रवरमौलिं पट्टं च बद्ध्वा सिंहासने निषीदयिष्यामः-किम् शोभसे न वेति। तैस्तदाभरणमौलिं पट्टं च बद्ध्वा सिंहासने निषादितो राज्ञश्च निवेदितम्। ततो राजा अशोको वितशोकं राजालंकारं मौलिपट्टबद्धं च सिंहासनोपविष्टं दृष्ट्वा कथयति- अद्याप्यहं जीवामि। त्वं राजा संवृतः। ततो राज्ञा अभिहितम्- कोऽत्र ? ततो यावद्वध्यघातका नीलाम्बरवसनाः प्रलम्बकेशा घण्टाशब्दपाणयो राज्ञः पादयोर्निपत्योवाच- देव, किमाज्ञापयसि ? राजा आह-वीतशोको मया परित्यक्त इति। यावद्वीतशोक उच्यते- सशस्रैर्वध्यघातैरस्माभिः परिवृतोऽसीति। ततोऽमात्या राज्ञः पादयोर्निपत्योवाच- देव, मर्षय वीतशोकम्। देवस्यैष भ्राता। ततो राज्ञा अभिहितम्-सप्ताहमस्य मर्षयामि। भ्राता चैषः। मम भ्रातुः स्नेहादस्य सप्ताहं राज्यं प्रयच्छामि। यावत् तूर्यशतानि संप्रवादितानि, जयशब्दैश्चानन्दितम्, प्राणिशतसहस्रैश्चाञ्जलिः कृतः, स्त्रीशतैश्च परिवृतः। वध्यघातकाश्च द्वारि तिष्ठन्ति। दिवसे गते वीतशोकस्याग्रतः स्थित्वा आरोचयन्ति- निर्गतं वीतशोक एकं दिवसम्। षडहान्यवशिष्टानि। एवं द्वितीये दिवसे। विस्तरेण यावत्सप्ताहदिवसे वीतशोको राजालंकारविभूषितो राग़्योऽशोकस्य समीपमुपनीतः। ततो राज्ञा अशोकेनाभिहितम्-वीतशोक, कच्चित्सुगीतं सुनृत्यं सुवादितमिति ? वीतशोक उवाच- न मे दृष्टं वा स्याच्छ्रुतं वेति। आह च-
येन श्रुतं भवेद्गीतं नृत्यं चापु निरीक्षितम्।
रसाश्चास्वादिता येन स भूयात्तव निर्णयम्॥ २॥
राजा आह- वीतशोक, इद मया राज्यं सप्ताहं तव दत्तम्, तूर्यशतानि संप्रवादितानि, यजशब्दैश्वानन्दितम्, अञ्जलिशताणि प्रगृहीतानि, स्त्रीशतैश्च परिचीर्णः। कथं त्वं कथयसि- नैव मे दृष्टं न श्रुतमिति ? वीतशोक उवाच -
न मे दृष्टं नृत्यं न च नृप श्रुतो गीतनिनदो
न मे गन्धा घ्राता न खलु रसा मेऽद्य विदिताः।
न मे स्पृष्टः स्पर्शः कनकमणिहाराङ्गजनितः
समूहो नारीणां मरणपरिबद्धेन मनसा॥ ३॥
स्त्रियो नृत्तं गीतं भवनशयनान्यासनविधि -
र्वयो रूपं लक्ष्मिर्बहुविविधरत्ना च वसुधा।
निरानन्दा शून्या मम नृप वरशय्या गतसुखा
स्थितान् दृष्ट्वा द्वारे वधकपुरुषान्नीलवसनान्॥४॥
श्रुत्वा घण्टारवं घोरं नीलाम्बरधरस्य हि।
भयं मे मरणाज्जातं पार्थिवेन्द्र सुदारुणम्॥५॥
मृत्युशल्यपरीतोऽहं नाश्रौषिद्गीतमुत्तमम्
नाद्राक्षं नृपते नृत्तं न च भोक्तुं मनःस्पृहा॥६॥
मृत्युज्वरगृहीतस्य न मे स्वप्नोऽपि विद्यते।
कृत्स्ना मे रजनी याता मृत्युमेवानुचिन्तयन्॥७॥
राजा आह- वीतशोक, मा तावत् तवैकजन्मिकस्य मरणभयात्तव राजश्रियं प्राप्य हर्षो नोत्पन्नः। किं पुनर्भिक्षवो जन्मशतमरणभयभीताः सर्वाण्युपपत्त्यायतनानि दुःखान्यनुसृतानि पश्यन्ति। नरके तावच्छरीरसंतापकृतमग्निदाहदुःखं च, तिर्यक्षु अन्योन्यभक्षणपरित्रासदुःखम्, प्रेतेषु क्षुत्तर्षदुःखम्, पर्येष्टिसमुदाचारदुःखं मनुष्येषु, च्यवनपतनभ्रंशदुःखं देवेषु। एभिः पञ्चभिर्दुःखैर्स्त्रैलोक्यमनुषक्तम्। शारीरमानसैर्दुःखैरुत्पीडिता वधकभूतान् स्कन्धान् पश्यन्ति, शून्यग्रामभूतान्यायतनानि, चौरभूतानि विषयाणि, कृत्स्नं च त्रैधातुकमनित्यताग्निना प्रदीप्तं पश्यन्ति। तेषां रागः कथमुत्पद्यते ? आह च-
मा तावदेकजन्मिकस्य मरणभयात्तव न जायते हर्षः।
मनसि विषयैर्मनोज्ञैः सततं खलु पश्यमानस्य॥८॥
किं पुनर्जन्मशतानां मरणभयमनागतं विचिन्तयताम्।
मनसि भविष्यति हर्षो भिक्षुणां भोजनाद्येषु॥९॥
तेषां तु वस्त्रशयनासनभोजनादि
मोक्षेऽभियुक्तमनसां जनयेत सङ्गम्।
पश्यन्ति ये वधसशत्रुनिभं शरीर-
मादीप्तवेश्मसदृशांश्च भवाननित्यान्॥१०॥
कथं च तेषां न भवेद्विमोक्षो
मोक्षार्थिनां जन्मपराङ्मुखानाम्।
येषां मनः सर्वसुखाश्रयेषु
व्यावर्तते पद्मदलादिवाम्भः॥११॥
यदा वीतशोको राज्ञा अशोकेनोपायेन भगवच्छासनेऽभिप्रसादितः, स कृतकपुट उवाच-देव, एषोऽहं तं भगवन्तं तथागतमर्हन्तम् सम्यक्संबुद्धं शरणं गच्छामि धर्मं च भिक्षुसंघं चेति। आह च -
एष व्रजामि शरणं विबुद्धनवकमलविमलनिभनेत्रम्।
बुधविबुधमनुजमहितं जिनं विरागं च संघं च॥ १२॥ इति॥
अथ राजा राजा अशोको वीतशोकं कण्ठे परिष्वज्योवाच-न त्वं मया परित्यक्तः, अपि तु बुद्धशासनाभिप्रसादार्थं तव मया एष उपायः प्रदर्शितः। ततो वीतशोको गन्धपुष्पमाल्यादिवादित्रसमुदयेन भगवतश्चैत्यानर्चयति, सद्धर्मं च शृणोति, संघो च कारां कुरुते। स कुर्कुटारामं गतः। तत्र यशो नाम स्थविरोऽर्हन् षडभिज्ञः। स तस्य पुरतो निषण्णो धर्मश्रवणाय। स्थविरश्च तमवलोकयितुमारब्धः। स पश्यति वीतशोकमुपचितहेतुकं चरमभविकम्। तेनैवाश्रयेणार्हत्त्वं प्राप्तव्यम्। तेन तस्य प्रव्रज्याया वर्णो भाषितः। तस्य श्रुत्वा स्पृहा जाता- प्रव्रजेयं भगवच्छासने। तत उत्थाय कृताञ्जलिः स्थविरमुवाच-लभेयाहं स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्। चरेयमहं भवतोऽन्तिके ब्रह्मचर्यम्। स्थविर उवाच- वत्स, राजानमशोकमनुज्ञापयस्वेति। ततो वीतशोको येन राजा अशोकस्तेनोपसंक्रम्य कृताञ्जलिरुवाच- देव, अनुजानीहि माम्। प्रव्रजिष्यामि स्वाख्याते धर्मविनये सम्यगेव श्रद्धया अगारादनगारिकाम्। आह च-
उद्भ्रान्तोऽस्मि निरङ्कुशो गज इव व्यावर्तितो विभ्रमात्
त्वद्बुद्धिप्रभवाङ्कुशेन विधिवद्बुद्धोपदेशैरहम्।
एकं त्वमर्हसि मे वरं प्रदर्शितुं त्वं पार्थिवानां पते
लोकालोकवरस्य शासनवरे लिङ्गं शुभं धारयेत्॥१३॥
श्रुत्वा च राजा साश्रुकण्ठो वीतशोकं कण्ठे परिष्वज्योवाच-वीतशोक, अलमनेन व्यवसायेन। प्रव्रज्या खलु वैवर्णिकाभ्युपगतावासः, पांशुकूलं प्रावरणं परिजनोज्झितम्, आहारो भैक्ष्यं परकुले, शयनासनं वृक्षमूले तृणसंस्तरः पर्णसंस्तरः, व्याबाधे खल्वपि भैषज्यमसुलभं पूतिमूत्रं च भोजनम्। त्वं च सुकुमारः शीतोष्णक्षुत्पिपासानां दुःखानामसहिष्णुः। प्रसीद, निवर्तय मानसम्। वीतशोक उवाच-देव,
नैव हि जाने तं नूनं विषयतृषितोऽनायासविहतः
प्रव्रज्यां प्राप्तुकामो न रिपुहृतबलो नैवार्थकृपणः।
दुःखार्तं मृत्युनेष्टं व्यसनपरिगतं दृष्ट्वा जगदिदं
पन्थानं जन्मभीरुः शिवमभयमहं गन्तुं व्यवसितः॥१४॥
श्रुत्वा च राजा अशोकः सत्वरं प्ररुदितुमारब्धः। अथ वितशोको राजानमनुनयन्नुवाच- देव,
संसारदोलामभिरुह्य लोलां
यदा निपातो नियतः प्रजानाम्।
किमर्थमागच्छति विक्रिया ते
सर्वेण सर्वस्य यदा वियोगः॥१५॥
राजा आह-वीतशोक, भैक्षे तावदभ्यासः क्रियताम्। राजकुले वृक्षवाटिकायां तस्य तृणसंस्तरः संस्तृतः, भोजनं चास्य दत्तम्। सोऽन्तःपुरं पर्यटति, मर्हार्हं चाहारं न लभते। ततो राज्ञा अन्तःपुरिका अभिहिता-प्रव्रजितसारूप्यमस्याहारमनुप्रयच्छतेति। तेन यावदभिदूषिता पूतिकुल्माषा लब्धाः। तांश्च परिभोक्तुमारब्धः। दृष्ट्वा राज्ञा अशोकेन निवारितः। अनुज्ञातश्च-प्रव्रज, किं तु प्रव्रजित्वा उपदर्शयिष्यसि। स यावत् कुर्कुटारामं गतः। तस्य बुद्धिरुत्पन्ना-यदीह प्रव्रजिष्यामि, आकीर्णो भविष्यामि। ततो विदेहेषु जनपदेषु गत्वा प्रव्रजितः। ततस्तेन युज्यता यावदर्हत्त्व प्राप्तम्। अथायुष्मतो वीतशोकस्यार्हत्त्वं प्राप्तस्य विमुक्तिप्रीतिसुखसंवेदिन एतदभवत्- अस्ति खलु मे- पूर्वं राज्ञोऽशोकस्य गृहद्वारमनुप्राप्तः। ततो दौवारिकमुवाच- गच्छ, राज्ञोऽशोकस्य निवेदय-वीतशोको द्वारि तिष्ठति देवं द्रष्टुकाम इति। ततो दौवारिको राजानमशोकमभिगम्योवाच-देव, दिष्ट्या वृद्धिः। वीतशोकोऽभ्यागतो द्वारि तिष्ठति देवं द्रष्टुकामः। ततो राज्ञा अभिहितम्- गच्छ, शीघ्रं प्रवेशयेति। यावद्वीतशोको राजकुलं प्रविष्टः। दृष्ट्वा च राजा अशोकःसिंहासनादुत्थाय मूलनिकृत्तं इच द्रुमः सर्वशरीरेणायुष्मन्तं वितशोकं निरीक्षमाणः प्ररुदन्नुवाच-
भूतेषु संसर्गगतेषु नित्यं
दृष्ट्वापि मां नैति यथा विकारम्।
विवेकवेगाधिगतस्य शङ्के
प्रज्ञारसस्यातिरसस्य तृप्तः॥ १६॥
अथ राज्ञोऽशोकस्य राधगुप्तो नामाग्रामात्यः। स पश्यति-आयुष्मतो वीतशोकस्य पांशुकूलं च चीवरं मृण्मयं पात्रं यावदन्नं भैक्ष्यं लूहप्रणीतम्। दृष्ट्वा च राज्ञः पादयोर्निपत्य कृताञ्जलिरुवाच- देव, यथा अयमल्पेच्छः संतुष्टश्च, नियतमयं कृतकरणीयो भविष्यति, प्रीतिरुत्पाद्येत। कुतः ?
भैक्षान्नभोजनं यस्य पांशुकूलं च चीवरम्।
निवासो वृक्षमूलं च तस्यानियतं कथम्॥ १७॥
निराश्रवं यस्य मनो विशालं
निरामयं चोपचितं शरीरम्।
स्वच्छन्दतो जीवितसाधनं च
नित्योत्सवं तस्य मनुष्यलोके॥१८॥
श्रुत्वा ततो राजा प्रीतमना उवाच-
अपहाय मौर्यवंशं मगधपुरं सर्वरत्ननिचयं च।
दृष्ट्वा वंशनिवहं प्रहीणमदमानमोहसारम्भम्॥१९॥
अत्युद्धृतमिव मन्ये यशसा पूतं पुरमिवं महं च।
प्रतिपद्यतां त्वया दशबलधरशासनमुदारेण॥२०॥
अथ राजा अशोकः सर्वाङ्गेन परिगृह्य प्रज्ञप्त एवासने निषादयामास, प्रणीतेन चाहारेण स्वहस्तं संतर्पयति। भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रमायुष्मतो वीतशोकस्य पुरतो निषण्णो धर्मश्रवणाय। अथायुष्मान् वीतशोको राजानमशोकं धर्म्यया कथया संदर्शयन्नुवाच-
अप्रमादेन संपाद्य राज्यैश्वर्यं प्रवर्तताम्।
दुर्लभा त्रीणि रत्नानि नित्यं पूजय पार्थिव॥२१॥
स यावद्धर्म्यया कथया संहर्षयित्वा संप्रस्थितः॥
अथ राजा अशोकः कृतकरपुटः पञ्चभिरमात्यशतैः परिवृतोऽनेकैश्च पौरजनपदसहस्रैः परिवृतः पुरस्कृत आयुष्मन्तं वीतशोकमनुव्रजितुमारब्धः। वक्ष्यति हि-
भ्राता ज्येष्ठेन राज्ञा तु गौरवेणानुगम्यते।
प्रव्रज्यायाः खलु श्लाष्यं संदृष्टिकमिदं फलम्॥ २२॥
तत आयुष्मान् वीतशोकः स्वगुणानुद्भावयन् पश्यतः सर्वजनकायस्य ऋद्ध्या वैहायसमुत्पत्य प्रक्रान्तः। अथ राजा अशोकः कृतकरपुटः प्राणिशतसहस्रैः परिवृतः पुरस्कृतो गगनतलावसक्तदृष्टिरायुष्मन्तं वीतशोकं निरीक्षमाण उवाच-
स्वजनस्नेहंनिःसङ्गो विहंग इव गच्छसि।
श्रीरागनिगदैर्बद्धानस्मान् प्रत्यादिशन्निव॥२३॥
आत्मायत्तस्य शान्तस्य मनःसंकेतचारिणः।
ध्यानस्य फलमेतच्च रागान्धैर्यन्न दृश्यते॥२४॥
अपि च।
ऋद्ध्या खल्ववभर्त्सिताः परमया श्रीगर्वितास्ते वयं
बुद्ध्या खल्वपि नामिताः शिरसिताः प्रज्ञाभिमानोदयम्।
प्राप्तार्थेन फलान्धबुद्धिमनसः संवेजितास्ते वयं
संक्षेपेण सबाष्पदुर्दिनमुखाः स्थाने विमुक्ता वयम्॥२५॥
तत्रायुष्मान् वीतशोकः प्रत्यन्तिमेषु जनपदेषु शय्यासनाय निर्गतः। तस्य च महान् व्याधिरुत्पन्नः। श्रुत्वा च राज्ञा अशोकेन भैषज्यमुपस्थायिकाश्च विसर्जिताः। तस्य तेन व्याधिना स्पृष्टस्य शिरः खुस्तमभवत्। यदा च व्याधिर्विगतः, तस्य विरूढानि शिरसि रोमाणि। तेन वैद्योपस्थायकाश्च विसर्जिताः। तस्य च गोरसप्राय आहारोऽनुसेव्यते। स घोषं गत्वा भैक्षं पर्यटति। तस्मिंश्च समये पुण्ड्रवर्धननगरे निर्ग्रन्थोपासकेन बुद्धप्रतिमा निर्ग्रन्धस्य पादयोर्निपातिता चित्रार्पिता। उपासकेनाशोकस्य राज्ञो निवेदितम्। श्रुत्वा च राज्ञा अभिहितम्-शीघ्रमानीयताम्। तस्योर्ध्वं योजनं यक्षाः शृण्वन्ति, अधो योजनं नागाः। यावत्तं तत्क्षणेन यक्षैरुपनीतम्। दृष्ट्वा च राज्ञा रुषितेनाभिहितम्-पुण्ड्रवर्धने सर्वे आजीविकाः प्रघातयितव्याः। यावदेकदिवसेऽष्टादशसहस्राण्याजीविकानां प्रघातितानि। ततः पाटलिपुत्रे भूयोऽन्येन निर्ग्रन्थोपासकेन बुद्धप्रतिमा निर्ग्रन्थस्य पादयोर्निपातिता चित्रार्पिता। श्रुत्वा च राज्ञा अमर्षितेन स निर्ग्रन्थोपासकः सबन्धुवर्गो गृहं प्रवेशयित्वा अग्निना दग्धः। आज्ञप्तं च- यो मे निर्ग्रन्थस्य शिरो दास्यति, तस्य दीनारं दास्यामीति। घोषितम्। स चायुष्मान् वीतशोक आभीरस्य गृहे रात्रिं वासमुपगतः। तस्य च व्याधिना क्लिष्टस्य लूहानि चीवराणि, दीर्घकेशनखश्मश्रुः। आभीर्या बुद्धिरुत्पन्ना- निर्ग्रन्थोऽयमस्माकं गृहे रात्रिं वासमुपगतः। स्वामिनमुवाच- आर्यपुत्र, संपन्नोऽयमस्माकं दीनारः। इमं निर्ग्रन्थं प्रघातयित्वा शिरो राज्ञोऽशोकस्योपनामयेयमिति। ततः स आभीरोऽसिं निष्कोषं कृत्वा आयुष्मन्तं वीतशोकमभिगतः। आयुष्मता च वीरशोकेन पूर्वान्ते ज्ञानं क्षिप्तम्। पश्यति स्वयंकृतानां कर्मणां फलमिदमुपस्थितम्। ततः कर्मप्रतिशरणो भूत्वा अवस्थितः। तेन तथास्याभीरेण शिरश्छिन्नम्। राज्ञोऽशोकस्योपनीतम्- दीनारं प्रयच्छेति। दृष्ट्वा च राज्ञा अशोकेन परिज्ञातम्- विरलानि चास्य शिरसि रोमाणि न व्यक्तिमुपगच्छन्ति। ततो वैद्या उपस्थायका आनीताः। तैर्दृष्ट्वा अभिहितम्-देव, वीतशोकस्यैतच्छिरः। श्रुत्वा राजा मूर्च्छितो भूमौ पतितः। यावज्जलसेकं दत्वा स्थापितः। अमात्यैश्चाभिहितम्-देव, वीतरागाणामप्यत्र पीडा। दीयतां सर्वसत्त्वेष्वभयप्रदानम्। यावद्राज्ञा अभयप्रदानं दत्तम्-न भूयः कश्चित् प्रघातयितव्यः॥
ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारमायुष्मन्तमुपगुप्तं पृच्छन्ति-किं कर्म कृतमायुष्मता वीतशोकेन यस्य कर्मणो विपाकेन शस्त्रेण प्रघातितः ? स्थविर उवाच-तेन ह्यायुष्मन्तः कर्माणि कृतानि पूर्वमन्यासु जातिषु। श्रूयताम् -
भूतपूर्वं भिक्षवोऽतीतेऽध्वनि अन्यतमो लुब्धो मृगान् प्रघातयित्वा जीविकां कल्पयति। अटव्यामुदपानम्। स तत्र लुब्धो गत्वा पाशान् यन्त्रांश्च स्थापयित्वा मृगान् प्रघातयति। असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ते। विस्तरः। अन्यतरः प्रत्येकबुद्धस्तस्मिन्नुदपाने आहारकृत्यं कृत्वा उदपानादुत्तीर्य वृक्षमूले पर्यङ्केन निषण्णः। तस्य गन्धेन मृगास्तस्मिन्नुदपाने नाभ्यागताः। स लुब्ध आगत्य पश्यति-नैव मृगा उदपानमभ्यागताः। पदानुसारेण च तं प्रत्येकबुद्धमभिगतः। दृष्ट्वा चास्य बुद्धिरुत्पन्ना- अनेनैष आदीनव उत्पादितः। तेनासिं निष्कोषं कृत्वा स प्रत्येकबुद्धः प्रघातितः॥
किं मन्यध्वे आयुष्मन्तः ? योऽसौ लुब्धः, स एष वीतशोकः। यत्रानेन मृगाः प्रघातिताः, तस्य कर्मणो विपाकेन महान् व्याधिरुत्पन्नः। यत्प्रत्येकबुद्धः शस्त्रेण प्रघातितः, तस्य कर्मणो विपाकेन बहूनि वर्षसहस्राणि नरकेषु दुःखमनुभूय पञ्च जन्मशतानि मनुष्येषूपपन्नः शस्त्रेण प्रघातितः। तत्कर्मावशेषेणैतर्हि अर्हत्प्राप्तोऽपि शस्त्रेण प्रघातितः॥
किं कर्म कृतं येनोच्चकुले उपपन्नः, अर्हत्त्वं च प्राप्तम् ? स्थविर उवाच- काश्यपे सम्यक्संबुद्धे प्रव्रजितोऽभूत् प्रदानरुचिः। तेन दायकदानपतयः संघभक्तं कारापितास्तर्पणानि यवागूपानानि निमन्त्रणकानि। स्तूपेषु च छत्राण्यवरोपितानि, ध्वजाः पताकाः। गन्धमाल्यपुष्पवादित्रसमुदयेन पूजाः कृताः। तस्य कर्मणो विपाकेनोच्चकुले उपपन्नः। यावद्दशवर्षसहस्राणि ब्रह्मचर्यं चरित्वा सम्यक्प्रणिधानं कृतम्, तस्य कर्मणो विपाकेनार्हत्त्वं प्राप्तमिति॥
इति श्रीदिव्यावदाने वीतशोकावदानमष्टविंशतिमम्॥